अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

३२. ज्ञानात्कर्मविलयः

प्राची­न­वा­स­ना­वे­गा­दसौ संसरतीति चेत् ।
न सदे­क­त्व­वि­ज्ञा­ना­न्म­न्दी­भ­वति वासना ॥४४४॥

४४४

ब्रह्मा­नु­भ­वा­त्प्रा­क्का­लिकी अनादिभवसञ्चिता या वासना तस्याः वेगात् असौ ब्रह्मवित् संसरति बन्धं भजत इति चेत् न, सदे­क­त्व­वि­ज्ञा­नात् अद्वि­ती­या­ख­ण्ड­स्व­प्र­का­शा­न­न्द­ब्र­ह्मा­भे­द­सा­क्षा­त्का­रात् वासना अल्प­ज­ड­दुः­खा­त्म­क­त्वेन निश्चि­ता­ना­त्म­स्वा­त्म­त्व­भ्र­म­ज­नि­त­वा­सना मन्दीभवति तनूभवति शिथिला भवतीत्यर्थः अरुणोदयकालिकं तम इव ॥४४४॥

तत्र दृष्टान्तमाह अत्यन्तेति −

अत्य­न्त­का­मु­क­स्यापि वृत्तिः कुण्ठति मातरि ।
तथैव ब्रह्मणि ज्ञाते पूर्णानन्दे मनीषिणः ॥४४५॥

४४५

पूर्णानन्दे अखण्डानन्दरूपे ब्रह्मणि साक्षात्कृते मनीषिणः विवेकिनः इत्यर्थः । जगति वृत्तिः कुण्ठति । वक्ष्यति हि − ‘चन्द्रे महाह्लादिनि दीप्यमाने चित्रे­न्दु­मा­लो­क­यितुं क इच्छेत्’(श्लो. ५२३) इति ॥४४५॥

निदि­ध्या­स­न­शी­लस्य बाह्यप्रत्यय ईक्ष्यते ।
ब्रवीति श्रुतिरेतस्य प्रारब्धं फलदर्शनात् ॥४४६॥

४४६

विप­री­त­भा­व­ना­नि­वृ­त्यर्थं निदिध्यासने शीलं निदिध्यासनं वा यस्य तस्य बाह्यप्रत्यय ईक्ष्यते सन्ततमात्मनि बुद्धेः स्थापनार्थं प्रयत्नस्य सत्त्वात् । एतस्य ध्यातुः फलदर्शनात् सुख­दुः­खा­नु­भ­व­द­र्श­नात् , श्रुतिः प्रारब्धं ब्रवीति कर्तृत्वस्य दुःखरूपत्वात् देहादिभानस्यापि ध्यानविरमे सम्भवात् पूर्वकर्मायत्तं सुखं दुःखं वा भासेत निदिध्यासनस्य सवि­क­ल्प­क­स­मा­धि­रू­प­त्वात् । तदुक्तम् −

श्रुतेः शतगुणं विद्यात् मननं मननादपि । निदिध्यासं लक्षगुणम् अनन्तं निर्विकल्पकम् ॥ निर्वि­क­ल्प­क­स­मा­धिना स्फुटं ब्रह्म­त­त्त्व­म­व­ग­म्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्य­या­न्त­र­वि­मि­श्रितं भवेत् ॥ (श्लो. ३६५.३६६)

तदुक्तं बाह्यप्रत्यय इक्ष्यत इति । यदा बाह्यप्रत्ययः तदा प्रारब्धायत्तं सुखं वा दुःखं वा भवतीति ‘न ह वै सशरीरस्य प्रिया­प्रि­य­यो­र­प­ह­ति­रस्ति’(छा.उ. ७.१२.१) इति श्रुतिरुपपद्यते । तदा ब्रह्म­सा­क्षा­त्का­रस्य अजातत्वात् अध्या­स­बा­धा­भा­वात् शरीरात्मनोः आध्या­सि­क­स­म्ब­न्धस्य सत्त्वात् सशरीरत्वम् । तथा च ‘तस्य तावदेव चिरम्’(छा.उ. ६.१४.२) इत्यादिश्रुतिः भोगे­ने­त्या­दि­सूत्रं च तदभिप्रायं प्रारब्धादेः अना­त्म­ध­र्म­त्वात् निर्गु­ण­ब्र­ह्म­विदः तदसम्भवात् ॥४४६॥

