अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

३०. समाधिः

सार्वा­त्म्य­सि­द्धये भिक्षोः कृतश्रवणकर्मणः ।
समाधिं विदधात्येषा शान्तो दान्त इति श्रुतिः ॥३४२॥

३४२

ब्रह्म­नि­ष्ठ­गु­रु­मु­खात् कृतं श्रवणरूपं वेदा­न्त­वा­क्य­त­द­र्थ­श्र­व­ण­रूपं कर्म येन सः, भिक्षुः संन्यासी कृतश्रवणकर्मा तस्य सार्वा­त्म्य­सि­द्धये कैव­ल्य­रू­प­स­र्वा­त्म­भा­व­नि­ष्प­त्तये एषा ‘शान्तो दान्त’ इति श्रुतिः ‘तस्मादेवं विच्छान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धा­वि­त्तो­भू­त्वाऽ­त्म­न्ये­वा­त्मानं पश्येत्’(बृ.उ. ४.४.२३) इति श्रुतिः बहि­र­न्तः­क­र­ण­नि­रो­धेन अना­ल­म्बि­त­बा­ह्य­वृत्तिः आत्म­सा­क्षा­त्का­रार्थं निरन्तरं समाधिं कुर्यादिति समाहितशब्देन समाधिं विदधाति कर्तव्यत्वेन बोधयतीत्यर्थः ॥३४२॥

तत्र युक्तिमाह आरूढशक्तेरिति −

आरूढशक्तेरहमो विनाशः
कर्तुं न शक्यः सहसापि पण्डितैः ।
ये निर्वि­क­ल्पा­ख्य­स­मा­धि­नि­श्चलाः
तान­न्त­राऽ­न­न्त­भवा हि वासनाः ॥३४३॥

३४३

ये निर्वि­क­ल्पा­ख्य­स­मा­धि­नि­श्चलाः, समाधिः द्विविधः सविकल्पकः निर्वि­क­ल्प­क­श्चेति,

ज्ञात्रा­द्य­वि­ल­ये­नैव ज्ञेये ब्रह्मणि केवले । तदाकाराकारितया चित्त­वृ­त्ते­र­व­स्थितिः ॥ सद्भिः स एव विज्ञेयः समाधिः सविकल्पकः । मृद एवावभानेऽपि मृण्म­य­द्वि­प­भा­न­वत् ॥ सन्मा­त्र­व­स्तु­भा­नेपि त्रिपुटी भाति सन्मयी । समाधिरत एवायं सविकल्प इतीर्यते ॥ ज्ञात्रा­दि­भा­व­मु­त्सृज्य ज्ञेय­मा­त्र­स्थि­ति­र्दृढा । मनसो निर्वि­क­ल्प­स्स्यात् समा­धि­र्यो­ग­सं­ज्ञितः ॥ जले निक्षिप्तलवणं जलमात्रतया स्थितम् । पृथङ्नभाति किन्त्वम्भ एकमेवावभासते ॥ यथा तथैव सा वृत्तिः ब्रह्ममात्रतया स्थिता । पृथङ्नभाति ब्रह्मै­वा­द्वि­ती­य­म­व­भा­सते ॥ ज्ञात्रा­दि­क­ल्प­ना­भा­वा­न्म­तोऽयं निर्विकल्पकः । वृत्तेः सद्भा­व­बा­धा­भ्याम् उभयोर्भेद इष्यते ॥

(स.सं. ८२०-८२६)

इति सदृष्टान्तं तत्तल्लक्षणम् । निर्वि­क­ल्पे­त्याख्या यस्य निर्विकल्पाख्यः सचासौ समाधिश्च निर्वि­क­ल्पा­ख्य­स­माधिः, तस्मिन् निश्चलाः तेन वा निश्चलाः तानन्तरा विना, आरूढशक्तेः आरूढा प्रवृद्धा शक्तिः नानाभ्रमजनिका यस्य तस्य अहमः अहङ्कारस्य विनाशः, पण्डितैरपि कृत­वे­दा­न्त­श्र­व­णै­रपि सहसा कर्तुं न शक्यः । हि यस्मात् वासनाः अनात्मसंस्काराः अनन्तभवाः अनन्ताः असङ्ख्याकाः भवाः जन्मानि यासां ताः, यद्वा अनन्तैर्बहुभिः पदार्थैः भवाः उत्पन्नाः । अतः सक­ल­वि­ध­वा­स­ना­क्ष­यार्थं निर्वि­क­ल्प­क­स­मा­धि­रेव शरणम् ॥३४३॥

समूलमनष्टायाः विक्षेपशक्तेः बन्ध­क­त्व­प्र­का­र­माह अहमिति −

अहं बुद्ध्यैव मोहिन्या योज­यि­त्वा­वृ­ते­र्ब­लात् ।
विक्षेपशक्तिः पुरुषं विक्षेपयति तद्गुणैः ॥३४४॥

३४४

यदानात्मनि आत्मबुद्धिं करोति तदा स्वरूपं तिरोहितं भवति ‘यथापकृष्टं शैवालं’(श्लो. ३२५) इति पूर्वोक्तरीत्या मोहिन्या स्वरूपच्याविकया अहं बुद्ध्यैव योजयित्वा तत्प्र­यो­ज्या­वृतेः स्वरू­पा­प्र­का­शस्य बलात् पुरुषं पण्डितमपि, विक्षेपशक्तिः भ्रम­प­र­म्प­रा­ज­निका, सङ्क­ल्प­का­मा­दि­वृ­त्ति­ज­निका च, तद्गुणैः स्वकीयकार्यैः सङ्कल्पादिरूपैः विक्षेपयति बहुबहु बहिरानयति दूरमात्मन इत्यर्थः ॥३४४॥

विक्षे­प­श­क्ति­वि­जयो विषमो विधातुं
निश्शे­ष­मा­व­र­ण­श­क्ति­नि­वृ­त्त्य­भावे ।
दृग्दृश्ययोः स्फुट­प­यो­ज­ल­व­द्वि­भागे
नश्ये­त्त­दा­व­र­ण­मा­त्मनि च स्वभावात् ॥

३४४

निस्संशयेन भवति प्रतिबन्धशून्यो
निक्षेपणं नहि तदा यदि चेन्मृषार्थे ॥३४५॥

३४५

विक्षेपेति । निश्शे­ष­मा­व­र­ण­श­क्ति­नि­वृ­त्त्य­भावे विक्षे­प­श­क्ति­वि­जयः विधातुं कर्तुं विषमः असाध्य इत्यर्थः । दृग्दृश्ययोः आत्मानात्मनोः स्फुटं पयोजलवत् क्षीरनीरवत् भेदेन मनस्त्रोट्या हंसैः परमैः कृते सति आत्मनि तदा स्वभावात् अयत्नत एव आवरणं नश्येत् । तथा − विवेकानन्तरम् आवरणभङ्गार्थं करणीयांशः कोऽपि नास्ति । तदामृषार्थे मिथ्याभूते अनात्मनि निक्षेपणं मनसः न चेद्यदि विक्षे­प­श­क्ति­वि­जयः निस्संशयेन प्रतिबन्धशून्यः भवति ॥३४५॥

एतादृशविवेके स्फुटबोधं हेतुमाह सम्यगिति −

सम्यग्विवेकः स्फुटबोधजन्यः
विभज्य दृग्दृ­श्य­प­दा­र्थ­त­त्त्वम् ।
छिनत्ति मायाकृतमोहबन्धं
यस्मा­द्वि­मु­क्तस्य पुनर्न संसृतिः ॥३४६॥

३४६

स्फुटः असन्दिग्धः, अविपर्यस्तः यो बोधः श्रुत्या­चा­र्य­प्र­सा­द­ज­नितः महा­वा­क्या­र्था­नु­भवः तज्जन्यः तदनन्तरकालिकः सम्यग्विवेकः ‘ब्रह्म सत्यं जगन्मिथ्या’ इत्येवंरूपः दृग्दृ­श्य­प­दा­र्थ­त­त्त्वम् आत्मा­ना­त्म­या­था­त्म्यम् , विभज्य क्षीर­नी­र­व­त्पृ­थ­क्कृत्य मायाकृतमोहबन्धं मायया अविद्यया कृतः यो मोहः स्वरूपतिरोधानम् , तेन यो बन्धः अना­त्म­स्वा­त्म­बुद्धिः तं छिनत्ति समूलकाषं कषति । तत्र मानमाह यस्मात् विमुक्तस्य पुनर्न संसृतिरिति ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुतेः, नहि क्षीरा­दु­द्धृ­त­माज्यं पुनः क्षीरीभवति तथा स्वप्र­का­शा­न­न्दा­का­रतां यातं मनः न पुनरनात्मसु सज्जत इति भावः ॥३४६॥

चतु­र्थ­पा­दा­र्थ­मु­प­पा­द­यति परावरेति −

परा­व­रै­क­त्व­वि­वे­क­वह्निः दहत्यविद्यागहनं ह्यशेषम् ।
किं स्यात् पुनस्संसरणस्य बीजम् अद्वैतभावं समुपेयुषोऽस्य ॥३४७॥

३४७

हि यस्मात्कारणात् परा­व­रै­क­त्व­वि­वे­क­वह्निः परः ईश्वरः अवरः जीवः तयोरेकत्वविषयकः विवेकः विचारजनितबोधः स एव वह्निः अशेषं सकलकार्यैः साकम् अविद्यागहनम् अविद्यैव गहनमरण्यं दहति भस्मीकरोति ‘विभे­द­ज­न­केऽ­ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति’(वि.पु. ६.७.९४) इति प्रमाणात् । अद्वैतभावं निर्भे­द­ब्र­ह्म­भावं समुपेयुषः निरन्तरं साक्षात्कुर्वतः अस्य महात्मनः पुनः संसरणस्य देहा­दा­वा­त्म­भ्र­मस्य बीजं किं स्यात् न किमपीत्यर्थः ॥३४७॥

सम्य­ग्व­स्तु­ज्ञा­नस्य संसा­र­ना­श­क­त्व­प्र­का­र­माह आवरणस्येति −

आवरणस्य निवृत्तिर्भवति च सम्य­क्प­दा­र्थ­द­र्श­नतः ।
मिथ्या­ज्ञा­न­वि­नाशः तद्व­द्वि­क्षे­प­ज­नि­त­दुः­ख­नि­वृत्तिः ॥३४८॥

३४८

‘एताभ्यामेव शक्तिभ्यां बन्धः पुंसः समागतः’(श्लो. १४६) इत्युक्तत्वात् आवरणविक्षेपनाशे कुतः संसारबन्ध इति भावः ॥३४८॥

सम्य­क्प­दा­र्थ­द­र्श­नतः आवरणस्य निवृत्तिर्भवति, मिथ्याज्ञानस्य अयथाबोधस्य विनाशः भवति, तद्वत् अय­था­व­बो­ध­रू­प­वि­क्षे­पेण जनितं यद्दुःखं तस्य निवृत्तिश्च भवति इतीममर्थं दृष्टा­न्ते­नो­प­पा­द­यति एतदिति −

एतत्त्रितयं दृष्टं सम्य­ग्र­ज्जु­स्व­रू­प­वि­ज्ञा­नात् ।
तस्मा­द्व­स्तु­स­तत्त्वं ज्ञातव्यं बन्धमुक्तये विदुषा ॥३४९॥

३४९

सम्य­ग्र­ज्जु­स्व­रू­प­वि­ज्ञा­नात् एतत्त्रितयं रज्ज्वा­व­र­ण­नि­वृत्तिः सर्प­भ्रा­न्ति­नाशः रज्जु­स­र्प­वि­क्षे­प­ज­नि­त­भ­य­क­म्पा­दि­प्र­यो­ज्य­दुः­ख­नि­वृ­त्तिश्च इति त्रयं दृष्टम् । तस्माद्विदुषा एतज्जानता पुरुषेण बन्धमुक्तये बन्ध­हे­त्वा­व­र­ण­वि­क्षे­प­ना­शाय वस्तुसतत्त्वं वस्तुनः याथात्म्यं ज्ञातव्यम् ॥३४९॥

आत्म­व्य­ति­रि­क्तस्य सर्वस्य मिथ्यात्वं सोपपत्तिकं कथयति अय इति −

अयोऽग्नियोगादिव सत्स­म­न्व­या­न्मा­त्रा­दि­रू­पेण विजृम्भते धीः ।
तत्का­र्य­मे­त­त्त्रि­तयं यतो मृषा दृष्टं भ्रम­स्व­प्न­म­नो­र­थेषु ॥३५०॥

३५०

अग्नेर्योगात् अयः यथा दग्धृ प्रतीयते मृषा, तथा सत्समन्वयात् सतः परमात्मनः समन्वयात् प्रति­फ­ल­न­रू­प­स­म्ब­न्ध­व­शात् धीः बुद्धिः मात्रादिरूपेण माता मितिः मेयमिति त्रिपुटीरूपेण विजृम्भते अनेकाकारा भवति । मातुर्ज्ञातुः जीवस्यापि धीविशिष्टवेषेण कल्पितत्वमेव । ‘अन्वे­ष्ट­व्या­त्म­वि­ज्ञा­नात् प्रमा­तृ­त्व­मा­त्मनः । अन्वि­ष्ट­स्स्या­त्प्र­मा­तैव पाप्म­दो­षा­दि­व­र्जितः’(सू.भा. १.१.४) इति प्रमातृत्वमपि कल्पितम् ॥३५०॥

भ्रम­स्व­प्न­म­नो­र­थेषु एतत्त्रितयं त्रिपुटीरूपं तत्कार्यं सत्स­म­न्व­य­यु­क्त­धी­कार्यं यतः मृषा दृष्टम् −

ततो विकाराः प्रकृ­ते­र­ह­म्मुखाः
देहावासना विषयाश्च सर्वे ।
क्षणेऽ­न्य­था­भा­विन एष आत्मा
नोदेति नाप्येति कदापि नान्यथा ॥३५१॥

३५१

ततः धीकार्याणां मृषात्वात् प्रकृतेः अविद्यायाः विकाराः अहंमुखाः देहावसानाः सर्वे विषयाश्च शब्दादयः घटादयश्च, क्षणेऽ­न्य­था­भा­विनः सत्वेन प्रतीयमाना एव विमर्शे क्रियमाणे असन्तो भवन्ति । अतः दृष्ट­न­ष्ट­स्व­रू­प­तया न सत्यभूताः । एष आत्मा तु कदापि नोदेति नोत्पद्यते, नाप्येति न नश्यति वा, अन्यथापि न भवति तस्य धिय इव परिणामोऽपि नास्ति नियतैकरूप एव सर्वदावतिष्ठते अतः सत्य इति भावः ॥३५१॥

नित्या­द्व­या­ख­ण्ड­चि­दे­क­रूपो बुध्यादिसाक्षी सदसद्विलक्षणः ।
अहं पद­प्र­त्य­य­ल­क्षि­तार्थः प्रत्य­क्स­दा­न­न्द­घनः परात्मा ॥३५२॥

३५२

नित्या आद्यन्तविधुरा, अद्वया स्वभि­न्न­व­स्तु­शून्या, अत एवाखण्डा त्रिवि­ध­प­रि­च्छे­द­र­हिता या चित् सैव एकं रूपं यस्य सः नित्या­द्व­या­ख­ण्ड­चि­दे­क­रूपः, तत्र मानं बुध्यादिसाक्षी पूर्वमेवोक्तं ‘विकारिणां सर्वविकारवेत्ता नित्योऽविकारो भवितुं समर्हति’(श्लो. २९६) इति । अतः सदसद्विलक्षणः ‘अनादिमत्परं ब्रह्म न सत्त­न्ना­स­दु­च्यते’(भ.गी. १३.१२) इति गीतावचनात् अवि­द्या­त­त्का­र्य­भिन्न इत्यर्थः, अहं­प­द­प्र­त्य­य­ल­क्षि­तार्थः लक्षणावृत्या अहं­प­द­ज­न्यो­प­स्थि­ति­वि­षय इत्यर्थः, प्रत्य­क्स­दा­न­न्द­घनः प्रातिलोम्येन अञ्चतीति प्रत्यङ् अस­ज्ज­ड­दुः­खा­ह­ङ्का­रा­दि­वि­ल­क्ष­ण­तया सच्चि­दा­न­न्द­स्व­रू­पेण प्रकाशमानः सदानन्दघनः काल­त्र­या­बा­ध्या­न­न्द­स्व­रूपः परात्मा इत्या­त्म­या­थात्म्यं कथितम् ॥३५२॥

