विवेकचूडामणिः सव्याख्यः
३२. ज्ञानात्कर्मविलयः
प्राचीनवासनावेगादसौ संसरतीति चेत् ।
न सदेकत्वविज्ञानान्मन्दीभवति वासना ॥४४४॥
ब्रह्मानुभवात्प्राक्कालिकी अनादिभवसञ्चिता या वासना तस्याः वेगात् असौ ब्रह्मवित् संसरति बन्धं भजत इति चेत् न, सदेकत्वविज्ञानात् अद्वितीयाखण्डस्वप्रकाशानन्दब्रह्माभेदसाक्षात्कारात् वासना अल्पजडदुःखात्मकत्वेन निश्चितानात्मस्वात्मत्वभ्रमजनितवासना मन्दीभवति तनूभवति शिथिला भवतीत्यर्थः अरुणोदयकालिकं तम इव ॥४४४॥
तत्र दृष्टान्तमाह अत्यन्तेति −
अत्यन्तकामुकस्यापि वृत्तिः कुण्ठति मातरि ।
तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥४४५॥
पूर्णानन्दे अखण्डानन्दरूपे ब्रह्मणि साक्षात्कृते मनीषिणः विवेकिनः इत्यर्थः । जगति वृत्तिः कुण्ठति । वक्ष्यति हि − ‘चन्द्रे महाह्लादिनि दीप्यमाने चित्रेन्दुमालोकयितुं क इच्छेत्’(श्लो. ५२३) इति ॥४४५॥
निदिध्यासनशीलस्य बाह्यप्रत्यय ईक्ष्यते ।
ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥४४६॥
विपरीतभावनानिवृत्यर्थं निदिध्यासने शीलं निदिध्यासनं वा यस्य तस्य बाह्यप्रत्यय ईक्ष्यते सन्ततमात्मनि बुद्धेः स्थापनार्थं प्रयत्नस्य सत्त्वात् । एतस्य ध्यातुः फलदर्शनात् सुखदुःखानुभवदर्शनात् , श्रुतिः प्रारब्धं ब्रवीति कर्तृत्वस्य दुःखरूपत्वात् देहादिभानस्यापि ध्यानविरमे सम्भवात् पूर्वकर्मायत्तं सुखं दुःखं वा भासेत निदिध्यासनस्य सविकल्पकसमाधिरूपत्वात् । तदुक्तम् −
श्रुतेः शतगुणं विद्यात् मननं मननादपि । निदिध्यासं लक्षगुणम् अनन्तं निर्विकल्पकम् ॥ निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥ (श्लो. ३६५.३६६)
तदुक्तं बाह्यप्रत्यय इक्ष्यत इति । यदा बाह्यप्रत्ययः तदा प्रारब्धायत्तं सुखं वा दुःखं वा भवतीति ‘न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति’(छा.उ. ७.१२.१) इति श्रुतिरुपपद्यते । तदा ब्रह्मसाक्षात्कारस्य अजातत्वात् अध्यासबाधाभावात् शरीरात्मनोः आध्यासिकसम्बन्धस्य सत्त्वात् सशरीरत्वम् । तथा च ‘तस्य तावदेव चिरम्’(छा.उ. ६.१४.२) इत्यादिश्रुतिः भोगेनेत्यादिसूत्रं च तदभिप्रायं प्रारब्धादेः अनात्मधर्मत्वात् निर्गुणब्रह्मविदः तदसम्भवात् ॥४४६॥
श्लोकोक्तमुपपादयति सुखादीति −
सुखाद्यनुभवो यावत् तावत् प्रारब्धमिष्यते ।
फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥४४७॥
आदिपदेन दुःखपरिग्रहः । यावत्कालं सुखाद्यनुभवः तावत्कालं प्रारब्धमिष्यते । तत्र हेतुमाह, हि यस्मात् फलोदयः फलस्य सुखस्य दुःखस्य वा उदयः उद्भवः क्रियापूर्वः क्रिया पूर्वा यस्य सः कर्मजन्य इत्यर्थः । कुत्रचिदपि न निष्क्रियः क्रियां कर्म विना न सम्भवति निर्निमित्तकार्याभावात् । सुखदुःखयोः सदसत्कर्मैकनिमित्तकत्वात् अनात्मतादाम्याध्यासं विना अनात्माश्रितकर्मफलसम्बन्धाभावात् । तथा च बाह्यप्रत्ययवतः ध्यानशीलस्य कर्मायत्तः भोगः सम्भवतीत्युपपादितम् ॥४४७॥
