विवेकचूडामणिः सव्याख्यः
२. नरजन्मप्रशंसा
जन्तूनां नरजन्म दुर्लभमतः पुंस्त्वं ततो विप्रता
तस्माद्वैदिकधर्ममार्गपरता विद्वत्त्वमस्मात् परम् ।
आत्मानात्मविवेचनं स्वनुभवो ब्रह्मात्मना संस्थितिः
मुक्तिर्नो शतकोटिजन्मसु कृतैः पुण्यैर्विना लभ्यते ॥२॥
संसारसागरनिमग्नजनोद्दिधीर्षुः योऽवातरच्छिवनृसिंहगुरुच्छलेन । जाड्यान्धकारहरणं करुणासमुद्रं तं दक्षिणास्यमनिशं हृदि भावयामि ॥
ज्ञानस्वरूपे वाग्देवि भगवत्पादपूजिते । चूडामणिं विवेकादिं व्याकुरुष्व मुखान्मम ॥
प्रसन्नानां गभीराणां वचसां देशिकेशितुः । भावस्त्वत्कृपया चित्ते भासतां मम शारदे ॥
रत्नगर्भ-गणेशान विघ्नध्वान्त-विभाकर । निर्विघ्नं पूरयस्वेमां व्याख्यां कारुण्य-शेवधे ॥
चन्द्रमौलीश्वर विभो ब्रह्मविद्यासमाश्रित । स्वानुभूतिं प्रयच्छाशु चिन्मुद्राविलसत्कर ॥
भगवद्गीतासु –
अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे । गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ॥ (२.११)
इति श्लोकवद्विवेकचूडामणिप्रकरणप्रतिपाद्यकृत्स्नार्थसङ्ग्राहकोऽयं श्लोकः जन्तूनामित्यादिः ॥ आस्तिकस्यैव शास्त्रेऽधिकारात् प्रथमं नरजन्मप्राशस्त्यकथनमुखेन शरीरव्यतिरिक्तात्मास्तित्वं तावद् ध्वनयति – जन्तूनां नरजन्म दुर्लभमिति ।
उक्तं च शारीरकभाष्ये – ‘शास्त्रीये तु व्यवहारे यद्यपि बुद्धिपूर्वकारी नाविदित्वा आत्मनः परलोकसम्बन्धमधिक्रियते’(१.१) इति ।
जन्तूनां जननशीलानां प्राणिनां नरजन्म मानुष्यकं दुर्लभमिति । तत्र एकेनैव बहुषु जन्मसु प्राप्तव्येषु किल नरजन्म दुर्लभमिति वक्तुं शक्यं, शरीरसम्बन्धस्यैव जन्मशब्दार्थत्वात् । यदा चैकस्य अनेकशरीरयोगः तदा शरीरव्यतिरिक्तत्वमात्मनः सूचितमेव । प्रसिद्धं खल्वनेकैः कुसुमैः युज्यमानं सूत्रं तेभ्योऽतिरिच्यत इति, अनेकानि वासांसि क्रमेण युगपद्वा परिदधच्छरीरं तेभ्यो भिद्यत इति च । तथा च सुखहेतुशरीरप्राप्तये दुःखहेतुशरीरनिवृत्तये च पुण्ये प्रवृत्तिः पापान्निवृत्तिश्च युज्यत इति विधिनिषेधात्मककर्मशास्त्रे आस्तिकस्यैवाधिकारः । एवं ज्ञानेन सकलकर्मनिर्हरणार्थं मोक्षशास्त्रेऽपि ।
यदि शरीरमेवात्मा स्यात् तस्य प्रत्यक्षसिद्धत्वात् , ‘आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यः’(बृ.उ. २.४.५) इत्यादिदर्शनसाधनविधानं कथमुपपद्येत ।
शुभैराप्नोति देवत्वं निषिद्धैर्नारकीं तनुम् । उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः ॥ (नै.सि. १.४१)
