विवेकचूडामणिः सव्याख्यः
३०. समाधिः
सार्वात्म्यसिद्धये भिक्षोः कृतश्रवणकर्मणः ।
समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ॥३४२॥
ब्रह्मनिष्ठगुरुमुखात् कृतं श्रवणरूपं वेदान्तवाक्यतदर्थश्रवणरूपं कर्म येन सः, भिक्षुः संन्यासी कृतश्रवणकर्मा तस्य सार्वात्म्यसिद्धये कैवल्यरूपसर्वात्मभावनिष्पत्तये एषा ‘शान्तो दान्त’ इति श्रुतिः ‘तस्मादेवं विच्छान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तोभूत्वाऽत्मन्येवात्मानं पश्येत्’(बृ.उ. ४.४.२३) इति श्रुतिः बहिरन्तःकरणनिरोधेन अनालम्बितबाह्यवृत्तिः आत्मसाक्षात्कारार्थं निरन्तरं समाधिं कुर्यादिति समाहितशब्देन समाधिं विदधाति कर्तव्यत्वेन बोधयतीत्यर्थः ॥३४२॥
तत्र युक्तिमाह आरूढशक्तेरिति −
आरूढशक्तेरहमो विनाशः
कर्तुं न शक्यः सहसापि पण्डितैः ।
ये निर्विकल्पाख्यसमाधिनिश्चलाः
तानन्तराऽनन्तभवा हि वासनाः ॥३४३॥
ये निर्विकल्पाख्यसमाधिनिश्चलाः, समाधिः द्विविधः सविकल्पकः निर्विकल्पकश्चेति,
ज्ञात्राद्यविलयेनैव ज्ञेये ब्रह्मणि केवले । तदाकाराकारितया चित्तवृत्तेरवस्थितिः ॥ सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः । मृद एवावभानेऽपि मृण्मयद्विपभानवत् ॥ सन्मात्रवस्तुभानेपि त्रिपुटी भाति सन्मयी । समाधिरत एवायं सविकल्प इतीर्यते ॥ ज्ञात्रादिभावमुत्सृज्य ज्ञेयमात्रस्थितिर्दृढा । मनसो निर्विकल्पस्स्यात् समाधिर्योगसंज्ञितः ॥ जले निक्षिप्तलवणं जलमात्रतया स्थितम् । पृथङ्नभाति किन्त्वम्भ एकमेवावभासते ॥ यथा तथैव सा वृत्तिः ब्रह्ममात्रतया स्थिता । पृथङ्नभाति ब्रह्मैवाद्वितीयमवभासते ॥ ज्ञात्रादिकल्पनाभावान्मतोऽयं निर्विकल्पकः । वृत्तेः सद्भावबाधाभ्याम् उभयोर्भेद इष्यते ॥
(स.सं. ८२०-८२६)
इति सदृष्टान्तं तत्तल्लक्षणम् । निर्विकल्पेत्याख्या यस्य निर्विकल्पाख्यः सचासौ समाधिश्च निर्विकल्पाख्यसमाधिः, तस्मिन् निश्चलाः तेन वा निश्चलाः तानन्तरा विना, आरूढशक्तेः आरूढा प्रवृद्धा शक्तिः नानाभ्रमजनिका यस्य तस्य अहमः अहङ्कारस्य विनाशः, पण्डितैरपि कृतवेदान्तश्रवणैरपि सहसा कर्तुं न शक्यः । हि यस्मात् वासनाः अनात्मसंस्काराः अनन्तभवाः अनन्ताः असङ्ख्याकाः भवाः जन्मानि यासां ताः, यद्वा अनन्तैर्बहुभिः पदार्थैः भवाः उत्पन्नाः । अतः सकलविधवासनाक्षयार्थं निर्विकल्पकसमाधिरेव शरणम् ॥३४३॥
समूलमनष्टायाः विक्षेपशक्तेः बन्धकत्वप्रकारमाह अहमिति −
अहं बुद्ध्यैव मोहिन्या योजयित्वावृतेर्बलात् ।
विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥३४४॥
यदानात्मनि आत्मबुद्धिं करोति तदा स्वरूपं तिरोहितं भवति ‘यथापकृष्टं शैवालं’(श्लो. ३२५) इति पूर्वोक्तरीत्या मोहिन्या स्वरूपच्याविकया अहं बुद्ध्यैव योजयित्वा तत्प्रयोज्यावृतेः स्वरूपाप्रकाशस्य बलात् पुरुषं पण्डितमपि, विक्षेपशक्तिः भ्रमपरम्पराजनिका, सङ्कल्पकामादिवृत्तिजनिका च, तद्गुणैः स्वकीयकार्यैः सङ्कल्पादिरूपैः विक्षेपयति बहुबहु बहिरानयति दूरमात्मन इत्यर्थः ॥३४४॥
विक्षेपशक्तिविजयो विषमो विधातुं
निश्शेषमावरणशक्तिनिवृत्त्यभावे ।
दृग्दृश्ययोः स्फुटपयोजलवद्विभागे
नश्येत्तदावरणमात्मनि च स्वभावात् ॥
निस्संशयेन भवति प्रतिबन्धशून्यो
निक्षेपणं नहि तदा यदि चेन्मृषार्थे ॥३४५॥
विक्षेपेति । निश्शेषमावरणशक्तिनिवृत्त्यभावे विक्षेपशक्तिविजयः विधातुं कर्तुं विषमः असाध्य इत्यर्थः । दृग्दृश्ययोः आत्मानात्मनोः स्फुटं पयोजलवत् क्षीरनीरवत् भेदेन मनस्त्रोट्या हंसैः परमैः कृते सति आत्मनि तदा स्वभावात् अयत्नत एव आवरणं नश्येत् । तथा − विवेकानन्तरम् आवरणभङ्गार्थं करणीयांशः कोऽपि नास्ति । तदामृषार्थे मिथ्याभूते अनात्मनि निक्षेपणं मनसः न चेद्यदि विक्षेपशक्तिविजयः निस्संशयेन प्रतिबन्धशून्यः भवति ॥३४५॥
एतादृशविवेके स्फुटबोधं हेतुमाह सम्यगिति −
सम्यग्विवेकः स्फुटबोधजन्यः
विभज्य दृग्दृश्यपदार्थतत्त्वम् ।
छिनत्ति मायाकृतमोहबन्धं
यस्माद्विमुक्तस्य पुनर्न संसृतिः ॥३४६॥
स्फुटः असन्दिग्धः, अविपर्यस्तः यो बोधः श्रुत्याचार्यप्रसादजनितः महावाक्यार्थानुभवः तज्जन्यः तदनन्तरकालिकः सम्यग्विवेकः ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्येवंरूपः दृग्दृश्यपदार्थतत्त्वम् आत्मानात्मयाथात्म्यम् , विभज्य क्षीरनीरवत्पृथक्कृत्य मायाकृतमोहबन्धं मायया अविद्यया कृतः यो मोहः स्वरूपतिरोधानम् , तेन यो बन्धः अनात्मस्वात्मबुद्धिः तं छिनत्ति समूलकाषं कषति । तत्र मानमाह यस्मात् विमुक्तस्य पुनर्न संसृतिरिति ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुतेः, नहि क्षीरादुद्धृतमाज्यं पुनः क्षीरीभवति तथा स्वप्रकाशानन्दाकारतां यातं मनः न पुनरनात्मसु सज्जत इति भावः ॥३४६॥
चतुर्थपादार्थमुपपादयति परावरेति −
परावरैकत्वविवेकवह्निः दहत्यविद्यागहनं ह्यशेषम् ।
किं स्यात् पुनस्संसरणस्य बीजम् अद्वैतभावं समुपेयुषोऽस्य ॥३४७॥
हि यस्मात्कारणात् परावरैकत्वविवेकवह्निः परः ईश्वरः अवरः जीवः तयोरेकत्वविषयकः विवेकः विचारजनितबोधः स एव वह्निः अशेषं सकलकार्यैः साकम् अविद्यागहनम् अविद्यैव गहनमरण्यं दहति भस्मीकरोति ‘विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति’(वि.पु. ६.७.९४) इति प्रमाणात् । अद्वैतभावं निर्भेदब्रह्मभावं समुपेयुषः निरन्तरं साक्षात्कुर्वतः अस्य महात्मनः पुनः संसरणस्य देहादावात्मभ्रमस्य बीजं किं स्यात् न किमपीत्यर्थः ॥३४७॥
सम्यग्वस्तुज्ञानस्य संसारनाशकत्वप्रकारमाह आवरणस्येति −
आवरणस्य निवृत्तिर्भवति च सम्यक्पदार्थदर्शनतः ।
मिथ्याज्ञानविनाशः तद्वद्विक्षेपजनितदुःखनिवृत्तिः ॥३४८॥
‘एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः’(श्लो. १४६) इत्युक्तत्वात् आवरणविक्षेपनाशे कुतः संसारबन्ध इति भावः ॥३४८॥
सम्यक्पदार्थदर्शनतः आवरणस्य निवृत्तिर्भवति, मिथ्याज्ञानस्य अयथाबोधस्य विनाशः भवति, तद्वत् अयथावबोधरूपविक्षेपेण जनितं यद्दुःखं तस्य निवृत्तिश्च भवति इतीममर्थं दृष्टान्तेनोपपादयति एतदिति −
एतत्त्रितयं दृष्टं सम्यग्रज्जुस्वरूपविज्ञानात् ।
तस्माद्वस्तुसतत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥३४९॥
सम्यग्रज्जुस्वरूपविज्ञानात् एतत्त्रितयं रज्ज्वावरणनिवृत्तिः सर्पभ्रान्तिनाशः रज्जुसर्पविक्षेपजनितभयकम्पादिप्रयोज्यदुःखनिवृत्तिश्च इति त्रयं दृष्टम् । तस्माद्विदुषा एतज्जानता पुरुषेण बन्धमुक्तये बन्धहेत्वावरणविक्षेपनाशाय वस्तुसतत्त्वं वस्तुनः याथात्म्यं ज्ञातव्यम् ॥३४९॥
आत्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं सोपपत्तिकं कथयति अय इति −
अयोऽग्नियोगादिव सत्समन्वयान्मात्रादिरूपेण विजृम्भते धीः ।
तत्कार्यमेतत्त्रितयं यतो मृषा दृष्टं भ्रमस्वप्नमनोरथेषु ॥३५०॥
अग्नेर्योगात् अयः यथा दग्धृ प्रतीयते मृषा, तथा सत्समन्वयात् सतः परमात्मनः समन्वयात् प्रतिफलनरूपसम्बन्धवशात् धीः बुद्धिः मात्रादिरूपेण माता मितिः मेयमिति त्रिपुटीरूपेण विजृम्भते अनेकाकारा भवति । मातुर्ज्ञातुः जीवस्यापि धीविशिष्टवेषेण कल्पितत्वमेव । ‘अन्वेष्टव्यात्मविज्ञानात् प्रमातृत्वमात्मनः । अन्विष्टस्स्यात्प्रमातैव पाप्मदोषादिवर्जितः’(सू.भा. १.१.४) इति प्रमातृत्वमपि कल्पितम् ॥३५०॥
भ्रमस्वप्नमनोरथेषु एतत्त्रितयं त्रिपुटीरूपं तत्कार्यं सत्समन्वययुक्तधीकार्यं यतः मृषा दृष्टम् −
ततो विकाराः प्रकृतेरहम्मुखाः
देहावासना विषयाश्च सर्वे ।
क्षणेऽन्यथाभाविन एष आत्मा
नोदेति नाप्येति कदापि नान्यथा ॥३५१॥
ततः धीकार्याणां मृषात्वात् प्रकृतेः अविद्यायाः विकाराः अहंमुखाः देहावसानाः सर्वे विषयाश्च शब्दादयः घटादयश्च, क्षणेऽन्यथाभाविनः सत्वेन प्रतीयमाना एव विमर्शे क्रियमाणे असन्तो भवन्ति । अतः दृष्टनष्टस्वरूपतया न सत्यभूताः । एष आत्मा तु कदापि नोदेति नोत्पद्यते, नाप्येति न नश्यति वा, अन्यथापि न भवति तस्य धिय इव परिणामोऽपि नास्ति नियतैकरूप एव सर्वदावतिष्ठते अतः सत्य इति भावः ॥३५१॥
नित्याद्वयाखण्डचिदेकरूपो बुध्यादिसाक्षी सदसद्विलक्षणः ।
अहं पदप्रत्ययलक्षितार्थः प्रत्यक्सदानन्दघनः परात्मा ॥३५२॥
नित्या आद्यन्तविधुरा, अद्वया स्वभिन्नवस्तुशून्या, अत एवाखण्डा त्रिविधपरिच्छेदरहिता या चित् सैव एकं रूपं यस्य सः नित्याद्वयाखण्डचिदेकरूपः, तत्र मानं बुध्यादिसाक्षी पूर्वमेवोक्तं ‘विकारिणां सर्वविकारवेत्ता नित्योऽविकारो भवितुं समर्हति’(श्लो. २९६) इति । अतः सदसद्विलक्षणः ‘अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते’(भ.गी. १३.१२) इति गीतावचनात् अविद्यातत्कार्यभिन्न इत्यर्थः, अहंपदप्रत्ययलक्षितार्थः लक्षणावृत्या अहंपदजन्योपस्थितिविषय इत्यर्थः, प्रत्यक्सदानन्दघनः प्रातिलोम्येन अञ्चतीति प्रत्यङ् असज्जडदुःखाहङ्कारादिविलक्षणतया सच्चिदानन्दस्वरूपेण प्रकाशमानः सदानन्दघनः कालत्रयाबाध्यानन्दस्वरूपः परात्मा इत्यात्मयाथात्म्यं कथितम् ॥३५२॥