पूर्वोक्तश्रुतिसूत्रयोः मन्दशङ्कासमाधानार्थत्वं विवक्षुः आदौ ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ’(ब्र.सू. ४.१.१३) इति सूत्रानुरोधेन (तदधिगमे ब्रह्माधिगमे उत्तराघस्य अश्लेषः पूर्वाघस्य विनाशः इति सूत्रार्थः) ‘क्षीयन्ते चास्य कर्माणि’(मु.उ २.२.७) इति श्रुत्या च प्रारब्धव्यतिरिक्तकर्माणि गृह्यन्ते इति भावेन ब्रह्मसाक्षात्कारस्य सञ्चितकर्मनाशकत्वमाह अहमिति −
अहं ब्रह्मेतिविज्ञानात् कल्पकोटिशतार्जितम् ।
सञ्चितं विलयं याति प्रबोधात्स्वप्नकर्मवत् ॥४४८॥
सञ्चितम् अनारब्धफलकं पूर्वं कर्म कल्पकोटिशतार्जितम् अकर्तृब्रह्माभेदसाक्षात्कारात् प्रबोधात् जागरात् स्वप्नकर्मवत् विलयं विनाशं याति प्राप्नोति ॥४४८॥
दृष्टान्तमुपपादयति यत्कृतमिति −
यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् ।
सुप्तोत्थितस्य किं तत्स्यात् स्वर्गाय नरकाय वा ॥४४९॥
स्पष्टोऽर्थः । एवमविद्यानिद्राकालकर्मभिः आत्मैकत्वदर्शनप्रबोधवतः नष्टाविद्यत्वेन च औपाधिकेनापि कर्तृत्वेन शून्यस्य न फलमारभ्यत इति भावः ॥४४९॥
सञ्चितकर्मणामनात्माध्यासनाशेन नाशमुक्त्वा आगामिनां कर्मणाम् अश्लेषमाह स्वमिति । पूर्वं कर्माश्रयानात्माध्यासात् कर्तृत्वज्ञानं स्वस्मिन्नासीत् । कर्तृत्वज्ञानकाले कृतान्यपि कर्माणि कर्तृत्वज्ञाननाशान्नष्टानि इदानीं तु अकर्तृब्रह्मात्मत्वबोधे आगामिकर्मसम्बन्ध एव नास्तीति तदश्लेष इत्युच्यते −
स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा ।
न श्लिष्यते यतिः किञ्चित्कदाचिद्भाविकर्मभिः ॥४५०॥
स्वं स्वात्मानम् असङ्गम् एकम् उदसीनम् अकर्तारं परिज्ञाय सम्यगनुभूय । यथा नभः गगनं जलानलानिलादभिः न श्लिष्यते तथा आत्मविद्यतिः कदाचिदपि किञ्चिदपि भाविकर्मभिः आत्मानुभवोत्तरकालिकैः कर्मभिः शरीरादौ भवद्भिरपि नश्लिष्यते । तत्र अभिमानरूपसङ्गाभावात् कर्मधर्मितादात्म्याध्यासे कर्माध्यासरूपश्लेषः तस्य मूलाज्ञाननाशेन नष्टत्वात् नानात्मधर्मश्लेषः ॥४५०॥
उक्तमर्थं नभसि दृष्टान्ते उपपादयन् दार्ष्टान्तिके योजयति न नभ इति −
न नभो घटयोगेन सुरागन्धेन लिप्यते ।
तथात्मोपाधियोगेन तद्धर्मैर्नैव लिप्यते ॥४५१॥
जगद्व्याप्य वर्तमानं नभः घटावच्छिन्नतया परिच्छिन्नमिव लक्ष्यमाणमपि निर्मलत्वात् अमूर्तत्वात् अवच्छेदकघटगतसुराया गन्धेन न लिप्यते । एवम् आविदेहकैवल्यम् अनुवर्तमानैरपि उपाधिभिः स्थूलसूक्ष्मशरीररूपैः योगेन मिथ्यासम्बन्धेन तद्धर्मैः स्थूलसूक्ष्मशरीरधर्मैः देवतावन्दनतारजपादिधर्मैः नैव लिप्यते ॥४५१॥
