विवेकचूडामणिः सव्याख्यः
३१. जीवन्मुक्तलक्षणम्
संसिद्धस्य फलं त्वेतज्जीवन्मुक्तस्य योगिनः ।
बहिरन्तस्सदानन्दरसास्वादनमात्मनि ॥४१९॥
साधनचतुष्टयसम्पत्तिपुरस्सरं गुरुमुपसद्य तन्मुखात् वेदान्तवाक्यार्थं श्रुत्वा मत्वा निदिध्यास्य सम्यगात्मानुभवतः योगिनः परमात्मन्येव स्थापितचित्तस्य जीवन्मुक्तस्य जीवतोऽपि सर्वोपाधिसम्बन्धविनिर्मुक्तस्य तु एतत् फलं यदात्मनि अन्तःकरणे बहिरन्तस्सदानन्दरसास्वादनम् । व्युत्थानेऽपि नानन्दस्य तिरोधानम् अखण्डाकारवृत्त्या आवरणस्य भञ्जितत्वात् तदुक्तं बहिरिति । इतरैरपि तदीयमूर्तिदर्शनेन अयं पूर्णानन्द इति निरन्तरस्मितस्मेरावलोकनादिना ज्ञायते इति तस्य पूर्णानन्दात्मना स्थितिः निरन्तरैव अविद्यानिवृत्तिरूपमोक्षस्यापि दृष्टफलत्वात् ॥४१९॥
तत्र साक्षात्परम्परया वा साधनानां विशिष्य फले विज्ञाते, पूर्णता मुमुक्षुणा प्रयत्नेन तत्राधातुं शक्यते । तदर्थं वैराग्यबोधोपरतीनां क्रमेण फलं दर्शयति वैराग्यस्येति −
वैराग्यस्य फलं बोधः बोधस्योपरतिः फलम् ।
स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् ॥४२०॥
विमुक्तिसौधाग्रतलाधिरोहणं ताभ्यां विना नान्यतरेण सिद्ध्यति ॥ (श्लो. ३७५) इति कथितम् । वैराग्यान्न परं सुखस्य जनकं पश्यामि वश्यात्मनः तच्चेच्छुद्धतरात्मबोधसहितं स्वाराज्यसाम्राज्यधुक् । (श्लो. ३७७)
इति च । तेन मोक्षे तयोः समतया हेतुत्वमिव प्रतीयते । ‘यद्यपि एतद्द्वारमजस्रमुक्तियुवतेः’ इत्यस्ति तथापि’, ‘सर्वत्रास्पृहया सदात्मनि सदा प्रज्ञां कुरु श्रेयसे’(३७७) इत्युत्तरार्धेऽपि वैराग्यबोधयोः हेतुहेतुमद्भावः स्पष्टं न प्रतीयते । ततः स्फुटयति, यद्यपि विवेकवैराग्यशमादिषट्कमुमुक्षुत्वरूपब्रह्मविचारसाधनमध्ये वैराग्यमुपरतिश्च घटकीकृते अथापि तेषां साधनानाम् अन्तरङ्गत्वात् विचारकाले सामान्यतो वर्तमानानामपि श्रवणमननरूपज्ञानसाधनानुष्ठानेन उत्तमत्वं सम्भवेत् अत एव ‘बाह्यानालम्वनं वृत्तेः एषोपरतिरुत्तमा’(श्लो. २५) इत्युक्तम् । विचारदशायां निदिध्यासनमन्तरा विपरीतभावनायाः अनिवृत्तेः बाह्यानालम्बनत्वं दुर्घटम् । अथापि शब्दादिविषयानालम्बनत्वेन वृत्तिः विचारं साधयतीति वक्तव्यम् । इदानीं तु पञ्चकोशनिषेध − पुरस्सरं निदिध्यासनेन स्वनुभवे सम्पादिते अनात्माविषयकत्वम् असङ्कोचेन वक्तुं शक्यते अतः बोधस्य उपरतिः फलमित्युच्यते । अतः शमादिषट्कमध्ये शमफलदमफलत्वेन कथिताया अप्युपरतेः उत्तमत्वसिध्यनन्तरमेव − ‘स्वलक्ष्ये नियतावस्था मनसश्शम उच्यते’(श्लो. २३) इति लक्षितशमः शान्तिपदेन स्वानन्दानुभवाच्छान्तिरेषैवोपरतेः फलम् इत्युक्तम् । पूर्वं प्रयत्नेन आप्तवाक्यादिना सम्पादितानामपि साधनानां विचारेण प्रकृष्यमाणत्वात् असङ्कुचितलक्षणवत्त्वं सम्भवतीति भावः । तथा च −
ब्रह्म सत्यं जगन्मिथ्येत्येवं रूपो विनिश्चयः । सोयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥ (श्लो. २०, २१)