इत्थं विपश्चित् सदसद्विभज्य
निश्चित्य तत्त्वं निजबोधदृष्ट्या ।
ज्ञात्वा स्वमात्मानमखण्डबोधं
तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥३५३॥
इत्थं पूर्वोक्तप्रकारेण विपश्चित् श्रुतिप्रमाणः परमार्थदर्शी मुमुक्षुः सत् ब्रह्म असत् अविद्यातत्कार्यं विभज्य सत्यत्वेन मिथ्यात्वेन च निजबोधदृष्ट्या विचारजनितस्वानुभवनेत्रेण, तत्त्वं विनिश्चित्य वस्तुयाथात्म्यं निश्चयेन विज्ञाय, स्वमात्मानम् अखण्डबोधं ज्ञात्वा तेभ्यो विमुक्तः, अनात्मभ्यः अविद्यादिदेहान्तेभ्यः शब्दादिभ्यो विषयेभ्यश्च विशेषेण मुक्तः, वासनाया अप्यभावः विशेषः मुक्तौ, स्वयमेव शाम्यति अनावृतस्वच्छप्रकाशरूपेणावतिष्ठत इत्यर्थः ॥३५३॥
एवं कदा भवतीति ज्ञातव्यमत आह अज्ञानेति −
अज्ञानहृदयग्रन्थेर्निश्शेषविलयस्तदा ।
समाधिनाऽविकल्पेन यदाद्वैतात्मदर्शनम् ॥३५४॥
अविकल्पेन निर्विकल्पेन समाधिना पूर्वं कथितलक्षणेन, यदा अद्वैतात्मदर्शनं निर्भेदपरमात्मसाक्षात्कारः तदा अज्ञानहृदयग्रन्थेः अज्ञानप्रयोज्यः यः हृदयग्रन्थिः चिज्जडतादात्म्यं तस्य निश्शेषविलयः वासनया साकं नाशः इत्यर्थः ॥३५४॥
त्वमहमिदमितीयं कल्पना बुद्धिदोषात्
प्रभवति परमात्मन्यद्वये निर्विशेषे ।
प्रविलसति समाधावस्य सर्वो विकल्पः
विलयनमुपगच्छेद् वस्तुतत्त्वावधृत्या ॥३५५॥
बुद्धिदोषात् तमोरजोरूपात् त्वम् अहम् इदम् इतीयं कल्पना प्रभवति अद्वये अत एव निर्विशेषे परमात्मनि भासते । अस्य विदुषः समाधौ प्रविलसति वस्तुतत्त्वावधृत्या वस्तुयाथाम्यावधारणेन, सर्वः विकल्पःविलयनमत्यन्तनिवृत्तिम् उपगच्छेत् प्राप्नुयात् ॥३५५॥
ससामग्रीकं समाधिं तत्फलं च एकश्लोकेन विशदं कथयति शान्त इति −
शान्तो दान्तः परमुपरतः क्षान्तियुक्तस्समाधिं
कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् ।
तेनाविद्यातिमिरजनितान् साधु दग्ध्वा विकल्पान्
ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥३५६॥
शान्तः निगृहीतमनाः दान्तः निरुद्धबाह्येन्द्रियः, परमत्यन्तम् उपरतःअनालम्बितबाह्यवृत्तिः, क्षान्तियुक्तः द्वन्द्वसहिष्णुः, समाधिं निर्विशेषे ब्रह्मणि चित्तस्य संस्थापनं नित्यं कुर्वन् यतिः स्वस्य सर्वात्मभावं केवलीभावं कलयति अनुभवति, तेन निर्विकल्पसमाधिना, अविद्यैव तिमिरम् अन्धकारः तेन जनितान् उत्पादितान् विकल्पान् विविधकल्पनाः साधु दग्ध्वा भस्मीकृत्य अत्यन्तमुच्छिद्य निष्क्रियः निर्विकल्पः ब्रह्माकृत्या ब्रह्माकारेण सुखं निवसति । एतेन −
क्रियानाशे भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः । वासनाप्रक्षयो मोक्षः स जीवन्मुक्त इष्यते ॥ (श्लो. ३१८)
इत्युक्तं कथितं भवति । तदर्थं निष्क्रियो निर्विकल्प इति विशेषणद्वयम् ॥३५६॥
एवं मुक्तिसिद्धये समाध्यर्थम् अन्तर्बहिःप्रपञ्चप्रविलापनं हेतुः, न केवलं बाह्यशब्दैर्मुक्तिरित्याह समाहिता इति −
समाहिता ये प्रविलाप्य बाह्यं
श्रोत्रादि चेतस्स्वमहं चिदात्मनि ।
त एव मुक्ता भवपाशबन्धैः
नान्ये तु पारोक्ष्यकथाभिधायिनः ॥३५७॥
ये पुरुषाः बाह्यं श्रोत्रादि, एतेन वियदादीनां चिदात्मनि प्रविलापनं कथितमेव भवति । अहं शृणोमीत्यादि तादात्म्याध्यासविषयतया श्रोत्रादीत्युक्तम् । आन्तरं चेतःमनः स्वं स्वकीयम् , अहम् अहङ्कारञ्च, चिदात्मनि प्रविलाप्य चिदात्मव्यतिरेकेण आन्तरं वा बाह्यं वा किमपि नास्तीति दृढं निश्चित्य ये समाहिताः चिदात्मनि संस्थापितमनस्काः, त एव भवपाशबन्धैः पाशवद्बन्धकसांसारिकभ्रमैः मुक्ताः । नान्ये तु पारोक्ष्यकथाभिधायिनः अन्ये अकृतप्रविलापनाः परोक्षशब्दमात्राभिधायकाः न तु नैव मुक्ता इत्यर्थः ॥३५७॥
एवं सर्वोपादानसर्वकल्पनाधिष्ठानब्रह्मव्यतिरेकेण किमपि नास्तीति प्रपञ्चस्य शून्यत्ववासनायां दृढीभूतायां मनोनाशेन कैवल्यं निष्प्रत्यूहमिति निरन्तरं निर्विकल्पकसमाधिः कार्य इत्याह उपाधीति −
उपाधियोगात् स्वयमेव भिद्यते
चोपाध्यपोहे स्वयमेव केवलः ।
तस्मादुपाधेः विलयाय विद्वान्
वसेत्सदाऽकल्पसमाधिनिष्ठया ॥३५८॥
‘एकमेवाद्वितीयं’(छा.उ. ६.२.१) , ‘नेह नानास्ति किञ्चन’(क.उ. ४.११) ‘नात्र काचन भिदास्ति’(नृ.उ.उ. ८) इति श्रुतिजेगीयमानस्वरूपः परमात्मा उपाधियोगादेव भिद्यते । उपाध्यपोहे मायापञ्चकोशरूपोपाधिनिरासे च स्वयं केवल एव, तस्मात् उपाधेर्भेदहेतोः अहङ्कारस्य विलयाय आत्यन्तिकनिवृत्तये सदा निरन्तरम् अकल्पसमाधिनिष्ठया अकल्पः निर्विकल्पकः यः समाधिः योगः तस्मिन्निष्ठा नितरां स्थितिः तया वसेत् ॥३५८॥
एवं समाधिनिष्ठस्य जीवस्य ब्रह्माकारतायां दृष्टान्तमाह सतीति −
सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया ।
कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥३५९॥
एकनिष्ठया ऐदम्पर्येण सति ब्रह्मणि सक्तः समाहितमनाः नरः सद्भावं याति हि निश्चयः । तत्र दृष्टान्तः कीटकः अल्पः कीटः एकनिष्ठया भ्रमरं ध्यायन् भ्रमरत्वाय भ्रमरभिन्नोऽपि कल्पते समर्थो भवति । किम्पुनः प्रकृते ब्रह्मैव सन् जीवः अज्ञानादारोपिताब्रह्मभावः सदापि ब्रह्मध्यानात् ब्रह्मैव भवतीति इति भावः ॥३५९॥
उक्तमर्थं दृष्टान्ते विशदयन् दार्ष्टान्तिके योजयति क्रियेति −
क्रियान्तरासक्तिमपास्य कीटको
ध्यायन्यथालिं ह्यलिभावमृच्छति ।
तथैव योगी परमात्मतत्त्वं
ध्यात्वा समायाति तदेकनिष्ठया ॥३६०॥
कीटकः क्रियान्तरासक्तिम् अपास्य त्यक्त्वा यथा अलिं भ्रमरं ध्यात्वा स्वात्मानं हिनस्तीति भयादेव चिन्तयित्वा अलिभावं भ्रमरभावं स्वयमपि भ्रमरत्वम् ऋच्छति प्राप्नोति । तत्र पूर्वादारभ्य भेद एव पश्चादपि अयं भ्रमरो भवति नतु ध्यातभ्रमराभेदः । अत्र भेदस्याज्ञानिकत्वात् अभेदध्यानजनितसाक्षात्कारेण अज्ञाने नष्टे भेदप्रसक्तेरेवाभावात् तथैव कीटकवत् एकनिष्ठया अनन्यसक्ततया परमात्मतत्त्वं ध्यात्वा तदेव याथात्म्यं समायाति । नष्टाज्ञानिकभेदः अभिव्यक्तस्वतात्विकस्वरूपः भवतीति भावः । अत एव समायातीति समुपसर्गः । ध्यानेन अन्यस्याप्यन्यभावे सम्भवति स्वध्यानेन स्वस्वरूपाप्तौ कः प्रत्यूह इतिमात्रे तत्र तत्र भ्रमरकीटन्यायोदाहरणमिति मन्तव्यम् ॥३६०॥
अतीव सूक्ष्मं परमात्मतत्त्वं
न स्थूलदृष्ट्या प्रतिपत्तुमर्हति ।
समाधिनाऽत्यन्तसुसूक्ष्मवृत्त्या
ज्ञातव्यमार्यैरतिशुद्धबुद्धिभिः ॥३६१॥
निर्गुणतया अतीव सूक्ष्मं परं पञ्चकोशविलक्षणम् आत्मतत्त्वं त्रिविधपरिच्छेदरहितं स्वप्रकाशसदानन्दरूपम् आत्मयाथात्म्यं स्थूलदृष्ट्या शरीरादिस्थूलवस्तुविषयिण्या दृष्ट्या अन्तःकरणवृत्त्या प्रतिपत्तुं व्याप्तुं नार्हति । अतिशुद्धबुद्धिभिः ‘ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः’ ‘कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’(ब्र.सू.भा. ३.४.२६) ‘दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः’(क.उ. १.३.१२) ‘ज्ञानप्रसादेन विशुद्धसत्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३.१.८) इत्यादिवचनानुसारेण निर्मलान्तःकरणैः आर्यैः श्रुतिस्मृत्युक्तमार्गकैः समाधिना अत्यन्तसुसूक्ष्मा प्रपञ्चाविषयकतया अखण्डाकारा या वृत्तिः तया ज्ञातव्यं विषयीकर्तव्यम् ॥३६१॥
सदृष्टान्तं मनोनैर्मल्ये ध्यानं कारणमाह यथेति −
यथा सुवर्णं पुटपाकशोधितं
त्यक्त्त्वा मलं स्वात्मगुणं समृच्छति ।
तथा मनस्सत्वरजस्तमोमलं
ध्यानेन सन्त्यज्य समेति तत्त्वम् ॥३६२॥
सुवर्णं पुटपाकशोधितम् , स्वगुणतिरोधायकमलापनयार्थक्रियमाणपाकविशेषः पुटे निक्षिप्य रक्तमृदादिसंयोगेन क्रियमाणाग्निसंयोगः पुटपाकः तेन शोधितं वियोजितमलम् , यथा मलं त्यक्तवा स्वात्मगुणं भास्वरत्वादिकं समृच्छति सम्यगाप्नोति तथा मनः अन्तःकरणं सत्त्वरजस्तमोमलं, यद्यपि सत्वस्य रजसा तमसा वा अमिश्रितस्य मलत्वं दुर्घटं ‘तस्मात्सत्त्वमवष्टभ्य स्वाध्यासापनयं कुरु’(श्लो. २७९) इत्युक्त्वात् ‘निर्द्वन्द्वो नित्यसत्त्वस्थो भव’(२.४५) इति गीतोपदेशाच्च, तथापि सत्त्वं शुद्धेन नश्यति इत्युक्तत्वात् ‘स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते’(भ.गी. १४.२६) , ‘निस्त्रैगुण्यो भवार्जुन’(भ.गी. २ ८५) इति भगवद्वचनाच्च निर्गुणं ब्रह्म प्राप्तुं मनोऽपि रजस्तमोविनाशार्थं सत्त्वावलम्बनं त्यजतीति भावः । ‘नास्वादयेद्रसं तत्र निस्सङ्गः प्रज्ञया भवेत्’(अद्वैत. ४५) इति गौडपादोक्तेः सत्त्वकार्यः रसास्वादः त्यक्तव्य इत्युक्तेः ‘येन त्यजसि तत्त्यज’(सं.उ. २.१२, म.भा.मो.ध. ३२९.४०) इत्युक्तेः ‘भूयश्चान्ते विश्वमायानिवृत्तिः’(श्वे.उ. १.१०) इति शुद्धसत्त्वप्रधानायाः मायायाश्च निवृत्तिश्रुतेः मिथ्यात्वेन शुद्धसत्त्वस्यापि मलत्वं मन्तव्यम् । ध्यानेन सन्त्यज्य, तत्त्वं ब्रह्मत्वं (‘नेह नानास्ति किञ्चन’ इति गुणगुणिभावस्यानिष्टत्वात्) समेति ब्रह्मणः निर्गुणत्वात् सत्त्वगुणसत्त्वे तत्त्वप्राप्तेरसम्भवात् । सात्विक्याः अखण्डाकारवृत्तेरपि मूलाज्ञानभञ्जिकायाः विलयेन अधिष्ठानमात्रावशेषत्वं भवतीति भावः ॥३६२॥