इदानीं ‘भोगेन त्वितरे क्षपयित्वा सम्पद्यते’(ब्र.सू. ४.१.१९) इति सूत्रार्थमाह ज्ञानोदयादिति −
ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति ।
अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् ॥४५२॥
अहं ब्रह्मास्मीति साक्षात्कारोत्पत्तेः प्राक् आरब्धं फलदानाय प्रवृत्तं कर्म स्वफलं सुखदुःखान्यतररूपम् अदत्त्वा, लक्ष्यमुद्दिश्य उत्सृष्टबाणवत् , इदमुत्तरश्लोके स्फुटीक्रियते, ज्ञानात् अकर्त्रात्मसाक्षात्कारात् न नश्यति सञ्चितवत् ॥४५२॥
लक्ष्यमुद्दिश्येत्यादिदृष्टान्तं स्फुटयति व्याघ्रेति −
व्याघ्रबुध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।
न तिष्ठति च्छिनत्येव लक्ष्यं वेगेन निर्भरम् ॥४५३॥
‘दुष्टोऽयं व्याघ्रो हन्तव्यः’ इति बुद्ध्या विनिर्मुक्तः आकर्णान्तमाकृष्य त्यक्तः बाणः पश्चात् बाणत्यागानन्तरं तु गोमतौ पुरोव्यक्तिः गौरिति मतौ जातायामपि न तिष्ठति निवृत्तगतिर्न भवति । वेगेन निर्भरं नियतं सम्यक् लक्ष्यं पुरोवस्तु छिनत्येव हिनस्त्येव । एवं फलदानाय प्रवृत्तत्वात् ब्रह्मसाक्षात्कारोदयेऽपि स्वफलं दत्त्वैव क्षीयते इति । इतरे आरब्धफले पुण्यपापे भोगेन तत्फलानुभवेन क्षपयित्वा सम्पद्यते विदेहमुक्तो भवतीति सूत्रार्थः । एवं तस्य ज्ञानिनः तावदेव चिरं तावानेव विलम्बः यावन्नविमोक्ष्ये प्रारब्धकर्माधीनतया शरीरान्न विमोक्ष्यते, अथ शरीरपातानन्तरं सम्पत्स्ये सम्पत्स्यते विदेहमुक्तो भवति इति श्रुतेरर्थः ॥४५३॥
उक्तश्रुतिसूत्रार्थं सर्वं पूर्वार्धेन सङ्गृह्य परमार्थमाह उत्तरार्धेन प्रारब्धमिति −
प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
सम्यग्ज्ञानहुताशनेन विलयः प्राक्सञ्चितागामिनां ।
ब्रह्मात्मैक्यमवेक्ष्य तन्मयतया ये सर्वदा संस्थिताः
तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥४५४॥
ज्ञानस्यैकरूपत्वेऽपि समाधिप्रकर्षेण ब्रह्मवित् , ब्रह्मविद्वरः, ब्रह्मविद्वरीयान् , ब्रह्मविद्वरिष्ठः इति सत्त्वापत्त्यसंसक्तिपदार्थाभावनातुर्यगेति भूमिकानुसारेण समुपजातब्रह्मसाक्षात्काराः व्यवह्रियन्ते । तत्र तुर्यगाख्यभूमिकां गतस्य ब्रह्मविद्वरिष्ठस्य केवलनिर्गुणब्रह्मरूपत्वात् परकृतप्रबोधोऽपि नास्तीति त्रिविधमपि कर्म नास्ति । ब्रह्मविद्वरीयसः परकृतप्रबोधे प्रपञ्चभानं तदा प्रारब्धं व्याप्रियेत यथा प्रह्लादस्य महाविष्णुपाञ्चजन्यरवश्रवणेन समाधेर्व्युत्थानम् । ब्रह्मविद्वरस्य स्थितप्रज्ञस्यापि कर्मवशात् स्वयं व्युत्थितस्य सुखदुःखादिभानं गीतासु स्पष्टं प्रतीयते ‘स्थितप्रज्ञस्य का भाषा’(भ.गी. २.