इति लक्षितः विवेकः पूर्वं परोक्षज्ञानरूपः विचारात्पश्चात् अपरोक्षत्वं प्राप्नोति । एवं वैराग्यमपि उत्कटविषयेच्छाऽभावरूपं ‘रसोप्यस्य परं दृष्ट्वा निवर्तते’(२.५९) इति गीतावचनात् स्वरूपानन्दसाक्षात्कारे विषयेषु वासनात्मनापि रागो न तिष्ठतीति असङ्कुचितं भवति । तस्मादभ्यासवैरागाभ्यां सम्यङ्मनो निरुध्य विचारे क्रियमाणे बोधः अवश्यम्भावी यदि न जातः वैराग्यरूपसाधनं न पूर्णमस्तीति ज्ञातव्यम् । ततः तद्दार्ढ्याय प्रयत्नः कार्यः । एवं बोधे उपनिषज्जन्ये आत्मसाक्षात्कारे जाते असन्दिग्धाविपर्यस्तात्मपरोक्षज्ञाने वा जाते उपरतिः तस्य बोधस्य फलम् । ज्ञात्वापि बाह्येभ्यः निवृत्त्यभावे मनसः दृढं ज्ञानं न जातमित्येव ज्ञेयम् । तत्र च कारणं वैराग्यापरिपूर्तिरेव । वैराग्यं पूर्णं दृढ आत्मनिश्चयश्च नो चेदविद्यावतां भेदः को वा, विद्यावतामपि कुतः अनुपरमणम् , उपरतौ च मनसः स्वानन्दानुभवाच्छान्तिः निष्क्रियात्मनावस्थानम् एषैव फलमुपरतेः ।
ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । नैवास्ति किञ्चित्कर्तव्यम् अस्ति चेन्न स तत्त्ववित् ॥ (जा.द.उ. १.२३)
इत्युक्तेः । ‘यद्युत्तरोत्तराभावः पूर्वपूर्वं तु निष्फलम्’ । एवं तत्तद्दृष्टफलनिष्पत्तिपर्यन्तं तत्तत्साधनं न पूर्णं भवतीति ज्ञाने प्रयत्नः साधकेन सुष्ठु कर्तुं शक्यत इति साधनपूर्णतायै समुपन्यासः ॥४२०॥
ब्रह्मविद्यायाः फलमाह निवृत्तिरिति −
निवृत्तिः परमा तृप्तिः आनन्दोऽनुपमः स्वतः ।
दृष्टदुःखेष्वनुद्वेगः विद्यायाः प्रस्तुतं फलम् ॥४२१॥
निवृत्तिः सर्वेभ्यः कार्येभ्यो निवृत्तिः निर्व्यापारत्वं कर्तव्यानवशेषता । परमा तृप्तिः निरङ्कुशा तृप्तिः कर्तव्यं कृतं प्राप्तव्यं प्राप्तम् इतः परं करणीयं प्राप्तव्यं वा किमपि नास्तीति स्वस्य धन्यधन्यतया सुखविशेषः स्वतः अनुपमः असदृशः आनन्दः विषयनिरपेक्षः नित्यनिरतिशयसुखम् । प्रारब्धकर्मणा दृष्टदुःखेषु अनुद्वेगः, अज्ञानी तु दुःखेषु प्रसक्तेषु अहं पापी धिङ् मां दुरात्मानम् इत्यनुतापवान् भवति । यद्यप्ययं विवेक इव भाति । तथापि पूर्वस्मिन् जन्मनि चेत् पापप्रवृत्तिप्रतिबन्धकत्वात् सप्रयोजनो भवति स्म, इदानीं तु निष्प्रयोजन इति भ्रान्तिः तमोविकारः । दुःखं तु रागादिनिमित्तवशात् रजोगुणविकाररूपा सन्तापात्मिका चित्तवृत्तिः इति दुःखोद्वेगयोर्भेदः । ज्ञानिनः अयमुद्वेगो न भवतीति चत्वारि फलानि निवृत्तिः, निरङ्कुशा तृप्तिः, असदृशानन्दः निर्विषयः, दृष्टदुःखेषु अनुद्वेगश्चेति । विद्यायाः आत्मतत्त्वज्ञानस्य प्रस्तुतं मुख्यं दृष्टं फलम् ॥४२१॥
तत्र निवृत्तिमुपपादयति यदिति −
यत्कृतं भ्रान्तिवेलायां नानाकर्म जुगुप्सितम् ।
पश्चान्नरो विवेकेन तत्कथं कर्तुमर्हति ॥४२२॥
अविवेकविवेकयोः एतावति वैलक्षण्ये विवेकफलभूतायां विद्यायां परमात्मविषयिण्यां किं वक्तव्यमिति भावेनाह यत्कृतमिति । भ्रान्तिवेलायां जुगुप्सितं नाना कर्म यत्कृतं तत् कर्म विवेकेन पश्चात् कथं कर्तुमर्हतीत्यनेन विवेकिनः यथा जुगुप्सितकर्मभ्यो निवृत्तिः एवं विद्यावतः प्राप्याभावात् ब्रह्मनिष्ठतया च सर्वकर्मनिवृत्तिरिति भावः ॥४२२॥
इदं फलं लोकदृष्टमित्याह विद्येति −
विद्याफलं स्यादसतो निवृत्तिः
प्रवृत्तिरज्ञानफलं यदीक्षितम् ।
तज्ज्ञाज्ञयोर्यन्मृगतृष्णिकादौ
नो चेद् विदो दृष्टफलं किमस्मात् ॥४२३॥