निरन्तराभ्यासवशात्तदित्थं
पक्वं मनो ब्रह्मणि लीयते यदा ।
तदा समाधिः स विकल्पवर्जितः
स्वतोऽद्वयानन्दरसानुभावकः ॥३६३॥
इत्थं निरन्तराभ्यासवशात् पक्वं विपरीतभावनादिदोषशून्यं मनः यदा ब्रह्मणि लीयते निर्वृत्तिकं ब्रह्ममात्रावशेषं भवति तदा स्वतः अप्रयत्नेन अद्वयानन्दरसानुभावकः अद्वयः यः आनन्दः ब्रह्मस्वरूपभूतः स एव रसः ‘रसो वै सः’(तै.उ. ७) इति श्रुतेः परमप्रेमास्पदत्वाच्च रसत्वम् । तदनुभवजनकः विकल्पवर्जितः सः अहमादिसकलविश्ववासनाक्षयहेतुः समाधिः निर्विकल्पाख्य इत्यर्थः ॥३६३॥
तत्फलं कार्त्स्न्येनोपपादयति समाधिनेति −
समाधिनानेन समस्तवासना-
ग्रन्थेर्विनाशोऽखिलकर्मनाशः ।
अन्तर्बहिः सर्वत एव सर्वदा
स्वरूपविस्फूर्तिरयत्नतः स्यात् ॥३६४॥
अनेन निर्विकल्पकाख्येन समाधिना योगेन समस्तवासनाग्रन्थेः ग्रन्थिवद्दुरुच्छेद्यतया स्थितानां समस्तवासनानां मिथ्याज्ञानजनितानां विनाशः अत्यन्तमुच्छित्तिः, अखिलकर्मनाशः सञ्चितानां सर्वेषां कर्मणां नाशः ‘भिद्यते हृदयग्रन्थिः, क्षीयन्ते चास्य कर्माणि’(मु.उ २.२.८) इति श्रुतेः । अन्तर्बहिः सर्वत एव सर्वदा स्वरूपविस्फूर्तिरयत्नतः स्यात् स्पष्टम् ॥३६४॥
अतः
श्रुतेः शतगुणं विद्यान्मननं मननादपि ।
निदिध्यासं लक्षगुणम् अनन्तं निर्विकल्पकम् ॥३६५॥
श्रुतेः श्रवणात् । स्पष्टम् ॥३६५॥
निर्वकल्पकसमाधिना स्फुटं
ब्रह्मतत्त्वमवगम्यते ध्रुवम् ।
नान्यथा चलतया मनोगतेः
प्रत्ययान्तरविमिश्रितं भवेत् ॥३६६॥
निर्विकल्पकसमाधिना ब्रह्मतत्त्वं स्फुटं करतलामलकवत् अवगम्यते ध्रुवं निश्चयः । अन्यथा प्रकारान्तरेण नावगम्यते । तत्र हेतुमाह मनोगतेश्चलतया प्रत्यायान्तरविमिश्रितं वृत्त्यन्तरसङ्कीर्णं भवेत् ॥३३६॥
अतः समाधत्स्व यतेन्द्रियस्सन्
निरन्तरं शान्तमनाः प्रतीचि ।
विध्वंसय ध्वान्तमनाद्यविद्यया
कृतं सदेकत्वविलोकनेन ॥३६७॥
अतः ब्रह्मतत्त्वस्फुटावगमार्थं सदा यतेन्द्रियः सन् यतानि निगृहीतानि इन्द्रियाणि श्रोत्रादीनि येन सः यतेन्द्रियः निरन्तरं सन्ततं प्रशान्तमनाः शान्तं निर्विकारं मनः यस्य सः शान्तमनाः सन् प्रतीचि प्रत्यगात्मनि समाधत्स्व मनः संस्थापय, तज्जन्येन सदेकत्वविलोकनेन गतसकलभेदबह्मसाक्षात्कारेण, अनाद्यविद्यया अनादिः या अविद्या सर्वसंसारमूलभूता तया कृतं ध्वान्तं स्वरूपाप्रकाशं विध्वंसय विनाशय ॥३६७॥
निर्विकल्पकसमाधौ क्रमेणोपायानाह योगस्येति −
योगस्य प्रथमं द्वारं वाङ्निरोधोऽपरिग्रहः ।
निराशा च निरीहा च नित्यमेकान्तशीलता ॥३६८॥
योगस्य बाह्यसकलवृत्तिनिरोधस्य वाङ्निरोधः मौनं प्रथमं द्वारं कारणं व्यवहारेण मनोवृत्तीनां वर्धमानत्वात् । अपरिग्रहः शरीरस्थितिमात्रसाधनातिरिक्तभोगसाधनास्वीकारः तत्स्वीकारे तद्रक्षणादौ व्याप्रियमाणचित्तस्य वृत्तिनिरोधस्यासम्भावितत्वात् । आशायां कर्मणि च चित्तं विक्षिप्यते जनसङ्घे स्थितौ च अतः निराशा च वैराग्यम् , निरीहा च कर्मभ्य उपरतिः, नित्यमेकान्तशीलता एकान्ते विजने देशे शीलं स्थितिः यस्य एकान्तशीलः सः तद्भावः तत्ता च योगस्य हेतवः ॥३६८॥
एकान्तशीलतायाः योगहेतुत्वम् उपपादयति एकान्तेति −
एकान्तस्थितिरिन्द्रियोपरमणे हेतुर्दमश्चेतसः
संरोधे करणं शमेन विलयं यायादहंवासना ।
तेनानन्दरसानुभूतिरचला ब्राह्मी सदा योगिनः
तस्माच्चित्तनिरोध एव सततं कार्यः प्रयत्नान्मुनेः ॥३६९॥
एकान्तस्थितिः विजनदेशनिवासः इन्द्रियोपरमणे बहिरिन्द्रियाणां निर्व्यापारतायां हेतुः । बहिरिन्द्रियोपरम एव दमः सः चेतसः अन्तःकरणस्य संरोधे करणं ‘इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः’(भ.गी. २.६०) इति गीतोक्तेः । विजनदेशे शब्दादिविषयाभावात् श्रोत्रादिष्वबहिर्मुखेषु अन्तःकरणम् आत्माभिमुख्यं विन्दत इति भावः । स एव शमः । शमेन अहं वासना विलयं यायात् प्राप्नुयात् तेन योगिनः अनात्मभ्यो निरुद्धवृत्तिकस्य सदा सर्वदापि ब्राह्मी आनन्दरसानुभूतिः अनावृतब्रह्मस्वरूपानन्दाभिव्यक्तिः, अचला निश्चला च्युतिशून्या । तस्मात् बाह्येभ्यश्चित्ते निरुद्धे अहंवासनाया अपि क्षयेण ब्रह्मानन्दानुभवस्य निरर्गलत्वात् मुनेः मननशीलस्य प्रयत्नात् सततं चित्तनिरोध एव कार्यः । निर्विकल्पकसमाधिः सदानुष्ठेय इत्यर्थः ॥३६९॥
‘योगस्य प्रथमं द्वारं वाङ्निरोध’(श्लो. ३६८) इत्युक्तम् । तत्र प्रमाणम् ,
यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति नियच्छेत्तद्यच्छेच्छान्तः आत्मनि ॥ (क.उ. १.३.१३)
इति कठश्रुतिः, तामर्थत आह वाचमिति −
वाचं नियच्छात्मनि तं नियच्छ
बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि ।
तं चापि पूर्णात्मनि निर्विकल्पे
विलाप्य शान्तिं परमां भजस्व ॥३७०॥
वाचं वागिन्द्रियम् आत्मनि मनसि नियच्छ निरुन्धि, वाग्व्यापारं विहाय आदौ मनोमात्रेणावतिष्ठस्व इत्यर्थः । पश्वादीनामिव यदा मौनं दृढं भवति ततः सङ्कल्पविकल्पात्मकं मनोरूपात्मानं केवलाध्यवसायलक्षणायां बुद्धौ नियच्छ । तदा वास्यादिरहितः तक्षेव कर्त्र्यपि बुद्धिः बहिर्व्यापारेभ्यः शान्ता भवति । तां शान्तां धियं बुद्धिसाक्षिणि बुध्युपहिते चैतन्ये बुद्धेरुपाधित्वं भङ्क्त्वा केवलावबोधमात्रे यच्छ । शोधितत्वंपदार्थं जानीहीत्यर्थः । तच्चापि पूर्णात्मनि त्रिविधपरिच्छेदशून्ये निर्विकल्पे निर्गुणे तत्पदलक्ष्ये ब्रह्मणि विलाप्य एकीकृत्य परमाम् आत्यन्तकीं शान्तिं मोक्षरूपां भजस्व ॥३७०॥
वृत्तिनिरोधस्य स्वरूपानन्दाभिव्यञ्जकत्वं सोपपत्तिकमाह देहेति −
देहप्राणेन्द्रियमनोबुद्ध्यादिभिरुपाधिभिः ।
यैर्यैः वृत्तेः समायोगः तत्तद्भावोऽस्य योगिनः ॥३७१॥
तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् ।
सन्दृश्यते सदानन्दरसानुभवविप्लवः ॥३७२॥
यथा स्वच्छोऽपि स्फटिकः नीलवस्त्रादियोगेन नीलादिरूपवत्त्वेन भाति स्वयं स्वच्छः सन्नेव, तथा अस्य आत्मनः देहप्राणेन्द्रियमनोबुद्ध्यादिभिः आदिपदेन आनन्दमयकोशः गृह्यते । यैः यैः वृत्तेः समायोगः आकारताख्यसम्बन्धः आन्तरैर्वा बाह्यैर्वा कोशैः तत्तद्भावः तत्तत्तादात्म्यम् । तेन तदीयधर्मैः धर्मवत्वेन अविद्यास्मितारागद्वेषाभिनिवेशरूपाः पञ्चक्लेशाः । अस्यैव योगिनः बहिर्वृत्तीः निरुन्धतः । तत्र हेतुः मुनेरिति, कोशपञ्चकविवेकप्रकरणोक्तयुक्तिभिः ताननात्मत्वेन निषेधतः । तत्र अहं वृत्तीरकुर्वतः तन्निवृत्त्या देहाद्युपाधिनिवृत्त्या सर्वोपरमणं सर्वेषां दुःखात्मकानाम् अनात्मनाम् उपरमणम् अभानं यत्र सुखे तत्सर्वोपरमणं सुखं सम्यग्भवतीति शेषः । तत्र मानं सदानन्दरसानुभवविप्लवः सन्दृश्यत इति । विप्लवः मग्नता पूर्णता वा, निदाघतप्तस्य जाह्नवीह्रदनिमग्नस्य यथा अन्तर्बहिरानन्दस्फूर्तिः तथा सर्वोपाधिविनिर्मुक्तस्य केवलीभूतस्य अखण्डानन्दस्फूर्तिरिति भावः ॥३७२॥
एतस्मिन् निर्विकल्पकयोगे हेतुभूतसर्वोपाधिनिवृत्तौ वैराग्यं ‘योगस्य प्रथमं द्वारम्’ इति सूत्रस्थानीये श्लोके (३६८) निराशाशब्देन कथितं ‘विवेकवैराग्यगुणातिरेकात्’(श्लो. १७७) इति श्लोके मनश्शुद्धिहेतुतया ‘ताभ्यां दृढाभ्यां भवितव्यमग्रे’(श्लो. १७७) इत्युक्तं तीव्रतममन्तरङ्गसाधनमिति निरूपयति अन्तस्त्याग इति −
अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते ।
त्यजत्यन्तर्बहिस्सङ्गं विरक्तस्तु मुमुक्षया ॥३७३॥
बहिस्तु विषयैः सङ्गः तथान्तरहमादिभिः ।
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥३७४॥
अन्तर्बहिर्भावेन वर्तमानानां सर्वेषाम् अनात्मनां त्यागः विरक्तस्यैव युज्यते उपपद्यते । तत्र हेतुः विरक्तस्तु विरक्त एव मुमुक्षया कैवल्येच्छया अन्तर्बहिस्सङ्गं त्यजति । अहं मम भावं न करोति । सङ्गं विभज्य दर्शयति बहिरिति, बहिस्तु विषयैः पुत्रादिभिः शब्दादिभिश्च सङ्गः, तथा अन्तः अहमादिभिः देहप्राणमनोबुद्धयः आदिपदार्थः तैः सङ्गः अवास्तवः तादात्म्यरूपसम्बन्धः । इममुभयविधमपि सङ्गं विरक्त एव निष्काममनस्क एव त्यक्तुं शक्नोति । त्यागे बीजमाह ब्रह्मणि निष्ठित इति । ब्रह्मण्येव नितरां सर्वदा स्थितः अप्रच्युतमना इत्यर्थः ॥३७४॥
ब्रह्मात्मना संस्थितौ वैराग्यवद् बोधं कारणमाह वैराग्येति −
वैराग्यबोधौ पुरुषस्य पक्षिवत्
पक्षौ विजानीहि विचक्षण त्वम् ।
विमुक्तिसौधाग्रतलाधिरोहणं
ताभ्यां विना नान्यतरेण सिद्ध्यति ॥३७५॥