५४) इत्यर्जुनप्रश्नस्योत्तरेण । ज्ञानपरिपाकार्थं स्वीकृतसंन्यासाः स्वोपदेशेन जनकादीनाम् उत्पादितब्रह्मसाक्षात्काराः याज्ञवल्क्यादयः ब्रह्मविदः । तादृशानां विदां ज्ञानिनां ज्ञानप्रारब्धयोर्मध्ये प्रारब्धं बलवत्तरम् , खलु प्रसिद्धम् । तस्य प्रारब्धकर्मणः भोगेन क्षयः नाशः । सम्यग्ज्ञानमेव हुताशनः अग्निः तेन प्राक्सञ्चितानां कर्मणां ज्ञानानन्तरकालिकानाम् आगामिनां विलयः क्रमेण विनाशाश्लेषौ । ब्रह्मात्मैक्यमवेक्ष्य साक्षात्कृत्य तन्मयतया स्वार्थे मयट् ब्रह्मरूपतयेत्यर्थः । ये सर्वदा संस्थिताः तुर्यगां भूमिमारूढाः तेषां तत् त्रितयं त्रिविधमपि कर्म नहि क्वचिदपि कदाचिदपीत्यर्थः । ते निर्गुणं ब्रह्मैव । ततः सत्त्वादिगुणकार्याणां नैव प्रसक्तिरिति भावः ॥४५४॥
तत्स्फुटयति उपाधीति −
उपाधितादात्म्यविहीनकेवल-
ब्रह्मात्मनैवात्मनि तिष्ठतो मुनेः ।
प्रारब्धसद्भावकथा न युक्ता
स्वप्नार्थसम्बन्धकथेव जाग्रतः ॥४५५॥
अज्ञानदशायामाध्यासिकमुपाधितादात्म्यं जीवस्य आसीत् । इदानीं तु श्रुत्याचार्यप्रसादेन समुपजातपरापरैकत्वविवेकप्रकर्षेण उपाधिभिः अहङ्कारादिभिः यत्तादात्म्यं तद्विहीनं यत् केवलं ब्रह्मत्रिविधपरिच्छेदशून्यं निर्विकल्पं निष्प्रपञ्चं ब्रह्म तत्तादात्म्येनैव आत्मनि तिष्ठतः ‘स भगवः कस्मिन्प्रतिष्ठित इति, स्वे महिम्नि’(छा.उ. ७.२४.१) इति श्रुतेः । पूर्वमुपाधिषु स्थितिरासीत् तदिदानीं नास्तीत्यावेदयितुम् आत्मनि तिष्ठत इति कथितम् । स्वस्थस्य मुनेः प्रारब्धसद्भावकथा न युक्ता तत्र दृष्टान्तः जाग्रतः प्रबुद्धस्य स्वप्नार्थसम्बन्धकथेवेति ॥४५५॥
तत्स्फुटयति नेति −
न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्यपि च प्रपञ्चे ।
करोत्यहन्तां ममतामिदन्तां
किन्तु स्वयं तिष्ठति जागरेण ॥४५६॥
प्रबुद्धुः स्वप्नादुत्थितः पुरुषः प्रतिभासदेहे स्वप्नकाले भातदेहे, देहोपयोगिनि प्रपञ्चेऽपि क्रमेण अहन्तां ममताम् इदन्तां च न करोति । हि निश्चयः किन्तु स्वयं जागरेण तिष्ठति । न हि स्वप्ने पश्वादिरूपतां स्वस्य दृष्ट्वा जाग्रत् सः तृणादिकं भक्षयति स्वकीयनियमं वा त्यजति ॥४५६॥
न तस्य मिथ्यार्थसमर्थनेच्छा
न सङ्ग्रहस्तज्जगतोऽपि दृष्टः ।
तत्रानुवृत्तिर्यदि चेन्मृषार्थे
न निद्रया मुक्त इतीष्यते ध्रुवम् ॥४५७॥
तस्य मिथ्यार्थसमर्थनेच्छा स्वप्नभातदेहादिपदार्थसमर्थनेच्छा नास्ति । तत्काले भातजगत् तज्जगत् स्वाप्निकं जगदित्यर्थः । तस्य सङ्ग्रहः स्वीकारः न दृष्टः । यदि तत्र मृषार्थे देहजगदादिरूपे अनुवृत्तिः मनसः जाग्रत्कालिकवस्तुनीव, न निद्रया मुक्त इति ध्रुवमिष्यते ॥४५७॥
तद्वत्परे ब्रह्मणि वर्तमानः
सदात्मना तिष्ठति नान्यदीक्षते ।
स्मृतिर्यथा स्वप्नविलोकितार्थे
तथाविदः प्राशनमोचनादौ ॥४५८॥
