अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

३१. जीवन्मुक्तलक्षणम्

संसिद्धस्य फलं त्वेत­ज्जी­व­न्मु­क्तस्य योगिनः ।
बहि­र­न्त­स्स­दा­न­न्द­र­सा­स्वा­द­न­मा­त्मनि ॥४१९॥

४१९

साध­न­च­तु­ष्ट­य­स­म्प­त्ति­पु­र­स्सरं गुरुमुपसद्य तन्मुखात् वेदा­न्त­वा­क्यार्थं श्रुत्वा मत्वा निदिध्यास्य सम्य­गा­त्मा­नु­भ­वतः योगिनः परमात्मन्येव स्थापितचित्तस्य जीवन्मुक्तस्य जीवतोऽपि सर्वो­पा­धि­स­म्ब­न्ध­वि­नि­र्मु­क्तस्य तु एतत् फलं यदात्मनि अन्तःकरणे बहि­र­न्त­स्स­दा­न­न्द­र­सा­स्वा­द­नम् । व्युत्थानेऽपि नानन्दस्य तिरोधानम् अख­ण्डा­का­र­वृत्त्या आवरणस्य भञ्जितत्वात् तदुक्तं बहिरिति । इतरैरपि तदी­य­मू­र्ति­द­र्श­नेन अयं पूर्णानन्द इति निर­न्त­र­स्मि­त­स्मे­रा­व­लो­क­ना­दिना ज्ञायते इति तस्य पूर्णा­न­न्दा­त्मना स्थितिः निरन्तरैव अवि­द्या­नि­वृ­त्ति­रू­प­मो­क्ष­स्यापि दृष्टफलत्वात् ॥४१९॥

तत्र साक्षा­त्प­र­म्प­रया वा साधनानां विशिष्य फले विज्ञाते, पूर्णता मुमुक्षुणा प्रयत्नेन तत्राधातुं शक्यते । तदर्थं वैरा­ग्य­बो­धो­प­र­तीनां क्रमेण फलं दर्शयति वैराग्यस्येति −

वैराग्यस्य फलं बोधः बोधस्योपरतिः फलम् ।
स्वान­न्दा­नु­भ­वा­च्छा­न्ति­रे­षै­वो­प­रतेः फलम् ॥४२०॥

४२०

विमु­क्ति­सौ­धा­ग्र­त­ला­धि­रो­हणं ताभ्यां विना नान्यतरेण सिद्ध्यति ॥ (श्लो. ३७५) इति कथितम् । वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः तच्चे­च्छु­द्ध­त­रा­त्म­बो­ध­स­हितं स्वारा­ज्य­सा­म्रा­ज्य­धुक् । (श्लो. ३७७)

इति च । तेन मोक्षे तयोः समतया हेतुत्वमिव प्रतीयते । ‘यद्यपि एत­द्द्वा­र­म­ज­स्र­मु­क्ति­यु­वतेः’ इत्यस्ति तथापि’, ‘सर्व­त्रा­स्पृ­हया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे’(३७७) इत्यु­त्त­रा­र्धेऽपि वैराग्यबोधयोः हेतुहेतुमद्भावः स्पष्टं न प्रतीयते । ततः स्फुटयति, यद्यपि विवे­क­वै­रा­ग्य­श­मा­दि­ष­ट्क­मु­मु­क्षु­त्व­रू­प­ब्र­ह्म­वि­चा­र­सा­ध­न­मध्ये वैरा­ग्य­मु­प­र­तिश्च घटकीकृते अथापि तेषां साधनानाम् अन्तरङ्गत्वात् विचारकाले सामान्यतो वर्तमानानामपि श्रव­ण­म­न­न­रू­प­ज्ञा­न­सा­ध­ना­नु­ष्ठा­नेन उत्तमत्वं सम्भवेत् अत एव ‘बाह्यानालम्वनं वृत्तेः एषोपरतिरुत्तमा’(श्लो. २५) इत्युक्तम् । विचारदशायां निदि­ध्या­स­न­म­न्तरा विपरीतभावनायाः अनिवृत्तेः बाह्या­ना­ल­म्ब­नत्वं दुर्घटम् । अथापि शब्दा­दि­वि­ष­या­ना­ल­म्ब­न­त्वेन वृत्तिः विचारं साधयतीति वक्तव्यम् । इदानीं तु पञ्चकोशनिषेध − पुरस्सरं निदिध्यासनेन स्वनुभवे सम्पादिते अना­त्मा­वि­ष­य­क­त्वम् असङ्कोचेन वक्तुं शक्यते अतः बोधस्य उपरतिः फलमित्युच्यते । अतः शमादिषट्कमध्ये शमफलदमफलत्वेन कथिताया अप्युपरतेः उत्त­म­त्व­सि­ध्य­न­न्त­र­मेव − ‘स्वलक्ष्ये नियतावस्था मनसश्शम उच्यते’(श्लो. २३) इति लक्षितशमः शान्तिपदेन स्वान­न्दा­नु­भ­वा­च्छा­न्ति­रे­षै­वो­प­रतेः फलम् इत्युक्तम् । पूर्वं प्रयत्नेन आप्तवाक्यादिना सम्पादितानामपि साधनानां विचारेण प्रकृ­ष्य­मा­ण­त्वात् अस­ङ्कु­चि­त­ल­क्ष­ण­वत्त्वं सम्भवतीति भावः । तथा च −

ब्रह्म सत्यं जग­न्मि­थ्ये­त्येवं रूपो विनिश्चयः । सोयं नित्या­नि­त्य­व­स्तु­वि­वेकः समुदाहृतः ॥ (श्लो. २०, २१)