इत्थं विपश्चित् सदसद्विभज्य
निश्चित्य तत्त्वं निजबोधदृष्ट्या ।
ज्ञात्वा स्वमा­त्मा­न­म­ख­ण्ड­बोधं
तेभ्यो विमुक्तः स्वयमेव शाम्यति ॥३५३॥

३५३

इत्थं पूर्वो­क्त­प्र­का­रेण विपश्चित् श्रुतिप्रमाणः परमार्थदर्शी मुमुक्षुः सत् ब्रह्म असत् अवि­द्या­त­त्कार्यं विभज्य सत्यत्वेन मिथ्यात्वेन च निजबोधदृष्ट्या विचा­र­ज­नि­त­स्वा­नु­भ­व­ने­त्रेण, तत्त्वं विनिश्चित्य वस्तुयाथात्म्यं निश्चयेन विज्ञाय, स्वमात्मानम् अखण्डबोधं ज्ञात्वा तेभ्यो विमुक्तः, अनात्मभ्यः अवि­द्या­दि­दे­हा­न्तेभ्यः शब्दादिभ्यो विषयेभ्यश्च विशेषेण मुक्तः, वासनाया अप्यभावः विशेषः मुक्तौ, स्वयमेव शाम्यति अना­वृ­त­स्व­च्छ­प्र­का­श­रू­पे­णा­व­ति­ष्ठत इत्यर्थः ॥३५३॥

एवं कदा भवतीति ज्ञातव्यमत आह अज्ञानेति −

अज्ञा­न­हृ­द­य­ग्र­न्थे­र्नि­श्शे­ष­वि­ल­य­स्तदा ।
समा­धि­नाऽ­वि­क­ल्पेन यदा­द्वै­ता­त्म­द­र्श­नम् ॥३५४॥

३५४

अविकल्पेन निर्विकल्पेन समाधिना पूर्वं कथितलक्षणेन, यदा अद्वै­ता­त्म­द­र्शनं निर्भे­द­प­र­मा­त्म­सा­क्षा­त्कारः तदा अज्ञा­न­हृ­द­य­ग्रन्थेः अज्ञानप्रयोज्यः यः हृदयग्रन्थिः चिज्ज­ड­ता­दात्म्यं तस्य निश्शेषविलयः वासनया साकं नाशः इत्यर्थः ॥३५४॥

त्वमहमिदमितीयं कल्पना बुद्धिदोषात्
प्रभवति परमात्मन्यद्वये निर्विशेषे ।
प्रविलसति समाधावस्य सर्वो विकल्पः
विलयनमुपगच्छेद् वस्तु­त­त्त्वा­व­धृत्या ॥३५५॥

३५५

बुद्धिदोषात् तमोरजोरूपात् त्वम् अहम् इदम् इतीयं कल्पना प्रभवति अद्वये अत एव निर्विशेषे परमात्मनि भासते । अस्य विदुषः समाधौ प्रविलसति वस्तु­त­त्त्वा­व­धृत्या वस्तु­या­था­म्या­व­धा­र­णेन, सर्वः विक­ल्पः­वि­ल­य­न­म­त्य­न्त­नि­वृ­त्तिम् उपगच्छेत् प्राप्नुयात् ॥३५५॥

ससामग्रीकं समाधिं तत्फलं च एकश्लोकेन विशदं कथयति शान्त इति −

शान्तो दान्तः परमुपरतः क्षान्ति­यु­क्त­स्स­माधिं
कुर्वन्नित्यं कलयति यतिः स्वस्य सर्वात्मभावम् ।
तेना­वि­द्या­ति­मि­र­ज­नि­तान् साधु दग्ध्वा विकल्पान्
ब्रह्माकृत्या निवसति सुखं निष्क्रियो निर्विकल्पः ॥३५६॥

३५६

शान्तः निगृहीतमनाः दान्तः निरु­द्ध­बा­ह्ये­न्द्रियः, परमत्यन्तम् उप­र­तः­अ­ना­ल­म्बि­त­बा­ह्य­वृत्तिः, क्षान्तियुक्तः द्वन्द्व­स­हिष्णुः, समाधिं निर्विशेषे ब्रह्मणि चित्तस्य संस्थापनं नित्यं कुर्वन् यतिः स्वस्य सर्वात्मभावं केवलीभावं कलयति अनुभवति, तेन निर्वि­क­ल्प­स­मा­धिना, अविद्यैव तिमिरम् अन्धकारः तेन जनितान् उत्पादितान् विकल्पान् विविधकल्पनाः साधु दग्ध्वा भस्मीकृत्य अत्य­न्त­मु­च्छिद्य निष्क्रियः निर्विकल्पः ब्रह्माकृत्या ब्रह्माकारेण सुखं निवसति । एतेन −

क्रियानाशे भवे­च्चि­न्ता­ना­शोऽ­स्मा­द्वा­स­ना­क्षयः । वासनाप्रक्षयो मोक्षः स जीवन्मुक्त इष्यते ॥ (श्लो. ३१८)

इत्युक्तं कथितं भवति । तदर्थं निष्क्रियो निर्विकल्प इति विशेषणद्वयम् ॥३५६॥

एवं मुक्तिसिद्धये समाध्यर्थम् अन्त­र्ब­हिः­प्र­प­ञ्च­प्र­वि­ला­पनं हेतुः, न केवलं बाह्य­श­ब्दै­र्मु­क्ति­रि­त्याह समाहिता इति −

समाहिता ये प्रविलाप्य बाह्यं
श्रोत्रादि चेतस्स्वमहं चिदात्मनि ।
त एव मुक्ता भवपाशबन्धैः
नान्ये तु पारो­क्ष्य­क­था­भि­धा­यिनः ॥३५७॥

३५७

ये पुरुषाः बाह्यं श्रोत्रादि, एतेन वियदादीनां चिदात्मनि प्रविलापनं कथितमेव भवति । अहं शृणोमीत्यादि तादा­त्म्या­ध्या­स­वि­ष­य­तया श्रोत्रा­दी­त्यु­क्तम् । आन्तरं चेतःमनः स्वं स्वकीयम् , अहम् अहङ्कारञ्च, चिदात्मनि प्रविलाप्य चिदा­त्म­व्य­ति­रे­केण आन्तरं वा बाह्यं वा किमपि नास्तीति दृढं निश्चित्य ये समाहिताः चिदात्मनि संस्था­पि­त­म­नस्काः, त एव भवपाशबन्धैः पाश­व­द्ब­न्ध­क­सां­सा­रि­क­भ्रमैः मुक्ताः । नान्ये तु पारो­क्ष्य­क­था­भि­धा­यिनः अन्ये अकृतप्रविलापनाः परो­क्ष­श­ब्द­मा­त्रा­भि­धा­यकाः न तु नैव मुक्ता इत्यर्थः ॥३५७॥

एवं सर्वो­पा­दा­न­स­र्व­क­ल्प­ना­धि­ष्ठा­न­ब्र­ह्म­व्य­ति­रे­केण किमपि नास्तीति प्रपञ्चस्य शून्य­त्व­वा­स­नायां दृढीभूतायां मनोनाशेन कैवल्यं निष्प्र­त्यू­ह­मिति निरन्तरं निर्वि­क­ल्प­क­स­माधिः कार्य इत्याह उपाधीति −

उपाधियोगात् स्वयमेव भिद्यते
चोपाध्यपोहे स्वयमेव केवलः ।
तस्मादुपाधेः विलयाय विद्वान्
वसे­त्स­दाऽ­क­ल्प­स­मा­धि­नि­ष्ठया ॥३५८॥

३५८

‘एक­मे­वा­द्वि­तीयं’(छा.उ. ६.२.१) , ‘नेह नानास्ति किञ्चन’(क.उ. ४.११) ‘नात्र काचन भिदास्ति’(नृ.उ.उ. ८) इति श्रुति­जे­गी­य­मा­न­स्व­रूपः परमात्मा उपाधियोगादेव भिद्यते । उपाध्यपोहे माया­प­ञ्च­को­श­रू­पो­पा­धि­नि­रासे च स्वयं केवल एव, तस्मात् उपाधेर्भेदहेतोः अहङ्कारस्य विलयाय आत्य­न्ति­क­नि­वृ­त्तये सदा निरन्तरम् अक­ल्प­स­मा­धि­नि­ष्ठया अकल्पः निर्विकल्पकः यः समाधिः योगः तस्मिन्निष्ठा नितरां स्थितिः तया वसेत् ॥३५८॥

एवं समाधिनिष्ठस्य जीवस्य ब्रह्माकारतायां दृष्टान्तमाह सतीति −

सति सक्तो नरो याति सद्भावं ह्येकनिष्ठया ।
कीटको भ्रमरं ध्यायन् भ्रमरत्वाय कल्पते ॥३५९॥

३५९

एकनिष्ठया ऐदम्पर्येण सति ब्रह्मणि सक्तः समाहितमनाः नरः सद्भावं याति हि निश्चयः । तत्र दृष्टान्तः कीटकः अल्पः कीटः एकनिष्ठया भ्रमरं ध्यायन् भ्रमरत्वाय भ्रमरभिन्नोऽपि कल्पते समर्थो भवति । किम्पुनः प्रकृते ब्रह्मैव सन् जीवः अज्ञा­ना­दा­रो­पि­ता­ब्र­ह्म­भावः सदापि ब्रह्मध्यानात् ब्रह्मैव भवतीति इति भावः ॥३५९॥

उक्तमर्थं दृष्टान्ते विशदयन् दार्ष्टान्तिके योजयति क्रियेति −

क्रिया­न्त­रा­स­क्ति­म­पास्य कीटको
ध्यायन्यथालिं ह्यलिभावमृच्छति ।
तथैव योगी परमात्मतत्त्वं
ध्यात्वा समायाति तदेकनिष्ठया ॥३६०॥

३६०

कीटकः क्रिया­न्त­रा­स­क्तिम् अपास्य त्यक्त्वा यथा अलिं भ्रमरं ध्यात्वा स्वात्मानं हिनस्तीति भयादेव चिन्तयित्वा अलिभावं भ्रमरभावं स्वयमपि भ्रमरत्वम् ऋच्छति प्राप्नोति । तत्र पूर्वादारभ्य भेद एव पश्चादपि अयं भ्रमरो भवति नतु ध्यातभ्रमराभेदः । अत्र भेद­स्या­ज्ञा­नि­क­त्वात् अभे­द­ध्या­न­ज­नि­त­सा­क्षा­त्का­रेण अज्ञाने नष्टे भेद­प्र­स­क्ते­रे­वा­भा­वात् तथैव कीटकवत् एकनिष्ठया अनन्यसक्ततया परमात्मतत्त्वं ध्यात्वा तदेव याथात्म्यं समायाति । नष्टा­ज्ञा­नि­क­भेदः अभि­व्य­क्त­स्व­ता­त्वि­क­स्व­रूपः भवतीति भावः । अत एव समायातीति समुपसर्गः । ध्यानेन अन्य­स्या­प्य­न्य­भावे सम्भवति स्वध्यानेन स्वस्वरूपाप्तौ कः प्रत्यूह इतिमात्रे तत्र तत्र भ्रम­र­की­ट­न्या­यो­दा­ह­र­ण­मिति मन्तव्यम् ॥३६०॥

अतीव सूक्ष्मं परमात्मतत्त्वं
न स्थूलदृष्ट्या प्रति­प­त्तु­म­र्हति ।
समा­धि­नाऽ­त्य­न्त­सु­सू­क्ष्म­वृत्त्या
ज्ञात­व्य­मा­र्यै­र­ति­शु­द्ध­बु­द्धिभिः ॥३६१॥

३६१

निर्गुणतया अतीव सूक्ष्मं परं पञ्च­को­श­वि­ल­क्ष­णम् आत्मतत्त्वं त्रिवि­ध­प­रि­च्छे­द­र­हितं स्वप्र­का­श­स­दा­न­न्द­रू­पम् आत्मयाथात्म्यं स्थूलदृष्ट्या शरी­रा­दि­स्थू­ल­व­स्तु­वि­ष­यिण्या दृष्ट्या अन्तः­क­र­ण­वृत्त्या प्रतिपत्तुं व्याप्तुं नार्हति । अति­शु­द्ध­बु­द्धिभिः ‘ज्ञान­मु­त्प­द्यते पुंसां क्षयात्पापस्य कर्मणः’ ‘कषाये कर्मभिः पक्वे ततो ज्ञानं प्रवर्तते’(ब्र.सू.भा. ३.४.२६) ‘दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्म­द­र्शिभिः’(क.उ. १.३.१२) ‘ज्ञानप्रसादेन विशुद्धसत्वः ततस्तु तं पश्यते निष्कलं ध्यायमानः’(मु.उ. ३.१.८) इत्या­दि­व­च­ना­नु­सा­रेण निर्म­ला­न्तः­क­रणैः आर्यैः श्रुति­स्मृ­त्यु­क्त­मा­र्गकैः समाधिना अत्य­न्त­सु­सूक्ष्मा प्रप­ञ्चा­वि­ष­य­क­तया अखण्डाकारा या वृत्तिः तया ज्ञातव्यं विषयीकर्तव्यम् ॥३६१॥

सदृष्टान्तं मनोनैर्मल्ये ध्यानं कारणमाह यथेति −

यथा सुवर्णं पुटपाकशोधितं
त्यक्त्त्वा मलं स्वात्मगुणं समृच्छति ।
तथा मन­स्स­त्व­र­ज­स्त­मो­मलं
ध्यानेन सन्त्यज्य समेति तत्त्वम् ॥३६२॥

३६२

सुवर्णं पुटपाकशोधितम् , स्वगु­ण­ति­रो­धा­य­क­म­ला­प­न­या­र्थ­क्रि­य­मा­ण­पा­क­वि­शेषः पुटे निक्षिप्य रक्त­मृ­दा­दि­सं­यो­गेन क्रिय­मा­णा­ग्नि­सं­योगः पुटपाकः तेन शोधितं वियोजितमलम् , यथा मलं त्यक्तवा स्वात्मगुणं भास्वरत्वादिकं समृच्छति सम्यगाप्नोति तथा मनः अन्तःकरणं सत्त्व­र­ज­स्त­मो­मलं, यद्यपि सत्वस्य रजसा तमसा वा अमिश्रितस्य मलत्वं दुर्घटं ‘तस्मा­त्स­त्त्व­म­व­ष्टभ्य स्वाध्यासापनयं कुरु’(श्लो. २७९) इत्युक्त्वात् ‘निर्द्वन्द्वो नित्यसत्त्वस्थो भव’(२.४५) इति गीतोपदेशाच्च, तथापि सत्त्वं शुद्धेन नश्यति इत्युक्तत्वात् ‘स गुणान् समतीत्यैतान् ब्रह्मभूयाय कल्पते’(भ.गी. १४.२६) , ‘निस्त्रैगुण्यो भवार्जुन’(भ.गी. २ ८५) इति भगवद्वचनाच्च निर्गुणं ब्रह्म प्राप्तुं मनोऽपि रज­स्त­मो­वि­ना­शार्थं सत्त्वावलम्बनं त्यजतीति भावः । ‘नास्वादयेद्रसं तत्र निस्सङ्गः प्रज्ञया भवेत्’(अद्वैत. ४५) इति गौडपादोक्तेः सत्त्वकार्यः रसास्वादः त्यक्तव्य इत्युक्तेः ‘येन त्यजसि तत्त्यज’(सं.उ. २.१२, म.भा.मो.ध. ३२९.४०) इत्युक्तेः ‘भूयश्चान्ते विश्व­मा­या­नि­वृत्तिः’(श्वे.उ. १.१०) इति शुद्ध­स­त्त्व­प्र­धा­नायाः मायायाश्च निवृत्तिश्रुतेः मिथ्यात्वेन शुद्ध­स­त्त्व­स्यापि मलत्वं मन्तव्यम् । ध्यानेन सन्त्यज्य, तत्त्वं ब्रह्मत्वं (‘नेह नानास्ति किञ्चन’ इति गुण­गु­णि­भा­व­स्या­नि­ष्ट­त्वात्) समेति ब्रह्मणः निर्गुणत्वात् सत्त्व­गु­ण­सत्त्वे तत्त्व­प्रा­प्ते­र­स­म्भ­वात् । सात्विक्याः अख­ण्डा­का­र­वृ­त्ते­रपि मूला­ज्ञा­न­भ­ञ्जि­कायाः विलयेन अधि­ष्ठा­न­मा­त्रा­व­शे­षत्वं भवतीति भावः ॥३६२॥