हे विचक्षण त्वं पुरुषस्य मुक्तिं प्रेप्सतः वैराग्यबोधौ वैराग्यं च बोधश्च वैराग्यबोधौ वैराग्यमुक्तम् , बोधः आत्मानात्मविवेकजन्यः आत्मस्वरूपयाथात्म्यानुभवः पक्षिवत्पक्षिण इव पक्षिवत् षष्ठ्यन्ताद्वतिः पक्षौ विजानीहि । तत्र हेतुः विमुक्तिसौधाग्रतलाधिरोहणं विमुक्तिरूपं सौधाग्रतलं रम्यरम्यमुच्चस्थानं तस्याधिरोहणं प्राप्तिः, ताभ्यां समुच्चिताभ्यां विना अन्यतरेण वैराग्येण वा बोधेन वा एकेन न सिद्ध्यति । नहि पक्षी एकेन पक्षेण अम्बरतलं गाहितुमीष्टे तद्वत्प्रकृतेऽपीति भावः ॥३७५॥
तदुपपादयति अत्यन्तेति −
अत्यन्तवैराग्यवतः समाधिः
समाहितस्यैव दृढप्रबोधः ।
प्रबुद्धतत्त्वस्य हि बन्धमुक्तिः
मुक्तात्मनो नित्यसुखानुभूतिः ॥३७६॥
अत्यन्तवैराग्यवतः अत्यन्तं यथा मनः पुनः नैव सज्जते अनात्मसु तथा तीव्रवैराग्यं जुगुप्सा अस्यास्तीति अत्यन्तवैराग्यवान् तस्य समाधिः ब्रह्मनिष्ठा सम्भवति । समाहितस्यैव ब्रह्मणि संस्थापितमनस्कस्यैव दृढप्रबोधः प्रत्ययान्तरामिश्रितब्रह्मप्रत्ययः । प्रबुद्धं तत्त्वं येन सः प्रबुद्धतत्त्वः तस्य बन्धमुक्तिः अनात्मनि आत्मबुद्ध्यनुत्पत्तिः । मुक्तात्मनो नित्यसुखानुभूतिः मुक्त आत्मा यस्य सः मुक्तात्मा अतस्मिन् तद्बुद्धिरहितान्तःकरणस्तस्य नित्यं यत् सुखम् आत्मस्वरूपं तदनुभूतिः आवरणविक्षेपशून्यज्ञानवत्त्वान्निरर्गलात्मानन्दानुभवः इति भावः ॥३७६॥
न सुखं देवराजस्य न सुखं चक्रवर्तिनः । यादृशं वीतरागस्य मुनेरेकान्तशीलिनः ॥ (भागवतमाहात्म्ये ४.७५) यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशीं कलाम् ॥ (म.भा.शा.प. २८२.६) यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्वेदेषु सर्वेषु ब्राह्मणस्य विजानतः ॥ (भ.गी. २.४६)
‘श्रोत्रियस्य चाकामहतस्य’(तै.उ. २.८) ‘सोश्नुते सर्वान्कामान् सह’(तै.उ. २.१) इत्यादिप्रमाणसिद्धमर्थं वैराग्यस्य बोधस्य च फलं स्वानुभवसिद्धं प्रस्तौति वैराग्यादिति −
वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः
तच्चेत् शुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् ।
एतद्द्वारमजस्रमुक्तियुवतेः यस्मात्त्वमस्मात्परं
सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥३७७॥
वश्यात्मनः वश्यः आत्मा कार्यकरणसङ्घातः यस्य आसनप्राणायामादिना देहेन्द्रियादिवशीकारेऽपि वैराग्यं विना सुखं नास्ति, अणिमादिविभूतिषु सक्तानां बन्धस्य अवर्जनीयत्वात् । अवगम्यते हि पुराणादौ हिरण्यकशिप्वादयः महत् तपः समास्थायापि वैराग्याभावात् संसारिणः बभूवुरिति । न हि तादृशं तपः अस्थिष्वपि पिपीलिकासञ्चारेऽपि अच्युतत्वं तपसः वश्यात्मत्वं विना सम्भवति । अतः वश्यात्मनोऽपि सुखं वैराग्यं विना न सम्भवतीत्युच्यते । देहादिकम् अवशयतः वैराग्यं नैव सम्भवति इति वश्यात्मन इत्युक्तम् । तथा च हठयोगादिना वश्यात्मनोऽपि सुखस्य जनकं वैराग्यात्परं न पश्यामि । तत् वैराग्यं शुद्धतरः य आत्मबोधः पञ्चकोशविवेकजन्यात्मस्वरूपावगमः तेन सहितं चेत् स्वाराज्यसाम्राज्यधुक्, स्वयमेव राट् स्वराट्, रागसत्तायां हि विषयगमनेन मनसः तदधीनता, वैराग्ये अनन्याधीनः, तस्य भावः स्वाराज्यम् इतरानियम्यत्वं तच्च साम्राज्यं सर्वनियामकत्वं ब्रह्मविदः ईश्वरादप्यधिकत्वात् । ते स्वाराज्यसाम्राज्ये दोग्धीति स्वराज्यसाम्राज्यधुक् । यस्मात् एतत् वैराग्यम् अजस्रमुक्तियुवतेः द्वारम् , तत्तु ‘अत्यन्तवैराग्यवतः समाधिः’ इति पूर्वश्लोके कथितम् ।
अस्माद्धेतोः तं सर्वत्र विषयेषु परमत्यन्तम् अस्पृहया, सदात्मनि सद्रूपे ब्रह्मणि सदा निरन्तरं, श्रेयसे मुक्तये प्रज्ञां तत्त्वप्रबोधहेतुं निर्विकल्पकसमाधिं कुरु इत्यर्थः । ज्ञानस्य वस्तुतन्त्रत्वेन कर्तुमशक्यत्वात् प्रज्ञा समाधिः तद्धेतुः ॥३७७॥
आशां छिन्धि विषोपमेषु विषयेष्वेषैव मृत्योस्सृतिः
त्यक्त्वा जातिकुलाश्रमेष्वभिमतिं मुञ्चातिदूरात् क्रियाः ।
देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि
त्वं द्रष्टास्यमलोऽसि निर्द्वयपरब्रह्मासि यद्वस्तुतः ॥३७८॥
विषोपमेषु विषयेषु आशां छिन्धि, एषैव आशैव मृत्योः स्वरूपात्प्रच्युतिरूपप्रमादस्य सृतिः मार्गः । जातिकुलाश्रमेषु अभिमतिं त्यक्त्वा, क्रियाः जात्यादिनिमित्ताः अतिदूरात् मुञ्च । असति मिथ्याभूते देहादौ आत्मधिषणाम् अहं बुद्धिं त्यज मा कार्षीः । यत् यस्मात्कारणात् त्वं द्रष्टासि देहादेर्दृश्यस्य, अमलोऽसि देहादेः समलत्वात् । वस्तुतः निर्गतं द्वयं यस्मात् निर्द्वयम् अद्वैतं तच्च तत् परब्रह्म असि, तस्मात् आत्मनि ब्रह्मणि प्रज्ञाम् अहं ब्रह्मास्मीति ज्ञानं कुरुष्व निर्विकल्पकसमाधिना सम्पादय ॥३७८॥
लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं
स्वस्थाने विनिवेश्य निश्चलतनुश्चोपेक्ष्य देहस्थितिम् ।
ब्रह्मात्मैक्यमुपेत्य तन्मयतया चाखण्डवृत्त्यानिशं
ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भ्रमैः ॥३७९॥
‘प्रारब्धं पुष्यति वपुः’(श्लो. २८०) इति निश्चित्य देहस्थितितत्पोषणादावभिमानम् उपेक्ष्य त्यक्त्वा, निश्चलतनुः ‘स्थिरसुखमासनम्’(२.४६) इति योगसूत्रानुसारेण निश्चला तनुः यस्य, सुखासने उपविश्य बाह्येन्द्रियं ज्ञानकर्मेन्द्रियग्रामं स्वस्थाने स्वस्वगोलके विनिवेश्य −
विविक्तदेशे च सुखासनस्थः शुचिस्समग्रीवशिरश्शरीरः । अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् । अचिन्त्यमव्यक्तमनन्तरूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ॥ तदादिमध्यान्तविहीनमेकं विभुं चिदानन्दमरूपमद्भुतम् । उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।
ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ (४-७)
इति कैवल्यश्रुतेः लक्ष्ये ब्रह्मणि मानसं दृढतरं निश्चलं संस्थाप्य ब्रह्मात्मैक्यमुपेत्य साक्षात्कृत्य अनिशं च अखण्डवृत्त्या तन्मयतया ब्रह्म रूपतया आत्मनि, ब्रह्मानन्दरसं मुदा पिब । शून्यैः फलरहितैः अनर्थदैश्च अन्यैः अनात्मविषयकैः भ्रमैः अयथार्थज्ञानैः किम् ? ॥३७९॥
करुणातिरेकाद् भगवान् आत्मनिष्ठां मुहुरुपदिशति अनात्मेति −
अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् ।
चिन्तयात्मानमानन्दरूपं यन्मुक्तिकारणम् ॥३८०॥
कश्मलम् अशुचिविषयकतया अशुचि, अत एव दुःखकारणम् अनात्मचिन्तनं त्यक्त्वा यत् मुक्तिकारणम् आत्यन्तिकदुःखनिवृत्तिहेतुः तम् आनन्दरूपमात्मानं चिन्तय ॥३८०॥
चिन्तनप्रकारमुपदिशति एष इति । ‘धियं यच्छ च बुद्धिसाक्षिणि’(श्लो. ३७०) इत्यस्यार्थमाह −
एषस्वयञ्ज्योतिरशेषसाक्षी
विज्ञानकोशे विलसत्यजस्रम् ।
लक्ष्यं विधायैनमसद्विलक्षणम्
अखण्डवृत्त्यात्मतयानुभावय ॥३८१॥
एष आत्मा स्वयञ्ज्योतिः इतराप्रकाश्यः, अशेषसाक्षी सर्वद्रष्टा, विज्ञानकोशे बुद्धौ विलसति अशेषेण भासते । असद्विलक्षणं सर्वावस्थास्वनुवर्तमानत्वेन स्वयञ्ज्योतिष्ट्वेन सर्वसाक्षितया च जडदृश्यबुदध्यादिविलक्षणम् एनम् अजस्रम् , लक्ष्यं विधाय तत्रैव मनः स्थापयित्वा अखण्डवृत्त्या इतरप्रत्ययामिश्रया धारावाहिक्या आत्मतया स्वस्वरूपतया अनुभवाय साक्षात्कुरु ॥३८१॥
वृत्तावखण्डत्वं स्फुटयति एतमिति −
एतमच्छिन्नया वृत्त्या प्रत्ययान्तरशून्यया ।
उल्लेखयन् विजानीयात्स्वस्वरूपतया स्फुटम् ॥३८२॥
प्रत्ययान्तरशून्यया विजातीयप्रत्ययातिरस्कृतया अविच्छिन्नया निर्मलवर्तितैलदीपज्वालावत् तैलधारावत् धारया वहन्त्या वृत्त्या एतम् आत्मानम् उल्लेखयन् विषयीकुर्वन् स्वस्वरूपतया स्फुटं विजानीयात् ॥३८२॥
अत्रात्मत्वं दृढीकुर्वन् अहमादिषु सन्त्यजन् ।
उदासीनतया तेषु तिष्ठेद् घटपटादिवत् ॥३८३॥
अत्र परमात्मनि आत्मत्वं स्वस्वरूपत्वं दृढीकुर्वन् निश्चिन्वन् अहमादिषु सन्त्यजन् तेषु कदाचित्प्रतीतेष्वपि घटपटादिवत् घटपटादिष्विव तेषु उदासीनतया अहन्ताशून्यतया तिष्ठेत् ॥३८३॥
वाचं नियच्छात्मनि (श्लो. ३७०) इत्यत्रोक्तं ‘तञ्चापि पूर्णात्मनि’ इति स्फुटं प्रतिपादयति विशुद्धमिति −
विशुद्धमन्तःकरणं स्वरूपे
निवेश्य साक्षिण्यवबोधमात्रे ।
शनैश्शनैर्निश्चलतामुपानयन्
पूर्णत्वमेवानुविलोकयेत्ततः ॥३८४॥
विशुद्धं तमोरजोहीनम् अन्तःकरणम् अवबोधमात्रे अनुपहिते साक्षिणि स्वरूपे साक्षित्वोपलक्षिते निवेश्य संस्थाप्य शनैश्शनैः निश्चलतामुपानयन् तत्रैव स्थितौ यत्नं कुर्वन् ततः पूर्णत्वमेवानुविलोकयेत् । दर्पणापनये प्रतिबिम्बं मुखमिव सर्वासु वृत्तिषु निरुद्धासु चिदाभासोऽपि बिम्बभूतं ब्रह्मैव भवतीति भावः ॥३८४॥
एवमखण्डाकारवृत्त्या भञ्जिते सत्यज्ञानावरणे तत्कृतविक्षेपाः दूरनिरस्ता एव भवन्ति इति भावेनाह स्वाज्ञानकॢप्तैरिति −
देहेन्द्रियप्राणमनोऽहमादिभिः
स्वाज्ञानकॢप्तैरखिलैरुपाधिभिः ।
विमुक्तमात्मानमखण्डरूपं
पूर्णं महाकाशमिवावलोकयेत् ॥३८५॥
स्पष्टमन्यत् ॥३८५॥
तत्र चतुर्थपदार्थमुपपादयन् दार्ष्टान्तिकमुपपादयति घटेति −
घटकलशकुसूलसूचिमुख्यै-