इति लक्षितः विवेकः पूर्वं परोक्षज्ञानरूपः विचारात्पश्चात् अपरोक्षत्वं प्राप्नोति । एवं वैराग्यमपि उत्क­ट­वि­ष­ये­च्छाऽ­भा­व­रूपं ‘रसोप्यस्य परं दृष्ट्वा निवर्तते’(२.५९) इति गीतावचनात् स्वरू­पा­न­न्द­सा­क्षा­त्कारे विषयेषु वासनात्मनापि रागो न तिष्ठतीति असङ्कुचितं भवति । तस्मा­द­भ्या­स­वै­रा­गाभ्यां सम्यङ्मनो निरुध्य विचारे क्रियमाणे बोधः अवश्यम्भावी यदि न जातः वैराग्यरूपसाधनं न पूर्णमस्तीति ज्ञातव्यम् । ततः तद्दार्ढ्याय प्रयत्नः कार्यः । एवं बोधे उपनिषज्जन्ये आत्म­सा­क्षा­त्कारे जाते अस­न्दि­ग्धा­वि­प­र्य­स्ता­त्म­प­रो­क्ष­ज्ञाने वा जाते उपरतिः तस्य बोधस्य फलम् । ज्ञात्वापि बाह्येभ्यः निवृत्त्यभावे मनसः दृढं ज्ञानं न जातमित्येव ज्ञेयम् । तत्र च कारणं वैरा­ग्या­प­रि­पू­र्ति­रेव । वैराग्यं पूर्णं दृढ आत्मनिश्चयश्च नो चेदविद्यावतां भेदः को वा, विद्यावतामपि कुतः अनुपरमणम् , उपरतौ च मनसः स्वान­न्दा­नु­भ­वा­च्छान्तिः निष्क्रि­या­त्म­ना­व­स्था­नम् एषैव फलमुपरतेः ।

ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । नैवास्ति किञ्चि­त्क­र्त­व्यम् अस्ति चेन्न स तत्त्ववित् ॥ (जा.द.उ. १.२३)

इत्युक्तेः । ‘यद्यु­त्त­रो­त्त­रा­भावः पूर्वपूर्वं तु निष्फलम्’ । एवं तत्त­द्दृ­ष्ट­फ­ल­नि­ष्प­त्ति­प­र्यन्तं तत्तत्साधनं न पूर्णं भवतीति ज्ञाने प्रयत्नः साधकेन सुष्ठु कर्तुं शक्यत इति साधनपूर्णतायै समुपन्यासः ॥४२०॥

ब्रह्मविद्यायाः फलमाह निवृत्तिरिति −

निवृत्तिः परमा तृप्तिः आनन्दोऽनुपमः स्वतः ।
दृष्ट­दुः­खे­ष्व­नु­द्वेगः विद्यायाः प्रस्तुतं फलम् ॥४२१॥

४२१

निवृत्तिः सर्वेभ्यः कार्येभ्यो निवृत्तिः निर्व्यापारत्वं कर्तव्यानवशेषता । परमा तृप्तिः निरङ्कुशा तृप्तिः कर्तव्यं कृतं प्राप्तव्यं प्राप्तम् इतः परं करणीयं प्राप्तव्यं वा किमपि नास्तीति स्वस्य धन्यधन्यतया सुखविशेषः स्वतः अनुपमः असदृशः आनन्दः विषयनिरपेक्षः नित्य­नि­र­ति­श­य­सु­खम् । प्रारब्धकर्मणा दृष्टदुःखेषु अनुद्वेगः, अज्ञानी तु दुःखेषु प्रसक्तेषु अहं पापी धिङ् मां दुरात्मानम् इत्यनुतापवान् भवति । यद्यप्ययं विवेक इव भाति । तथापि पूर्वस्मिन् जन्मनि चेत् पाप­प्र­वृ­त्ति­प्र­ति­ब­न्ध­क­त्वात् सप्रयोजनो भवति स्म, इदानीं तु निष्प्रयोजन इति भ्रान्तिः तमोविकारः । दुःखं तु रागा­दि­नि­मि­त्त­व­शात् रजोगुणविकाररूपा सन्तापात्मिका चित्तवृत्तिः इति दुःखो­द्वे­ग­यो­र्भेदः । ज्ञानिनः अयमुद्वेगो न भवतीति चत्वारि फलानि निवृत्तिः, निरङ्कुशा तृप्तिः, असदृशानन्दः निर्विषयः, दृष्टदुःखेषु अनुद्वेगश्चेति । विद्यायाः आत्म­त­त्त्व­ज्ञा­नस्य प्रस्तुतं मुख्यं दृष्टं फलम् ॥४२१॥

तत्र निवृ­त्ति­मु­प­पा­द­यति यदिति −

यत्कृतं भ्रान्तिवेलायां नानाकर्म जुगुप्सितम् ।
पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥४२२॥

४२२

अविवेकविवेकयोः एतावति वैलक्षण्ये विवेकफलभूतायां विद्यायां पर­मा­त्म­वि­ष­यिण्यां किं वक्तव्यमिति भावेनाह यत्कृतमिति । भ्रान्तिवेलायां जुगुप्सितं नाना कर्म यत्कृतं तत् कर्म विवेकेन पश्चात् कथं कर्तु­म­र्ह­ती­त्य­नेन विवेकिनः यथा जुगु­प्सि­त­क­र्मभ्यो निवृत्तिः एवं विद्यावतः प्राप्याभावात् ब्रह्मनिष्ठतया च सर्व­क­र्म­नि­वृ­त्ति­रिति भावः ॥४२२॥