निर­न्त­रा­भ्या­स­व­शा­त्त­दित्थं
पक्वं मनो ब्रह्मणि लीयते यदा ।
तदा समाधिः स विकल्पवर्जितः
स्वतोऽ­द्व­या­न­न्द­र­सा­नु­भा­वकः ॥३६३॥

३६३

इत्थं निर­न्त­रा­भ्या­स­व­शात् पक्वं विप­री­त­भा­व­ना­दि­दो­ष­शून्यं मनः यदा ब्रह्मणि लीयते निर्वृत्तिकं ब्रह्म­मा­त्रा­व­शेषं भवति तदा स्वतः अप्रयत्नेन अद्व­या­न­न्द­र­सा­नु­भा­वकः अद्वयः यः आनन्दः ब्रह्म­स्व­रू­प­भूतः स एव रसः ‘रसो वै सः’(तै.उ. ७) इति श्रुतेः पर­म­प्रे­मा­स्प­द­त्वाच्च रसत्वम् । तदनुभवजनकः विकल्पवर्जितः सः अह­मा­दि­स­क­ल­वि­श्व­वा­स­ना­क्ष­य­हेतुः समाधिः निर्विकल्पाख्य इत्यर्थः ॥३६३॥

तत्फलं कार्त्स्न्ये­नो­प­पा­द­यति समाधिनेति −

समाधिनानेन समस्तवासना-
ग्रन्थे­र्वि­ना­शोऽ­खि­ल­क­र्म­नाशः ।
अन्तर्बहिः सर्वत एव सर्वदा
स्वरू­प­वि­स्फू­र्ति­र­य­त्नतः स्यात् ॥३६४॥

३६४

अनेन निर्वि­क­ल्प­का­ख्येन समाधिना योगेन सम­स्त­वा­स­ना­ग्रन्थेः ग्रन्थि­व­द्दु­रु­च्छे­द्य­तया स्थितानां समस्तवासनानां मिथ्या­ज्ञा­न­ज­नि­तानां विनाशः अत्य­न्त­मु­च्छित्तिः, अखिलकर्मनाशः सञ्चितानां सर्वेषां कर्मणां नाशः ‘भिद्यते हृदयग्रन्थिः, क्षीयन्ते चास्य कर्माणि’(मु.उ २.२.८) इति श्रुतेः । अन्तर्बहिः सर्वत एव सर्वदा स्वरू­प­वि­स्फू­र्ति­र­य­त्नतः स्यात् स्पष्टम् ॥३६४॥

अतः

श्रुतेः शतगुणं विद्यान्मननं मननादपि ।
निदिध्यासं लक्षगुणम् अनन्तं निर्विकल्पकम् ॥३६५॥

३६५

श्रुतेः श्रवणात् । स्पष्टम् ॥३६५॥

निर्व­क­ल्प­क­स­मा­धिना स्फुटं
ब्रह्म­त­त्त्व­म­व­ग­म्यते ध्रुवम् ।
नान्यथा चलतया मनोगतेः
प्रत्य­या­न्त­र­वि­मि­श्रितं भवेत् ॥३६६॥

३६६

निर्वि­क­ल्प­क­स­मा­धिना ब्रह्मतत्त्वं स्फुटं करतलामलकवत् अवगम्यते ध्रुवं निश्चयः । अन्यथा प्रकारान्तरेण नावगम्यते । तत्र हेतुमाह मनोगतेश्चलतया प्रत्या­या­न्त­र­वि­मि­श्रितं वृत्त्य­न्त­र­स­ङ्कीर्णं भवेत् ॥३३६॥

अतः समाधत्स्व यतेन्द्रियस्सन्
निरन्तरं शान्तमनाः प्रतीचि ।
विध्वंसय ध्वान्त­म­ना­द्य­वि­द्यया
कृतं सदेकत्वविलोकनेन ॥३६७॥

३६७

अतः ब्रह्म­त­त्त्व­स्फु­टा­व­ग­मार्थं सदा यतेन्द्रियः सन् यतानि निगृहीतानि इन्द्रियाणि श्रोत्रादीनि येन सः यतेन्द्रियः निरन्तरं सन्ततं प्रशान्तमनाः शान्तं निर्विकारं मनः यस्य सः शान्तमनाः सन् प्रतीचि प्रत्यगात्मनि समाधत्स्व मनः संस्थापय, तज्जन्येन सदेकत्वविलोकनेन गत­स­क­ल­भे­द­ब­ह्म­सा­क्षा­त्का­रेण, अनाद्यविद्यया अनादिः या अविद्या सर्व­सं­सा­र­मू­ल­भूता तया कृतं ध्वान्तं स्वरूपाप्रकाशं विध्वंसय विनाशय ॥३६७॥

निर्वि­क­ल्प­क­स­माधौ क्रमेणोपायानाह योगस्येति −

योगस्य प्रथमं द्वारं वाङ्नि­रो­धोऽ­प­रि­ग्रहः ।
निराशा च निरीहा च नित्य­मे­का­न्त­शी­लता ॥३६८॥

३६८

योगस्य बाह्य­स­क­ल­वृ­त्ति­नि­रो­धस्य वाङ्निरोधः मौनं प्रथमं द्वारं कारणं व्यवहारेण मनोवृत्तीनां वर्धमानत्वात् । अपरिग्रहः शरी­र­स्थि­ति­मा­त्र­सा­ध­ना­ति­रि­क्त­भो­ग­सा­ध­ना­स्वी­कारः तत्स्वीकारे तद्रक्षणादौ व्याप्रि­य­मा­ण­चि­त्तस्य वृत्ति­नि­रो­ध­स्या­स­म्भा­वि­त­त्वात् । आशायां कर्मणि च चित्तं विक्षिप्यते जनसङ्घे स्थितौ च अतः निराशा च वैराग्यम् , निरीहा च कर्मभ्य उपरतिः, नित्य­मे­का­न्त­शी­लता एकान्ते विजने देशे शीलं स्थितिः यस्य एकान्तशीलः सः तद्भावः तत्ता च योगस्य हेतवः ॥३६८॥

एकान्तशीलतायाः योगहेतुत्वम् उपपादयति एकान्तेति −

एका­न्त­स्थि­ति­रि­न्द्रि­यो­प­र­मणे हेतुर्दमश्चेतसः
संरोधे करणं शमेन विलयं यायादहंवासना ।
तेना­न­न्द­र­सा­नु­भू­ति­र­चला ब्राह्मी सदा योगिनः
तस्मा­च्चि­त्त­नि­रोध एव सततं कार्यः प्रयत्नान्मुनेः ॥३६९॥

३६९

एकान्तस्थितिः विजनदेशनिवासः इन्द्रियोपरमणे बहि­रि­न्द्रि­याणां निर्व्या­पा­र­तायां हेतुः । बहि­रि­न्द्रि­यो­प­रम एव दमः सः चेतसः अन्तःकरणस्य संरोधे करणं ‘इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः’(भ.गी. २.६०) इति गीतोक्तेः । विजनदेशे शब्दा­दि­वि­ष­या­भा­वात् श्रोत्रा­दि­ष्व­ब­हि­र्मु­खेषु अन्तःकरणम् आत्माभिमुख्यं विन्दत इति भावः । स एव शमः । शमेन अहं वासना विलयं यायात् प्राप्नुयात् तेन योगिनः अनात्मभ्यो निरु­द्ध­वृ­त्ति­कस्य सदा सर्वदापि ब्राह्मी आनन्दरसानुभूतिः अना­वृ­त­ब्र­ह्म­स्व­रू­पा­न­न्दा­भि­व्यक्तिः, अचला निश्चला च्युतिशून्या । तस्मात् बाह्ये­भ्य­श्चित्ते निरुद्धे अहंवासनाया अपि क्षयेण ब्रह्मा­न­न्दा­नु­भ­वस्य निरर्गलत्वात् मुनेः मननशीलस्य प्रयत्नात् सततं चित्तनिरोध एव कार्यः । निर्वि­क­ल्प­क­स­माधिः सदानुष्ठेय इत्यर्थः ॥३६९॥

‘योगस्य प्रथमं द्वारं वाङ्निरोध’(श्लो. ३६८) इत्युक्तम् । तत्र प्रमाणम् ,

यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञान आत्मनि । ज्ञानमात्मनि महति निय­च्छे­त्त­द्य­च्छे­च्छान्तः आत्मनि ॥ (क.उ. १.३.१३)

इति कठश्रुतिः, तामर्थत आह वाचमिति −

वाचं नियच्छात्मनि तं नियच्छ
बुद्धौ धियं यच्छ च बुद्धिसाक्षिणि ।
तं चापि पूर्णात्मनि निर्विकल्पे
विलाप्य शान्तिं परमां भजस्व ॥३७०॥

३७०

वाचं वागिन्द्रियम् आत्मनि मनसि नियच्छ निरुन्धि, वाग्व्यापारं विहाय आदौ मनो­मा­त्रे­णा­व­ति­ष्ठस्व इत्यर्थः । पश्वादीनामिव यदा मौनं दृढं भवति ततः सङ्क­ल्प­वि­क­ल्पा­त्मकं मनोरूपात्मानं केव­ला­ध्य­व­सा­य­ल­क्ष­णायां बुद्धौ नियच्छ । तदा वास्यादिरहितः तक्षेव कर्त्र्यपि बुद्धिः बहि­र्व्या­पा­रेभ्यः शान्ता भवति । तां शान्तां धियं बुद्धिसाक्षिणि बुध्युपहिते चैतन्ये बुद्धे­रु­पा­धित्वं भङ्क्त्वा केवलावबोधमात्रे यच्छ । शोधि­त­त्वं­प­दार्थं जानीहीत्यर्थः । तच्चापि पूर्णात्मनि त्रिवि­ध­प­रि­च्छे­द­शून्ये निर्विकल्पे निर्गुणे तत्पदलक्ष्ये ब्रह्मणि विलाप्य एकीकृत्य परमाम् आत्यन्तकीं शान्तिं मोक्षरूपां भजस्व ॥३७०॥

वृत्तिनिरोधस्य स्वरू­पा­न­न्दा­भि­व्य­ञ्ज­कत्वं सोपपत्तिकमाह देहेति −

देह­प्रा­णे­न्द्रि­य­म­नो­बु­द्ध्या­दि­भि­रु­पा­धिभिः ।
यैर्यैः वृत्तेः समायोगः तत्तद्भावोऽस्य योगिनः ॥३७१॥

३७१

तन्निवृत्त्या मुनेः सम्यक् सर्वोपरमणं सुखम् ।
सन्दृश्यते सदा­न­न्द­र­सा­नु­भ­व­वि­प्लवः ॥३७२॥

३७२

यथा स्वच्छोऽपि स्फटिकः नील­व­स्त्रा­दि­यो­गेन नीला­दि­रू­प­व­त्त्वेन भाति स्वयं स्वच्छः सन्नेव, तथा अस्य आत्मनः देह­प्रा­णे­न्द्रि­य­म­नो­बु­द्ध्या­दिभिः आदिपदेन आनन्दमयकोशः गृह्यते । यैः यैः वृत्तेः समायोगः आका­र­ता­ख्य­स­म्बन्धः आन्तरैर्वा बाह्यैर्वा कोशैः तत्तद्भावः तत्त­त्ता­दा­त्म्यम् । तेन तदीयधर्मैः धर्मवत्वेन अवि­द्या­स्मि­ता­रा­ग­द्वे­षा­भि­नि­वे­श­रूपाः पञ्चक्लेशाः । अस्यैव योगिनः बहिर्वृत्तीः निरुन्धतः । तत्र हेतुः मुनेरिति, कोश­प­ञ्च­क­वि­वे­क­प्र­क­र­णो­क्त­यु­क्तिभिः ताननात्मत्वेन निषेधतः । तत्र अहं वृत्तीरकुर्वतः तन्निवृत्त्या देहा­द्यु­पा­धि­नि­वृत्त्या सर्वोपरमणं सर्वेषां दुःखात्मकानाम् अनात्मनाम् उपरमणम् अभानं यत्र सुखे तत्सर्वोपरमणं सुखं सम्यग्भवतीति शेषः । तत्र मानं सदा­न­न्द­र­सा­नु­भ­व­वि­प्लवः सन्दृश्यत इति । विप्लवः मग्नता पूर्णता वा, निदाघतप्तस्य जाह्न­वी­ह्र­द­नि­म­ग्नस्य यथा अन्त­र्ब­हि­रा­न­न्द­स्फूर्तिः तथा सर्वो­पा­धि­वि­नि­र्मु­क्तस्य केवलीभूतस्य अख­ण्डा­न­न्द­स्फू­र्ति­रिति भावः ॥३७२॥

एतस्मिन् निर्विकल्पकयोगे हेतु­भू­त­स­र्वो­पा­धि­नि­वृत्तौ वैराग्यं ‘योगस्य प्रथमं द्वारम्’ इति सूत्रस्थानीये श्लोके (३६८) निराशाशब्देन कथितं ‘विवे­क­वै­रा­ग्य­गु­णा­ति­रे­कात्’(श्लो. १७७) इति श्लोके मन­श्शु­द्धि­हे­तु­तया ‘ताभ्यां दृढाभ्यां भवितव्यमग्रे’(श्लो. १७७) इत्युक्तं तीव्र­त­म­म­न्त­र­ङ्ग­सा­ध­न­मिति निरूपयति अन्तस्त्याग इति −

अन्तस्त्यागो बहिस्त्यागो विरक्तस्यैव युज्यते ।
त्यज­त्य­न्त­र्ब­हि­स्सङ्गं विरक्तस्तु मुमुक्षया ॥३७३॥

३७३

बहिस्तु विषयैः सङ्गः तथान्तरहमादिभिः ।
विरक्त एव शक्नोति त्यक्तुं ब्रह्मणि निष्ठितः ॥३७४॥

३७४

अन्त­र्ब­हि­र्भा­वेन वर्तमानानां सर्वेषाम् अनात्मनां त्यागः विरक्तस्यैव युज्यते उपपद्यते । तत्र हेतुः विरक्तस्तु विरक्त एव मुमुक्षया कैवल्येच्छया अन्त­र्ब­हि­स्सङ्गं त्यजति । अहं मम भावं न करोति । सङ्गं विभज्य दर्शयति बहिरिति, बहिस्तु विषयैः पुत्रादिभिः शब्दादिभिश्च सङ्गः, तथा अन्तः अहमादिभिः देह­प्रा­ण­म­नो­बु­द्धयः आदिपदार्थः तैः सङ्गः अवास्तवः तादा­त्म्य­रू­प­स­म्बन्धः । इममुभयविधमपि सङ्गं विरक्त एव निष्काममनस्क एव त्यक्तुं शक्नोति । त्यागे बीजमाह ब्रह्मणि निष्ठित इति । ब्रह्मण्येव नितरां सर्वदा स्थितः अप्रच्युतमना इत्यर्थः ॥३७४॥