तद्वत् सुप्तप्रबुद्धवत् परे ब्रह्मणि वर्तमानः संस्थापितमनाः पुमान् सदात्मना अबाध्यासङ्गचिद्रूपेण तिष्ठति । अन्यत् नेक्षते अन्यस्यासत्वात् ‘यत्र नान्यत्पश्यति’(बृ.उ. ७.२४.१) इत्यादिश्रुतेः, यत्र त्वस्य ‘सर्वामात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुतेश्च । ब्रह्मविदोऽपि अन्नादानविसर्गादिकं कुर्वन्तीति मन्दशङ्कायामुत्तरमाह स्मृतिरिति । प्रबुद्धश्च स्वप्नविलोकितार्थे यथा स्मृतिः न तत्र सत्यत्वबुद्धिः तथाविदः ज्ञानिनः प्राशनमोचनादौ, ‘नाप्रतीतिस्तयोर्बाधः किन्तु मिथ्यात्वनिश्चयः’(६.१३) इति पञ्चदश्याम् । स्वप्ने स्वात्मानं व्याघ्रं मन्वानोऽपि प्रबुद्धः न तत्सत्यत्वं मनुते किन्तु स्मृतिः स्यात् तथा पूर्वं प्राशनमोचनादिकर्तृशरीरमहन्तया अमन्यत इदानीं स्ववास्तविकस्वरूपं दृष्टवतः अहन्तां विना प्राशनादिकर्तृशरीरं प्रतीयेत पृथक्तया, व्युत्थानेऽपीति भावः ॥४५८॥
आत्मनः प्रारब्धं कर्म नास्तीत्यंशं युक्त्या समर्थयति कर्मणेति −
कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् ।
नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥४५९॥
अजो नित्य इति ब्रूते श्रुतिरेषा त्वमोघवाक् ।
तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥४६०॥
आत्मनोऽनादित्वे प्रमाणमाह । अजो नित्य इति । ‘अजो नित्यः शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे’(२.१८) इत्यादिकठश्रुतिः । अमोघवाक् अमोघा अबाधितार्थका वाक् यस्याः, घटकत्वं षष्ठ्यर्थः । तदात्मना स्ववास्तविकस्वरूपेण तिष्ठतोऽस्य ज्ञानिनः प्रारब्धकल्पना कुतः ? देहात्मना स्थितौ प्रारब्धाश्रयदेहतादात्म्याध्यासेन तद्धर्मप्रारब्धाध्यासोऽपि स्यात् , न ज्ञानिनि सा कथा ॥४६०॥
तत्स्पष्टयति प्रारब्धमिति −
प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः ।
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ।
शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि ॥४६१॥
यदा देहात्मना स्थितिः तदा देहधर्मप्रारब्धं कल्पनया वा आत्मनः सिद्ध्यति । देहात्मभावः नैवेष्टः अध्यासमूलाज्ञानस्य नष्टत्वात् । अतः प्रारब्धं त्यज्यताम् आत्मनि प्रारब्धप्रसङ्गः न कार्य इति भावः । विचार्यमाणे शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि निश्चयः ॥४६१॥
तदुपपादयति अध्यस्तस्येति −
अध्यस्तस्य कुतस्सत्त्वम् असत्त्वस्य कुतो जनिः ।
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥४६२॥
असत्त्वस्य न विद्यते सत्त्वं यस्य तत् असत्त्वं तस्य असतः इत्यर्थः । जनिः उत्पत्तिः कुतः ? नास्तीत्यर्थः । अजातस्य नाशः कुतः ? सोऽपि न । उत्पत्त्यर्थं प्रारब्धस्वीकारः, नो चेत् लोकसिद्धं देवतिर्यङ्मनुष्यादिवैषम्यं दुरुपपादमिति, ब्रह्मव्यतिरिक्तस्य सर्वस्य मिथ्यात्वं यदा अवसितं तदा शुक्तिरजतादिवत् केवलाज्ञानतः प्रतिभासमानस्य न कर्मनिमित्तकत्वम् । ‘स्थाणुमन्येऽनुसंयन्ति यथाकर्म यथाश्रुतं’(क.उ. ५.७) इत्यादिश्रुतिरपि व्यवहारदृष्ट्या वदतीति भावः ॥४६२॥