इदं फलं लोकदृष्टमित्याह विद्येति −

विद्याफलं स्यादसतो निवृत्तिः
प्रवृ­त्ति­र­ज्ञा­न­फलं यदीक्षितम् ।
तज्ज्ञा­ज्ञ­यो­र्य­न्मृ­ग­तृ­ष्णि­कादौ
नो चेद् विदो दृष्टफलं किमस्मात् ॥४२३॥

४२३

विद्याफलं स्यादसतो निवृत्तिः प्रवृ­त्ति­र­ज्ञा­न­फलं तद् ईक्षितं दृष्टं तज्ज्ञाज्ञयोः । यत् यस्मात्कारणात् मृगतृष्णिकादौ आदिपदेन शुक्तिरजतादिकं ग्राह्यम् । मृगतृष्णिकेति ज्ञानवान् न जलार्थं मरुभूमौ प्रवर्तते । मरुभूमौ सूर्यकिरणपाते जलवद् भासते इति ज्ञानशून्यस्तु मरुभूम्यज्ञानेन तत्र जलभ्रान्त्या प्रवर्तते नेष्टं लभते, विफ­ल­प्र­वृ­त्ति­मान् भवति । तत् तस्मात्कारणात् विद्याफलम् असतो निवृत्तिः अज्ञानफलं प्रवृत्तिः इतीक्षितं नोचेदेवं विदः ज्ञानिनः अस्माद् अस­न्नि­वृ­त्ति­रू­पात् दृष्टं फलं किम् । प्रकृते ब्रह्म­वि­द्या­वि­षये तु असच्छब्देन अनात्मा गृह्यते ब्रह्मभिन्नं सर्वम् । पूर्व­म­ज्ञा­ना­व­स्थायां तत्र प्रवृत्तिरासीत् अल­ब्ध­स्व­रू­पा­न­न्द­त्वात् । इदानीं तु स्वात्मानं विदितवतः तत्र सर्वत्र मिथ्या­त्व­ज्ञा­नेन नैव प्रवृत्तिः इति असन्निवृत्तिः विद्याफलम् ॥४२३॥

प्रवृ­त्ति­का­र­णा­भा­वाच्च निवृत्तिरित्याह अज्ञानेति − अनिच्छोरित्यनेन परमा तृप्तिरप्युक्ता भवति −

अज्ञा­न­हृ­द­य­ग्र­न्थे­र्वि­नाशो यद्यशेषतः ।
अनिच्छोर्विदुषः किं नु प्रवृत्तेः कारणं स्वतः ॥४२४॥

४२४

अज्ञानप्रयोज्यः यः हृदयग्रन्थिः बुद्धौ साक्षिणः तादा­त्म्या­ध्यासः तस्य अख­ण्डा­का­र­वृत्त्या मूल­भू­ता­ज्ञा­न­ना­शेन अशेषतः निर्वासनतया यदि विनाशः सकारणं नाशः । तदा इत्यध्याहार्यं यदीति सत्त्वात् । स्वतः अनिच्छोः इच्छारहितस्य विदुषः प्रवृत्तेः कारणं किं नु ? सर्वत्र प्रवृत्तौ इच्छैव कारणम् , तदभावे प्रवृत्यभावात् वदन्ति हि ‘प्रयो­ज­न­म­नु­द्दिश्य न मन्दोपि प्रवर्तते’ इति । अत एव साधनचतुष्टये मुमुक्षुत्वमपि घटकीकृतम् । इच्छा च अन्तःकरणधर्मः ‘कामः सङ्कल्पः’(बृ.उ. १.५.३) इत्यादिना ‘इत्येतत्सर्वं मन एव’(बृ.उ. १.५.३) इति श्रुतेः । मनसोपि बहिरिच्छा आन­न्द­रू­पा­त्मा­द­र्श­नात् स्थिता । तत्र दोषदर्शनेन नित्य­नि­र­ति­श­या­न­न्द­रू­पा­त्म­श्र­व­ण­म­न­न­नि­दि­ध्या­स­नेषु शास्त्रीयेषु मुमुक्षया प्रावर्तिष्ट । आत्मदर्शनेन तत्रापीच्छा प्राप्त­फ­ल­त्वा­न्नास्ति । विचारकाल एव बहिरिच्छा सुतरां नास्ति वैराग्यस्य परमसाधनत्वात् । तथा च तस्य इच्छासत्त्वे तत्ता­दा­त्म्या­ध्या­सेन साक्षिणोऽपीच्छा इति वक्तव्यम् । आत्मेच्छापि आत्मा­ज्ञा­न­का­लि­क्येव । अज्ञाननाशे तत्प्र­यो­ज्य­चि­ज्ज­ड­ता­दा­त्म्या­ध्या­स­ना­शेन आत्यन्तिकी निवृ­त्ति­रि­च्छाया इति सर्वथापि बहिरन्तर्वा प्रवृत्तिकारणं विषयः कोऽपि नास्तीति निष्क्रि­या­त्म­ना­व­स्थानं निवृ­त्ति­श­ब्दार्थः ब्रह्मविद्यायाः दृष्टं फलम् ॥४२४॥

वैरा­ग्य­बो­धो­प­र­तयः पूर्णतया कदा ज्ञेया इति प्रश्ने तदवधिं शिष्यानुग्रहाय उपदिशति वासनेति −

वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।
अहंभावोदयाभावो बोधस्य परमावधिः ।
लीन­वृ­त्ते­र­नु­त्प­त्ति­र्म­र्या­दो­प­र­तेस्तु सा ॥४२५॥