ब्रह्मात्मना संस्थितौ वैराग्यवद् बोधं कारणमाह वैराग्येति −

वैराग्यबोधौ पुरुषस्य पक्षिवत्
पक्षौ विजानीहि विचक्षण त्वम् ।
विमु­क्ति­सौ­धा­ग्र­त­ला­धि­रो­हणं
ताभ्यां विना नान्यतरेण सिद्ध्यति ॥३७५॥

३७५

हे विचक्षण त्वं पुरुषस्य मुक्तिं प्रेप्सतः वैराग्यबोधौ वैराग्यं च बोधश्च वैराग्यबोधौ वैराग्यमुक्तम् , बोधः आत्मा­ना­त्म­वि­वे­क­जन्यः आत्म­स्व­रू­प­या­था­त्म्या­नु­भवः पक्षिवत्पक्षिण इव पक्षिवत् षष्ठ्य­न्ता­द्वतिः पक्षौ विजानीहि । तत्र हेतुः विमु­क्ति­सौ­धा­ग्र­त­ला­धि­रो­हणं विमुक्तिरूपं सौधाग्रतलं रम्य­र­म्य­मु­च्च­स्थानं तस्याधिरोहणं प्राप्तिः, ताभ्यां समुच्चिताभ्यां विना अन्यतरेण वैराग्येण वा बोधेन वा एकेन न सिद्ध्यति । नहि पक्षी एकेन पक्षेण अम्बरतलं गाहितुमीष्टे तद्व­त्प्र­कृ­तेऽ­पीति भावः ॥३७५॥

तदुपपादयति अत्यन्तेति −

अत्य­न्त­वै­रा­ग्य­वतः समाधिः
समाहितस्यैव दृढप्रबोधः ।
प्रबु­द्ध­त­त्त्वस्य हि बन्धमुक्तिः
मुक्तात्मनो नित्य­सु­खा­नु­भूतिः ॥३७६॥

३७६

अत्य­न्त­वै­रा­ग्य­वतः अत्यन्तं यथा मनः पुनः नैव सज्जते अनात्मसु तथा तीव्रवैराग्यं जुगुप्सा अस्यास्तीति अत्य­न्त­वै­रा­ग्य­वान् तस्य समाधिः ब्रह्मनिष्ठा सम्भवति । समाहितस्यैव ब्रह्मणि संस्था­पि­त­म­न­स्क­स्यैव दृढप्रबोधः प्रत्य­या­न्त­रा­मि­श्रि­त­ब्र­ह्म­प्र­त्ययः । प्रबुद्धं तत्त्वं येन सः प्रबुद्धतत्त्वः तस्य बन्धमुक्तिः अनात्मनि आत्म­बु­द्ध्य­नु­त्पत्तिः । मुक्तात्मनो नित्य­सु­खा­नु­भूतिः मुक्त आत्मा यस्य सः मुक्तात्मा अतस्मिन् तद्बु­द्धि­र­हि­ता­न्तः­क­र­ण­स्तस्य नित्यं यत् सुखम् आत्मस्वरूपं तदनुभूतिः आव­र­ण­वि­क्षे­प­शू­न्य­ज्ञा­न­व­त्त्वा­न्नि­र­र्ग­ला­त्मा­न­न्दा­नु­भवः इति भावः ॥३७६॥

न सुखं देवराजस्य न सुखं चक्रवर्तिनः । यादृशं वीतरागस्य मुने­रे­का­न्त­शी­लिनः ॥ (भाग­व­त­मा­हात्म्ये ४.७५) यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् । तृष्णा­क्ष­य­सु­ख­स्यैते नार्हतः षोडशीं कलाम् ॥ (म.भा.शा.प. २८२.६) यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान्वेदेषु सर्वेषु ब्राह्मणस्य विजानतः ॥ (भ.गी. २.४६)

‘श्रोत्रियस्य चाकामहतस्य’(तै.उ. २.८) ‘सोश्नुते सर्वान्कामान् सह’(तै.उ. २.१) इत्या­दि­प्र­मा­ण­सि­द्ध­मर्थं वैराग्यस्य बोधस्य च फलं स्वानुभवसिद्धं प्रस्तौति वैराग्यादिति −

वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः
तच्चेत् शुद्ध­त­रा­त्म­बो­ध­स­हितं स्वारा­ज्य­सा­म्रा­ज्य­धुक् ।
एत­द्द्वा­र­म­ज­स्र­मु­क्ति­यु­वतेः यस्मा­त्त्व­म­स्मा­त्परं
सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे ॥३७७॥

३७७

वश्यात्मनः वश्यः आत्मा कार्यकरणसङ्घातः यस्य आस­न­प्रा­णा­या­मा­दिना देहे­न्द्रि­या­दि­व­शी­का­रेऽपि वैराग्यं विना सुखं नास्ति, अणिमादिविभूतिषु सक्तानां बन्धस्य अवर्जनीयत्वात् । अवगम्यते हि पुराणादौ हिर­ण्य­क­शि­प्वा­दयः महत् तपः समास्थायापि वैराग्याभावात् संसारिणः बभूवुरिति । न हि तादृशं तपः अस्थिष्वपि पिपी­लि­का­स­ञ्चा­रेऽपि अच्युतत्वं तपसः वश्यात्मत्वं विना सम्भवति । अतः वश्यात्मनोऽपि सुखं वैराग्यं विना न सम्भ­व­ती­त्यु­च्यते । देहादिकम् अवशयतः वैराग्यं नैव सम्भवति इति वश्यात्मन इत्युक्तम् । तथा च हठयोगादिना वश्यात्मनोऽपि सुखस्य जनकं वैराग्यात्परं न पश्यामि । तत् वैराग्यं शुद्धतरः य आत्मबोधः पञ्च­को­श­वि­वे­क­ज­न्या­त्म­स्व­रू­पा­व­गमः तेन सहितं चेत् स्वारा­ज्य­सा­म्रा­ज्य­धुक्, स्वयमेव राट् स्वराट्, रागसत्तायां हि विषयगमनेन मनसः तदधीनता, वैराग्ये अनन्याधीनः, तस्य भावः स्वाराज्यम् इतरानियम्यत्वं तच्च साम्राज्यं सर्वनियामकत्वं ब्रह्मविदः ईश्व­रा­द­प्य­धि­क­त्वात् । ते स्वारा­ज्य­सा­म्राज्ये दोग्धीति स्वरा­ज्य­सा­म्रा­ज्य­धुक् । यस्मात् एतत् वैराग्यम् अज­स्र­मु­क्ति­यु­वतेः द्वारम् , तत्तु ‘अत्य­न्त­वै­रा­ग्य­वतः समाधिः’ इति पूर्वश्लोके कथितम् ।

अस्माद्धेतोः तं सर्वत्र विषयेषु परमत्यन्तम् अस्पृहया, सदात्मनि सद्रूपे ब्रह्मणि सदा निरन्तरं, श्रेयसे मुक्तये प्रज्ञां तत्त्व­प्र­बो­ध­हेतुं निर्वि­क­ल्प­क­स­माधिं कुरु इत्यर्थः । ज्ञानस्य वस्तु­त­न्त्र­त्वेन कर्तु­म­श­क्य­त्वात् प्रज्ञा समाधिः तद्धेतुः ॥३७७॥

आशां छिन्धि विषोपमेषु विषयेष्वेषैव मृत्योस्सृतिः
त्यक्त्वा जाति­कु­ला­श्र­मे­ष्व­भि­मतिं मुञ्चातिदूरात् क्रियाः ।
देहादावसति त्यजात्मधिषणां प्रज्ञां कुरुष्वात्मनि
त्वं द्रष्टा­स्य­म­लोऽसि निर्द्व­य­प­र­ब्र­ह्मासि यद्वस्तुतः ॥३७८॥

३७८

विषोपमेषु विषयेषु आशां छिन्धि, एषैव आशैव मृत्योः स्वरू­पा­त्प्र­च्यु­ति­रू­प­प्र­मा­दस्य सृतिः मार्गः । जातिकुलाश्रमेषु अभिमतिं त्यक्त्वा, क्रियाः जात्या­दि­नि­मित्ताः अतिदूरात् मुञ्च । असति मिथ्याभूते देहादौ आत्मधिषणाम् अहं बुद्धिं त्यज मा कार्षीः । यत् यस्मात्कारणात् त्वं द्रष्टासि देहा­दे­र्दृ­श्यस्य, अमलोऽसि देहादेः समलत्वात् । वस्तुतः निर्गतं द्वयं यस्मात् निर्द्वयम् अद्वैतं तच्च तत् परब्रह्म असि, तस्मात् आत्मनि ब्रह्मणि प्रज्ञाम् अहं ब्रह्मास्मीति ज्ञानं कुरुष्व निर्वि­क­ल्प­क­स­मा­धिना सम्पादय ॥३७८॥

लक्ष्ये ब्रह्मणि मानसं दृढतरं संस्थाप्य बाह्येन्द्रियं
स्वस्थाने विनिवेश्य निश्च­ल­त­नु­श्चो­पेक्ष्य देहस्थितिम् ।
ब्रह्मा­त्मै­क्य­मु­पेत्य तन्मयतया चाख­ण्ड­वृ­त्त्या­निशं
ब्रह्मानन्दरसं पिबात्मनि मुदा शून्यैः किमन्यैर्भ्रमैः ॥३७९॥

३७९

‘प्रारब्धं पुष्यति वपुः’(श्लो. २८०) इति निश्चित्य देह­स्थि­ति­त­त्पो­ष­णा­दा­व­भि­मा­नम् उपेक्ष्य त्यक्त्वा, निश्चलतनुः ‘स्थिर­सु­ख­मा­स­नम्’(२.४६) इति योग­सू­त्रा­नु­सा­रेण निश्चला तनुः यस्य, सुखासने उपविश्य बाह्येन्द्रियं ज्ञान­क­र्मे­न्द्रि­य­ग्रामं स्वस्थाने स्वस्वगोलके विनिवेश्य −

विविक्तदेशे च सुखासनस्थः शुचि­स्स­म­ग्री­व­शि­र­श्श­रीरः । अत्याश्रमस्थः सकलेन्द्रियाणि निरुध्य भक्त्या स्वगुरुं प्रणम्य ॥ हृत्पुण्डरीकं विरजं विशुद्धं विचिन्त्य मध्ये विशदं विशोकम् । अचि­न्त्य­म­व्य­क्त­म­न­न्त­रूपं शिवं प्रशान्तममृतं ब्रह्मयोनिम् ॥ तदा­दि­म­ध्या­न्त­वि­ही­न­मेकं विभुं चिदा­न­न्द­म­रू­प­म­द्भु­तम् । उमासहायं परमेश्वरं प्रभुं त्रिलोचनं नीलकण्ठं प्रशान्तम् ।

ध्यात्वा मुनिर्गच्छति भूतयोनिं समस्तसाक्षिं तमसः परस्तात् ॥ (४-७)

इति कैवल्यश्रुतेः लक्ष्ये ब्रह्मणि मानसं दृढतरं निश्चलं संस्थाप्य ब्रह्मा­त्मै­क्य­मु­पेत्य साक्षात्कृत्य अनिशं च अखण्डवृत्त्या तन्मयतया ब्रह्म रूपतया आत्मनि, ब्रह्मानन्दरसं मुदा पिब । शून्यैः फलरहितैः अनर्थदैश्च अन्यैः अनात्मविषयकैः भ्रमैः अयथार्थज्ञानैः किम् ? ॥३७९॥

करुणातिरेकाद् भगवान् आत्मनिष्ठां मुहुरुपदिशति अनात्मेति −

अनात्मचिन्तनं त्यक्त्वा कश्मलं दुःखकारणम् ।
चिन्त­या­त्मा­न­मा­न­न्द­रूपं यन्मुक्तिकारणम् ॥३८०॥

३८०

कश्मलम् अशुचिविषयकतया अशुचि, अत एव दुःखकारणम् अनात्मचिन्तनं त्यक्त्वा यत् मुक्तिकारणम् आत्य­न्ति­क­दुः­ख­नि­वृ­त्ति­हेतुः तम् आन­न्द­रू­प­मा­त्मानं चिन्तय ॥३८०॥

चिन्त­न­प्र­का­र­मु­प­दि­शति एष इति । ‘धियं यच्छ च बुद्धिसाक्षिणि’(श्लो. ३७०) इत्यस्यार्थमाह −

एष­स्व­य­ञ्ज्यो­ति­र­शे­ष­साक्षी
विज्ञानकोशे विलसत्यजस्रम् ।
लक्ष्यं विधा­यै­न­म­स­द्वि­ल­क्ष­णम्
अख­ण्ड­वृ­त्त्या­त्म­त­या­नु­भा­वय ॥३८१॥

३८१

एष आत्मा स्वयञ्ज्योतिः इतराप्रकाश्यः, अशेषसाक्षी सर्वद्रष्टा, विज्ञानकोशे बुद्धौ विलसति अशेषेण भासते । असद्विलक्षणं सर्वा­व­स्था­स्व­नु­व­र्त­मा­न­त्वेन स्वय­ञ्ज्यो­ति­ष्ट्वेन सर्वसाक्षितया च जड­दृ­श्य­बु­द­ध्या­दि­वि­ल­क्ष­णम् एनम् अजस्रम् , लक्ष्यं विधाय तत्रैव मनः स्थापयित्वा अखण्डवृत्त्या इत­र­प्र­त्य­या­मि­श्रया धारावाहिक्या आत्मतया स्वस्वरूपतया अनुभवाय साक्षात्कुरु ॥३८१॥

वृत्तावखण्डत्वं स्फुटयति एतमिति −

एतमच्छिन्नया वृत्त्या प्रत्य­या­न्त­र­शू­न्यया ।
उल्लेखयन् विजा­नी­या­त्स्व­स्व­रू­प­तया स्फुटम् ॥३८२॥

३८२

प्रत्य­या­न्त­र­शू­न्यया विजा­ती­य­प्र­त्य­या­ति­र­स्कृ­तया अविच्छिन्नया निर्म­ल­व­र्ति­तै­ल­दी­प­ज्वा­ला­वत् तैलधारावत् धारया वहन्त्या वृत्त्या एतम् आत्मानम् उल्लेखयन् विषयीकुर्वन् स्वस्वरूपतया स्फुटं विजानीयात् ॥३८२॥

अत्रात्मत्वं दृढीकुर्वन् अहमादिषु सन्त्यजन् ।
उदासीनतया तेषु तिष्ठेद् घटपटादिवत् ॥३८३॥

३८३

अत्र परमात्मनि आत्मत्वं स्वस्वरूपत्वं दृढीकुर्वन् निश्चिन्वन् अहमादिषु सन्त्यजन् तेषु कदा­चि­त्प्र­ती­ते­ष्वपि घटपटादिवत् घटपटादिष्विव तेषु उदासीनतया अहन्ताशून्यतया तिष्ठेत् ॥३८३॥

वाचं नियच्छात्मनि (श्लो. ३७०) इत्यत्रोक्तं ‘तञ्चापि पूर्णात्मनि’ इति स्फुटं प्रतिपादयति विशुद्धमिति −

विशु­द्ध­म­न्तः­क­रणं स्वरूपे
निवेश्य साक्षि­ण्य­व­बो­ध­मात्रे ।
शनै­श्श­नै­र्नि­श्च­ल­ता­मु­पा­न­यन्
पूर्ण­त्व­मे­वा­नु­वि­लो­क­ये­त्ततः ॥३८४॥