र्गगनमुपाधिशतैर्विमुक्तमेकम् ।
भवति न विविधं तथैव शुद्धं
परमहमादिविमुक्तमेकमेव ॥३८६॥
कुसूलः यत्र धान्यराशिः सम्भ्रियते स महापरिमाणः, सूचिः अत्यल्पच्छिद्रा, अल्पैः महद्भिश्च घटकलशकुसूलसूचिमुख्यैः मुख्यपदेन पाशकूपादिपरिग्रहः उपाधिशतैः सूच्याकाशः पाशाकाशः इत्यादि भिन्नभिन्नव्यवहारप्रयोजकैः परस्सहस्रोपाधिभिः विमुक्तं गगनम् एकं भवति महाकाश इति व्यवह्रियते न वस्तुतः विविधम् अनेकप्रकारं भवति । तथैव शुद्धं परं ब्रह्म अहमादिविमुक्तम् एकमेव ॥३८६॥
दार्ष्टान्तिके मृषात्वाच्चोपाधीनां सुलभमेकत्वज्ञानमित्याह ब्रह्मेति −
ब्रह्माद्याः स्तम्बपर्यन्ताः मृषामात्रा उपाधयः ।
ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥३८७॥
ब्रह्मा समष्टिलिङ्गशरीराभिमानी चतुर्दशभुवनाधिपतिः स आद्यः येषामुपाधीनां ते ब्रह्माद्याः, स्तम्बः अणुतमो जन्तुः सः पर्यन्तः अवधिः येषां ते स्तम्बपर्यन्ताः उपाधयः भेदकदेहाः मृषामात्राः सर्वाधिष्ठाने ब्रह्मणि कल्पिताः न वस्तुभूताः बाधयोग्याः इत्यर्थः । ततः विमृश्यमाने तेषामप्रतीयमानत्वात् एकात्मना कल्पार्णववत्स्थितं पूर्णं त्रिविधपरिच्छेदशून्यं स्वमात्मानं स्वमुख्यस्वरूपं ब्रह्म पश्येत् साक्षात्कुर्यात् ॥३८७॥
सोपपत्तिकं ब्रह्मव्यतिरेकेण भेदकत्वेनाभिमतं किमपि नास्तीत्याह यत्रेति −
यत्र भ्रान्त्या कल्पितं यद्विवेके
तत्तन्मात्रं नैव तस्माद्विभिन्नम् ।
भ्रान्तेर्नाशे भ्रान्तिदृष्टाहितत्त्वं
रज्जुस्तस्माद्विश्वमात्मस्वरूपम् ॥३८८॥
यत्राधिष्ठाने भ्रान्त्या यत्कल्पितम् आरोपितं तत् तन्मात्रम् अधिष्ठानमात्रं भवति विवेके । विचारं कृत्वा जातेन नायं सर्प इत्यादिनिषेधेन भ्रान्तेः अयं सर्प इत्याकारिकायाः नाशे सति भ्रान्त्या दृष्टं यदहितत्त्वं सर्पस्वरूपं रज्जुरेव तद्वत् । ‘अथात आदेशो नेति नेति’(बृ.उ. २.३.६) इत्यादि वाक्यैः जनितनिषेधज्ञानेन विश्वं सर्वं जगत् अधिष्ठानभूतात्मस्वरूपं पश्चान्नैव प्रतीयते रज्जुसर्पवदिति भावः ॥३८८॥
स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः ।
स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ॥३८९॥
‘तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे, अहं मनुरभवं सूर्यश्च’(बृ.उ. १.४.१०) इत्यादिश्रुतेः, ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’(तै.उ. २.८) इति च, एकमेव चैतन्यम् उपाधिभेदात् ब्रह्मा विष्णुः शिव इन्द्रः इत्येवं व्यवह्रियते । एकैव रज्जुः सर्पः दण्डः जलधारा भूतलच्छिद्रम् इति यथा कल्पयते तथा इदं सर्वं विश्वं स्वयं ब्रह्मैव स्वस्मादन्यन्न किञ्चन सामान्ये विशेषाणां कल्पितत्वात् स्वयमहं पश्यामि स्वयं त्वं पश्य स्वयं सोऽद्राक्षीत् इत्यादि व्यवहारेष्वपि अहन्त्व-त्वन्त्व-तत्तादीनां व्यावर्तमानत्वेऽपि स्वयन्त्वस्य सर्वत्रानुवर्तमानत्वेन स्वयम्पदार्थे आत्मनि सर्वे विशेषाः कल्पिताः तदतिरेकेण न सन्तीति भावः ॥३८९॥
‘ब्रह्मैवेदममृतं पुरस्ताद्ब्रह्म पश्चात् ब्रह्म दक्षिणतश्चोत्तरेण’(मु.उ २.२.१२) , ‘अहमेवाधस्तात् आत्मैवाधस्तात्’(छा.उ. ७.२५.१) इत्यादि मुण्डकछान्दोग्यादि श्रुत्यर्थं ध्यानदार्ढ्याय वृत्त्याखण्ड्याय च उपदिशति अन्तरिति −
अन्तः स्वयं चापि बहिःस्वयं च
स्वयं पुरस्तात् स्वयमेव पश्चात् ।
स्वयं ह्यवाच्यां स्वयमप्युदीच्यां
तथोपरिष्टात् स्वयमप्यधस्तात् ॥३९०॥
तरङ्गफेनभ्रमबुद्बुदादि
सर्वं स्वरूपेण जलं यथा तथा ।
चिदेव देहाद्यहमन्तमेतत्
सर्वं चिदेवैकरसं विशुद्धम् ॥३९१॥
भ्रमः आवर्तः, तरङ्गफेनभ्रमबुद्बुदादि सर्वं स्वरूपेण यथा जलमेव नातिरिक्तिमस्ति तथा देहादि अहमन्तम् अहङ्कारान्तम् एतत् सर्वं विशुद्धम् एकरसं चिदेव । यस्य स्फुरणं विना यन्न स्फुरति न तत्ततोऽतिरिच्यते यथा रज्जुसर्पादि । ‘तमेव भान्तमनुभातिसर्वं तस्य भासा सर्वमिदं विभाति’(क.उ. ५.१५) इति श्रुतेः आत्मभानव्यतिरेकेण भानाभावात् सर्वमात्मैव ॥३९१॥
सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः
सतोऽन्यन्नास्त्येव प्रकृतिपरसीम्नि स्थितवतः ।
पृथक्किं मृत्स्नायाः कलशघटकुम्भाद्यवगतं
वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया ॥३९२॥
सन् घटः सन् पटः सत्कुड्यम् इत्यादिवाचा सामानाधिकरण्यवत्या, भिन्नप्रवृत्तिनिमित्तकयोः शब्दयोः एकस्मिन्नर्थे वृत्तित्वं पदनिष्ठं सामानाधिकरण्यम् ।
एकत्र वृत्तिरर्थे शब्दानां भिन्नवृत्तिहेतूनाम् । सामानाधिकरण्यं भवतीत्येवं वदन्ति लाक्षणिकाः॥ (श्लो. ३०)
इति स्वात्मनिरूपणोक्तेः । मनसा च तादृशवाग्जन्यप्रत्ययेन च इदं सर्वं जगत् सदेवेत्यवगतं वाङ्मनसयोरिति निमित्तसप्तमी वाङ्मनसाभ्यामित्यर्थः । यद्वा वाक् ‘ऐतदात्म्यमिदं सर्वम् , वाचारम्भणं विकारो नामधेयं’(छा.उ. ६.८.७) इत्यादि श्रुतिः, मनः प्रपञ्चप्रविलापनमार्गेण −
जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि । परिशिष्टमात्मतत्वं पश्यन्नास्ते मुनिश्शान्तः ॥ (आ.वि.वि. २.११)
इति रीत्या अधिष्ठानमात्रविषयिणी अखण्डाकारवृत्तिः, तयोः वाङ्मनसयोः तस्यां वाचि तस्यां वृत्तौ च ब्रह्मव्यतिरेकेण जगन्नैवावगम्यत इति यश्चोरः स स्थाणुरितिवत् इदं सर्वं जगत् सदेव सद्व्यतिरेकेण नास्ति यश्चोरत्वेन ज्ञातः स स्थाणुः इति चोरत्वे बाधिते तयोः पदयोः सामानाधिकरण्यम् एवं ‘ब्रह्मैवेदं विश्वम्’(मु.उ २.१२) ‘ऐतदात्म्यमिदं सर्वम्’(छा.उ. ८.७) इत्यादिश्रुतिषु सर्वत्वं बाधित्वा यत्सर्वत्वेन ज्ञातं तद्ब्रह्मैवेति बोध्यते । इदमुपपादितमधस्तात् । वाङ्मनसयोरित्युक्तमर्थं विशदयति सत इति । प्रकृतिपरसीम्नि प्रकृतीनाम् उपादानानां परा या सीमा उपादानत्वविश्रान्तिभूमिः सर्वोपादानं ब्रह्मेत्यर्थः । तत्र स्थितवतः, यद्वा प्रकृतेः मूलप्रकृतेः मायायाः परा या सीमा तस्या अपि कल्पनाधिष्ठानं निर्गुणं ब्रह्म तत्र स्थितवतः सतोऽन्यन्नास्त्येव ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुतेः । एतेन सर्वेषां बाध उपादानेन अज्ञानेन सह नाशः उक्तो भवति । तमंशं दृष्टान्तेनाह, पृथगिति घटकलशकुम्भादि पूर्वं पृथक्त्वेनावगतं विचार्यमाणे मृत्स्नायाः मृदः पृथक्किम् ? वाचारम्भणश्रुतेः । अयमंशः विस्तरेण मृत्कार्यभूतोऽपि (श्लो. २३०) इत्यादिना स्वयमाचार्यैः उपपादितः । मायामदिरया भ्रान्तः, त्वम् एषः अविवेकी अहमिति एकमपि वस्तु पृथग्वदति । मायैव मदिरा विपरीतग्राहकत्वात् ॥३९२॥
अतः भ्रान्तिनाशार्थम् अद्वैतवस्तु चिन्तनीयमित्याह श्रुत्यवष्टम्भेन क्रियासमभिहारेणेति −
क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः ।
ब्रवीति द्वैतराहित्यं मिथ्याध्यासनिवृत्तये ॥३९३॥
‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) इति श्रुतिः क्रियासमभिहारेण पौनःपुन्येन द्वैतराहित्यं द्वयोर्भावः द्विता सैव द्वैतं तस्य भेदस्य राहित्यम् अभावं ब्रवीति । किमर्थमिति चेत् मिथ्याध्यासनिवृत्तये मिथ्याभूतः यः अध्यासः भेदभ्रमः तन्निवृत्तये । यद्वा अध्यासशब्देन प्रपञ्चरूपार्थाध्यासः ग्राह्यः तस्य निवृत्तये तस्य अधिष्ठानावशेषत्वलक्षणनाशाय बाधायेति यावत् ‘अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः’ इत्यभियुक्तोक्तेः रज्जुसर्पादौ दृष्टत्वाच्च । यदि विश्वं सत्यं स्यात् कथं दर्शनश्रवणविज्ञानादिविषयो न स्यात् । अतः ब्रह्मणि वर्तमानस्य पुरुषस्य विश्वभानाभावात् मिथ्येति भावः ॥३९३॥
ब्रह्मस्वरूपं सम्यक् चित्ते आरोहयति ध्यातुम् आकाशेति −
आकाशवन्निर्मलनिर्विकल्प-
निस्सीमनिस्स्पन्दननिर्विकारम् ।
अन्तर्बहिश्शून्यमनन्यदद्वयं
स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥३९४॥
अन्तर्बहिश्शून्यमित्यन्तम् आकाशब्रह्मणोः साधर्म्यम् , अनन्यम् अद्वयमिति ब्रह्मविशेषणम् , आकाशवत् निर्मलं न ह्याकाशं धूल्यादिभिः धूसरितं भवति तथा ब्रह्मापि अज्ञानाद्यस्पृष्टं वस्तुतः निर्विकल्पम् एकरूपम् इत्यर्थः । निस्सीमम् अनवधि, निस्स्पन्दनं निष्क्रियं, निर्विकारम् उत्पत्तिनाशवृद्धिह्रासादिशून्यम् , अन्तर्बहिश्शून्यं परिच्छिन्नस्य हि अन्तर्बहिरिति, पूर्णत्वात् अन्तर्बहिश्शून्यं स्वगतभेदरहितम् , अनन्यत् प्रत्यगभिन्नं न अन्यत् अनन्यत् , अद्वयं न विद्यते द्वयं यस्य अद्वितीयम् इत्यर्थः । विजातीयशून्यं, स्वयं स्वतस्सिद्धं परं ब्रह्म तस्मिन् बुद्धे किम् अस्ति बोध्यम् । एकस्मिन् विदिते सर्वं विदितं भवति इति सर्वात्मके परमात्मनि विदिते न किमपि बोद्धव्यमवशिष्यत इति भावः । यद्वा अनन्यत् सर्वात्मकम् अत एवाद्वयं स्वव्यतिरिक्तद्वितीयशून्यं परं बह्मैव स्वयं जीवः आत्मा अतः अन्यत् बोध्यं किमस्तीत्यर्थः । आकाशवदिति श्रोतृबुद्ध्यारोहाय दृष्टान्तः इषुरिव सविता धावतीतिवत् । नहि ब्रह्मणः सदृशं वस्तु विद्यते ‘न तत्सम’(श्वे.उ. ६.८) इति श्रुतेः । आकाशस्य ‘प्रतिज्ञाऽहानिरव्यतिरेकाच्छब्देभ्यः’(ब्र.सू. २.३.६) इत्युत्पत्तिसाधनात् । लोके तदुत्पत्त्यादेः अदृष्टत्वात् तद्वन्निर्विकारं ब्रह्मेति ‘आकाशवत्सर्वगतश्च नित्यः’(छा.उ. ३.१४.३, गौड.३.३) इत्यादिवद्वक्तुं शक्यत्वात् ॥३९४॥
वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवस्स्वयं
ब्रह्मैतज्जगदापराणु सकलं ब्रह्माद्वितीयं श्रुतेः ।
ब्रह्मैवाहमिति प्रबुद्धमतयः सन्त्यक्तबाह्याः स्फुटं
ब्रह्मीभूय वसन्ति सन्ततचिदानन्दात्मनैव ध्रुवम् ॥३९५॥
अत्र ब्रह्मैकत्वविषये बहुधा अनेकप्रकारैः वक्तव्यं किमु विद्यते, सम्यग्बुद्ध्यारोहाय बहुभिः दृष्टान्तैः सर्ववेदान्ततात्पर्यविषयार्थः प्रतिपादितः तं सङ्ग्रहेण कथयति । विस्तरसङ्ग्रहाभ्याम् उक्तोऽर्थः सम्यग्ज्ञातुं शक्यत इति वदन्ति खलु −
श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ॥
इति । ब्रह्मैव जीवस्स्वयं जीवत्वमेवौपाधिकं ब्रह्मत्वं तु ‘जीव इति ज्ञातस्य वास्तविकं स्वरूपं’ रज्जुरिव सर्पस्य । अतः जीवस्स्वयं ब्रह्मैव न व्यतिरिक्तः । आपराणु परमाणुपर्यन्तं सकलमेतत् जगत् वियदादि ब्रह्मैव तज्जत्वात् तल्लत्वात् तदनत्वात् च ‘सर्वं खल्विदं ब्रह्म, तज्जलानिति शान्त उपासीत’(छा.उ. ३.१४.१) इति श्रुतेः तज्जलानमिति भवितव्ये अवयवलोपश्छान्दसः परमे व्योमन् इत्यादिवत् । अनादि अज्ञानादिकमपि तत्राधिष्ठाने कल्पितमिति न ततोऽतिरिच्यते अतः ब्रह्म अद्वितीयं स्वव्यतिरिक्तवस्तुशून्यं ‘तत्त्वमसि’(छा.उ. ६.१६.१३) , ‘अयमात्मा ब्रह्म’(मां.उ. २) ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) ‘आत्मैवेदं सर्वं’(छा.उ. ७.२५.२) ‘ब्रह्मैवेदं सर्वम्’(नृ.उ. ७.३) ‘एकमेवाद्वितीयम्’(छा.उ. ६.२.९) इत्यादिश्रुतेः । ब्रह्मैवाहमिति प्रबुद्धमतयः प्रबुद्धा श्रुत्याचार्योपदेशेन ज्ञातज्ञेया मतिः बुद्धिः येषां ते प्रबुद्धमतयः स्फुटं वासनया सह सन्त्यक्तबाह्याः स्वरूपतस्त्यक्ताहमादयः, ब्रह्मीभूय पूर्वमज्ञानात् अब्रह्मत्वं स्वस्य कल्पितं तदभिप्रायेण च्विप्रत्ययः, साक्षात्कृतब्रह्मभावाः सन्ततचिदानन्दात्मनैव वसन्तीति विद्वदनुभवः उक्तः । एतत् ध्रुवं निश्चयः । यद्वा ध्रुवं निश्चलतया वसन्तीति योजना ॥३९५॥
स्फुटं सन्त्यक्तबाह्यत्वात् −
जहि मलमयकोशेऽहन्धियोत्थापिताशां
प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् ।
निगमगदितकीर्तिं नित्यमानन्दमूर्तिं
स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥३९६॥
मलमयकोशे प्राचुर्यार्थे मयट्, स्थूलदेहे अहन्धिया उत्थापिता जनिता या आशा तस्मिन् पोषणार्थेषु च, तां प्रसभं बलात्कारेण जहि नाशय । मलमयेति हेतुगर्भविशेषणम् अहन्धियः हानार्थम् । उक्तं हि ‘पिण्डाण्डं त्यज्यतां मलभाण्डवदिति ।’(श्लो. २९०) पश्चात् स्थूलदेहसम्बन्ध्याशानाशानन्तरम् अनिलकल्पे वायुवददृश्ये लिङ्गदेहेऽपि सप्तदशावयवोपेते सूक्ष्मशरीरे अपि अहन्धिया उत्थापिता या आशा मनोनुकूलविषयेषु, तां जहि प्रथमत एव सूक्ष्मत्यागस्य दुष्करत्वात् दूरदूरस्थूलपदार्थत्यागेन सन्निहितसूक्ष्मत्यागः सुकरः इति स्थूलपदार्थविषयाशाः जहीत्यादावुक्तम् । तत्र हेतुः अहन्धीरिति कथनेन दृष्टबीभत्से अहन्धियोऽभावे आशा नैव जायते निमित्तापायात् इति सूचितम् । श्रुतिश्च अस्माल्लोकात्प्रेत्य, ‘एतमन्नमयमात्मानमुपसङ्क्रामति’(तै.उ. २.१०) इत्यादिना पुत्रमित्रादिषु बाह्येषु अहन्तां त्यक्त्वा देहमात्रमात्मत्वेन मन्वीत, ततः ततोऽन्तरं प्राणमेव इति प्रतिपत्तॄणां सौकर्याय उपदिदेश । तेनैव क्रमेण प्रथमं देहार्थपुत्रादिविषयेषु आशापरित्यागः आशैव त्यक्तव्या इति यदा तदा किं वक्तव्यम् अहन्ताया विषये । ततः स्थूलशरीरे अहन्तायाः आशायाश्च त्यागः, ततः प्राणमयमनोमयविज्ञानमयघटिते सूक्ष्मशरीरे पञ्चकोशविवेकप्रकरणोक्तयुक्तिभिः अहन्धियं तत्प्रयोज्याशां च जहि नाशय, ‘मानभूवं हि भूयासम्’ इति परप्रेम आत्मनि सर्वस्यास्ति । स्थूलादावहन्धियि अयं प्रेमा तत्रैव भवतीति आशा दुर्निरसा । अतः क्रमेण विचारेण जनितदृढविवेकज्ञानेन स्थूलसूक्ष्मशरीरयोः अहन्तायां त्यक्तायां प्रियमोदाद्यवयवोपेतानन्दमयकोशे सावयवत्वाद् औपाधिकत्वाच्च अनित्यत्वनिश्चयेन अहन्ता नैव सम्भवति । एवं पञ्चकोशान् अनात्मत्वेन निश्चित्य, निगमगदितकीर्तिं निगमैः वेदैः गदिता किर्तिः सर्वज्ञत्वसर्वशक्तत्वसर्वप्राणिप्राणयितृत्वसर्वप्रशास्तृत्व − विशिष्टसगुणाधिष्ठानत्वसच्चिदनन्दघनत्ववाङ्मनसागोचरत्व − निराधारत्वनिर्गुणत्वनिष्कलत्वनिर्विकल्पत्वनिरञ्जनत्व − सूक्ष्मतमत्वनित्यशुद्धमुक्तबुद्धसत्यानन्दस्वभावत्वादिरूपा यस्य तम् , नित्यमानन्दमूर्तिम् , एतेन आनन्दमयकोशनिरासः तस्य नित्यत्वाभावात् परमात्मानं स्वयमिति स्वस्वरूपमिति, परिचीय निश्चित्य अनुभूय ब्रह्मरूपेण तिष्ठ कोशानां पञ्चानाम् अनात्मत्वेन निषिद्धत्वात् ब्रह्मैवात्मेत्यनङ्गीकारे नैरात्म्यवादप्रसङ्गात् अत एव श्रुतिः ‘असन्नेव स भवति’(तै.उ. २.६) इत्यादिः ॥३९६॥
शवाकारं यावद्भजति मनुजस्तावदशुचिः
परेभ्यस्स्यात्क्लेशो जननमरणव्याधिनिरयाः ।
यदात्मानं शुद्धं कलयति शिवाकारमचलं
तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥३९७॥
मनुजः यावत्कालं, स्थूलदेहतादात्म्येन चैतन्यहीनतया तस्य शवत्वं, पादाङ्गुष्ठप्रभृतिशिरःपर्यन्तं यच्छशरीरं तदेवाहमिति शवाकारं भजति तावत्कालं तस्य मलमयतया अशुचित्वात् अयमपि स्वतः शुचिरपि अशुचिः । तथा परेभ्यः शत्रुव्याघ्रादिभ्यः क्लेशः स्यात् । जननमरणव्याधिनिरयाः अस्मिन्लोके जननमरणव्याधयः, देहमात्मत्वेन मत्वा स्थितस्य पापवत्त्वात् ‘योऽन्यथा सन्तमात्मानम्’(म.स्मृ. ४.२५५) इति स्मृतेः देहपाते निरयः । एवं सदा दुःखवत्त्वमेव ‘न ह वै सशरीरस्य सतः प्रियाप्रिययोरपहतिरस्ति’(छा.उ. ८.१२.१) इति श्रुतेः −
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । * 0.6cm अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ (क.उ. २.६)
इति यमवचनरूपश्रुतेश्च । यदा आत्मानं साधनचतुष्टयसम्पन्नः विधिवद् गुरुमुपसद्य तन्मुखारविन्दगलितश्रुत्यन्तवाक्यैः तदनुसारियुक्तिभिश्च शुद्धं देहत्रयातीतं शिवाकारम् आनन्दस्वरूपम् अचलम् अप्रमादं यथा तथा कलयति जानाति तदा तेभ्यः परकृतक्लेशेभ्यः जननमरणव्याधिनिरयेभ्यश्च मुक्तो भवति । हि निश्चयः । तत् श्रुतिरप्याह, तदपि श्रुतिराह इति अपि शब्दः भिन्नक्रमो वा । पूर्वार्धं समुच्चिनोति । यथाश्रुते अपिना अनुभवः समुच्चीयते गुरवश्च । आहापीति वा अन्वयः, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा.उ. ८.१२.१) , ‘आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’(तै.उ. २.४) , ‘तरति शोकमात्मवित्’(छा.उ. ७.१.३) , ‘ज्ञात्वा देवं मुच्यते सर्वपाशैः’(श्वे.उ. १.८) , ‘तमेवं विद्वानमृत इह भवति’(तै.आ. ३.१.३) , ‘क्षीणैः क्लेशैः जन्ममृत्यु प्रहाणिः’(श्वे.उ. १.११) , ‘ज्ञात्वा शिवं शान्तिमत्यन्तमेति’(श्वे.उ. ४.१४) इत्यादिः ।
समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्यत्यन्यमीशमस्य महिमानमिति वीतशोकः ॥ (मु.उ ३.१.२)
इति च । अनेन श्लोकेन पूर्वश्लोकोपदिष्टार्थः फलकथनेन उपपादितः अनात्मज्ञाने दुष्फलम् आत्मयाथात्म्यज्ञाने आत्यन्तिकी दुःखनिवृत्तिरिति ॥३९७॥
शुद्धशिवाकारत्वं कथमात्मन इति चेदाह स्वात्मनीति −
स्वात्मन्यारोपिताशेषाभासवस्तुनिरासतः ।
स्वयमेवं परं ब्रह्म पूर्णमद्वयमक्रियम् ॥३९८॥
स्वात्मनि आरोपितानि केवलाज्ञानेन कल्पितानि यानि अशेषाभासवस्तूनि अनात्मतद्धर्मरूपाणि तेषां निरासतः श्रुतियुक्तिभिः निदिध्यासनेन च विनाशनतः स्वयमेव परं ब्रह्म पूर्णमद्वयमक्रियम् ।
अन्वेष्टव्यात्मविज्ञानात् प्राक्प्रमातृत्वमात्मनः । अन्विष्टस्स्यात् प्रमातैव पाप्मदोषादिवर्जितः ॥ गौणमिथ्यात्मनोऽसत्त्वे पुत्रदेहादिबाधनात् । सद्ब्रह्मात्माहमित्येवं बोधे कार्यं कथं भवेत् ॥ (ब्र.सू.भा. १.१.४)
इत्यभियुक्तोक्तेः, ‘अथायमशरीरोऽमृतः प्राणो ब्रह्मैव तेज एव’(बृ.उ. ४.४.७) इति श्रुतेश्च ॥३९८॥
आदौ प्रयत्नेन दृश्यं निरुध्य समाधौ क्रियमाणे तत्र निष्ठस्य पूर्वं प्रतीतमपि दृश्यं शशविषाणवद् भवतीत्याह समाहितायामिति −
समाहितायां सति चित्तवृत्तौ
परात्मनि ब्रह्मणि निर्विकल्पे ।
न दृश्यते कश्चिदयं विकल्पः
प्रजल्पमात्रः परिशिष्यते ततः ॥३९९॥
सति अबाध्ये परात्मनि निर्विकल्पे ब्रह्मणि चित्तवृत्तौ समाहितायां निश्चलतया स्थापितायां सत्याम् अयं विकल्पः कश्चिदपि न दृश्यते । ततः प्रजल्पनमात्रः परिशिष्यते ‘शब्दज्ञानानुपाती वस्तुशून्यो विकल्पः’(यो.सू. १.९) इति तल्लक्षणात् । अज्ञानस्य समूलकाषं कषितत्वेन कल्पित तादात्म्यमपि नास्तीति केवलमखण्डं सच्चिदानन्दमात्रमस्तीति भावः । यथा असतः अर्थक्रियाकारित्वं नास्ति गगनकुसुमादेः एवं यत्पूर्वं सुखदुःखरागभयक्रोधादिकमुत्पादयामास तदपि प्रतीतमपि ब्रह्मनिष्ठं प्रति उत्खातदंष्ट्रोरगवत् न स्वकार्यमाधत्त इति भावः ॥३९९॥