४२५

भोग्ये वासनाया अनुदयः अनुद्बोधः, अनुभूते विषये पुरस्थितेऽपि तत्सं­स्का­रा­नु­द्बोधः यदा तदा वैराग्यस्य अवधिः । तदीयं मनः विषयेषु नष्टमेव कुतो रागप्रसक्तिः वैराग्यस्य परस्यैषा परा काष्ठा प्रदर्शिता । अहंभावस्य उदयाभावः अनुत्पत्तिः बोधस्य परमावधिः । अहं ब्रह्म इत्यपि बाधायां सामानाधिकरण्यम् । अतः सर्वात्मके अहन्त्वमपि कल्पितमेव । अत एवोक्तम् − ‘वदत्येष भ्रान्त­स्त्व­म­ह­मिति मायामदिरया’(श्लो. ३९२) इति । यदहन्त्वेन ज्ञातं तद् ब्रह्म इत्येवार्थः अहं ब्रह्मेत्यस्य, यः चोरः स स्थाणुरितिवत् । यद्वा कोशे­ष्व­ह­म्भा­वस्य उदयाभावः इत्यर्थः । लीन­वृ­त्ते­र­नु­त्पत्तिः मर्यादोपरतेस्तु सा, आनन्दात्मना लीना या मनोवृत्तिः तस्या अनुत्पत्तिः यथा आज्यं पुनः क्षीरं न भवति तथा स्वतः अनुपमः आनन्दः अतः परमा तृप्तिः ततः सर्वतो निवृत्तिः इति हेतुहेतुमद्भावः ॥४२५॥

इदानीं निरुपममानन्दं ज्ञानिनो दर्शयति ब्रह्मा­का­र­त­ये­त्या­दिना −

ब्रह्माकारतया सदा स्थिततया निर्मु­क्त­बा­ह्या­र्थधीः
अन्या­वे­दि­त­भो­ग्य­भो­ग­क­लनो निद्रालुवद् बालवत् ।
स्वप्ना­लो­कि­त­लो­क­व­ज्ज­ग­दिदं पश्य­न्क्व­चि­ल्ल­ब्धधीः
आस्ते कश्चि­द­न­न्त­पु­ण्य­फ­ल­भु­ग्धन्यः स मान्यो भुवि ॥४२६॥

४२६

धियः निर्मु­क्त­बा­ह्या­र्थत्वे हेतुः ब्रह्माकारतया सदा स्थिततयेति । सदा प्रत्य­या­न्त­र­शू­न्य­त्वेन अच्छिन्नतया ब्रह्माकारतया पर­म­पु­रु­षा­र्थ­भू­ता­ख­ण्ड­स­च्चि­दा­न­न्द­प­र­मा­त्मा­का­र­तया स्थिततया निर्मुक्ताः नितरां सवासनमित्यर्थः मुक्ताः नष्टाः बाह्यार्थाः यस्यां सा न तु ययेति स्वयमेव निवृत्तत्वात् विषयाणां प्रयत्नस्य अनपेक्षितत्वात् ‘रसोप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.५९) इति ब्रह्मदर्शने विष­य­नि­व­र्त­नार्थं प्रय­त्ना­न­पे­क्षि­त­त्वस्य प्रतीयमानत्वात् । तथाच निर्मुक्ता बाह्यार्थधीः यस्य सः निर्मु­क्त­बा­ह्या­र्थधीः । कश्चिदित्यस्य विशेषणम् अन्या­वे­दि­त­भो­ग्य­भो­ग­क­लनः अन्यैः आवेदितं यद्भोग्यं शरी­र­स्थि­ति­नि­मि­त्तम् अन्नपानादिकं तेन भोगस्य कलना सम्पत्तिः घटना यस्य़ सः । आस्य­प्रा­प्ता­न्न­भु­गि­त्यर्थः । यथा निद्रालुरन्यैः भोजितं भुनक्ति बालश्च मात्रा भोज्यते तथा बहि­र्मु­ख­त्वा­भा­वेन निरभिमानतया च निद्रालुवत् बालवत् अन्या­वे­दि­त­भो­ग्य­भो­ग­क­लनः, प्रार­ब्ध­क­र्मा­य­त्त­भो­गोऽपि परमुखेन शरी­र­स्थि­ति­हे­तु­र्भ­वति इति भावः । क्वचि­त्प­र­मा­त्मनि लब्धधीः लब्धा प्रतिष्ठिता धीः यस्य सः लब्धधीः, यद्वा क्वचित् कदाचित् लब्धधीः व्युत्थितमनाः इदं जगत् स्वप्ना­लो­कि­त­लो­क­वत् मिथ्यात्वेन पश्यन् कश्चित् ब्रह्मविद्वरः अन­न्त­पु­ण्य­फ­ल­भुक् शतकोटिजन्मसु कृत­सु­कृ­त­फ­ल­भू­त­मो­क्ष­न­न्दा­नु­भवी आस्ते स धन्यः भुवि मान्यः सकलपूज्यः । एतेन विषयान्विना स्वतः आनन्दः अनुपमः उक्तः आत्मविद्याफलम् । ‘सोश्नुते सर्वान्कामान् सह’(तै.उ. २.१)

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ (भ.गी. २.४६)

इति श्रुति­स्मृ­तिभ्यां ‘एत­स्यै­वा­न­न्दस्य अन्यानि भूतानि मात्रा­मु­प­जी­वन्ति’(बृ.उ. ४.३.३२) इति श्रुतेश्च । लोके यावन्तः पुरुषाः यावद्भिः पुण्यैः यावन्ति सुखान्यनुभवन्ति अयं परा­व­रै­क­त्व­ज्ञानी युगपत् सर्वाणि सुखानि समु­द्र­स्था­नी­य­ब्र­ह्मा­न­न्दा­नु­भ­वा­द­नु­भ­व­तीति वा अर्थः अन­न्त­पु­ण्य­फ­ल­भु­गि­त्यस्य −