श्लोको­क्त­मु­प­पा­द­यति सुखादीति −

सुखाद्यनुभवो यावत् तावत् प्रारब्धमिष्यते ।
फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् ॥४४७॥

४४७

आदिपदेन दुःखपरिग्रहः । यावत्कालं सुखाद्यनुभवः तावत्कालं प्रारब्धमिष्यते । तत्र हेतुमाह, हि यस्मात् फलोदयः फलस्य सुखस्य दुःखस्य वा उदयः उद्भवः क्रियापूर्वः क्रिया पूर्वा यस्य सः कर्मजन्य इत्यर्थः । कुत्रचिदपि न निष्क्रियः क्रियां कर्म विना न सम्भवति निर्नि­मि­त्त­का­र्या­भा­वात् । सुखदुःखयोः सद­स­त्क­र्मै­क­नि­मि­त्त­क­त्वात् अना­त्म­ता­दा­म्या­ध्यासं विना अना­त्मा­श्रि­त­क­र्म­फ­ल­स­म्ब­न्धा­भा­वात् । तथा च बाह्यप्रत्ययवतः ध्यानशीलस्य कर्मायत्तः भोगः सम्भ­व­ती­त्यु­प­पा­दि­तम् ॥४४७॥

पूर्वो­क्त­श्रु­ति­सू­त्रयोः मन्द­श­ङ्का­स­मा­धा­ना­र्थत्वं विवक्षुः आदौ ‘तदधिगम उत्त­र­पू­र्वा­घ­यो­र­श्ले­ष­वि­नाशौ’(ब्र.सू. ४.१.१३) इति सूत्रानुरोधेन (तदधिगमे ब्रह्माधिगमे उत्तराघस्य अश्लेषः पूर्वाघस्य विनाशः इति सूत्रार्थः) ‘क्षीयन्ते चास्य कर्माणि’(मु.उ २.२.७) इति श्रुत्या च प्रार­ब्ध­व्य­ति­रि­क्त­क­र्माणि गृह्यन्ते इति भावेन ब्रह्म­सा­क्षा­त्का­रस्य सञ्चि­त­क­र्म­ना­श­क­त्व­माह अहमिति −

अहं ब्रह्मे­ति­वि­ज्ञा­नात् कल्प­को­टि­श­ता­र्जि­तम् ।
सञ्चितं विलयं याति प्रबो­धा­त्स्व­प्न­क­र्म­वत् ॥४४८॥

४४८

सञ्चितम् अनारब्धफलकं पूर्वं कर्म कल्प­को­टि­श­ता­र्जि­तम् अक­र्तृ­ब्र­ह्मा­भे­द­सा­क्षा­त्का­रात् प्रबोधात् जागरात् स्वप्नकर्मवत् विलयं विनाशं याति प्राप्नोति ॥४४८॥

दृष्टा­न्त­मु­प­पा­द­यति यत्कृतमिति −

यत्कृतं स्वप्नवेलायां पुण्यं वा पापमुल्बणम् ।
सुप्तोत्थितस्य किं तत्स्यात् स्वर्गाय नरकाय वा ॥४४९॥

४४९

स्पष्टोऽर्थः । एव­म­वि­द्या­नि­द्रा­का­ल­क­र्मभिः आत्मै­क­त्व­द­र्श­न­प्र­बो­ध­वतः नष्टाविद्यत्वेन च औपाधिकेनापि कर्तृत्वेन शून्यस्य न फलमारभ्यत इति भावः ॥४४९॥

सञ्चि­त­क­र्म­णा­म­ना­त्मा­ध्या­स­ना­शेन नाशमुक्त्वा आगामिनां कर्मणाम् अश्लेषमाह स्वमिति । पूर्वं कर्मा­श्र­या­ना­त्मा­ध्या­सात् कर्तृत्वज्ञानं स्वस्मिन्नासीत् । कर्तृ­त्व­ज्ञा­न­काले कृतान्यपि कर्माणि कर्तृ­त्व­ज्ञा­न­ना­शा­न्न­ष्टानि इदानीं तु अक­र्तृ­ब्र­ह्मा­त्म­त्व­बोधे आगा­मि­क­र्म­स­म्बन्ध एव नास्तीति तदश्लेष इत्युच्यते −