विद्याफलं स्यादसतो निवृत्तिः प्रवृत्तिरज्ञानफलं तद् ईक्षितं दृष्टं तज्ज्ञाज्ञयोः । यत् यस्मात्कारणात् मृगतृष्णिकादौ आदिपदेन शुक्तिरजतादिकं ग्राह्यम् । मृगतृष्णिकेति ज्ञानवान् न जलार्थं मरुभूमौ प्रवर्तते । मरुभूमौ सूर्यकिरणपाते जलवद् भासते इति ज्ञानशून्यस्तु मरुभूम्यज्ञानेन तत्र जलभ्रान्त्या प्रवर्तते नेष्टं लभते, विफलप्रवृत्तिमान् भवति । तत् तस्मात्कारणात् विद्याफलम् असतो निवृत्तिः अज्ञानफलं प्रवृत्तिः इतीक्षितं नोचेदेवं विदः ज्ञानिनः अस्माद् असन्निवृत्तिरूपात् दृष्टं फलं किम् । प्रकृते ब्रह्मविद्याविषये तु असच्छब्देन अनात्मा गृह्यते ब्रह्मभिन्नं सर्वम् । पूर्वमज्ञानावस्थायां तत्र प्रवृत्तिरासीत् अलब्धस्वरूपानन्दत्वात् । इदानीं तु स्वात्मानं विदितवतः तत्र सर्वत्र मिथ्यात्वज्ञानेन नैव प्रवृत्तिः इति असन्निवृत्तिः विद्याफलम् ॥४२३॥
प्रवृत्तिकारणाभावाच्च निवृत्तिरित्याह अज्ञानेति − अनिच्छोरित्यनेन परमा तृप्तिरप्युक्ता भवति −
अज्ञानहृदयग्रन्थेर्विनाशो यद्यशेषतः ।
अनिच्छोर्विदुषः किं नु प्रवृत्तेः कारणं स्वतः ॥४२४॥
अज्ञानप्रयोज्यः यः हृदयग्रन्थिः बुद्धौ साक्षिणः तादात्म्याध्यासः तस्य अखण्डाकारवृत्त्या मूलभूताज्ञाननाशेन अशेषतः निर्वासनतया यदि विनाशः सकारणं नाशः । तदा इत्यध्याहार्यं यदीति सत्त्वात् । स्वतः अनिच्छोः इच्छारहितस्य विदुषः प्रवृत्तेः कारणं किं नु ? सर्वत्र प्रवृत्तौ इच्छैव कारणम् , तदभावे प्रवृत्यभावात् वदन्ति हि ‘प्रयोजनमनुद्दिश्य न मन्दोपि प्रवर्तते’ इति । अत एव साधनचतुष्टये मुमुक्षुत्वमपि घटकीकृतम् । इच्छा च अन्तःकरणधर्मः ‘कामः सङ्कल्पः’(बृ.उ. १.५.३) इत्यादिना ‘इत्येतत्सर्वं मन एव’(बृ.उ. १.५.३) इति श्रुतेः । मनसोपि बहिरिच्छा आनन्दरूपात्मादर्शनात् स्थिता । तत्र दोषदर्शनेन नित्यनिरतिशयानन्दरूपात्मश्रवणमनननिदिध्यासनेषु शास्त्रीयेषु मुमुक्षया प्रावर्तिष्ट । आत्मदर्शनेन तत्रापीच्छा प्राप्तफलत्वान्नास्ति । विचारकाल एव बहिरिच्छा सुतरां नास्ति वैराग्यस्य परमसाधनत्वात् । तथा च तस्य इच्छासत्त्वे तत्तादात्म्याध्यासेन साक्षिणोऽपीच्छा इति वक्तव्यम् । आत्मेच्छापि आत्माज्ञानकालिक्येव । अज्ञाननाशे तत्प्रयोज्यचिज्जडतादात्म्याध्यासनाशेन आत्यन्तिकी निवृत्तिरिच्छाया इति सर्वथापि बहिरन्तर्वा प्रवृत्तिकारणं विषयः कोऽपि नास्तीति निष्क्रियात्मनावस्थानं निवृत्तिशब्दार्थः ब्रह्मविद्यायाः दृष्टं फलम् ॥४२४॥
वैराग्यबोधोपरतयः पूर्णतया कदा ज्ञेया इति प्रश्ने तदवधिं शिष्यानुग्रहाय उपदिशति वासनेति −
वासनानुदयो भोग्ये वैराग्यस्य तदावधिः ।
अहंभावोदयाभावो बोधस्य परमावधिः ।
लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा ॥४२५॥
भोग्ये वासनाया अनुदयः अनुद्बोधः, अनुभूते विषये पुरस्थितेऽपि तत्संस्कारानुद्बोधः यदा तदा वैराग्यस्य अवधिः । तदीयं मनः विषयेषु नष्टमेव कुतो रागप्रसक्तिः वैराग्यस्य परस्यैषा परा काष्ठा प्रदर्शिता । अहंभावस्य उदयाभावः अनुत्पत्तिः बोधस्य परमावधिः । अहं ब्रह्म इत्यपि बाधायां सामानाधिकरण्यम् । अतः सर्वात्मके अहन्त्वमपि कल्पितमेव । अत एवोक्तम् − ‘वदत्येष भ्रान्तस्त्वमहमिति मायामदिरया’(श्लो. ३९२) इति । यदहन्त्वेन ज्ञातं तद् ब्रह्म इत्येवार्थः अहं ब्रह्मेत्यस्य, यः चोरः स स्थाणुरितिवत् । यद्वा कोशेष्वहम्भावस्य उदयाभावः इत्यर्थः । लीनवृत्तेरनुत्पत्तिः मर्यादोपरतेस्तु सा, आनन्दात्मना लीना या मनोवृत्तिः तस्या अनुत्पत्तिः यथा आज्यं पुनः क्षीरं न भवति तथा स्वतः अनुपमः आनन्दः अतः परमा तृप्तिः ततः सर्वतो निवृत्तिः इति हेतुहेतुमद्भावः ॥४२५॥