सोश्नुते सकलान् कामान् अक्रमेण सुरर्षभाः । विदि­त­ब्र­ह्म­रू­पेण जीवन्मुक्तो न संशयः ॥

इति तैत्ति­री­य­का­र्थ­वि­व­र­णाद् ब्रह्मगीतासु सर्वेषां सुखानां विष­या­भि­व्य­ङ्ग्यानां ब्रह्मा­न­न्द­सि­न्धु­बि­न्दु­क­णि­का­य­मा­न­त्वात् ।

स्नातं तेन समस्ततीर्थसलिले सर्वापि दत्तावनिः यज्ञानां च सहस्रमिष्टमखिला देवाश्च सन्तर्पिताः । संसाराच्च समु­द्धृ­ता­स्स्व­पि­त­र­स्त्रै­लो­क्य­पू­ज्योऽ­प्यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात् ॥ (सू.सं.)

इत्युक्त्या ब्रह्मनिष्ठा यस्य सर्वदास्य मान्यतायां किमु वक्तव्यम् । उक्तं हि −

कुलं पवित्रं जननी कृतार्था विश्वम्भरा पुण्यवती च तेन । अपा­र­सं­वि­त्सु­ख­सा­ग­रेऽ­स्मिन् लीनं परे ब्रह्मणि यस्य चेतः ॥ (सू.सं. २.२०.४५)

इति ‘तस्मादात्मज्ञं ह्यर्च­ये­द्भू­ति­कामः’(मु.उ ३.१.१०) इति श्रुतेश्च ॥४२६॥

जीव­न्मु­क्त­ल­क्षणे ज्ञाते साधकैः मुमुक्षुभिः तथा स्थातुं प्रयतितुं शक्यत इति मुमु­क्षु­ज­ना­नु­ग्र­हार्थं तल्लक्षणं वक्तुं प्रक्रमते स्थितप्रज्ञ इति −

स्थितप्रज्ञो यतिरयं यस्स­दा­न­न्द­म­श्नुते ।
ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥४२७॥

४२७

ब्रह्मण्येव विलीनात्मा विलीनः आत्मा अन्तःकरणं यस्य अत एव निर्विकारः हर्ष­वि­षा­दा­द्या­न्त­र­वि­का­र­शून्यः । विनिष्क्रियः बाह्यदेहादि चेष्टाशून्यः, ‘क्रिया स्वाश्र­य­म­वि­कु­र्वती नैवात्मानं लभते’(ब्र.सू.भा. १.१.४) इति सम­न्व­य­सू­त्र­भा­ष्यात् निर्विकारत्वे हेतुः विनिष्क्रिय इति वा । यः सदानन्दमश्नुते अयं यतिः स्थितप्रज्ञः इति । सूत्र­स्था­नी­योऽयं श्लोकः ॥४२७॥

तत्र स्थितप्रज्ञत्वं व्याकुरुते ब्रह्मेति −

ब्रह्मात्मनोः शोधि­त­यो­रे­क­भा­वा­व­गा­हिनी ।
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।
सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥४२८॥

४२८

स्थिता सततं वर्तमाना प्रज्ञा यस्य सः स्थितप्रज्ञ इति विग्रहः । तत्र प्रज्ञा­श­ब्दा­र्थ­माह शोधितयोः महा­वा­क्या­र्थ­क­थ­ना­व­सरे दर्शितदिशा तत्त्व­म्प­द­ल­क्ष्ययोः उपा­धि­वि­नि­र्मु­क्तयोः, ब्रह्मात्मनोः पर­मा­त्म­प्र­त्य­गा­त्मनोः, एकभावावगाहिनी ऐक्यविषयिणी निर्विकल्पा संस­र्गा­दि­मि­थ्या­प­दा­र्था­वि­ष­यिणी चिन्मात्रा अखण्डचिदाकारा वृत्तिः श्रव­ण­म­न­न­नि­दि­ध्या­स­न­सं­स्कृ­त­म­नः­प­रि­णामः प्रज्ञा इति कथ्यते । स्थिता­श­ब्दा­र्थ­माह ‘सा सर्वदा भवेद्यस्येति’, सजीवन्मुक्त इष्यते अत­स्मिं­स्त­द्बु­द्धे­रेव बन्धत्वात् सर्वदा अखण्डाकारवृत्तौ सत्यां बन्ध­प्र­स­क्ते­र­भा­वात् ॥४२८॥

यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः ।
प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥४२९॥

४२९

सूत्र­श्लो­क­स्थस्य ‘यस्स­दा­न­न्द­म­श्नुते ब्रह्मण्येव विलीनात्मा’(श्लो. ४२७) इत्यस्य विवृतिः । अत्र सर्वं तस्य स्वरूपम् अतः विशेषणानां व्याव­र्त­क­त्व­शङ्का न कार्या । यद्वा यस्य स्थिता भवेत्प्रज्ञा स जीवन्मुक्तः, एवं यस्यानन्दो निरन्तरः स जीवन्मुक्तः, यस्य प्रपञ्चः विस्मृतप्रायः स जीवन्मुक्तः इति योजना । ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानि­न­स्त­त्त्व­द­र्शिनः’(भ.गी. ४.३४) इति स्मृत्या शिष्यबोधनार्थं शिष्यादृष्टेन व्युत्थानदशायां तदु­प­यो­गि­प्र­मा­ण­वा­क्या­दि­रू­प­प्र­पञ्चः स्मर्यते नान्यत् किञ्चिदिति विस्मृतप्राय इति प्रायःपदम् ॥४२९॥