स्वम­स­ङ्ग­मु­दा­सीनं परिज्ञाय नभो यथा ।
न श्लिष्यते यतिः किञ्चि­त्क­दा­चि­द्भा­वि­क­र्मभिः ॥४५०॥

४५०

स्वं स्वात्मानम् असङ्गम् एकम् उदसीनम् अकर्तारं परिज्ञाय सम्यगनुभूय । यथा नभः गगनं जलानलानिलादभिः न श्लिष्यते तथा आत्मविद्यतिः कदाचिदपि किञ्चिदपि भाविकर्मभिः आत्मा­नु­भ­वो­त्त­र­का­लिकैः कर्मभिः शरीरादौ भवद्भिरपि नश्लिष्यते । तत्र अभि­मा­न­रू­प­स­ङ्गा­भा­वात् कर्म­ध­र्मि­ता­दा­त्म्या­ध्यासे कर्मा­ध्या­स­रू­प­श्लेषः तस्य मूलाज्ञाननाशेन नष्टत्वात् नाना­त्म­ध­र्म­श्लेषः ॥४५०॥

उक्तमर्थं नभसि दृष्टान्ते उपपादयन् दार्ष्टान्तिके योजयति न नभ इति −

न नभो घटयोगेन सुरागन्धेन लिप्यते ।
तथा­त्मो­पा­धि­यो­गेन तद्धर्मैर्नैव लिप्यते ॥४५१॥

४५१

जगद्व्याप्य वर्तमानं नभः घटावच्छिन्नतया परिच्छिन्नमिव लक्ष्यमाणमपि निर्मलत्वात् अमूर्तत्वात् अव­च्छे­द­क­घ­ट­ग­त­सु­राया गन्धेन न लिप्यते । एवम् आविदेहकैवल्यम् अनुवर्तमानैरपि उपाधिभिः स्थूल­सू­क्ष्म­श­री­र­रूपैः योगेन मिथ्यासम्बन्धेन तद्धर्मैः स्थूल­सू­क्ष्म­श­री­र­धर्मैः देव­ता­व­न्द­न­ता­र­ज­पा­दि­धर्मैः नैव लिप्यते ॥४५१॥

इदानीं ‘भोगेन त्वितरे क्षपयित्वा सम्पद्यते’(ब्र.सू. ४.१.१९) इति सूत्रार्थमाह ज्ञानोदयादिति −

ज्ञानो­द­या­त्पु­रा­रब्धं कर्म ज्ञानान्न नश्यति ।
अदत्त्वा स्वफलं लक्ष्य­मु­द्दि­श्यो­त्सृ­ष्ट­बा­ण­वत् ॥४५२॥

४५२

अहं ब्रह्मास्मीति साक्षा­त्का­रो­त्पत्तेः प्राक् आरब्धं फलदानाय प्रवृत्तं कर्म स्वफलं सुख­दुः­खा­न्य­त­र­रू­पम् अदत्त्वा, लक्ष्यमुद्दिश्य उत्सृष्टबाणवत् , इदमुत्तरश्लोके स्फुटीक्रियते, ज्ञानात् अक­र्त्रा­त्म­सा­क्षा­त्का­रात् न नश्यति सञ्चितवत् ॥४५२॥

लक्ष्य­मु­द्दि­श्ये­त्या­दि­दृ­ष्टान्तं स्फुटयति व्याघ्रेति −

व्याघ्रबुध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ ।
न तिष्ठति च्छिनत्येव लक्ष्यं वेगेन निर्भरम् ॥४५३॥

४५३

‘दुष्टोऽयं व्याघ्रो हन्तव्यः’ इति बुद्ध्या विनिर्मुक्तः आक­र्णा­न्त­मा­कृष्य त्यक्तः बाणः पश्चात् बाणत्यागानन्तरं तु गोमतौ पुरोव्यक्तिः गौरिति मतौ जातायामपि न तिष्ठति निवृत्तगतिर्न भवति । वेगेन निर्भरं नियतं सम्यक् लक्ष्यं पुरोवस्तु छिनत्येव हिनस्त्येव । एवं फलदानाय प्रवृत्तत्वात् ब्रह्म­सा­क्षा­त्का­रो­द­येऽपि स्वफलं दत्त्वैव क्षीयते इति । इतरे आरब्धफले पुण्यपापे भोगेन तत्फलानुभवेन क्षपयित्वा सम्पद्यते विदेहमुक्तो भवतीति सूत्रार्थः । एवं तस्य ज्ञानिनः तावदेव चिरं तावानेव विलम्बः याव­न्न­वि­मोक्ष्ये प्रार­ब्ध­क­र्मा­धी­न­तया शरीरान्न विमोक्ष्यते, अथ शरीरपातानन्तरं सम्पत्स्ये सम्पत्स्यते विदेहमुक्तो भवति इति श्रुतेरर्थः ॥४५३॥