अनात्मवासनानां प्रक्षीणत्वात् एवमुपदेशधारया वासिताद्वैतान्तःकरणं शिष्यं प्रति द्वैतस्य अत्यन्तमसत्त्वं सकलवेदान्ततात्पर्यविषयम् अनुभवयुक्तिदृष्टान्तश्रुतिभिःउपदिशति असत्कल्प इत्यादिना −
असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४००॥
विश्वमिति यत् अयं विधेयप्राधान्यात्पुल्लिङ्गम् । विकल्पः विविधं कल्प्यत इति विकल्पः अज्ञानेन कल्पित एव न वस्तुभूत इत्यर्थः । असत्कल्पः ईषदसमाप्तौ कल्पप्प्रत्ययः । निरन्तरं ब्रह्मसमाहितमनसां सप्तमीं भूमिकां गतानां सर्वथा भानाभा\-वात् शशविषाणवदेव । तदितरेषां तु दृष्टनष्टस्वरूपत्वात् शुक्तिरजतादिवत् प्रातिभासिकः इति असन्नेवेत्यनुक्त्वा असत्कल्प इत्युक्तम् । तथा च मिथ्यात्वेन तेन वस्तुनः ब्रह्मणः सद्वितीयत्वाभावेन एकवस्तुनि विकाराकारविशेषशून्ये गुणगुणिभावावयवावयविभावजातिव्यक्तिभावादिशून्ये तादात्म्यस्याप्यभावेन भिदा कुतः ॥४००॥
द्रष्टृदर्शनदृश्यादिभावशून्यैकवस्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०१॥
द्रष्टा प्रमाता, दर्शनं प्रमितिः, दृश्यं प्रमेयम् , आदिपदेन प्रमाणपरिग्रहः । कर्तृकरणकार्याणि वा । एतत्सर्वम् अविद्यावस्थायाम् । वस्तुतः निर्विकल्पे केवलाखण्डचिन्मात्रे ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इत्यादिश्रुत्या ज्ञानावस्थायाम् अज्ञाननाशात् तन्मूलकानां द्रष्टृदर्शनदृश्यादिभावानामभावात् द्रष्टृदर्शनदृश्यादिरूपा ये भावाः तैः शून्यं यदेकं वस्तु तस्मिन् निर्विकारे विकारशून्ये निराकारे अवयवसंस्थानशून्ये भिदा भेदः कुतः नैवास्तीत्यर्थः । प्रकृतिविकारभावाद्यभावात् न भेदप्रसक्तिरपीति भावः ॥४०१॥
कल्पार्णव इवात्यन्तपरिपूर्णैकवस्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०२॥
प्रलयकाले चत्वारोऽपि समुद्राः मिलिताः द्वीपादिशून्यतया केवलं जलमयं जगत् कुर्वन्तीति पुराणेष्ववगम्यते । तदा सर्वत्र जलमेव न भूभागः कश्चित् विभाजकाभावात् । चतुर्णामपि समुद्राणां भूभागावस्थायां विभक्तानाम् एकीभूतत्वात् कल्पार्णव इत्येकवचनम् । तदापि आकाशादिकमस्त्येव तथापि सर्वत्र जलं पूर्णं श्रोतृबुद्ध्यारोहाय, इषुरिव सविता धावतीतिवद्दृष्टान्तः । अत एव अत्यन्तपूर्णेत्युक्तम् । ‘ज्यायानाकाशाद्’(छा.उ. ३.१४.३) इत्यादिश्रुत्या ‘पादोऽस्य सर्वा भूतानि, त्रिपादस्यामृतं दिवि’(छा.उ. ३.१२.६) इति श्रुत्या च निरुपमभूमनि परमात्मन्येकवस्तुनि निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०२॥
पूर्वमपि भेदाभावेऽपि भेदभ्रान्तिकारणमज्ञानम् अवर्तिष्ट । तस्य समूलघातं हतत्वात् इदानीं भेदभ्रान्तिरपि नेत्याह तेजसीति −
तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् ।
अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥४०३॥
तमः अज्ञानम् अन्धकारश्च । यत्र परमात्मनि भ्रान्तिकारणं तमः अज्ञानं तेजसि सूर्यादिप्रकाशे तम इव अन्धकार इव विलीनं नष्टं तस्मिन् अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ।
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदम् असन्तं कः करिष्यति ॥ (वि.पु. ६.७.९४)
इति प्रमाणात् ॥४०३॥
एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् ।
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥४०४॥
‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न तु तद्द्वितीयमस्ति ततोन्यद्विभक्तं यत्पश्येत्’(बृ.उ. ४.३.२३) इति श्रुतेः । सुषुप्तौ प्रपञ्चं न पश्यतीति यत् तत् तार्किकमत इव जडत्वान्न पश्यतीति मा वेदीः यतः सुषुप्तावपि नित्यज्ञानस्वरूपस्य आत्मनः स्वयम्प्रकाशस्य सत्त्वात् । अतः यदि द्वितीयं स्यात् पश्येदेव न तु तद्द्वितीयमस्ति । अज्ञानसत्वेऽपि शक्तिशक्तिमतोरैक्यात् विभक्तत्वाभावात् । अत एव ततोऽन्यद्विभक्तमिति पदद्वयम् । अज्ञानोपहितचैतन्यस्यैव सुषुप्तिसाक्षित्वात् । तस्याज्ञानस्य अधिष्ठाने तत्रैव कल्पितत्वात् कल्पिते अधिष्ठानभेदाभावात् । यद्यपीदं सर्वदा समानं तथापि कार्योपाधीनां लीनत्वात् सुषुप्तौ सुगममिति सुषुप्त्यवस्थामाश्रित्य श्रोतृबुद्ध्यारोहाय निष्प्रपञ्चत्वमात्मनः प्रतिपाद्यते । यदि कश्चित् जाग्रत्पुरुषः सुषुप्तिस्थितं चिन्तयन् मनसा अज्ञानं विविच्यात् तदा अन्तःकरणवृत्तेरेव अज्ञानभञ्जकत्वात् तदीयं मनः निष्प्रपञ्चब्रह्माकारं जातमेवेति तस्या एवावस्थायाः ज्ञानावस्थात्वात् तदा केवलम् अखण्डब्रह्मैव मनसावाप्तमिति सिद्धं समीहितमिति श्रुतेरभिप्रायः । विक्षेपाभावस्य उभयत्र समत्वात् आवरणसत्त्वासत्त्वाभ्यामेव सुषुप्तिसमाध्योर्भेदात् । अत एव ह्युक्तं ‘निद्रा समाधिस्थितिः’(शि.मा.पू.श्लो. ४) इति । इदं वचनं जाग्रता पुरुषेण सुखमयी सुषुप्तिः चिरं चिन्त्यते चेत् तस्य समाधिः भवतीत्यभिप्रायेणैव । तथाच एकात्मके परे तत्त्वे भेदवार्ता इत्यनेन भेदो नैवास्ति तद्वार्तापि कथं भवेत् विकाराकारविशेषाभावात् ‘यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयनेऽभयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति ।’(तै.उ. २.७) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) इति श्रुतेः । यदि भेदः सत्यः स्यात् सुषुप्ताववलोक्येत । यद्यज्ञानं न किञ्चिदवेदिषम् इति सुषुप्तौ भिन्नमित्युच्येत तस्यापि ज्ञानमात्रायां समाध्यवस्थायां दग्धत्वात् न सत्यत्वमिति अज्ञानस्य तत्कार्याणां च अत्यन्तं नष्टत्वात् ‘आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा’(मां.मा.अ.शां. ३१) इत्युक्त्या नास्ति नासीत् न भविष्यतीति त्रैकालिकनिषेधप्रतियोगित्वरूपमिथ्यात्वं सिद्धमिति भावः ॥४०४॥
तदुपपादयति न ह्यस्तीति −
नह्यस्ति विश्वं परतत्त्वबोधात्
सदात्मनि ब्रह्मणि निर्विकल्पे ।
कालत्रये नाप्यहिरीक्षिते गुणे
नह्यम्बुबिन्दुर्मृगतृष्णिकायाम् ॥४०५॥
सम्यग्ज्ञानं हि वस्तुसिद्धिहेतुः । पूर्वं तु अज्ञानात् भ्रान्तिरास मनसः । विचार्यमाणे दीपकलिकायमाने तम इव अज्ञानं नष्टमिति सदात्मनि निर्विकल्पे ब्रह्मणि विश्वं नह्यस्ति नैवास्तीत्यर्थः । तत्र मानं परतत्त्वबोधादिति । परस्य ब्रह्मणः यत्तत्त्वं निष्प्रपञ्चत्वरूपयाथात्म्यं श्रुतिबोधितं तस्य बोधात् अनुभवादित्यर्थः । न हि यथाप्रमाणम् अनुभवानन्तरं संशयविपर्ययादिकम् । अतः विश्वं नैवास्ति । तत्र दृष्टान्तः, हि यतः, कालत्रयेऽपि गुणे रज्ज्वाम् अहिः सर्पः नेक्षितः, मृगतृष्णिकायां मरुमरीचिकासु अम्बुबिन्दुरपि न । तद्वत् पूर्वमज्ञानात् भ्रान्त्या प्रतिपन्नमपि वस्तु न सदिति भावः । ‘नाभावो विद्यते सतः’(भ.गी. २.१६) इति गीतोक्तेः विद्वदनुभवाच्च । शुक्तिका हि रजतवदाभासते एकश्चन्द्रः सद्वितीयवत् इत्यादिलौकिकानुभवात् आरोपितमिथ्यात्वे न विसंवादः । अतः श्रुतिरपि ।
यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥ (बृ.उ. २.४.१४)
इति इवकारानुबन्धेन द्वैतस्य मिथ्यात्वं सूचयति ॥४०५॥
तद्विषये स्फुटार्थां श्रुतिमाह मायेति −
मायामात्रमिदं द्वैतम् अद्वैतं परमार्थतः ।
इति ब्रूते श्रुतिस्साक्षात्सुषुप्तावनुभूयते ॥४०६॥
मायया मीयते प्रतीयत इति मायामात्रम् इदं दृश्यं द्वैतं भेद इत्यर्थः । परमार्थतः सत्यभूतम् अद्वैतं निर्भेदं ब्रह्म इत्यर्थः । इति साक्षात् वाच्यवृत्त्या श्रुतिर्ब्रूते । सर्वैरपि साक्षात्सुषुप्तावनुभूयते अतः नात्र विवादावसर इति भावः । अनुभवस्य अपौरुषेयतया निर्दोषश्रुत्यनुसारित्वात् ॥४०६॥
अनन्यत्वमधिष्ठानादारोप्यस्य निरीक्षितम् ।
पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥४०७॥
‘सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति’(कै. १.१३) इति कैवल्योपनिषदि तमोभिभूत इतिशब्देन तमसः स्थितिं ब्रूते श्रुतिरिति चेत् तस्य तत्र कल्पितत्वात् समाधावसत्त्वाच्च अवस्तुत्वमित्याह आरोप्यस्य अधिष्ठानादनन्यत्वं व्यतिरेकेणाभावः रज्जुसर्पादौ पण्डितैः निरीक्षितम् । विकल्पः भेदग्रहस्तु भ्रान्तिजीवनः भ्रान्त्या जीवतीति भ्रान्तिजीवनः भ्रान्तिमूलक इत्यर्थः । भ्रान्त्यभावे भेदः नैव प्रतीयते भेदविषयकसम्यग्ज्ञानाभावात् ॥४०७॥
भ्रान्तिनिरासोपायमाह चित्तेति −
चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।
अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥४०८॥