इदानीं निरुपममानन्दं ज्ञानिनो दर्शयति ब्रह्माकारतयेत्यादिना −
ब्रह्माकारतया सदा स्थिततया निर्मुक्तबाह्यार्थधीः
अन्यावेदितभोग्यभोगकलनो निद्रालुवद् बालवत् ।
स्वप्नालोकितलोकवज्जगदिदं पश्यन्क्वचिल्लब्धधीः
आस्ते कश्चिदनन्तपुण्यफलभुग्धन्यः स मान्यो भुवि ॥४२६॥
धियः निर्मुक्तबाह्यार्थत्वे हेतुः ब्रह्माकारतया सदा स्थिततयेति । सदा प्रत्ययान्तरशून्यत्वेन अच्छिन्नतया ब्रह्माकारतया परमपुरुषार्थभूताखण्डसच्चिदानन्दपरमात्माकारतया स्थिततया निर्मुक्ताः नितरां सवासनमित्यर्थः मुक्ताः नष्टाः बाह्यार्थाः यस्यां सा न तु ययेति स्वयमेव निवृत्तत्वात् विषयाणां प्रयत्नस्य अनपेक्षितत्वात् ‘रसोप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.५९) इति ब्रह्मदर्शने विषयनिवर्तनार्थं प्रयत्नानपेक्षितत्वस्य प्रतीयमानत्वात् । तथाच निर्मुक्ता बाह्यार्थधीः यस्य सः निर्मुक्तबाह्यार्थधीः । कश्चिदित्यस्य विशेषणम् अन्यावेदितभोग्यभोगकलनः अन्यैः आवेदितं यद्भोग्यं शरीरस्थितिनिमित्तम् अन्नपानादिकं तेन भोगस्य कलना सम्पत्तिः घटना यस्य़ सः । आस्यप्राप्तान्नभुगित्यर्थः । यथा निद्रालुरन्यैः भोजितं भुनक्ति बालश्च मात्रा भोज्यते तथा बहिर्मुखत्वाभावेन निरभिमानतया च निद्रालुवत् बालवत् अन्यावेदितभोग्यभोगकलनः, प्रारब्धकर्मायत्तभोगोऽपि परमुखेन शरीरस्थितिहेतुर्भवति इति भावः । क्वचित्परमात्मनि लब्धधीः लब्धा प्रतिष्ठिता धीः यस्य सः लब्धधीः, यद्वा क्वचित् कदाचित् लब्धधीः व्युत्थितमनाः इदं जगत् स्वप्नालोकितलोकवत् मिथ्यात्वेन पश्यन् कश्चित् ब्रह्मविद्वरः अनन्तपुण्यफलभुक् शतकोटिजन्मसु कृतसुकृतफलभूतमोक्षनन्दानुभवी आस्ते स धन्यः भुवि मान्यः सकलपूज्यः । एतेन विषयान्विना स्वतः आनन्दः अनुपमः उक्तः आत्मविद्याफलम् । ‘सोश्नुते सर्वान्कामान् सह’(तै.उ. २.१)
यावानर्थ उदपाने सर्वतः सम्प्लुतोदके । तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ॥ (भ.गी. २.४६)
इति श्रुतिस्मृतिभ्यां ‘एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति’(बृ.उ. ४.३.३२) इति श्रुतेश्च । लोके यावन्तः पुरुषाः यावद्भिः पुण्यैः यावन्ति सुखान्यनुभवन्ति अयं परावरैकत्वज्ञानी युगपत् सर्वाणि सुखानि समुद्रस्थानीयब्रह्मानन्दानुभवादनुभवतीति वा अर्थः अनन्तपुण्यफलभुगित्यस्य −
सोश्नुते सकलान् कामान् अक्रमेण सुरर्षभाः । विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः ॥
इति तैत्तिरीयकार्थविवरणाद् ब्रह्मगीतासु सर्वेषां सुखानां विषयाभिव्यङ्ग्यानां ब्रह्मानन्दसिन्धुबिन्दुकणिकायमानत्वात् ।
स्नातं तेन समस्ततीर्थसलिले सर्वापि दत्तावनिः यज्ञानां च सहस्रमिष्टमखिला देवाश्च सन्तर्पिताः । संसाराच्च समुद्धृतास्स्वपितरस्त्रैलोक्यपूज्योऽप्यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात् ॥ (सू.सं.)