३८४

विशुद्धं तमोरजोहीनम् अन्तःकरणम् अवबोधमात्रे अनुपहिते साक्षिणि स्वरूपे साक्षि­त्वो­प­ल­क्षिते निवेश्य संस्थाप्य शनैश्शनैः निश्च­ल­ता­मु­पा­न­यन् तत्रैव स्थितौ यत्नं कुर्वन् ततः पूर्ण­त्व­मे­वा­नु­वि­लो­क­येत् । दर्पणापनये प्रतिबिम्बं मुखमिव सर्वासु वृत्तिषु निरुद्धासु चिदाभासोऽपि बिम्बभूतं ब्रह्मैव भवतीति भावः ॥३८४॥

एव­म­ख­ण्डा­का­र­वृत्त्या भञ्जिते सत्यज्ञानावरणे तत्कृतविक्षेपाः दूरनिरस्ता एव भवन्ति इति भावेनाह स्वाज्ञा­न­कॢ­प्तै­रिति −

देहे­न्द्रि­य­प्रा­ण­म­नोऽ­ह­मा­दिभिः
स्वाज्ञा­न­कॢ­प्तै­र­खि­लै­रु­पा­धिभिः ।
विमु­क्त­मा­त्मा­न­म­ख­ण्ड­रूपं
पूर्णं महा­का­श­मि­वा­व­लो­क­येत् ॥३८५॥

३८५

स्पष्टमन्यत् ॥३८५॥

तत्र चतु­र्थ­प­दा­र्थ­मु­प­पा­द­यन् दार्ष्टा­न्ति­क­मु­प­पा­द­यति घटेति −

घट­क­ल­श­कु­सू­ल­सू­चि­मुख्यै-
र्गग­न­मु­पा­धि­श­तै­र्वि­मु­क्त­मे­कम् ।
भवति न विविधं तथैव शुद्धं
पर­म­ह­मा­दि­वि­मु­क्त­मे­क­मेव ॥३८६॥

३८६

कुसूलः यत्र धान्यराशिः सम्भ्रियते स महापरिमाणः, सूचिः अत्य­ल्प­च्छिद्रा, अल्पैः महद्भिश्च घट­क­ल­श­कु­सू­ल­सू­चि­मुख्यैः मुख्यपदेन पाश­कू­पा­दि­प­रि­ग्रहः उपाधिशतैः सूच्याकाशः पाशाकाशः इत्यादि भिन्न­भि­न्न­व्य­व­हा­र­प्र­यो­जकैः पर­स्स­ह­स्रो­पा­धिभिः विमुक्तं गगनम् एकं भवति महाकाश इति व्यवह्रियते न वस्तुतः विविधम् अनेकप्रकारं भवति । तथैव शुद्धं परं ब्रह्म अहमादिविमुक्तम् एकमेव ॥३८६॥

दार्ष्टान्तिके मृषा­त्वा­च्चो­पा­धीनां सुल­भ­मे­क­त्व­ज्ञा­न­मि­त्याह ब्रह्मेति −

ब्रह्माद्याः स्तम्बपर्यन्ताः मृषामात्रा उपाधयः ।
ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् ॥३८७॥

३८७

ब्रह्मा सम­ष्टि­लि­ङ्ग­श­री­रा­भि­मानी चतु­र्द­श­भु­व­ना­धि­पतिः स आद्यः येषामुपाधीनां ते ब्रह्माद्याः, स्तम्बः अणुतमो जन्तुः सः पर्यन्तः अवधिः येषां ते स्तम्बपर्यन्ताः उपाधयः भेदकदेहाः मृषामात्राः सर्वाधिष्ठाने ब्रह्मणि कल्पिताः न वस्तुभूताः बाधयोग्याः इत्यर्थः । ततः विमृश्यमाने तेषा­म­प्र­ती­य­मा­न­त्वात् एकात्मना कल्पा­र्ण­व­व­त्स्थितं पूर्णं त्रिवि­ध­प­रि­च्छे­द­शून्यं स्वमात्मानं स्वमुख्यस्वरूपं ब्रह्म पश्येत् साक्षा­त्कु­र्यात् ॥३८७॥

सोपपत्तिकं ब्रह्म­व्य­ति­रे­केण भेदकत्वेनाभिमतं किमपि नास्तीत्याह यत्रेति −

यत्र भ्रान्त्या कल्पितं यद्विवेके
तत्तन्मात्रं नैव तस्मा­द्वि­भि­न्नम् ।
भ्रान्तेर्नाशे भ्रान्ति­दृ­ष्टा­हि­तत्त्वं
रज्जु­स्त­स्मा­द्वि­श्व­मा­त्म­स्व­रू­पम् ॥३८८॥

३८८

यत्राधिष्ठाने भ्रान्त्या यत्कल्पितम् आरोपितं तत् तन्मात्रम् अधिष्ठानमात्रं भवति विवेके । विचारं कृत्वा जातेन नायं सर्प इत्यादिनिषेधेन भ्रान्तेः अयं सर्प इत्याकारिकायाः नाशे सति भ्रान्त्या दृष्टं यदहितत्त्वं सर्पस्वरूपं रज्जुरेव तद्वत् । ‘अथात आदेशो नेति नेति’(बृ.उ. २.३.६) इत्यादि वाक्यैः जनि­त­नि­षे­ध­ज्ञा­नेन विश्वं सर्वं जगत् अधि­ष्ठा­न­भू­ता­त्म­स्व­रूपं पश्चान्नैव प्रतीयते रज्जुसर्पवदिति भावः ॥३८८॥

स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः ।
स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किञ्चन ॥३८९॥

३८९

‘तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदे, अहं मनुरभवं सूर्यश्च’(बृ.उ. १.४.१०) इत्यादिश्रुतेः, ‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’(तै.उ. २.८) इति च, एकमेव चैतन्यम् उपाधिभेदात् ब्रह्मा विष्णुः शिव इन्द्रः इत्येवं व्यवह्रियते । एकैव रज्जुः सर्पः दण्डः जलधारा भूतलच्छिद्रम् इति यथा कल्पयते तथा इदं सर्वं विश्वं स्वयं ब्रह्मैव स्वस्मादन्यन्न किञ्चन सामान्ये विशेषाणां कल्पितत्वात् स्वयमहं पश्यामि स्वयं त्वं पश्य स्वयं सोऽद्राक्षीत् इत्यादि व्यवहारेष्वपि अह­न्त्व-त्व­न्त्व-त­त्ता­दीनां व्याव­र्त­मा­न­त्वेऽपि स्वयन्त्वस्य सर्व­त्रा­नु­व­र्त­मा­न­त्वेन स्वयम्पदार्थे आत्मनि सर्वे विशेषाः कल्पिताः तदतिरेकेण न सन्तीति भावः ॥३८९॥

‘ब्रह्मै­वे­द­म­मृतं पुरस्ताद्ब्रह्म पश्चात् ब्रह्म दक्षि­ण­त­श्चो­त्त­रेण’(मु.उ २.२.१२) , ‘अहमेवाधस्तात् आत्मैवाधस्तात्’(छा.उ. ७.२५.१) इत्यादि मुण्ड­क­छा­न्दो­ग्यादि श्रुत्यर्थं ध्यानदार्ढ्याय वृत्त्या­ख­ण्ड्याय च उपदिशति अन्तरिति −

अन्तः स्वयं चापि बहिःस्वयं च
स्वयं पुरस्तात् स्वयमेव पश्चात् ।
स्वयं ह्यवाच्यां स्वय­म­प्यु­दीच्यां
तथोपरिष्टात् स्वयमप्यधस्तात् ॥३९०॥

३९०

तर­ङ्ग­फे­न­भ्र­म­बु­द्बु­दादि
सर्वं स्वरूपेण जलं यथा तथा ।
चिदेव देहा­द्य­ह­म­न्त­मे­तत्
सर्वं चिदेवैकरसं विशुद्धम् ॥३९१॥

३९१

भ्रमः आवर्तः, तर­ङ्ग­फे­न­भ्र­म­बु­द्बु­दादि सर्वं स्वरूपेण यथा जलमेव नातिरिक्तिमस्ति तथा देहादि अहमन्तम् अहङ्कारान्तम् एतत् सर्वं विशुद्धम् एकरसं चिदेव । यस्य स्फुरणं विना यन्न स्फुरति न तत्त­तोऽ­ति­रि­च्यते यथा रज्जुसर्पादि । ‘तमेव भान्त­म­नु­भा­ति­सर्वं तस्य भासा सर्वमिदं विभाति’(क.उ. ५.१५) इति श्रुतेः आत्म­भा­न­व्य­ति­रे­केण भानाभावात् सर्वमात्मैव ॥३९१॥

सदेवेदं सर्वं जगदवगतं वाङ्मनसयोः
सतोऽ­न्य­न्ना­स्त्येव प्रकृतिपरसीम्नि स्थितवतः ।
पृथक्किं मृत्स्नायाः कल­श­घ­ट­कु­म्भा­द्य­व­गतं
वदत्येष भ्रान्त­स्त्व­म­ह­मिति मायामदिरया ॥३९२॥

३९२

सन् घटः सन् पटः सत्कुड्यम् इत्यादिवाचा सामा­ना­धि­क­र­ण्य­वत्या, भिन्न­प्र­वृ­त्ति­नि­मि­त्त­कयोः शब्दयोः एकस्मिन्नर्थे वृत्तित्वं पदनिष्ठं सामानाधिकरण्यम् ।

एकत्र वृत्तिरर्थे शब्दानां भिन्न­वृ­त्ति­हे­तू­नाम् । सामानाधिकरण्यं भवतीत्येवं वदन्ति लाक्षणिकाः॥ (श्लो. ३०)

इति स्वात्म­नि­रू­प­णोक्तेः । मनसा च तादृ­श­वा­ग्ज­न्य­प्र­त्य­येन च इदं सर्वं जगत् सदेवेत्यवगतं वाङ्मनसयोरिति निमित्तसप्तमी वाङ्म­न­सा­भ्या­मि­त्यर्थः । यद्वा वाक् ‘ऐतदात्म्यमिदं सर्वम् , वाचारम्भणं विकारो नामधेयं’(छा.उ. ६.८.७) इत्यादि श्रुतिः, मनः प्रप­ञ्च­प्र­वि­ला­प­न­मा­र्गेण −

जनिविपरीतक्रमतो बुद्ध्या प्रविलाप्य पञ्चभूतानि । परि­शि­ष्ट­मा­त्म­तत्वं पश्यन्नास्ते मुनिश्शान्तः ॥ (आ.वि.वि. २.११)

इति रीत्या अधि­ष्ठा­न­मा­त्र­वि­ष­यिणी अख­ण्डा­का­र­वृत्तिः, तयोः वाङ्मनसयोः तस्यां वाचि तस्यां वृत्तौ च ब्रह्म­व्य­ति­रे­केण जगन्नैवावगम्यत इति यश्चोरः स स्थाणुरितिवत् इदं सर्वं जगत् सदेव सद्व्यतिरेकेण नास्ति यश्चोरत्वेन ज्ञातः स स्थाणुः इति चोरत्वे बाधिते तयोः पदयोः सामानाधिकरण्यम् एवं ‘ब्रह्मैवेदं विश्वम्’(मु.उ २.१२) ‘ऐतदात्म्यमिदं सर्वम्’(छा.उ. ८.७) इत्यादिश्रुतिषु सर्वत्वं बाधित्वा यत्सर्वत्वेन ज्ञातं तद्ब्रह्मैवेति बोध्यते । इद­मु­प­पा­दि­त­म­ध­स्तात् । वाङ्म­न­स­यो­रि­त्यु­क्त­मर्थं विशदयति सत इति । प्रकृतिपरसीम्नि प्रकृतीनाम् उपादानानां परा या सीमा उपा­दा­न­त्व­वि­श्रा­न्ति­भूमिः सर्वोपादानं ब्रह्मेत्यर्थः । तत्र स्थितवतः, यद्वा प्रकृतेः मूलप्रकृतेः मायायाः परा या सीमा तस्या अपि कल्पनाधिष्ठानं निर्गुणं ब्रह्म तत्र स्थितवतः सतोऽ­न्य­न्ना­स्त्येव ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुतेः । एतेन सर्वेषां बाध उपादानेन अज्ञानेन सह नाशः उक्तो भवति । तमंशं दृष्टान्तेनाह, पृथगिति घटकलशकुम्भादि पूर्वं पृथक्त्वेनावगतं विचार्यमाणे मृत्स्नायाः मृदः पृथक्किम् ? वाचा­र­म्भ­ण­श्रुतेः । अयमंशः विस्तरेण मृत्का­र्य­भू­तोऽपि (श्लो. २३०) इत्यादिना स्वयमाचार्यैः उपपादितः । मायामदिरया भ्रान्तः, त्वम् एषः अविवेकी अहमिति एकमपि वस्तु पृथग्वदति । मायैव मदिरा विप­री­त­ग्रा­ह­क­त्वात् ॥३९२॥

अतः भ्रान्ति­ना­शा­र्थम् अद्वैतवस्तु चिन्तनीयमित्याह श्रुत्य­व­ष्ट­म्भेन क्रिया­स­म­भि­हा­रे­णेति −

क्रियासमभिहारेण यत्र नान्यदिति श्रुतिः ।
ब्रवीति द्वैतराहित्यं मिथ्या­ध्या­स­नि­वृ­त्तये ॥३९३॥

३९३

‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) इति श्रुतिः क्रियासमभिहारेण पौनःपुन्येन द्वैतराहित्यं द्वयोर्भावः द्विता सैव द्वैतं तस्य भेदस्य राहित्यम् अभावं ब्रवीति । किमर्थमिति चेत् मिथ्या­ध्या­स­नि­वृ­त्तये मिथ्याभूतः यः अध्यासः भेदभ्रमः तन्निवृत्तये । यद्वा अध्यासशब्देन प्रप­ञ्च­रू­पा­र्था­ध्यासः ग्राह्यः तस्य निवृत्तये तस्य अधि­ष्ठा­ना­व­शे­ष­त्व­ल­क्ष­ण­ना­शाय बाधायेति यावत् ‘अधिष्ठानावशेषो हि नाशः कल्पितवस्तुनः’ इत्य­भि­यु­क्तोक्तेः रज्जुसर्पादौ दृष्टत्वाच्च । यदि विश्वं सत्यं स्यात् कथं दर्श­न­श्र­व­ण­वि­ज्ञा­ना­दि­वि­षयो न स्यात् । अतः ब्रह्मणि वर्तमानस्य पुरुषस्य विश्वभानाभावात् मिथ्येति भावः ॥३९३॥

ब्रह्मस्वरूपं सम्यक् चित्ते आरोहयति ध्यातुम् आकाशेति −

आका­श­व­न्नि­र्म­ल­नि­र्वि­कल्प-
निस्सी­म­नि­स्स्प­न्द­न­नि­र्वि­का­रम् ।
अन्त­र्ब­हि­श्शू­न्य­म­न­न्य­द­द्वयं
स्वयं परं ब्रह्म किमस्ति बोध्यम् ॥३९४॥