सुषुप्तेः भेदमाह लीनधीरिति −

लीनधीरपि जागर्ति यो जाग्र­द्ध­र्म­व­र्जितः ।
बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥४३०॥

४३०

सुषुप्तौ मनसः अज्ञाने लयः, इदानीं ब्रह्मणि चिन्मात्रे, ततः तमः­प्र­स­क्ते­रे­वा­भा­वात् लीनधीरपि जागर्ति नष्टा­वि­द्या­निद्र इत्यर्थः । अना­वृ­ता­त्म­स­म्ब­द्ध­स­क­ल­प­दा­र्थ­त्वात् स्वाव्यतिरेकेण सर्वमुपलभत इति वा । ‘इन्द्रि­यै­र­र्थो­प­ल­ब्धि­र्जा­ग­रि­त­मिति’ । (उ.गी.भा. १.७) लक्षणं सुयोजम् । जागरेऽपि न पूर्ववत् स्थूल­दे­हा­द्य­भि­मान इत्याह, यो जाग्र­द्ध­र्म­व­र्जितः,

राग­द्वे­ष­वि­यु­क्तैस्तु विष­या­नि­न्द्रि­यै­श्च­रन् । आत्म­व­श्यै­र्वि­धे­यात्मा स शान्तिमधिगच्छति ॥ (भ.गी. २.६४)

इति स्मृतिरीत्या अध्यास काल एव शान्त्यर्थमेव प्रयत्नस्य कृतत्वात् । यस्य बोधः पदार्थानां बोधोऽपि निर्वासनः सक्तिरहित इत्यर्थः ।

यदृ­च्छो­प­न­ते­ष्व­क्षि­दि­ग्द्र­व्येषु यथा पुनः । नीरागमेव पतति तद्वद् भोग्येषु धीरधीः ॥ (यो.वा.जी.वि. ४.२३.४४)

इति वासिष्ठोक्तेः हेयो­पा­दे­य­बु­द्धि­र­हित इति भावः । यद्वा लीनधीरपि जागर्ति, चक्षु­रा­दी­न्द्रि­याणां स्वस्व­गो­ल­के­ष्व­व­स्था­नेन उप­र­त्य­भा­वा­ज्जा­गर्ति । इन्द्रि­य­स­त्त्वेपि मनसः ब्रह्मणि लीनत्वात् नेन्द्रि­यै­र­र्था­नु­प­ल­भते यतः ततः जाग्र­द्ध­र्म­व­र्जितः । कदा­चि­दु­प­ल­ब्धा­वपि दृढ­त­म­वि­वे­क­प्र­क­र्षात् राग­द्वे­षा­दि­शू­न्यत्वं निर्वा­स­न­बो­ध­त्वम् । तेन निर्विकारत्वं सूत्रश्लोकस्थं विवृतम् ॥४३०॥

द्वादशभिः श्लोकैः निर्विकारत्वं मुख्यतया उपपादयति, तस्मिन्सति प्रज्ञा­प्र­ति­ष्ठायाः तस्यां च सदानन्दस्य अय­त्न­सि­द्ध­त्वात् −

शान्तसंसारकलनः कलावानपि निष्कलः ।
यः सचित्तोपि निश्चित्तः स जीवन्मुक्त इष्यते ॥४३१॥

४३१

शान्ता संसारकलना यस्य सः शान्तसंसारकलनः, इदं विशेषणं निश्चित्तत्वे हेतुः । कलावानपि सकलविद्याविदपि निष्कलः ब्रह्मवृत्ति व्यति­रि­क्त­वृ­त्ति­शू­न्य­त्वात् । यद्वा आमोक्षं प्राण­श्र­द्धा­दि­षो­ड­श­क­ला­वि­शि­ष्टोऽपि तत्रा­भि­मा­न­रू­प­स­ङ्गा­भा­वात् पर­की­य­प्रा­णा­दि­भि­रिव कलासंसर्गशून्य इत्यर्थः । यस्सचित्तोऽपि स्वात्मना परि­ण­त­चि­त्त­वि­शि­ष्टोऽपि निश्चित्तः बहि­र्वृ­त्ति­शू­न्य­त्वात् मुग्धादिवत् रागा­दि­शू­न्य­त्वाद्वा । स जीवन्मुक्त इष्यते ॥४३१॥

वर्तमानेऽपि देहेऽ­स्मिं­श्छा­या­व­द­नु­व­र्तिनि ।
अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् ॥४३२॥

४३२

छायावदनुवर्तिनि अस्मि­न्स्थू­ल­देहे वर्तमानेऽपि अह­न्ता­म­म­त­यो­र­भावः परकीयशरीर इव जीवन्मुक्तस्य लक्षणम् । एतेन सर्वेषां विकाराणां रागद्वेषादीनां जरामरणादीनां वा स्थूल­दे­हा­भि­मा­न­मू­ल­क­त्वात् मूलाभावे निर्विकारत्वं स्पष्ट­मु­प­पा­दि­तम् ॥४३२॥

अतीताननुसन्धानं भविष्यदविचारणम् ।
औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥४३३॥

४३३

अतीतस्य अननुसन्धानम् अस्मरणं, भविष्यतः आगामिनः अविचारणम् अचिन्तनं, प्राप्तेऽपि वर्तमान इत्यर्थः औदासीन्यं सङ्गशून्यत्वं जीवन्मुक्तस्य लक्षणम् ॥४३३॥