इत्युक्त्या ब्रह्मनिष्ठा यस्य सर्वदास्य मान्यतायां किमु वक्तव्यम् । उक्तं हि −
कुलं पवित्रं जननी कृतार्था विश्वम्भरा पुण्यवती च तेन । अपारसंवित्सुखसागरेऽस्मिन् लीनं परे ब्रह्मणि यस्य चेतः ॥ (सू.सं. २.२०.४५)
इति ‘तस्मादात्मज्ञं ह्यर्चयेद्भूतिकामः’(मु.उ ३.१.१०) इति श्रुतेश्च ॥४२६॥
जीवन्मुक्तलक्षणे ज्ञाते साधकैः मुमुक्षुभिः तथा स्थातुं प्रयतितुं शक्यत इति मुमुक्षुजनानुग्रहार्थं तल्लक्षणं वक्तुं प्रक्रमते स्थितप्रज्ञ इति −
स्थितप्रज्ञो यतिरयं यस्सदानन्दमश्नुते ।
ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः ॥४२७॥
ब्रह्मण्येव विलीनात्मा विलीनः आत्मा अन्तःकरणं यस्य अत एव निर्विकारः हर्षविषादाद्यान्तरविकारशून्यः । विनिष्क्रियः बाह्यदेहादि चेष्टाशून्यः, ‘क्रिया स्वाश्रयमविकुर्वती नैवात्मानं लभते’(ब्र.सू.भा. १.१.४) इति समन्वयसूत्रभाष्यात् निर्विकारत्वे हेतुः विनिष्क्रिय इति वा । यः सदानन्दमश्नुते अयं यतिः स्थितप्रज्ञः इति । सूत्रस्थानीयोऽयं श्लोकः ॥४२७॥
तत्र स्थितप्रज्ञत्वं व्याकुरुते ब्रह्मेति −
ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी ।
निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ।
सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते ॥४२८॥
स्थिता सततं वर्तमाना प्रज्ञा यस्य सः स्थितप्रज्ञ इति विग्रहः । तत्र प्रज्ञाशब्दार्थमाह शोधितयोः महावाक्यार्थकथनावसरे दर्शितदिशा तत्त्वम्पदलक्ष्ययोः उपाधिविनिर्मुक्तयोः, ब्रह्मात्मनोः परमात्मप्रत्यगात्मनोः, एकभावावगाहिनी ऐक्यविषयिणी निर्विकल्पा संसर्गादिमिथ्यापदार्थाविषयिणी चिन्मात्रा अखण्डचिदाकारा वृत्तिः श्रवणमनननिदिध्यासनसंस्कृतमनःपरिणामः प्रज्ञा इति कथ्यते । स्थिताशब्दार्थमाह ‘सा सर्वदा भवेद्यस्येति’, सजीवन्मुक्त इष्यते अतस्मिंस्तद्बुद्धेरेव बन्धत्वात् सर्वदा अखण्डाकारवृत्तौ सत्यां बन्धप्रसक्तेरभावात् ॥४२८॥
यस्य स्थिता भवेत् प्रज्ञा यस्यानन्दो निरन्तरः ।
प्रपञ्चो विस्मृतप्रायः स जीवन्मुक्त इष्यते ॥४२९॥
सूत्रश्लोकस्थस्य ‘यस्सदानन्दमश्नुते ब्रह्मण्येव विलीनात्मा’(श्लो. ४२७) इत्यस्य विवृतिः । अत्र सर्वं तस्य स्वरूपम् अतः विशेषणानां व्यावर्तकत्वशङ्का न कार्या । यद्वा यस्य स्थिता भवेत्प्रज्ञा स जीवन्मुक्तः, एवं यस्यानन्दो निरन्तरः स जीवन्मुक्तः, यस्य प्रपञ्चः विस्मृतप्रायः स जीवन्मुक्तः इति योजना । ‘उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः’(भ.गी. ४.३४) इति स्मृत्या शिष्यबोधनार्थं शिष्यादृष्टेन व्युत्थानदशायां तदुपयोगिप्रमाणवाक्यादिरूपप्रपञ्चः स्मर्यते नान्यत् किञ्चिदिति विस्मृतप्राय इति प्रायःपदम् ॥४२९॥
सुषुप्तेः भेदमाह लीनधीरिति −
लीनधीरपि जागर्ति यो जाग्रद्धर्मवर्जितः ।
बोधो निर्वासनो यस्य स जीवन्मुक्त इष्यते ॥४३०॥