इदानीं ‘तस्य तावदेव चिरं यावन्नविमोक्ष्ये अथ सम्पत्स्ये’(छा.उ. ६.१४.२) इति श्रुतितात्पर्यमाह ज्ञानेति −
ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि ।
तिष्ठत्ययं कथं देह इतिशङ्कावतो जडान् ।
समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥४६३॥
अज्ञानकार्यस्य वियदादिप्रपञ्चस्य अहङ्कारादिदेहान्तस्य च बाह्याध्यात्मिकस्य समूलस्य मूलमज्ञानं तेन सहितस्य, ज्ञानेन ब्रह्मसाक्षात्कारेण यदि लयः बाधः, अयं देहः पाञ्चभौतिकः कथं तिष्ठति इति शङ्का एषामस्तीति शङ्कावन्तः तान् शङ्कावतः जडान् प्राकृतान् मन्दान् समाधातुं बाह्यदृष्ट्या व्यवहाररीत्या प्रारब्धं श्रुतिर्वदति ‘यावन्न विमोक्ष्ये’(छा.उ. ६.१४.२) इत्यादिना ॥४६३॥
कर्मजन्यं शरीरादि न शुक्तिरजतादिवत् प्रातीतिकं किन्तु सत्यमिति वक्तुमिति कदापि न भ्रमितव्यमित्याह न त्विति −
न तु देहादिसत्यत्वबोधनाय विपश्चिताम् ।
यतः श्रुतेरभिप्रायः परमार्थैकगोचरः ॥४६४॥
विपश्चितां ज्ञानिनां यद्देहादि तस्य सत्यत्वबोधनाय प्रारब्धं न तु वक्ति । विपश्चितामित्यस्य बोधनायेत्यनेन वा सम्बन्धः । ज्ञानेन तेजसा तिमिरस्येव जगदुपादानभूताज्ञानस्य नाशेऽपि देहः प्रारब्धनाशे नश्यति तावान्विलम्ब इत्युक्त्या तस्य आज्ञानिकत्वं नास्ति । किन्तु कर्मजन्यतया सत्यत्वमिति प्रतीयेत, न त्वेवम् , तार्किकादिमते तन्तूपादानकस्य पटस्य तन्तुनाशक्षणे निरुपादानकतया स्थितिवत् −
उपादाने विनष्टेऽपि क्षणं कार्यं प्रतीक्षते । इत्याहुस्तार्किकास्तद्वदस्माकं किं न सम्भवेत् ॥ (पं.द. ६.५४) तन्तूनां दिनसङ्ख्यानां तैस्तादृक् क्षण ईरितः । भ्रमस्यासङ्ख्यकल्पस्य योग्यः क्षण इहेष्यताम् ॥ (पं.द. ६.५५)
इति चित्रदीपोक्तरीत्या अनादिकालप्रवृत्ताज्ञानोपादानकस्यापि देहादेः अज्ञाननाशानन्तरं कञ्चित्कालं स्थितेर्वक्तुं शक्यत्वात् । विजिगीषुकथायामेतदृशसमाधानम् ,
न निरोधो न चोत्पत्तिः न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ (गौ.का.वैतथ्य. ३३)
इति श्रुत्यनुसारेण ब्रह्ममात्रस्य परमार्थत्वात् ।
‘ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि । तिष्ठत्ययं कथं देहः’(श्लो. ४६३) इति जडानां शङ्कासमाधानार्थं श्रुतिः प्रारब्धं वक्तीति वस्तुस्थितिः । यतः श्रुतेरभिप्रायः परमार्थैकगोचरः प्रमाणान्तरानधिगतप्रयोजनवदबाधितार्थविषयक इत्यर्थः । न हि ज्ञानिनाम् अज्ञाननाशानन्तरमपि कर्मसमाप्तिपर्यन्तं शरीरं तिष्ठतीति प्रतिपादनेन किञ्चित्फलमस्तीति तस्य तावदेवेति श्रुतिः मन्दशङ्कासमाधानार्थमेवेति भावः ॥४६४॥
इदानीं श्रुतितात्पर्यविषय़ं परमार्थं सप्तभिः श्लोकैः सङ्गृह्णाति परिपूर्णमित्यादिभिः −