३९४

अन्त­र्ब­हि­श्शू­न्य­मि­त्य­न्तम् आकाशब्रह्मणोः साधर्म्यम् , अनन्यम् अद्वयमिति ब्रह्मविशेषणम् , आकाशवत् निर्मलं न ह्याकाशं धूल्यादिभिः धूसरितं भवति तथा ब्रह्मापि अज्ञा­ना­द्य­स्पृष्टं वस्तुतः निर्विकल्पम् एकरूपम् इत्यर्थः । निस्सीमम् अनवधि, निस्स्पन्दनं निष्क्रियं, निर्विकारम् उत्प­त्ति­ना­श­वृ­द्धि­ह्रा­सा­दि­शू­न्यम् , अन्त­र्ब­हि­श्शून्यं परिच्छिन्नस्य हि अन्तर्बहिरिति, पूर्णत्वात् अन्त­र्ब­हि­श्शून्यं स्वगतभेदरहितम् , अनन्यत् प्रत्यगभिन्नं न अन्यत् अनन्यत् , अद्वयं न विद्यते द्वयं यस्य अद्वितीयम् इत्यर्थः । विजातीयशून्यं, स्वयं स्वतस्सिद्धं परं ब्रह्म तस्मिन् बुद्धे किम् अस्ति बोध्यम् । एकस्मिन् विदिते सर्वं विदितं भवति इति सर्वात्मके परमात्मनि विदिते न किमपि बोद्ध­व्य­म­व­शि­ष्यत इति भावः । यद्वा अनन्यत् सर्वात्मकम् अत एवाद्वयं स्वव्य­ति­रि­क्त­द्वि­ती­य­शून्यं परं बह्मैव स्वयं जीवः आत्मा अतः अन्यत् बोध्यं किमस्तीत्यर्थः । आकाशवदिति श्रोतृ­बु­द्ध्या­रो­हाय दृष्टान्तः इषुरिव सविता धावतीतिवत् । नहि ब्रह्मणः सदृशं वस्तु विद्यते ‘न तत्सम’(श्वे.उ. ६.८) इति श्रुतेः । आकाशस्य ‘प्रति­ज्ञाऽ­हा­नि­र­व्य­ति­रे­का­च्छ­ब्देभ्यः’(ब्र.सू. २.३.६) इत्यु­त्प­त्ति­सा­ध­नात् । लोके तदुत्पत्त्यादेः अदृष्टत्वात् तद्व­न्नि­र्वि­कारं ब्रह्मेति ‘आका­श­व­त्स­र्व­ग­तश्च नित्यः’(छा.उ. ३.१४.३, गौड.३.३) इत्या­दि­व­द्वक्तुं शक्यत्वात् ॥३९४॥

वक्तव्यं किमु विद्यतेऽत्र बहुधा ब्रह्मैव जीवस्स्वयं
ब्रह्मै­त­ज्ज­ग­दा­प­राणु सकलं ब्रह्माद्वितीयं श्रुतेः ।
ब्रह्मैवाहमिति प्रबुद्धमतयः सन्त्य­क्त­बाह्याः स्फुटं
ब्रह्मीभूय वसन्ति सन्त­त­चि­दा­न­न्दा­त्म­नैव ध्रुवम् ॥३९५॥

३९५

अत्र ब्रह्मै­क­त्व­वि­षये बहुधा अनेकप्रकारैः वक्तव्यं किमु विद्यते, सम्य­ग्बु­द्ध्या­रो­हाय बहुभिः दृष्टान्तैः सर्व­वे­दा­न्त­ता­त्प­र्य­वि­ष­यार्थः प्रतिपादितः तं सङ्ग्रहेण कथयति । विस्त­र­स­ङ्ग्र­हा­भ्याम् उक्तोऽर्थः सम्यग्ज्ञातुं शक्यत इति वदन्ति खलु −

श्लोकार्धेन प्रवक्ष्यामि यदुक्तं ग्रन्थकोटिभिः । ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव नापरः ॥

इति । ब्रह्मैव जीवस्स्वयं जीव­त्व­मे­वौ­पा­धिकं ब्रह्मत्वं तु ‘जीव इति ज्ञातस्य वास्तविकं स्वरूपं’ रज्जुरिव सर्पस्य । अतः जीवस्स्वयं ब्रह्मैव न व्यतिरिक्तः । आपराणु परमाणुपर्यन्तं सकलमेतत् जगत् वियदादि ब्रह्मैव तज्जत्वात् तल्लत्वात् तदनत्वात् च ‘सर्वं खल्विदं ब्रह्म, तज्जलानिति शान्त उपासीत’(छा.उ. ३.१४.१) इति श्रुतेः तज्जलानमिति भवितव्ये अव­य­व­लो­प­श्छा­न्दसः परमे व्योमन् इत्यादिवत् । अनादि अज्ञानादिकमपि तत्राधिष्ठाने कल्पितमिति न ततोऽतिरिच्यते अतः ब्रह्म अद्वितीयं स्वव्य­ति­रि­क्त­व­स्तु­शून्यं ‘तत्त्वमसि’(छा.उ. ६.१६.१३) , ‘अयमात्मा ब्रह्म’(मां.उ. २) ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) ‘आत्मैवेदं सर्वं’(छा.उ. ७.२५.२) ‘ब्रह्मैवेदं सर्वम्’(नृ.उ. ७.३) ‘एक­मे­वा­द्वि­ती­यम्’(छा.उ. ६.२.९) इत्यादिश्रुतेः । ब्रह्मैवाहमिति प्रबुद्धमतयः प्रबुद्धा श्रुत्या­चा­र्यो­प­दे­शेन ज्ञातज्ञेया मतिः बुद्धिः येषां ते प्रबुद्धमतयः स्फुटं वासनया सह सन्त्य­क्त­बाह्याः स्वरू­प­त­स्त्य­क्ता­ह­मा­दयः, ब्रह्मीभूय पूर्वमज्ञानात् अब्रह्मत्वं स्वस्य कल्पितं तदभिप्रायेण च्विप्रत्ययः, साक्षा­त्कृ­त­ब्र­ह्म­भावाः सन्त­त­चि­दा­न­न्दा­त्म­नैव वसन्तीति विद्वदनुभवः उक्तः । एतत् ध्रुवं निश्चयः । यद्वा ध्रुवं निश्चलतया वसन्तीति योजना ॥३९५॥

स्फुटं सन्त्य­क्त­बा­ह्य­त्वात् −

जहि मल­म­य­को­शेऽ­ह­न्धि­यो­त्था­पि­ताशां
प्रसभमनिलकल्पे लिङ्गदेहेऽपि पश्चात् ।
निगमगदितकीर्तिं नित्य­मा­न­न्द­मूर्तिं
स्वयमिति परिचीय ब्रह्मरूपेण तिष्ठ ॥३९६॥

३९६

मलमयकोशे प्राचुर्यार्थे मयट्, स्थूलदेहे अहन्धिया उत्थापिता जनिता या आशा तस्मिन् पोषणार्थेषु च, तां प्रसभं बलात्कारेण जहि नाशय । मलमयेति हेतु­ग­र्भ­वि­शे­ष­णम् अहन्धियः हानार्थम् । उक्तं हि ‘पिण्डाण्डं त्यज्यतां मलभाण्डवदिति ।’(श्लो. २९०) पश्चात् स्थूल­दे­ह­स­म्ब­न्ध्या­शा­ना­शा­न­न्त­रम् अनिलकल्पे वायुवददृश्ये लिङ्गदेहेऽपि सप्तदशावयवोपेते सूक्ष्मशरीरे अपि अहन्धिया उत्थापिता या आशा मनो­नु­कू­ल­वि­ष­येषु, तां जहि प्रथमत एव सूक्ष्मत्यागस्य दुष्करत्वात् दूर­दू­र­स्थू­ल­प­दा­र्थ­त्या­गेन सन्नि­हि­त­सू­क्ष्म­त्यागः सुकरः इति स्थूल­प­दा­र्थ­वि­ष­याशाः जही­त्या­दा­वु­क्तम् । तत्र हेतुः अहन्धीरिति कथनेन दृष्टबीभत्से अहन्धियोऽभावे आशा नैव जायते निमित्तापायात् इति सूचितम् । श्रुतिश्च अस्मा­ल्लो­का­त्प्रेत्य, ‘एत­म­न्न­म­य­मा­त्मा­न­मु­प­स­ङ्क्रा­मति’(तै.उ. २.१०) इत्यादिना पुत्रमित्रादिषु बाह्येषु अहन्तां त्यक्त्वा देह­मा­त्र­मा­त्म­त्वेन मन्वीत, ततः ततोऽन्तरं प्राणमेव इति प्रतिपत्तॄणां सौकर्याय उपदिदेश । तेनैव क्रमेण प्रथमं देहा­र्थ­पु­त्रा­दि­वि­ष­येषु आशापरित्यागः आशैव त्यक्तव्या इति यदा तदा किं वक्तव्यम् अहन्ताया विषये । ततः स्थूलशरीरे अहन्तायाः आशायाश्च त्यागः, ततः प्राण­म­य­म­नो­म­य­वि­ज्ञा­न­म­य­घ­टिते सूक्ष्मशरीरे पञ्च­को­श­वि­वे­क­प्र­क­र­णो­क्त­यु­क्तिभिः अहन्धियं तत्प्रयोज्याशां च जहि नाशय, ‘मानभूवं हि भूयासम्’ इति परप्रेम आत्मनि सर्वस्यास्ति । स्थूला­दा­व­ह­न्धियि अयं प्रेमा तत्रैव भवतीति आशा दुर्निरसा । अतः क्रमेण विचारेण जनि­त­दृ­ढ­वि­वे­क­ज्ञा­नेन स्थूल­सू­क्ष्म­श­री­रयोः अहन्तायां त्यक्तायां प्रिय­मो­दा­द्य­व­य­वो­पे­ता­न­न्द­म­य­कोशे सावयवत्वाद् औपाधिकत्वाच्च अनि­त्य­त्व­नि­श्च­येन अहन्ता नैव सम्भवति । एवं पञ्चकोशान् अनात्मत्वेन निश्चित्य, निगमगदितकीर्तिं निगमैः वेदैः गदिता किर्तिः सर्व­ज्ञ­त्व­स­र्व­श­क्त­त्व­स­र्व­प्रा­णि­प्रा­ण­यि­तृ­त्व­स­र्व­प्र­शा­स्तृत्व − विशि­ष्ट­स­गु­णा­धि­ष्ठा­न­त्व­स­च्चि­द­न­न्द­घ­न­त्व­वा­ङ्म­न­सा­गो­च­रत्व − निरा­धा­र­त्व­नि­र्गु­ण­त्व­नि­ष्क­ल­त्व­नि­र्वि­क­ल्प­त्व­नि­र­ञ्ज­नत्व − सूक्ष्म­त­म­त्व­नि­त्य­शु­द्ध­मु­क्त­बु­द्ध­स­त्या­न­न्द­स्व­भा­व­त्वा­दि­रूपा यस्य तम् , नित्य­मा­न­न्द­मू­र्तिम् , एतेन आन­न्द­म­य­को­श­नि­रासः तस्य नित्यत्वाभावात् परमात्मानं स्वयमिति स्वस्वरूपमिति, परिचीय निश्चित्य अनुभूय ब्रह्मरूपेण तिष्ठ कोशानां पञ्चानाम् अनात्मत्वेन निषिद्धत्वात् ब्रह्मै­वा­त्मे­त्य­न­ङ्गी­कारे नैरा­त्म्य­वा­द­प्र­स­ङ्गात् अत एव श्रुतिः ‘असन्नेव स भवति’(तै.उ. २.६) इत्यादिः ॥३९६॥

शवाकारं यावद्भजति मनुजस्तावदशुचिः
परे­भ्य­स्स्या­त्क्लेशो जन­न­म­र­ण­व्या­धि­नि­रयाः ।
यदात्मानं शुद्धं कलयति शिवाकारमचलं
तदा तेभ्यो मुक्तो भवति हि तदाह श्रुतिरपि ॥३९७॥

३९७

मनुजः यावत्कालं, स्थूल­दे­ह­ता­दा­त्म्येन चैतन्यहीनतया तस्य शवत्वं, पादा­ङ्गु­ष्ठ­प्र­भृ­ति­शि­रः­प­र्यन्तं यच्छशरीरं तदेवाहमिति शवाकारं भजति तावत्कालं तस्य मलमयतया अशुचित्वात् अयमपि स्वतः शुचिरपि अशुचिः । तथा परेभ्यः शत्रु­व्या­घ्रा­दिभ्यः क्लेशः स्यात् । जन­न­म­र­ण­व्या­धि­नि­रयाः अस्मिन्लोके जननमरणव्याधयः, देहमात्मत्वेन मत्वा स्थितस्य पापवत्त्वात् ‘योऽन्यथा सन्तमात्मानम्’(म.स्मृ. ४.२५५) इति स्मृतेः देहपाते निरयः । एवं सदा दुःखवत्त्वमेव ‘न ह वै सशरीरस्य सतः प्रिया­प्रि­य­यो­र­प­ह­ति­रस्ति’(छा.उ. ८.१२.१) इति श्रुतेः −

न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् । * 0.6cm अयं लोको नास्ति पर इति मानी पुनः पुनर्वशमापद्यते मे ॥ (क.उ. २.६)

इति यम­व­च­न­रू­प­श्रु­तेश्च । यदा आत्मानं साध­न­च­तु­ष्ट­य­स­म्पन्नः विधिवद् गुरुमुपसद्य तन्मु­खा­र­वि­न्द­ग­लि­त­श्रु­त्य­न्त­वाक्यैः तद­नु­सा­रि­यु­क्ति­भिश्च शुद्धं देहत्रयातीतं शिवाकारम् आनन्दस्वरूपम् अचलम् अप्रमादं यथा तथा कलयति जानाति तदा तेभ्यः परकृतक्लेशेभ्यः जन­न­म­र­ण­व्या­धि­नि­र­ये­भ्यश्च मुक्तो भवति । हि निश्चयः । तत् श्रुतिरप्याह, तदपि श्रुतिराह इति अपि शब्दः भिन्नक्रमो वा । पूर्वार्धं समुच्चिनोति । यथाश्रुते अपिना अनुभवः समुच्चीयते गुरवश्च । आहापीति वा अन्वयः, ‘अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतः’(छा.उ. ८.१२.१) , ‘आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्चन’(तै.उ. २.४) , ‘तरति शोकमात्मवित्’(छा.उ. ७.१.३) , ‘ज्ञात्वा देवं मुच्यते सर्वपाशैः’(श्वे.उ. १.८) , ‘तमेवं विद्वानमृत इह भवति’(तै.आ. ३.१.३) , ‘क्षीणैः क्लेशैः जन्ममृत्यु प्रहाणिः’(श्वे.उ. १.११) , ‘ज्ञात्वा शिवं शान्ति­म­त्य­न्त­मेति’(श्वे.उ. ४.१४) इत्यादिः ।

समाने वृक्षे पुरुषो निमग्नोऽनीशया शोचति मुह्यमानः । जुष्टं यदा पश्य­त्य­न्य­मी­श­मस्य महिमानमिति वीतशोकः ॥ (मु.उ ३.१.२)

इति च । अनेन श्लोकेन पूर्व­श्लो­को­प­दि­ष्टार्थः फलकथनेन उपपादितः अनात्मज्ञाने दुष्फलम् आत्म­या­था­त्म्य­ज्ञाने आत्यन्तिकी दुःख­नि­वृ­त्ति­रिति ॥३९७॥

शुद्ध­शि­वा­का­रत्वं कथमात्मन इति चेदाह स्वात्मनीति −

स्वात्म­न्या­रो­पि­ता­शे­षा­भा­स­व­स्तु­नि­रा­सतः ।
स्वयमेवं परं ब्रह्म पूर्ण­म­द्व­य­म­क्रि­यम् ॥३९८॥

३९८

स्वात्मनि आरोपितानि केवलाज्ञानेन कल्पितानि यानि अशेषाभासवस्तूनि अना­त्म­त­द्ध­र्म­रू­पाणि तेषां निरासतः श्रुतियुक्तिभिः निदिध्यासनेन च विनाशनतः स्वयमेव परं ब्रह्म पूर्ण­म­द्व­य­म­क्रि­यम् ।

अन्वे­ष्ट­व्या­त्म­वि­ज्ञा­नात् प्राक्प्र­मा­तृ­त्व­मा­त्मनः । अन्वि­ष्ट­स्स्यात् प्रमातैव पाप्म­दो­षा­दि­व­र्जितः ॥ गौण­मि­थ्या­त्म­नोऽ­सत्त्वे पुत्र­दे­हा­दि­बा­ध­नात् । सद्ब्र­ह्मा­त्मा­ह­मि­त्येवं बोधे कार्यं कथं भवेत् ॥ (ब्र.सू.भा. १.१.४)