सुषुप्तौ मनसः अज्ञाने लयः, इदानीं ब्रह्मणि चिन्मात्रे, ततः तमःप्रसक्तेरेवाभावात् लीनधीरपि जागर्ति नष्टाविद्यानिद्र इत्यर्थः । अनावृतात्मसम्बद्धसकलपदार्थत्वात् स्वाव्यतिरेकेण सर्वमुपलभत इति वा । ‘इन्द्रियैरर्थोपलब्धिर्जागरितमिति’ । (उ.गी.भा. १.७) लक्षणं सुयोजम् । जागरेऽपि न पूर्ववत् स्थूलदेहाद्यभिमान इत्याह, यो जाग्रद्धर्मवर्जितः,
रागद्वेषवियुक्तैस्तु विषयानिन्द्रियैश्चरन् । आत्मवश्यैर्विधेयात्मा स शान्तिमधिगच्छति ॥ (भ.गी. २.६४)
इति स्मृतिरीत्या अध्यास काल एव शान्त्यर्थमेव प्रयत्नस्य कृतत्वात् । यस्य बोधः पदार्थानां बोधोऽपि निर्वासनः सक्तिरहित इत्यर्थः ।
यदृच्छोपनतेष्वक्षिदिग्द्रव्येषु यथा पुनः । नीरागमेव पतति तद्वद् भोग्येषु धीरधीः ॥ (यो.वा.जी.वि. ४.२३.४४)
इति वासिष्ठोक्तेः हेयोपादेयबुद्धिरहित इति भावः । यद्वा लीनधीरपि जागर्ति, चक्षुरादीन्द्रियाणां स्वस्वगोलकेष्ववस्थानेन उपरत्यभावाज्जागर्ति । इन्द्रियसत्त्वेपि मनसः ब्रह्मणि लीनत्वात् नेन्द्रियैरर्थानुपलभते यतः ततः जाग्रद्धर्मवर्जितः । कदाचिदुपलब्धावपि दृढतमविवेकप्रकर्षात् रागद्वेषादिशून्यत्वं निर्वासनबोधत्वम् । तेन निर्विकारत्वं सूत्रश्लोकस्थं विवृतम् ॥४३०॥
द्वादशभिः श्लोकैः निर्विकारत्वं मुख्यतया उपपादयति, तस्मिन्सति प्रज्ञाप्रतिष्ठायाः तस्यां च सदानन्दस्य अयत्नसिद्धत्वात् −
शान्तसंसारकलनः कलावानपि निष्कलः ।
यः सचित्तोपि निश्चित्तः स जीवन्मुक्त इष्यते ॥४३१॥
शान्ता संसारकलना यस्य सः शान्तसंसारकलनः, इदं विशेषणं निश्चित्तत्वे हेतुः । कलावानपि सकलविद्याविदपि निष्कलः ब्रह्मवृत्ति व्यतिरिक्तवृत्तिशून्यत्वात् । यद्वा आमोक्षं प्राणश्रद्धादिषोडशकलाविशिष्टोऽपि तत्राभिमानरूपसङ्गाभावात् परकीयप्राणादिभिरिव कलासंसर्गशून्य इत्यर्थः । यस्सचित्तोऽपि स्वात्मना परिणतचित्तविशिष्टोऽपि निश्चित्तः बहिर्वृत्तिशून्यत्वात् मुग्धादिवत् रागादिशून्यत्वाद्वा । स जीवन्मुक्त इष्यते ॥४३१॥
वर्तमानेऽपि देहेऽस्मिंश्छायावदनुवर्तिनि ।
अहन्ताममताऽभावो जीवन्मुक्तस्य लक्षणम् ॥४३२॥
छायावदनुवर्तिनि अस्मिन्स्थूलदेहे वर्तमानेऽपि अहन्ताममतयोरभावः परकीयशरीर इव जीवन्मुक्तस्य लक्षणम् । एतेन सर्वेषां विकाराणां रागद्वेषादीनां जरामरणादीनां वा स्थूलदेहाभिमानमूलकत्वात् मूलाभावे निर्विकारत्वं स्पष्टमुपपादितम् ॥४३२॥
अतीताननुसन्धानं भविष्यदविचारणम् ।
औदासीन्यमपि प्राप्ते जीवन्मुक्तस्य लक्षणम् ॥४३३॥
अतीतस्य अननुसन्धानम् अस्मरणं, भविष्यतः आगामिनः अविचारणम् अचिन्तनं, प्राप्तेऽपि वर्तमान इत्यर्थः औदासीन्यं सङ्गशून्यत्वं जीवन्मुक्तस्य लक्षणम् ॥४३३॥
गुणदोषविशिष्टेऽस्मिन् स्वभावेन विलक्षणे ।
सर्वत्र समदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥
गुणदोषविशिष्टे अत एव स्वभावेन विलक्षणे अस्मिन् जगति सर्वत्र समदर्शित्वम् ।
न निषेधति दोषधिया गुणबुद्ध्या वा न किञ्चिदादत्ते । आविद्यकमखिलमिति ज्ञात्वोदास्ते यतिः कोऽपि ॥ (५०)