इति चैकस्यैव शुभाशुभमिश्रकर्मभिः विजातीयशरीरलाभं दर्शयति । कथमन्यथा लोकप्रसिद्धं सुखदुःखादिवैचित्र्यमुपपद्यते । यदि कर्मनिरपेक्षः ईश्वर एव कांश्चित् प्राणिनः सुखिनः कांश्चिदन्यादृशांश्च सृजेत् , वैषम्यनैर्घृण्ये भजेत । तथाचेश्वरत्वं हीयेत ।
तदुक्तं – ‘वैषम्यनैर्घृण्ये न सापेक्षत्वात्’(ब्र.सू. २.१.३४) तथाहि दर्शयति, ‘न कर्माविभागादिति चेन्नानादित्वात्’, ‘उपपद्यते चाप्युपलभ्यते च ।’(ब्र.सू. २.१.३५,३६) इति सूत्रैः ईश्वरस्य कर्मसापेक्षत्वं संसारस्यानादित्वं च । धर्मभूतः संसार एव अनादिश्चेत् तदाश्रयस्य संसारिणोऽनादित्वं कैमुतिकन्यायसिद्धम् । तत्सिद्धमात्मनः शरीरव्यतिरिक्तत्वं, शरीरातिरिक्तात्मास्तित्ववाद्येवास्तिक इति । शास्त्रव्यवहारनिदानमास्तिक्यमिति जन्तूनां नरजन्म दुर्लभम् इत्यनेन सूचितम् ।
ततः पुंस्त्वं, स्त्रिया वेदेऽधिकाराभावात् उपनिषदेकसमधिगम्य आत्मा नैव ज्ञातुं शक्यत इत्यभिप्रायः । तत्रापि त्रैवर्णिकानां वेदाधिकारसत्त्वेऽपि क्षत्रियवैश्ययोः राज्यपरिपालनकृष्यादिरूपाणां चित्तविक्षेपहेतुभूतानां बाह्यव्यापाराणां सत्त्वादैदम्पर्येण आत्मविचारः दुर्घट इति –
मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् । बाहुजातोरुजातानां नायं धर्मो विधीयते ॥
इति स्मृत्यनुसारेणैदम्पर्येण ब्रह्मविचारसाधनसंन्यासस्यानवकाशाद् एकस्मिन्नेव जन्मनि ब्रह्माधिगमः तयोर्दुर्लभ इति द्योतनार्थं द्विजत्वं ततः इत्यनुक्त्वा ततो विप्रतेत्युक्तम् ।
ब्राह्मणस्य तु देहोऽयं नोपभोगाय कल्पते । इह क्लेशाय महते प्रेत्यानन्तसुखाय च ॥ (व.स्मृ. ६.३)
इति वसिष्ठस्मृत्या वेदविहितप्रवृत्तिनिवृत्तिधर्मानुष्ठानेन एकस्मिन्नेव जन्मनि ब्रह्माधिगन्तुं शक्यं ब्राह्मणेनेति भावः । अत एव तस्माद् वैदिकधर्ममार्गपरतेत्युक्तम् । न केवलं विप्रतया लब्धव्यं लभ्यते, अपि तु तां लब्ध्वा तदुचितधर्मानुष्ठानेनेति भावः । ‘धर्मो विश्वस्य जगतः प्रतिष्ठा ... धर्मेण पापमपनुदति’(म.ना.उ. १७.६) इति श्रुत्या धर्मस्यैव सुखसाधनत्वं दुःखहेतुपापनिवर्तकत्वं, तन्निवृत्त्या दुःखाभावहेतुत्वञ्चेति, ‘सुखं मे भूयात् , दुःखं मे माभूदि’ति सकलजनकामनाविषयसुखदुःखाभावरूपपुरुषार्थसाधनत्वं तस्यैवेति द्योतयितुं ‘धरतीति धर्मः’ ‘ध्रियतेऽनेनेति वा धर्मः’ इति व्युत्पत्त्या जगत्प्रतिष्ठाहेतुत्वं तस्य श्रुतिबोधितं सूचयितुं वैदिककर्ममार्गपरतेत्यनुक्त्वा धर्ममार्गेत्युक्तं वैदिककर्मणः धर्मत्वेऽपि कर्मशब्देन विवक्षितार्थालाभात् । यदि धर्मव्यतिरिक्तं किञ्चित्सुखसाधनं दुःखनिवृत्तिसाधनं च स्यात् तत्साधनसम्पादनेन सर्वो लोकः सर्वदाऽपि सुखी, निवृत्तदुःखश्च स्यादेव । धर्मस्य तु अतीन्द्रियत्वेन शास्त्रैकसमधिगम्यत्वात् जनानां तज्ज्ञानस्य शास्त्रमन्तराऽसम्भवात्साधनालाभात् फलालाभ इति प्रतिपादयितुं शक्यते । तदुक्तं वैदिकेति ।