गुण­दो­ष­वि­शि­ष्टेऽ­स्मिन् स्वभावेन विलक्षणे ।
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥

४३४

गुणदोषविशिष्टे अत एव स्वभावेन विलक्षणे अस्मिन् जगति सर्वत्र समदर्शित्वम् ।

न निषेधति दोषधिया गुणबुद्ध्या वा न किञ्चिदादत्ते । आविद्यकमखिलमिति ज्ञात्वोदास्ते यतिः कोऽपि ॥ (५०)

इत्या­त्म­वि­द्या­वि­ला­सो­क्त­रीत्या हानो­पा­दा­न­र­हि­त­त्वम् । यद्वा समं ब्रह्म, ‘निर्दोषं हि समं ब्रह्म’(भ.गी. ५.१९) इति स्मृतेः सर्वत्र ब्रह्मदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥

इष्टा­नि­ष्टा­र्थ­स­म्प्राप्तौ सम­द­र्शि­त­याऽऽ­त्मनि ।
उभ­य­त्रा­वि­का­रित्वं जीवन्मुक्तस्य लक्षणम् ॥४३५॥

४३५

इष्टस्य वा अनिष्टस्य वा अर्थस्य सम्प्राप्तौ समदर्शितया इदमिष्टम् इदमनिष्टम् इति बुद्ध्यभावात् आत्मनि उभ­य­त्रा­वि­का­रित्वं हर्षो­द्वे­ग­शू­न्यत्वं जीवन्मुक्तस्य लक्षणं लोकदृष्ट्या इष्टानिष्टेति कथनम् ॥४३५॥

ब्रह्मा­न­न्द­र­सा­स्वा­दा­स­क्त­चि­त्त­तया यतेः ।
अन्त­र्ब­हि­र­वि­ज्ञानं जीवन्मुक्तस्य लक्षणम् ॥४३६॥

४३६

ब्रह्मेति । स्पष्टम् ॥४३६॥

देहेन्द्रियादौ कर्तव्ये ममा­ह­म्भा­व­व­र्जितः ।
औदासीन्येन यस्तिष्ठेत् स जीवन्मुक्त इष्यते ॥४३७॥

४३७

देहेन्द्रियादौ आदिपदेन प्राण­म­नो­बु­द्ध्य­ह­ङ्का­र­प­रि­ग्रहः । कर्तव्ये कर्मणि च ममेदं कर्तव्यं मयेदं कृतमिति वा ममभाववर्जितः । देहेन्द्रियादौ अहं मनुष्यः अहं पश्यामि, मम देहः, मम चक्षु­रि­त्या­द्य­ध्या­स­व­र्जितः । य औदासीन्येन आध्या­सि­क­ता­दा­म्य­शू­न्य­तया असङ्गतया तिष्ठेत् स जीवन्मुक्त इष्यते ॥४३७॥

विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् ।
भव­ब­न्ध­वि­नि­र्मुक्तः स जीवन्मुक्त इष्यते ॥४३८॥

४३८

श्रूतेर्बलात् तत्त्वमसि (छा.उ. ६.८.७) इत्यादि वेदवाक्यमहिम्ना आत्मनः स्वस्य ब्रह्मभावः ब्रह्मत्वं यस्य विज्ञातः साक्षादकारि । भव­ब­न्ध­वि­नि­र्मु­क्तः­स­क­ल­वि­ध­भ्रा­न्ति­शून्यः मूलाज्ञाननाशात् स जीवन्मुक्त इष्यते ॥४३८॥

भव­ब­न्ध­वि­नि­र्मु­क्तत्वं स्फुटमाह देहेति −

देहे­न्द्रि­ये­ष्व­ह­म्भावः इद­म्भा­व­स्त­द­न्यके ।
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥४३९॥

४३९

देहे इन्द्रियेषु च अहंभावः, तदन्यके तदन्यस्मिन् घटादौ इदम्भावः यस्य क्वापि कस्मिन्नपि काले न भवतः स जीवन्मुक्त इष्यते । अनात्मत्वस्य समत्वात् देहेन्द्रियाणां घटादेश्च स्वस्मि­न्क­ल्पि­त­त्वस्य च समत्वात् । केव­ल­पू­र्व­वा­स­ना­मू­लकः अहमिदम्भावः निर्वासनबोधवतः जीवन्मुक्तस्य न सम्भवतीति भावः ॥४३९॥

न प्रत्य­ग्ब्र­ह्म­णो­र्भेदं कदापि ब्रह्मसर्गयोः
प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥४४०॥

४४०

विभे­द­ज­न­केऽ­ज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ (वि.पु. ६.७.९४)

इति प्रमा­णा­त्प्र­त्य­ग्ब्र­ह्मणोः, जीवब्रह्मणोः, सृज्यत इति सर्गः जगत् ‘ब्रह्मैवेदं विश्वं’(मु.उ २.१२) इत्यादिश्रुत्या रज्जुसर्पवद् ब्रह्मणि कल्पितस्य अधि­ष्ठा­न­भे­दा­भा­वात् । ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इत्यादिश्रुत्या ‘यत्र नान्यत्पश्यति’(छा.उ. ७.२४.१) इत्यादिश्रुत्या च ‘यदा ह्येवैष एत­स्मि­न्नु­द­र­म­न्तरं कुरुते, अथ तस्य भयं भवति’(तै.उ. २.७) इति श्रुत्या च अभ­य­ब्र­ह्म­प्र­ति­ष्ठस्य तस्य किञ्चिदपि भेदज्ञानं नास्तीति भावः । तथा च भेदस्याभावादेव तस्य ज्ञानाभावः, शशविषाणवत् त्रैका­लि­क­नि­षे­ध­प्र­ति­यो­गि­त्वात् । वस्तुसतः अज्ञाने किञ्चिज्ज्ञत्वं न त्वसतः । न हि सर्वज्ञानां योगिनां शश­वि­षा­णा­द्य­ज्ञा­ना­द­स­र्व­ज्ञत्वं कश्चिदुपैति । तस्मा­न्नि­र्वि­क­ल्पया सक­ल­शा­स्त्र­सं­स्का­र­सं­स्कृ­त­म­नः­प­रि­णा­म­रू­पया चिन्मात्रया प्रज्ञया भेदं न विजानाति शास्त्रस्य प्रयो­ज­न­व­द­न­धि­ग­ता­बा­धि­ता­र्थ­बो­ध­क­त्वे­नैव प्रामाण्यात् । लोकाज्ञानसिद्धः निष्प्रयोजनः उपादानेन अज्ञानेन सह निवृत्तः भेदः कथ­म­ख­ण्डा­का­र­वृत्तौ विषयभावं प्राप्तुमर्हः स्यात् ।