इत्यात्मविद्याविलासोक्तरीत्या हानोपादानरहितत्वम् । यद्वा समं ब्रह्म, ‘निर्दोषं हि समं ब्रह्म’(भ.गी. ५.१९) इति स्मृतेः सर्वत्र ब्रह्मदर्शित्वं जीवन्मुक्तस्य लक्षणम् ॥४३४॥
इष्टानिष्टार्थसम्प्राप्तौ समदर्शितयाऽऽत्मनि ।
उभयत्राविकारित्वं जीवन्मुक्तस्य लक्षणम् ॥४३५॥
इष्टस्य वा अनिष्टस्य वा अर्थस्य सम्प्राप्तौ समदर्शितया इदमिष्टम् इदमनिष्टम् इति बुद्ध्यभावात् आत्मनि उभयत्राविकारित्वं हर्षोद्वेगशून्यत्वं जीवन्मुक्तस्य लक्षणं लोकदृष्ट्या इष्टानिष्टेति कथनम् ॥४३५॥
ब्रह्मानन्दरसास्वादासक्तचित्ततया यतेः ।
अन्तर्बहिरविज्ञानं जीवन्मुक्तस्य लक्षणम् ॥४३६॥
ब्रह्मेति । स्पष्टम् ॥४३६॥
देहेन्द्रियादौ कर्तव्ये ममाहम्भाववर्जितः ।
औदासीन्येन यस्तिष्ठेत् स जीवन्मुक्त इष्यते ॥४३७॥
देहेन्द्रियादौ आदिपदेन प्राणमनोबुद्ध्यहङ्कारपरिग्रहः । कर्तव्ये कर्मणि च ममेदं कर्तव्यं मयेदं कृतमिति वा ममभाववर्जितः । देहेन्द्रियादौ अहं मनुष्यः अहं पश्यामि, मम देहः, मम चक्षुरित्याद्यध्यासवर्जितः । य औदासीन्येन आध्यासिकतादाम्यशून्यतया असङ्गतया तिष्ठेत् स जीवन्मुक्त इष्यते ॥४३७॥
विज्ञात आत्मनो यस्य ब्रह्मभावः श्रुतेर्बलात् ।
भवबन्धविनिर्मुक्तः स जीवन्मुक्त इष्यते ॥४३८॥
श्रूतेर्बलात् तत्त्वमसि (छा.उ. ६.८.७) इत्यादि वेदवाक्यमहिम्ना आत्मनः स्वस्य ब्रह्मभावः ब्रह्मत्वं यस्य विज्ञातः साक्षादकारि । भवबन्धविनिर्मुक्तःसकलविधभ्रान्तिशून्यः मूलाज्ञाननाशात् स जीवन्मुक्त इष्यते ॥४३८॥
भवबन्धविनिर्मुक्तत्वं स्फुटमाह देहेति −
देहेन्द्रियेष्वहम्भावः इदम्भावस्तदन्यके ।
यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते ॥४३९॥
देहे इन्द्रियेषु च अहंभावः, तदन्यके तदन्यस्मिन् घटादौ इदम्भावः यस्य क्वापि कस्मिन्नपि काले न भवतः स जीवन्मुक्त इष्यते । अनात्मत्वस्य समत्वात् देहेन्द्रियाणां घटादेश्च स्वस्मिन्कल्पितत्वस्य च समत्वात् । केवलपूर्ववासनामूलकः अहमिदम्भावः निर्वासनबोधवतः जीवन्मुक्तस्य न सम्भवतीति भावः ॥४३९॥
न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः
प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते ॥४४०॥
विभेदजनकेऽज्ञाने नाशमात्यन्तिकं गते । आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ (वि.पु. ६.७.९४)
इति प्रमाणात्प्रत्यग्ब्रह्मणोः, जीवब्रह्मणोः, सृज्यत इति सर्गः जगत् ‘ब्रह्मैवेदं विश्वं’(मु.उ २.१२) इत्यादिश्रुत्या रज्जुसर्पवद् ब्रह्मणि कल्पितस्य अधिष्ठानभेदाभावात् । ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इत्यादिश्रुत्या ‘यत्र नान्यत्पश्यति’(छा.उ. ७.२४.१) इत्यादिश्रुत्या च ‘यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते, अथ तस्य भयं भवति’(तै.उ. २.