धर्मस्य लक्षणं, ‘चोदनालक्षणोऽर्थो धर्मः’(पू.मी. १.१.२) इति जैमिनिमहर्षिभिः सूत्रितं यत् वेदप्रमाणकत्वं तद्वैदिकेति विशेषणेन अवगमितम् । न हि वेदं विना प्रमाणान्तरं धर्मविषये पदमाधातुम् ईष्टे, तस्यातीन्द्रियत्वेन प्रत्यक्षस्य तत्राप्रसरात् । अत एव नानुमानं तत्र प्रसरति, प्रत्यक्षमूलकत्वादनुमानप्रवृत्तेः । अत एव वेदव्यतिरिक्तशब्दोऽपि न तं बोधयितुं पारयति प्रत्यक्षादिनाऽवधारितस्यैवार्थस्य लौकिकशब्देन बोधयितुं शक्यत्वात् । स्मृतीनामपि पौरुषेयत्वेन पुरुषाणां भ्रमप्रमादादिसम्भवेन कर्तृदोषनिबन्धनाप्रामाण्यशङ्कायामपौरुषेयतया दोषगन्धानागन्धितश्रुतिमूलकतयैव प्रामाण्यस्य वक्तव्यतया वेदव्यतिरिक्तस्य शब्दस्य धर्मे स्वतोऽप्रमाणत्वात् ।
किञ्च स्मृतिकर्तारो वा अतीन्द्रियं धर्मं कथं व्यजानन् ? योगजसामर्थ्येनेति चेत् , तत्सामर्थ्यं कथं तैः सम्पादितम् ? धर्मानुष्ठानेनेति चेत् , स धर्मः कथं ज्ञातः ? अत एव –
यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । (श्वे.उ. ६.१८)
इति प्रथमं सृज्यमानस्य हिरण्यगर्भस्यापि ईश्वरानुगृहीतवेदमूलकमेव धर्मज्ञानमिति बोधयति श्रुतिः । किं वक्तव्यमितरेषाम् ! अतः सुष्ठूक्तं वैदिकेति ।
अब्भक्षा वायुभक्षा इतिवद्वेदैकमेयत्वं धर्मस्य बोधयति । अत्र धर्मशब्देन प्रवृत्तिधर्मः निवृत्तिधर्मश्च कथ्येते । उक्तं हि गीताभाष्ये (पीठिकायाम्) – ‘द्विविधो हि वेदोक्तो धर्मः प्रवृत्तिलक्षणो निवृत्तिलक्षणश्च’ इति ।
धर्म एव परमं साधनं नित्यसुखावाप्तौ नान्यदपेक्ष्यमस्तीति कर्ममीमांसकाः । तान्कटाक्षयति मार्गेति । तेन परमपुरुषार्थसाधनीभूतब्रह्मसाक्षात्कारसाधनवेदान्तविचारहेतुत्वेन संन्यासरूपनिवृत्तिधर्मस्य तत्साधनवैराग्यहेतुभूतचित्तशुद्धिहेतुत्वेन निष्कामकर्मानुष्ठानरूपप्रवृत्तिधर्मस्य च अपेक्षितत्वं, न तु साक्षान्निरतिशयसुखसाधनत्वं तदुभयस्येति सूचितम् । तदुक्तं भगवता बादरायणेन –
द्वाविमावथ पन्थानौ यत्र वेदाः प्रतिष्ठिताः । प्रवृत्तिलक्षणो धर्मः निवृत्तिश्च प्रकीर्तितः ॥ इति । (म.भा.शा.प. २४७.६)
तथा च ब्राह्मणेन उपनयनानन्तरम् –
वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयतां तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् । पापौघः परिधूयतां भवसुखे दोषोऽनुसन्धीयताम् आत्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् ॥
सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयताम् । शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् ॥
इति सोपानपञ्चकोपदिष्टरीत्या ईश्वरार्पणबुद्ध्या कर्म कुर्वाणेन चित्तं शोधयित्वा विषयेभ्यो विरज्य कर्मभ्यस्समुपरमितव्यमित्येतद्बोधितम् । तदुक्तं मोक्षधर्मेषु –
नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च । शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरतिः क्रियाभ्यः ॥ (म.भा.शा.प. २८३.३८) इति
विद्वत्त्वमस्मात्परम् ।
तत्र प्रवृत्तिधर्मविषये एवं योजना । ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’(छा.उ. १.१.१०) इति च्छान्दोग्यश्रुत्या क्रियमाणं कर्म तदङ्गभूतमन्त्रार्थज्ञानपुरस्सरं क्रियते चेत् भूयसे फलायेति बोधितं भवति । तदुक्तं तत्रैव भाष्ये ‘दृष्टं हि लोके वणिक्छबरयोः पद्मरागमणिविक्रये वणिजो विज्ञानाधिक्यात्फलाधिक्यम् इति’(छा.उ. १.१.१०) । निवृत्तिधर्मविषये ‘संन्यस्य श्रवणं कुर्यात्’ इति विधानात् संन्यासोत्तरकालिकवेदान्तवाक्यश्रवणजन्यपरोक्षज्ञानवत्त्वं विद्वत्त्वम् । अस्मात्परमात्मानात्मविवेचनम् । इदं ग्रन्थ एव उत्तरत्र स्पष्टयिष्यते । तेन मननं युक्तिभिः श्रुतार्थदृढीकरणार्थमनुचिन्तनरूपं संशयभावनानिरासकमुक्तं भवति ।
ततः स्वनुभवः, निदिध्यासनपूर्वकब्रह्मसाक्षात्कारः कथितो भवति । अत एव स्वनुभव इत्युक्तम् , विपरीतभावनानिवर्तकनिदिध्यासनाभावे श्रवणमननाभ्यां जायमानानुभवः सौष्ठवं नाश्नुत इति । एतेन शुभेच्छा विचारणा तनुमानसा सत्त्वापत्तिश्चेति ज्ञानभूमिकाचतुष्टयं कथितमासीत् ।
असंसक्तिः पदार्थाभावना तुर्यगा च, ‘ब्रह्मात्मना संस्थितिः मुक्तिः’ इत्यत्र संस्थितिशब्देन वासनाक्षय-मनोनाश-सहकृतस्वनुभवबोधकेन व्यञ्जिताः । तेन सालोक्य-सामीप्य-सारूप्य-सायुज्यानां मुख्यमुक्तित्वाभावश्च सूचितो भवति । सगुणविषयकतया तेषां चतुर्णामपि मिथ्यात्वात् , परिच्छेदत्रयशून्यत्वरूपब्रह्मत्वस्य सगुणेऽसम्भवात् । ब्रह्मात्मना संस्थितिः कल्पितसकलविधोपाधिसम्बन्धविधुरनित्यशुद्धबुद्धमुक्तप्रत्यगभिन्नपरिपूर्णस्वरूपेणावस्थानं कैवल्यमेव मुक्तिः, शतकोटिजन्मसु कृतैः पुण्यैर्विना नो लभ्यते इत्यन्वयः ॥२॥
दुर्लभं त्रयमेवैतद् दैवानुग्रहहेतुकम् ।
मनुष्यत्वं मुमुक्षुत्वं महापुरुषसंश्रयः ॥३॥
लब्ध्वा कथञ्चित् नरजन्म दुर्लभं
तत्रापि पुंस्त्वं श्रुतिपारदर्शनम् ।
यस्स्वात्ममुक्त्यै न यतेत मूढधीः
स आत्महा स्वं विनिहन्त्यसद्ग्रहात् ॥४॥
इतः कोन्वस्ति मूढात्मा यस्तु स्वार्थे प्रमाद्यति ।
दुर्लभं मानुषं देहं प्राप्य तत्रापि पौरुषम् ॥५॥