इत्य­भि­यु­क्तोक्तेः, ‘अथा­य­म­श­री­रोऽ­मृतः प्राणो ब्रह्मैव तेज एव’(बृ.उ. ४.४.७) इति श्रुतेश्च ॥३९८॥

आदौ प्रयत्नेन दृश्यं निरुध्य समाधौ क्रियमाणे तत्र निष्ठस्य पूर्वं प्रतीतमपि दृश्यं शशविषाणवद् भवतीत्याह समाहितायामिति −

समाहितायां सति चित्तवृत्तौ
परात्मनि ब्रह्मणि निर्विकल्पे ।
न दृश्यते कश्चिदयं विकल्पः
प्रजल्पमात्रः परिशिष्यते ततः ॥३९९॥

३९९

सति अबाध्ये परात्मनि निर्विकल्पे ब्रह्मणि चित्तवृत्तौ समाहितायां निश्चलतया स्थापितायां सत्याम् अयं विकल्पः कश्चिदपि न दृश्यते । ततः प्रजल्पनमात्रः परिशिष्यते ‘शब्द­ज्ञा­ना­नु­पाती वस्तुशून्यो विकल्पः’(यो.सू. १.९) इति तल्लक्षणात् । अज्ञानस्य समूलकाषं कषितत्वेन कल्पित तादात्म्यमपि नास्तीति केवलमखण्डं सच्चि­दा­न­न्द­मा­त्र­म­स्तीति भावः । यथा असतः अर्थ­क्रि­या­का­रित्वं नास्ति गगनकुसुमादेः एवं यत्पूर्वं सुख­दुः­ख­रा­ग­भ­य­क्रो­धा­दि­क­मु­त्पा­द­या­मास तदपि प्रतीतमपि ब्रह्मनिष्ठं प्रति उत्खा­त­दं­ष्ट्रो­र­ग­वत् न स्वकार्यमाधत्त इति भावः ॥३९९॥

अनात्मवासनानां प्रक्षीणत्वात् एवमुपदेशधारया वासि­ता­द्वै­ता­न्तः­क­रणं शिष्यं प्रति द्वैतस्य अत्यन्तमसत्त्वं सक­ल­वे­दा­न्त­ता­त्प­र्य­वि­ष­यम् अनु­भ­व­यु­क्ति­दृ­ष्टा­न्त­श्रु­ति­भिः­उ­प­दि­शति असत्कल्प इत्यादिना −

असत्कल्पो विकल्पोऽयं विश्व­मि­त्ये­क­व­स्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४००॥

४००

विश्वमिति यत् अयं विधे­य­प्रा­धा­न्या­त्पु­ल्लि­ङ्गम् । विकल्पः विविधं कल्प्यत इति विकल्पः अज्ञानेन कल्पित एव न वस्तुभूत इत्यर्थः । असत्कल्पः ईषदसमाप्तौ कल्पप्प्रत्ययः । निरन्तरं ब्रह्म­स­मा­हि­त­म­नसां सप्तमीं भूमिकां गतानां सर्वथा भानाभा\-वात् शशविषाणवदेव । तदितरेषां तु दृष्ट­न­ष्ट­स्व­रू­प­त्वात् शुक्तिरजतादिवत् प्रातिभासिकः इति अस­न्ने­वे­त्य­नुक्त्वा असत्कल्प इत्युक्तम् । तथा च मिथ्यात्वेन तेन वस्तुनः ब्रह्मणः सद्वि­ती­य­त्वा­भा­वेन एकवस्तुनि विका­रा­का­र­वि­शे­ष­शून्ये गुण­गु­णि­भा­वा­व­य­वा­व­य­वि­भा­व­जा­ति­व्य­क्ति­भा­वा­दि­शून्ये तादा­त्म्य­स्या­प्य­भा­वेन भिदा कुतः ॥४००॥

द्रष्टृ­द­र्श­न­दृ­श्या­दि­भा­व­शू­न्यै­क­व­स्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०१॥

४०१

द्रष्टा प्रमाता, दर्शनं प्रमितिः, दृश्यं प्रमेयम् , आदिपदेन प्रमाणपरिग्रहः । कर्तृ­क­र­ण­का­र्याणि वा । एतत्सर्वम् अवि­द्या­व­स्था­याम् । वस्तुतः निर्विकल्पे केव­ला­ख­ण्ड­चि­न्मात्रे ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इत्यादिश्रुत्या ज्ञानावस्थायाम् अज्ञाननाशात् तन्मूलकानां द्रष्टृ­द­र्श­न­दृ­श्या­दि­भा­वा­ना­म­भा­वात् द्रष्टृ­द­र्श­न­दृ­श्या­दि­रूपा ये भावाः तैः शून्यं यदेकं वस्तु तस्मिन् निर्विकारे विकारशून्ये निराकारे अव­य­व­सं­स्था­न­शून्ये भिदा भेदः कुतः नैवास्तीत्यर्थः । प्रकृ­ति­वि­का­र­भा­वा­द्य­भा­वात् न भेद­प्र­स­क्ति­र­पीति भावः ॥४०१॥

कल्पार्णव इवा­त्य­न्त­प­रि­पू­र्णै­क­व­स्तुनि ।
निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०२॥

४०२

प्रलयकाले चत्वारोऽपि समुद्राः मिलिताः द्वीपा­दि­शू­न्य­तया केवलं जलमयं जगत् कुर्वन्तीति पुरा­णे­ष्व­व­ग­म्यते । तदा सर्वत्र जलमेव न भूभागः कश्चित् विभाजकाभावात् । चतुर्णामपि समुद्राणां भूभागावस्थायां विभक्तानाम् एकीभूतत्वात् कल्पार्णव इत्येकवचनम् । तदापि आका­शा­दि­क­म­स्त्येव तथापि सर्वत्र जलं पूर्णं श्रोतृ­बु­द्ध्या­रो­हाय, इषुरिव सविता धाव­ती­ति­व­द्दृ­ष्टान्तः । अत एव अत्य­न्त­पू­र्णे­त्यु­क्तम् । ‘ज्याया­ना­का­शाद्’(छा.उ. ३.१४.३) इत्यादिश्रुत्या ‘पादोऽस्य सर्वा भूतानि, त्रिपादस्यामृतं दिवि’(छा.उ. ३.१२.६) इति श्रुत्या च निरुपमभूमनि पर­मा­त्म­न्ये­क­व­स्तुनि निर्विकारे निराकारे निर्विशेषे भिदा कुतः ॥४०२॥

पूर्वमपि भेदाभावेऽपि भेद­भ्रा­न्ति­का­र­ण­म­ज्ञा­नम् अवर्तिष्ट । तस्य समूलघातं हतत्वात् इदानीं भेदभ्रान्तिरपि नेत्याह तेजसीति −

तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् ।
अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ॥४०३॥

४०३

तमः अज्ञानम् अन्धकारश्च । यत्र परमात्मनि भ्रान्तिकारणं तमः अज्ञानं तेजसि सूर्यादिप्रकाशे तम इव अन्धकार इव विलीनं नष्टं तस्मिन् अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः ।

विभे­द­ज­न­केऽ­ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदम् असन्तं कः करिष्यति ॥ (वि.पु. ६.७.९४)

इति प्रमाणात् ॥४०३॥

एकात्मके परे तत्त्वे भेदवार्ता कथं भवेत् ।
सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः ॥४०४॥

४०४

‘यद्वै तन्न पश्यति पश्यन्वै तन्न पश्यति न तु तद्द्वितीयमस्ति ततोन्यद्विभक्तं यत्पश्येत्’(बृ.उ. ४.३.२३) इति श्रुतेः । सुषुप्तौ प्रपञ्चं न पश्यतीति यत् तत् तार्किकमत इव जडत्वान्न पश्यतीति मा वेदीः यतः सुषुप्तावपि नित्य­ज्ञा­न­स्व­रू­पस्य आत्मनः स्वयम्प्रकाशस्य सत्त्वात् । अतः यदि द्वितीयं स्यात् पश्येदेव न तु तद्द्वितीयमस्ति । अज्ञानसत्वेऽपि शक्ति­श­क्ति­म­तो­रै­क्यात् विभ­क्त­त्वा­भा­वात् । अत एव ततोऽ­न्य­द्वि­भ­क्त­मिति पदद्वयम् । अज्ञा­नो­प­हि­त­चै­त­न्य­स्यैव सुषु­प्ति­सा­क्षि­त्वात् । तस्याज्ञानस्य अधिष्ठाने तत्रैव कल्पितत्वात् कल्पिते अधि­ष्ठा­न­भे­दा­भा­वात् । यद्यपीदं सर्वदा समानं तथापि कार्योपाधीनां लीनत्वात् सुषुप्तौ सुगममिति सुषु­प्त्य­व­स्था­मा­श्रित्य श्रोतृ­बु­द्ध्या­रो­हाय निष्प्र­प­ञ्च­त्व­मा­त्मनः प्रतिपाद्यते । यदि कश्चित् जाग्रत्पुरुषः सुषुप्तिस्थितं चिन्तयन् मनसा अज्ञानं विविच्यात् तदा अन्तः­क­र­ण­वृ­त्ते­रेव अज्ञा­न­भ­ञ्ज­क­त्वात् तदीयं मनः निष्प्र­प­ञ्च­ब्र­ह्मा­कारं जातमेवेति तस्या एवावस्थायाः ज्ञाना­व­स्था­त्वात् तदा केवलम् अखण्डब्रह्मैव मनसावाप्तमिति सिद्धं समीहितमिति श्रुतेरभिप्रायः । विक्षेपाभावस्य उभयत्र समत्वात् आव­र­ण­स­त्त्वा­स­त्त्वा­भ्या­मेव सुषु­प्ति­स­मा­ध्यो­र्भे­दात् । अत एव ह्युक्तं ‘निद्रा समाधिस्थितिः’(शि.मा.पू.श्लो. ४) इति । इदं वचनं जाग्रता पुरुषेण सुखमयी सुषुप्तिः चिरं चिन्त्यते चेत् तस्य समाधिः भव­ती­त्य­भि­प्रा­ये­णैव । तथाच एकात्मके परे तत्त्वे भेदवार्ता इत्यनेन भेदो नैवास्ति तद्वार्तापि कथं भवेत् विका­रा­का­र­वि­शे­षा­भा­वात् ‘यदा ह्येवैष एत­स्मि­न्न­दृ­श्येऽ­ना­त्म्येऽ­नि­रु­क्तेऽ­नि­ल­य­नेऽ­भयं प्रतिष्ठां विन्दते । अथ सोऽभयं गतो भवति ।’(तै.उ. २.७) ‘यत्र नान्यत्पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमा’(छा.उ. ७.२४.१) इति श्रुतेः । यदि भेदः सत्यः स्यात् सुषु­प्ता­व­व­लो­क्येत । यद्यज्ञानं न किञ्चिदवेदिषम् इति सुषुप्तौ भिन्न­मि­त्यु­च्येत तस्यापि ज्ञानमात्रायां समाध्यवस्थायां दग्धत्वात् न सत्यत्वमिति अज्ञानस्य तत्कार्याणां च अत्यन्तं नष्टत्वात् ‘आदावन्ते च यन्नास्ति वर्तमानेऽपि तत्तथा’(मां.मा.अ.शां. ३१) इत्युक्त्या नास्ति नासीत् न भविष्यतीति त्रैका­लि­क­नि­षे­ध­प्र­ति­यो­गि­त्व­रू­प­मि­थ्यात्वं सिद्धमिति भावः ॥४०४॥

तदुपपादयति न ह्यस्तीति −

नह्यस्ति विश्वं परतत्त्वबोधात्
सदात्मनि ब्रह्मणि निर्विकल्पे ।
कालत्रये नाप्यहिरीक्षिते गुणे
नह्य­म्बु­बि­न्दु­र्मृ­ग­तृ­ष्णि­का­याम् ॥४०५॥

४०५

सम्यग्ज्ञानं हि वस्तु­सि­द्धि­हेतुः । पूर्वं तु अज्ञानात् भ्रान्तिरास मनसः । विचार्यमाणे दीपकलिकायमाने तम इव अज्ञानं नष्टमिति सदात्मनि निर्विकल्पे ब्रह्मणि विश्वं नह्यस्ति नैवास्तीत्यर्थः । तत्र मानं पर­त­त्त्व­बो­धा­दिति । परस्य ब्रह्मणः यत्तत्त्वं निष्प्र­प­ञ्च­त्व­रू­प­या­थात्म्यं श्रुतिबोधितं तस्य बोधात् अनुभवादित्यर्थः । न हि यथाप्रमाणम् अनुभवानन्तरं संश­य­वि­प­र्य­या­दि­कम् । अतः विश्वं नैवास्ति । तत्र दृष्टान्तः, हि यतः, कालत्रयेऽपि गुणे रज्ज्वाम् अहिः सर्पः नेक्षितः, मृगतृष्णिकायां मरुमरीचिकासु अम्बुबिन्दुरपि न । तद्वत् पूर्वमज्ञानात् भ्रान्त्या प्रतिपन्नमपि वस्तु न सदिति भावः । ‘नाभावो विद्यते सतः’(भ.गी. २.१६) इति गीतोक्तेः विद्वदनुभवाच्च । शुक्तिका हि रजतवदाभासते एकश्चन्द्रः सद्वितीयवत् इत्या­दि­लौ­कि­का­नु­भ­वात् आरो­पि­त­मि­थ्यात्वे न विसंवादः । अतः श्रुतिरपि ।

यत्र हि द्वैतमिव भवति तदितर इतरं पश्यति । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥ (बृ.उ. २.४.१४)

इति इवकारानुबन्धेन द्वैतस्य मिथ्यात्वं सूचयति ॥४०५॥

तद्विषये स्फुटार्थां श्रुतिमाह मायेति −

मायामात्रमिदं द्वैतम् अद्वैतं परमार्थतः ।
इति ब्रूते श्रुति­स्सा­क्षा­त्सु­षु­प्ता­व­नु­भू­यते ॥४०६॥

४०६

मायया मीयते प्रतीयत इति मायामात्रम् इदं दृश्यं द्वैतं भेद इत्यर्थः । परमार्थतः सत्यभूतम् अद्वैतं निर्भेदं ब्रह्म इत्यर्थः । इति साक्षात् वाच्यवृत्त्या श्रुतिर्ब्रूते । सर्वैरपि साक्षा­त्सु­षु­प्ता­व­नु­भू­यते अतः नात्र विवादावसर इति भावः । अनुभवस्य अपौरुषेयतया निर्दो­ष­श्रु­त्य­नु­सा­रि­त्वात् ॥४०६॥

अन­न्य­त्व­म­धि­ष्ठा­ना­दा­रो­प्यस्य निरीक्षितम् ।
पण्डितै रज्जुसर्पादौ विकल्पो भ्रान्तिजीवनः ॥४०७॥

४०७

‘सुषुप्तिकाले सकले विलीने तमोभिभूतः सुखरूपमेति’(कै. १.१३) इति कैवल्योपनिषदि तमोभिभूत इतिशब्देन तमसः स्थितिं ब्रूते श्रुतिरिति चेत् तस्य तत्र कल्पितत्वात् समा­धा­व­स­त्त्वाच्च अव­स्तु­त्व­मि­त्याह आरोप्यस्य अधि­ष्ठा­ना­द­न­न्यत्वं व्यतिरेकेणाभावः रज्जुसर्पादौ पण्डितैः निरीक्षितम् । विकल्पः भेदग्रहस्तु भ्रान्तिजीवनः भ्रान्त्या जीवतीति भ्रान्तिजीवनः भ्रान्तिमूलक इत्यर्थः । भ्रान्त्यभावे भेदः नैव प्रतीयते भेद­वि­ष­य­क­स­म्य­ग्ज्ञा­ना­भा­वात् ॥४०७॥