७) इति श्रुत्या च अभयब्रह्मप्रतिष्ठस्य तस्य किञ्चिदपि भेदज्ञानं नास्तीति भावः । तथा च भेदस्याभावादेव तस्य ज्ञानाभावः, शशविषाणवत् त्रैकालिकनिषेधप्रतियोगित्वात् । वस्तुसतः अज्ञाने किञ्चिज्ज्ञत्वं न त्वसतः । न हि सर्वज्ञानां योगिनां शशविषाणाद्यज्ञानादसर्वज्ञत्वं कश्चिदुपैति । तस्मान्निर्विकल्पया सकलशास्त्रसंस्कारसंस्कृतमनःपरिणामरूपया चिन्मात्रया प्रज्ञया भेदं न विजानाति शास्त्रस्य प्रयोजनवदनधिगताबाधितार्थबोधकत्वेनैव प्रामाण्यात् । लोकाज्ञानसिद्धः निष्प्रयोजनः उपादानेन अज्ञानेन सह निवृत्तः भेदः कथमखण्डाकारवृत्तौ विषयभावं प्राप्तुमर्हः स्यात् ।
प्रतीतिर्जीवजगतोः स्वप्नवद्भाति यावता । तावन्निरन्तरं विद्वन् स्वाध्यासापनयं कुरु ॥ (श्लो. २८६)
इत्युपदेशप्रकारेण अपनीतसकलभ्रमस्य न कदापि भेदज्ञानं भवतीति एवं लक्षणसम्पन्नः यः सः जीवन्मुक्त इष्यते ॥४४०॥
साधुभिः पूज्यमानेऽस्मिन् पीड्यमानेऽपि दुर्जनैः ।
समभावो भवेद्यस्य स जीवन्मुक्त इष्यते ॥४४१॥
अस्मिन् शरीरे साधुभिः पूज्यमाने दुर्जनैः पीड्यमानेऽपि यस्य समभावः समत्वं हर्षामर्षादिशून्यत्वं स जीवन्मुक्त इष्यते ॥४४१॥
किं बहुना ?
यत्र प्रविष्टा विषयाः परेरिताः
नदीप्रवाहा इव वारिराशौ ।
लिनन्ति सन्मात्रतया न विक्रियां
उत्पादयन्त्येष यतिर्विमुक्तः ॥४४२॥
परेरिताः परैः अन्यैः ईरिताः अनेन स्वतः विषयोन्मुखत्वं नैवास्तीक्षितब्रह्मणः पुंसः इत्युक्तम् । परेरिताः परकृतस्तुति निन्दादयोऽपि परदृष्ट्या साध्वसाधुशब्दाद्यात्मकाः विषयाः यत्र प्रविष्टाः यमुद्दिश्य कृताः वारिराशौ प्रविष्टाः नदीप्रवाहा इव लिनन्ति लीयन्ते न विक्रियाम् उत्पादयन्ति हर्षं वा अमर्षं वा दैन्यं वा । तत्र हेतुः सन्मात्रतयेति अखण्डब्रह्मैवाहमिति निश्चित्य स्थितवतः शरीराद्याश्रितस्तुति निन्दादिना किं भवति । निर्गुणे निर्दोषे च ब्रह्मणि स्थितवतां सकलविधविकारशून्यत्वम् । तत्र परकृतं सर्वमाकाशहननार्थखड्गाद्यायुधप्रयुक्तिवद् व्यर्थमिति भावः । एष यतिः, यत्र प्रविष्टाः विक्रियां नोत्पादयन्ति एष यतिः विमुक्तः क्षीणवासनत्वात् नष्टमनस्त्वाच्च ॥४४२॥
‘तस्य तावदेव चिरं यावन्न विमोक्ष्ये अथ सम्पत्स्ये’(छा.उ. ६.१४.२) इति श्रुत्या ‘भोगेन त्वितरे क्षपयित्वा सम्पद्यते’(ब्र.सू. ४.१.१९) इति सूत्रेण च ज्ञानिनामपि प्रारब्धकर्मायत्तः भोगः स्वीकर्तव्यो भवति । तथाच सुखदुःखानुभवरूपत्वात् भोगस्य, कथं निर्विकारत्वम् इति शङ्कायां प्राह विज्ञातेति −
विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः ।
अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः ॥४४३॥
विज्ञातमनुभूतं ब्रह्मतत्त्वं येन सः विज्ञातब्रह्मतत्वः, तस्य मिथ्याज्ञाननाशेन तत्कृताभिमानाभावात् यथापूर्वम् अनुभवात्प्रागिव न संसृतिः सुखदुःखानुभवः स्पृहोद्वेगशून्यत्वात् तदुक्तं गीतासु −
दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ॥ (२.५६) इति ।
इतरेषां नैवं विधत्वं, दुःखेषु उद्विजन्ते सुखेभ्यः स्पृहयन्ति च रक्ताः भीताः कोपिनश्च । तदाह, अस्ति चेत् उद्वेगस्पृहादिकं न स विज्ञातब्रह्मभावः बहिर्मुखः कोशेष्वात्माभिमानवान् ॥४४३॥