प्रती­ति­र्जी­व­ज­गतोः स्वप्नवद्भाति यावता । तावन्निरन्तरं विद्वन् स्वाध्यासापनयं कुरु ॥ (श्लो. २८६)

इत्यु­प­दे­श­प्र­का­रेण अपनीतसकलभ्रमस्य न कदापि भेदज्ञानं भवतीति एवं लक्षणसम्पन्नः यः सः जीवन्मुक्त इष्यते ॥४४०॥

साधुभिः पूज्य­मा­नेऽ­स्मिन् पीड्यमानेऽपि दुर्जनैः ।
समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥४४१॥

४४१

अस्मिन् शरीरे साधुभिः पूज्यमाने दुर्जनैः पीड्यमानेऽपि यस्य समभावः समत्वं हर्षा­म­र्षा­दि­शू­न्यत्वं स जीवन्मुक्त इष्यते ॥४४१॥

किं बहुना ?

यत्र प्रविष्टा विषयाः परेरिताः
नदीप्रवाहा इव वारिराशौ ।
लिनन्ति सन्मात्रतया न विक्रियां
उत्पादयन्त्येष यतिर्विमुक्तः ॥४४२॥

४४२

परेरिताः परैः अन्यैः ईरिताः अनेन स्वतः विषयोन्मुखत्वं नैवा­स्ती­क्षि­त­ब्र­ह्मणः पुंसः इत्युक्तम् । परेरिताः परकृतस्तुति निन्दादयोऽपि परदृष्ट्या साध्व­सा­धु­श­ब्दा­द्या­त्मकाः विषयाः यत्र प्रविष्टाः यमुद्दिश्य कृताः वारिराशौ प्रविष्टाः नदीप्रवाहा इव लिनन्ति लीयन्ते न विक्रियाम् उत्पादयन्ति हर्षं वा अमर्षं वा दैन्यं वा । तत्र हेतुः सन्मात्रतयेति अख­ण्ड­ब्र­ह्मै­वा­ह­मिति निश्चित्य स्थितवतः शरी­रा­द्या­श्रि­त­स्तुति निन्दादिना किं भवति । निर्गुणे निर्दोषे च ब्रह्मणि स्थितवतां सक­ल­वि­ध­वि­का­र­शू­न्य­त्वम् । तत्र परकृतं सर्व­मा­का­श­ह­न­ना­र्थ­ख­ड्गा­द्या­यु­ध­प्र­यु­क्ति­वद् व्यर्थमिति भावः । एष यतिः, यत्र प्रविष्टाः विक्रियां नोत्पादयन्ति एष यतिः विमुक्तः क्षीणवासनत्वात् नष्टमनस्त्वाच्च ॥४४२॥

‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’(छा.उ. ६.१४.२) इति श्रुत्या ‘भोगेन त्वितरे क्षपयित्वा सम्पद्यते’(ब्र.सू. ४.१.१९) इति सूत्रेण च ज्ञानिनामपि प्रार­ब्ध­क­र्मा­यत्तः भोगः स्वीकर्तव्यो भवति । तथाच सुख­दुः­खा­नु­भ­व­रू­प­त्वात् भोगस्य, कथं निर्विकारत्वम् इति शङ्कायां प्राह विज्ञातेति −

विज्ञा­त­ब्र­ह्म­त­त्त्वस्य यथापूर्वं न संसृतिः ।
अस्ति चेन्न स विज्ञा­त­ब्र­ह्म­भावो बहिर्मुखः ॥४४३॥

४४३

विज्ञातमनुभूतं ब्रह्मतत्त्वं येन सः विज्ञा­त­ब्र­ह्म­तत्वः, तस्य मिथ्या­ज्ञा­न­ना­शेन तत्कृ­ता­भि­मा­ना­भा­वात् यथापूर्वम् अनुभवात्प्रागिव न संसृतिः सुखदुःखानुभवः स्पृहो­द्वे­ग­शू­न्य­त्वात् तदुक्तं गीतासु −

दुःखे­ष्व­नु­द्वि­ग्न­मनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थित­धी­र्मु­नि­रु­च्यते ॥ (२.५६) इति ।

इतरेषां नैवं विधत्वं, दुःखेषु उद्विजन्ते सुखेभ्यः स्पृहयन्ति च रक्ताः भीताः कोपिनश्च । तदाह, अस्ति चेत् उद्वे­ग­स्पृ­हा­दिकं न स विज्ञा­त­ब्र­ह्म­भावः बहिर्मुखः कोशे­ष्वा­त्मा­भि­मा­न­वान् ॥४४३॥