भ्रान्ति­नि­रा­सो­पा­य­माह चित्तेति −

चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन ।
अतश्चित्तं समाधेहि प्रत्यग्रूपे परात्मनि ॥४०८॥

४०८

अयं विकल्पः चित्तं बहिर्मुखं मनः मूलं यस्य सः चित्तमूलः । चित्ताभावे सुषुप्तौ न कश्चन अतः स्वरूपसती अविद्यापि चित्ताभावे न स्वकार्यसमर्था । सा जाग्र­त्स्व­प्नयोः चित्तात्मना परिणममाना विश्वं जनयति । अतः चित्तं प्रत्यग्रूपे तव स्वरूपभूते परात्मनि समाधेहि संस्थापय, तेन अविद्यया साकं सर्वेषां विकल्पानां बाध एवेति भावः ॥४०८॥

परमात्मनि मनः समाधापयितुं शब्दैर्विध्यति किमपीत्यादिना त्रिभिः श्लोकैः −

किमपि सततबोधं केवलानन्दरूपं
निरुपममतिवेलं नित्यमुक्तं निरीहम् ।
निरवधि गगनाभं निष्कलं निर्विकल्पं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४०९॥

४०९

किमपि वागगोचरम् , सततः नित्यश्चासौ बोधश्च तम् अखण्डज्ञानरूपं, केवलानन्दरूपं दुःखा­स­म्भि­न्न­नि­रु­पा­धि­क­सु­ख­रूपं, तेन स्वय­म्प्र­का­श­नि­त्य­सु­ख­रू­प­तया पर­म­पु­रु­षा­र्थ­त्व­मु­क्तम् । निरुपमं ‘न तस्य प्रतिमाऽस्ति’(श्वे.उ. ४.१९) इति श्रुतेः । वेलामतीत्य वर्तमानम् अतिवेलं विश्वा­ती­त­मि­त्यर्थः । नित्यमुक्तं कदापि बन्धरहितं निरीहं निष्कामं निष्क्रियं वा । निरवधि कालतः देशतः वस्तुतश्च अन्तशून्यम् । गगनाभम् असङ्गं निर्मलम् । निष्कलं निरवयवम् । निर्विकल्पं विवि­ध­क­ल्प­ना­शू­न्यम् । पूर्णं ब्रह्म विद्वान् समाधौ हृदि कलयति । त्वमप्येवं कलयेति भावः ॥४०९॥

प्रकृ­ति­वि­कृ­ति­शून्यं भावनातीतभावं
समरसमसमानं मानसम्बन्धदूरम् ।
निगमवचनसिद्धं नित्य­म­स्म­त्प्र­सिद्धं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४१०॥

४१०

नित्य­त्वा­न्नि­र­व­य­व­त्वात् च ‘तदेतद् ब्रह्मा­पू­र्व­म­न­परं’(बृ.उ. २.५.१९) इत्यादिश्रुत्या प्रकृ­ति­वि­कृ­ति­शून्यं, भावनां कल्पनाम् अतीतः भावः स्वभावः यस्य तत् उपनिषदं विना केवलतर्केण अधिगन्तुमशक्यम् इत्यर्थः । तत् समरसम् एकरूपम् असमानम् असदृशम् । मानसम्बन्धदूरम् अप्रमेयं श्रुत्यापि लक्षणया बोध्यमानत्वात् ।

प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा । यस्य प्रसादात् सिध्यन्ति तत्सिद्धौ किमपेक्षते ॥ (तै.भा.वा.ब्र. ६११)

इति सुरे­श्व­रा­चा­र्य­व­च­नात् , स्वयं सिद्धे प्रत्यग्रूपे तस्मिन् वेद्य­वे­दि­तृ­वे­द­ना­दि­भे­दा­प­ना­य­क­श्रु­ते­रपि ताटस्थ्यात् । यद्वा मानं प्रत्य­क्षा­दि­प्र­माणं तत्सम्बन्धदूरं तत्सम्बन्धः मेयत्वं तज्ज­न्य­प्र­मा­वि­ष­यत्वं तद्दूरं तद्रहितमिति यावत् । निगमवचनसिद्धं सदा विद्व­द­नु­भ­व­गो­च­रम् । हृदीत्यादि पूर्ववत् ॥४१०॥

अज­र­म­म­र­म­स्ता­भा­स­व­स्तु­स्व­रूपं
स्तिमि­त­स­लि­ल­रा­शि­प्र­ख्य­मा­ख्या­वि­ही­नम् ।
शमितगुणविकारं शाश्वतं शान्तमेकं
हृदि कलयति विद्वान् ब्रह्म पूर्णं समाधौ ॥४११॥

४११

अजरम् अपक्षयशून्यम् अमरं नाशरहितम् अस्ता­भा­स­व­स्तु­स्व­रू­पम् अस्ताः गताः आभासाः विकल्पाः यस्मिंस्तत् अस्ताभासं तच्च तत् वस्तु च तत्स्वरूपम् । स्तिमि­त­स­लि­ल­रा­शि­प्रख्यं निस्त­र­ङ्ग­ज­ल­रा­शि­नि­श्च­लम् । आख्याविहीनं नामरहितं जात्या­दि­प्र­वृ­त्ति­नि­मि­त्त­वि­र­हात् ‘ते यदन्तरा’(छा.उ. ८.१४.१) इति श्रुतेः । शमितगुणविकारं निर्गुणं निर्विकारं शाश्वतम् अनादिसिद्धं शान्तम् अपरिणामि । एकम् अद्वितीयं हृदि कलयति विद्द्वान् समाधौ पूर्णं ब्रह्म ॥४११॥

समाहितान्तःकरणः स्वरूपे
विलो­क­या­त्मा­न­म­ख­ण्ड­वै­भ­वम् ।
विच्छिन्धि बन्धं भवगन्धगन्धिलं
यत्नेन पुंस्त्वं सफलीकुरुष्व ॥४१२॥

४१२

स्वरूपे परमात्मनि समाहितान्तःकरणः निश्चलतया स्थापितमनाः सन् अखण्डवैभवम् अखण्डं वैभवं विभुत्वं यस्य तम् आत्मानम् अव्या­कृ­ता­का­श­स्यापि कल्पनाधिष्ठानं विलोकय साक्षात्कुरु । भवगन्धगन्धिलं संसा­र­वा­स­ना­वा­सितं बन्धम् अज्ञानं विच्छिन्धि नाशय ‘अविद्यास्तमयो मोक्षस्सा च बन्ध उदाहृतः’(ब्रह्म.सि. २.१०६) इत्युक्तेः । यत्नेन −

यल्लाभान्नापरो लाभो यत्सुखान्नापरं सुखम् । यद् बोधान्नापरो बोधस्तद् ब्रह्मेत्यवधारय ॥ इति (आत्म.बो. ५४)

‘आत्मलाभान्न परं किञ्चिदस्ति’(पर­शु­रा­म­क­ल्प­सू­त्रम् १.२८, आप.ध.सू. १.२२.२) ‘आत्मानमन्विच्छ गुहां प्रविष्टम्’(पुत्र.गी. ३८) इत्यादिवचनैः ‘एतद् बुध्वा बुद्धि­मा­न्स्यात् कृतकृत्यश्च भारत’(भ.गी. १५.२०) इति गीतोक्तेः, ‘आत्मा वा अरे द्रष्टव्यः एतावदरे खल्वमृतत्वम्’(बृ.उ. २.४.५) इति श्रुत्या च आत्म­सा­क्षा­त्का­र­स्यैव परमफलत्वात् तदर्थं यत्नेन पुंस्त्वं बहुसुकृतलब्धं पुरुषत्वं सफलीकुरुष्व स्वरू­प­प्राप्त्या सार्थकं कुरु पुनर्मा संसार्षीरिति भावः ॥४१२॥

सर्वो­पा­धि­वि­नि­र्मुक्तं सच्चि­दा­न­न्द­म­द्व­यम् ।
भाव­या­त्मा­न­मा­त्मस्थं न भूयः कल्पसेऽध्वने ॥४१३॥

४१३

आत्मानं भावय किंविधम् , सर्वो­पा­धि­वि­नि­र्मुक्तं स्थूल­सू­क्ष्म­का­र­ण­रू­प­भे­द­हे­तुभिः विनिर्मुक्तं विशेषेण नितरां वासनातोऽपि इत्यर्थः । मुक्तम् अस्पृष्टं, सच्चिदानन्दम् अद्वयम् आत्मस्थम् । एतेन न विप्रकृष्टत्वं तस्य ‘अत्र वाव किल तत्सौम्य न निभालयसे’(छा.उ. ६.१४.२) इति श्रुतेः । सूक्ष्मायां बुद्धौ भासमानम् इत्यर्थः । स्वम­हि­म­प्र­ति­ष्ठया तद्भावेन भूयः पुनः अध्वने संसृतये न कल्पसे । ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) , ‘मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते’(भ.गी. ८.१६) इत्या­दि­श्रु­ति­स्मृ­तिभ्यः ॥४१३॥

आवृ­त्त्य­भा­व­मु­प­पा­द­यति छायेवेति −

छायेव पुंसः परिदृश्यमानम्
आभासरूपेण फलानुभूत्या ।
शरी­र­मा­रा­च्छ­व­व­न्नि­रस्तं
पुनर्न सन्धत्त इदं महात्मा ॥४१४॥

४१४

महात्मा ब्रह्मभावं प्राप्तः पुरुषः फलानुभूत्या फलम् अख­ण्डा­का­र­वृत्त्या अनावृततया अभि­व्य­क्त­स्व­रू­प­चै­तन्यं तस्यानुभूत्या अनुभवेन हेतुना आभासरूपेण सर्प­त्य­क्त­नि­र्मोक इव सर्परूपेण इतरदृष्ट्या पूर्ववत् पुंसः छायेव आदेहपातं परिदृश्यमानम् आराद्दूरे शववन्निरस्तम् इदं शरीरं पुनर्न सन्धत्ते तत्राहन्तादिकं न करोति प्रतीतावपि घटादाविव उदासीनस्तत्र भवतीति भावः ॥४१४॥

सत­त­वि­म­ल­बो­धा­न­न्द­रूपं स्वमेत्य
त्यज जड­म­ल­रू­पो­पा­धि­मेतं सुदूरे ।
अथ पुनरपि नैव स्मर्यतां वान्तवस्तु
स्मरणविषयभूतं कल्पते कुत्सनाय ॥४१५॥

४१५

नित्य­नि­र्म­ल­प्र­का­शा­न­न्द­रूपं ब्रह्म स्वमेत्य प्रत्यक्तया प्राप्य, जडमलरूपम् उपाधिम् एतं स्थूलदेहं सुदूरे त्यज । अथ स्वयं निर्म­ल­चि­दा­न­न्द­रूपं ब्रह्मैवेति ज्ञानानन्तरं पुनरपि नैव स्मर्यतां दूरं मलभाण्डवत् त्यक्तत्वात् । तत्र दृष्टान्तमाह वान्तवस्तु वमनकर्मीभूतं वस्तु स्मरणविषयभूतं स्मृतमित्यर्थः कुत्सनाय स्वस्य जुगुप्सायै परकृते निन्दायै वा कल्पते । नहि मलिनं वस्तु स्मरणीयम् , मनसः विकारापत्तेः । निन्दन्ति च लोके त्यक्तं दुष्टं वस्तु स्मरन्तम् ॥४१५॥

समू­ल­मे­त­त्प­रि­दह्य वह्नौ
सदात्मनि ब्रह्मणि निर्विकल्पे ।
ततस्स्वयं नित्य­वि­शु­द्ध­बोधा-
नन्दात्मना तिष्ठति विद्वरिष्ठः ॥४१६॥

४१६

सदात्मनि काल­त्र­या­बा­ध्य­स्व­रूपे निर्विकल्पे ब्रह्मणि वह्नौ एतत् शरीरं समूलम् अज्ञानेन सह परिदह्य निरवशेषं दग्ध्वा । ततः विद्वरिष्ठः विदन्तीति विदः तेषु वरिष्ठः विद्वरिष्ठः । स्वयं नित्य­वि­शु­द्ध­बो­धा­न­न्दा­त्मना तिष्ठति न कदाचिदपि तस्य आना­त्म­प्र­ति­भा­न­मिति भावः ॥४१६॥

प्रार­ब्ध­सू­त्र­ग्र­थितं शरीरं
प्रयातु वा तिष्ठतु गोरिव स्रक् ।
न तत्पुनः पश्यति तत्त्ववेत्ताऽ-
नन्दात्मना ब्रह्मणि लीनवृत्तिः ॥४१७॥

४१७

सूत्रग्रथिता स्रक् माला रज्जुर्वा अलङ्करणाद्यर्थं गलादौ बद्धा, प्रयातु तिष्ठतु वा, यथा गोः तत्र न दृष्टिः तथा प्रारब्धमेव सूत्रं तेन ग्रथितं रचितं विदुषः अभिमानाभावेऽपि तदीयतया इतरैर्ज्ञायमानं तत्त्व­सा­क्षा­त्का­रा­त्पूर्वं तदी­य­सु­ख­दुः­ख­सा­क्षा­त्का­रा­व­च्छे­द­क­तया प्रारब्धकर्मणा निर्मितं शरीरं ब्रह्म­सा­क्षा­त्का­रा­न­न्तरं प्रयातु म्रियतां तिष्ठतु वा प्राणान् धारयतु वा । तत्त्ववेत्ता आत्म­या­था­त्म्य­दर्शी तत् शरीरं पुनः स्वस्य ब्रह्म­त्व­ज्ञा­ना­न­न्तरं न पश्यति । तत्र हेतुः आनन्दात्मना ब्रह्मणि लीना वृत्तिः यस्य सः लीनवृत्तिः । वृत्ते­र्ब­हि­र­ना­ग­मने हेतुः आनन्दात्मनेति । यदा अना­वृ­ता­न­न्दा­त्मना मनोवृत्तिर्लीना कथं कुतो वा मनसः बहिर्मुखत्वं स्यात् । सर्वदापि सुखं मे भूयादिति या स्थिता इच्छा तस्याः विषयः प्राप्तः । ततः नित्य­नि­र­ति­श­य­सुखं प्राप्य तदात्मना लीनं मनः न बहिरुदेति । वक्ष्यति −

कस्तां परा­न­न्द­र­सा­नु­भू­ति­मु­त्सृज्य शून्येषु रमेत विद्वान् । चन्द्रे महाह्लादिनि दीप्यमाने चित्रे­न्दु­मा­लो­क­यितुं क इच्छेत् ॥ (श्लो. ५२३)

इति ॥४१७॥

न तत्पुनः पश्य­ती­त्या­द्यु­त्त­रा­र्ध­मु­प­पा­द­यति अखण्डेति −

अख­ण्डा­न­न्द­मा­त्मानं विज्ञाय स्वस्वरूपतः ।
किमिच्छन् कस्य वा हेतोर्देहं पुष्णाति तत्त्ववित् ॥४१८॥

४१८

तत्त्ववित् अख­ण्डा­न­न्द­मा­त्मानं स्वस्वरूपत्वेन विज्ञाय किमिच्छन् यदि किञ्चिदिच्छति, तस्याप्राप्तस्य प्राप्तये प्रयत्नं कुर्यात् । देहं विना प्रय­त्न­क­र­णा­स­म्भ­वात् देहं पुष्णीयाच्च । अत उक्तं कस्य वा हेतोः कस्मै फलायेत्यर्थः । देहं पुष्णाति । उक्तं हि श्रुत्या −

आत्मानं चेद्वि­जा­नी­या­द­य­म­स्मीति पूरुषः । किमिच्छन् कस्य कामाय शरी­र­म­नु­स­ञ्ज्व­रेत् ॥ (बृ.उ. ४.४.१२)

इति ॥ ४१८ ॥

सम्य­ग्वि­दि­त­त­त्त्वस्य लक्षणमाह संसिद्धस्येति −