अयं विकल्पः चित्तं बहिर्मुखं मनः मूलं यस्य सः चित्तमूलः । चित्ताभावे सुषुप्तौ न कश्चन अतः स्वरूपसती अविद्यापि चित्ताभावे न स्वकार्यसमर्था । सा जाग्रत्स्वप्नयोः चित्तात्मना परिणममाना विश्वं जनयति । अतः चित्तं प्रत्यग्रूपे तव स्वरूपभूते परात्मनि समाधेहि संस्थापय, तेन अविद्यया साकं सर्वेषां विकल्पानां बाध एवेति भावः ॥४०८॥
परमात्मनि मनः समाधापयितुं शब्दैर्विध्यति किमपीत्यादिना त्रिभिः श्लोकैः −
किमपि सततबोधं केवलानन्दरूपं
निरुपममतिवेलं नित्यमुक्तं निरीहम् ।
निरवधि गगनाभं निष्कलं निर्विकल्पं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४०९॥
किमपि वागगोचरम् , सततः नित्यश्चासौ बोधश्च तम् अखण्डज्ञानरूपं, केवलानन्दरूपं दुःखासम्भिन्ननिरुपाधिकसुखरूपं, तेन स्वयम्प्रकाशनित्यसुखरूपतया परमपुरुषार्थत्वमुक्तम् । निरुपमं ‘न तस्य प्रतिमाऽस्ति’(श्वे.उ. ४.१९) इति श्रुतेः । वेलामतीत्य वर्तमानम् अतिवेलं विश्वातीतमित्यर्थः । नित्यमुक्तं कदापि बन्धरहितं निरीहं निष्कामं निष्क्रियं वा । निरवधि कालतः देशतः वस्तुतश्च अन्तशून्यम् । गगनाभम् असङ्गं निर्मलम् । निष्कलं निरवयवम् । निर्विकल्पं विविधकल्पनाशून्यम् । पूर्णं ब्रह्म विद्वान् समाधौ हृदि कलयति । त्वमप्येवं कलयेति भावः ॥४०९॥
प्रकृतिविकृतिशून्यं भावनातीतभावं
समरसमसमानं मानसम्बन्धदूरम् ।
निगमवचनसिद्धं नित्यमस्मत्प्रसिद्धं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४१०॥
नित्यत्वान्निरवयवत्वात् च ‘तदेतद् ब्रह्मापूर्वमनपरं’(बृ.उ. २.५.१९) इत्यादिश्रुत्या प्रकृतिविकृतिशून्यं, भावनां कल्पनाम् अतीतः भावः स्वभावः यस्य तत् उपनिषदं विना केवलतर्केण अधिगन्तुमशक्यम् इत्यर्थः । तत् समरसम् एकरूपम् असमानम् असदृशम् । मानसम्बन्धदूरम् अप्रमेयं श्रुत्यापि लक्षणया बोध्यमानत्वात् ।
प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसादात् सिध्यन्ति तत्सिद्धौ किमपेक्षते ॥ (तै.भा.वा.ब्र. ६११)
इति सुरेश्वराचार्यवचनात् , स्वयं सिद्धे प्रत्यग्रूपे तस्मिन् वेद्यवेदितृवेदनादिभेदापनायकश्रुतेरपि ताटस्थ्यात् । यद्वा मानं प्रत्यक्षादिप्रमाणं तत्सम्बन्धदूरं तत्सम्बन्धः मेयत्वं तज्जन्यप्रमाविषयत्वं तद्दूरं तद्रहितमिति यावत् । निगमवचनसिद्धं सदा विद्वदनुभवगोचरम् । हृदीत्यादि पूर्ववत् ॥४१०॥
अजरममरमस्ताभासवस्तुस्वरूपं
स्तिमितसलिलराशिप्रख्यमाख्याविहीनम् ।
शमितगुणविकारं शाश्वतं शान्तमेकं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४११॥
अजरम् अपक्षयशून्यम् अमरं नाशरहितम् अस्ताभासवस्तुस्वरूपम् अस्ताः गताः आभासाः विकल्पाः यस्मिंस्तत् अस्ताभासं तच्च तत् वस्तु च तत्स्वरूपम् । स्तिमितसलिलराशिप्रख्यं निस्तरङ्गजलराशिनिश्चलम् । आख्याविहीनं नामरहितं जात्यादिप्रवृत्तिनिमित्तविरहात् ‘ते यदन्तरा’(छा.उ. ८.१४.१) इति श्रुतेः । शमितगुणविकारं निर्गुणं निर्विकारं शाश्वतम् अनादिसिद्धं शान्तम् अपरिणामि । एकम् अद्वितीयं हृदि कलयति विद्द्वान् समाधौ पूर्णं ब्रह्म ॥४११॥
समाहितान्तःकरणः स्वरूपे
विलोकयात्मानमखण्डवैभवम् ।
विच्छिन्धि बन्धं भवगन्धगन्धिलं
यत्नेन पुंस्त्वं सफलीकुरुष्व ॥४१२॥
स्वरूपे परमात्मनि समाहितान्तःकरणः निश्चलतया स्थापितमनाः सन् अखण्डवैभवम् अखण्डं वैभवं विभुत्वं यस्य तम् आत्मानम् अव्याकृताकाशस्यापि कल्पनाधिष्ठानं विलोकय साक्षात्कुरु । भवगन्धगन्धिलं संसारवासनावासितं बन्धम् अज्ञानं विच्छिन्धि नाशय ‘अविद्यास्तमयो मोक्षस्सा च बन्ध उदाहृतः’(ब्रह्म.सि. २.१०६) इत्युक्तेः । यत्नेन −
यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् । यद् बोधान्नापरो बोधस्तद् ब्रह्मेत्यवधारय ॥ इति (आत्म.बो. ५४)
‘आत्मलाभान्न परं किञ्चिदस्ति’(परशुरामकल्पसूत्रम् १.२८, आप.ध.सू. १.२२.२) ‘आत्मानमन्विच्छ गुहां प्रविष्टम्’(पुत्र.गी. ३८) इत्यादिवचनैः ‘एतद् बुध्वा बुद्धिमान्स्यात् कृतकृत्यश्च भारत’(भ.गी. १५.२०) इति गीतोक्तेः, ‘आत्मा वा अरे द्रष्टव्यः एतावदरे खल्वमृतत्वम्’(बृ.उ. २.४.५) इति श्रुत्या च आत्मसाक्षात्कारस्यैव परमफलत्वात् तदर्थं यत्नेन पुंस्त्वं बहुसुकृतलब्धं पुरुषत्वं सफलीकुरुष्व स्वरूपप्राप्त्या सार्थकं कुरु पुनर्मा संसार्षीरिति भावः ॥४१२॥
सर्वोपाधिविनिर्मुक्तं सच्चिदानन्दमद्वयम् ।
भावयात्मानमात्मस्थं न भूयः कल्पसेऽध्वने ॥४१३॥
आत्मानं भावय किंविधम् , सर्वोपाधिविनिर्मुक्तं स्थूलसूक्ष्मकारणरूपभेदहेतुभिः विनिर्मुक्तं विशेषेण नितरां वासनातोऽपि इत्यर्थः । मुक्तम् अस्पृष्टं, सच्चिदानन्दम् अद्वयम् आत्मस्थम् । एतेन न विप्रकृष्टत्वं तस्य ‘अत्र वाव किल तत्सौम्य न निभालयसे’(छा.उ. ६.१४.२) इति श्रुतेः । सूक्ष्मायां बुद्धौ भासमानम् इत्यर्थः । स्वमहिमप्रतिष्ठया तद्भावेन भूयः पुनः अध्वने संसृतये न कल्पसे । ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) , ‘मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते’(भ.गी. ८.१६) इत्यादिश्रुतिस्मृतिभ्यः ॥४१३॥
आवृत्त्यभावमुपपादयति छायेवेति −
छायेव पुंसः परिदृश्यमानम्
आभासरूपेण फलानुभूत्या ।
शरीरमाराच्छववन्निरस्तं
पुनर्न सन्धत्त इदं महात्मा ॥४१४॥
महात्मा ब्रह्मभावं प्राप्तः पुरुषः फलानुभूत्या फलम् अखण्डाकारवृत्त्या अनावृततया अभिव्यक्तस्वरूपचैतन्यं तस्यानुभूत्या अनुभवेन हेतुना आभासरूपेण सर्पत्यक्तनिर्मोक इव सर्परूपेण इतरदृष्ट्या पूर्ववत् पुंसः छायेव आदेहपातं परिदृश्यमानम् आराद्दूरे शववन्निरस्तम् इदं शरीरं पुनर्न सन्धत्ते तत्राहन्तादिकं न करोति प्रतीतावपि घटादाविव उदासीनस्तत्र भवतीति भावः ॥४१४॥
सततविमलबोधानन्दरूपं स्वमेत्य
त्यज जडमलरूपोपाधिमेतं सुदूरे ।
अथ पुनरपि नैव स्मर्यतां वान्तवस्तु
स्मरणविषयभूतं कल्पते कुत्सनाय ॥४१५॥
नित्यनिर्मलप्रकाशानन्दरूपं ब्रह्म स्वमेत्य प्रत्यक्तया प्राप्य, जडमलरूपम् उपाधिम् एतं स्थूलदेहं सुदूरे त्यज । अथ स्वयं निर्मलचिदानन्दरूपं ब्रह्मैवेति ज्ञानानन्तरं पुनरपि नैव स्मर्यतां दूरं मलभाण्डवत् त्यक्तत्वात् । तत्र दृष्टान्तमाह वान्तवस्तु वमनकर्मीभूतं वस्तु स्मरणविषयभूतं स्मृतमित्यर्थः कुत्सनाय स्वस्य जुगुप्सायै परकृते निन्दायै वा कल्पते । नहि मलिनं वस्तु स्मरणीयम् , मनसः विकारापत्तेः । निन्दन्ति च लोके त्यक्तं दुष्टं वस्तु स्मरन्तम् ॥४१५॥
समूलमेतत्परिदह्य वह्नौ
सदात्मनि ब्रह्मणि निर्विकल्पे ।
ततस्स्वयं नित्यविशुद्धबोधा-
नन्दात्मना तिष्ठति विद्वरिष्ठः ॥४१६॥
सदात्मनि कालत्रयाबाध्यस्वरूपे निर्विकल्पे ब्रह्मणि वह्नौ एतत् शरीरं समूलम् अज्ञानेन सह परिदह्य निरवशेषं दग्ध्वा । ततः विद्वरिष्ठः विदन्तीति विदः तेषु वरिष्ठः विद्वरिष्ठः । स्वयं नित्यविशुद्धबोधानन्दात्मना तिष्ठति न कदाचिदपि तस्य आनात्मप्रतिभानमिति भावः ॥४१६॥
प्रारब्धसूत्रग्रथितं शरीरं
प्रयातु वा तिष्ठतु गोरिव स्रक् ।
न तत्पुनः पश्यति तत्त्ववेत्ताऽ-
नन्दात्मना ब्रह्मणि लीनवृत्तिः ॥४१७॥
सूत्रग्रथिता स्रक् माला रज्जुर्वा अलङ्करणाद्यर्थं गलादौ बद्धा, प्रयातु तिष्ठतु वा, यथा गोः तत्र न दृष्टिः तथा प्रारब्धमेव सूत्रं तेन ग्रथितं रचितं विदुषः अभिमानाभावेऽपि तदीयतया इतरैर्ज्ञायमानं तत्त्वसाक्षात्कारात्पूर्वं तदीयसुखदुःखसाक्षात्कारावच्छेदकतया प्रारब्धकर्मणा निर्मितं शरीरं ब्रह्मसाक्षात्कारानन्तरं प्रयातु म्रियतां तिष्ठतु वा प्राणान् धारयतु वा । तत्त्ववेत्ता आत्मयाथात्म्यदर्शी तत् शरीरं पुनः स्वस्य ब्रह्मत्वज्ञानानन्तरं न पश्यति । तत्र हेतुः आनन्दात्मना ब्रह्मणि लीना वृत्तिः यस्य सः लीनवृत्तिः । वृत्तेर्बहिरनागमने हेतुः आनन्दात्मनेति । यदा अनावृतानन्दात्मना मनोवृत्तिर्लीना कथं कुतो वा मनसः बहिर्मुखत्वं स्यात् । सर्वदापि सुखं मे भूयादिति या स्थिता इच्छा तस्याः विषयः प्राप्तः । ततः नित्यनिरतिशयसुखं प्राप्य तदात्मना लीनं मनः न बहिरुदेति । वक्ष्यति −
कस्तां परानन्दरसानुभूतिमुत्सृज्य शून्येषु रमेत विद्वान् । चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत् ॥ (श्लो. ५२३)
इति ॥४१७॥
न तत्पुनः पश्यतीत्याद्युत्तरार्धमुपपादयति अखण्डेति −
अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः ।
किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ॥४१८॥
तत्त्ववित् अखण्डानन्दमात्मानं स्वस्वरूपत्वेन विज्ञाय किमिच्छन् यदि किञ्चिदिच्छति, तस्याप्राप्तस्य प्राप्तये प्रयत्नं कुर्यात् । देहं विना प्रयत्नकरणासम्भवात् देहं पुष्णीयाच्च । अत उक्तं कस्य वा हेतोः कस्मै फलायेत्यर्थः । देहं पुष्णाति । उक्तं हि श्रुत्या −
आत्मानं चेद्विजानीयादयमस्मीति पूरुषः । किमिच्छन् कस्य कामाय शरीरमनुसञ्ज्वरेत् ॥ (बृ.उ. ४.४.१२)
इति ॥ ४१८ ॥
सम्यग्विदिततत्त्वस्य लक्षणमाह संसिद्धस्येति −