उक्त­श्रु­ति­सू­त्रार्थं सर्वं पूर्वार्धेन सङ्गृह्य परमार्थमाह उत्तरार्धेन प्रारब्धमिति −

प्रारब्धं बलवत्तरं खलु विदां भोगेन तस्य क्षयः
सम्य­ग्ज्ञा­न­हु­ता­श­नेन विलयः प्राक्स­ञ्चि­ता­गा­मिनां ।
ब्रह्मा­त्मै­क्य­म­वेक्ष्य तन्मयतया ये सर्वदा संस्थिताः
तेषां तत्त्रितयं नहि क्वचिदपि ब्रह्मैव ते निर्गुणम् ॥४५४॥

४५४

ज्ञान­स्यै­क­रू­प­त्वेऽपि समाधिप्रकर्षेण ब्रह्मवित् , ब्रह्मविद्वरः, ब्रह्म­वि­द्व­री­यान् , ब्रह्म­वि­द्व­रिष्ठः इति सत्त्वा­प­त्त्य­सं­स­क्ति­प­दा­र्था­भा­व­ना­तु­र्य­गेति भूमिकानुसारेण समु­प­जा­त­ब्र­ह्म­सा­क्षा­त्काराः व्यवह्रियन्ते । तत्र तुर्य­गा­ख्य­भू­मिकां गतस्य ब्रह्म­वि­द्व­रि­ष्ठस्य केव­ल­नि­र्गु­ण­ब्र­ह्म­रू­प­त्वात् परकृतप्रबोधोऽपि नास्तीति त्रिविधमपि कर्म नास्ति । ब्रह्म­वि­द्व­री­यसः परकृतप्रबोधे प्रपञ्चभानं तदा प्रारब्धं व्याप्रियेत यथा प्रह्लादस्य महा­वि­ष्णु­पा­ञ्च­ज­न्य­र­व­श्र­व­णेन समा­धे­र्व्यु­त्था­नम् । ब्रह्मविद्वरस्य स्थित­प्र­ज्ञ­स्यापि कर्मवशात् स्वयं व्युत्थितस्य सुखदुःखादिभानं गीतासु स्पष्टं प्रतीयते ‘स्थितप्रज्ञस्य का भाषा’(भ.गी. २.५४) इत्य­र्जु­न­प्र­श्न­स्यो­त्त­रेण । ज्ञान­प­रि­पा­कार्थं स्वीकृ­त­सं­न्यासाः स्वोपदेशेन जनकादीनाम् उत्पा­दि­त­ब्र­ह्म­सा­क्षा­त्काराः याज्ञवल्क्यादयः ब्रह्मविदः । तादृशानां विदां ज्ञानिनां ज्ञान­प्रा­र­ब्ध­यो­र्मध्ये प्रारब्धं बलवत्तरम् , खलु प्रसिद्धम् । तस्य प्रारब्धकर्मणः भोगेन क्षयः नाशः । सम्यग्ज्ञानमेव हुताशनः अग्निः तेन प्राक्स­ञ्चि­तानां कर्मणां ज्ञाना­न­न्त­र­का­लि­का­नाम् आगामिनां विलयः क्रमेण विनाशाश्लेषौ । ब्रह्मा­त्मै­क्य­म­वेक्ष्य साक्षात्कृत्य तन्मयतया स्वार्थे मयट् ब्रह्म­रू­प­त­ये­त्यर्थः । ये सर्वदा संस्थिताः तुर्यगां भूमिमारूढाः तेषां तत् त्रितयं त्रिविधमपि कर्म नहि क्वचिदपि कदाचिदपीत्यर्थः । ते निर्गुणं ब्रह्मैव । ततः सत्त्वा­दि­गु­ण­का­र्याणां नैव प्रसक्तिरिति भावः ॥४५४॥

तत्स्फुटयति उपाधीति −

उपा­धि­ता­दा­त्म्य­वि­ही­न­के­वल-
ब्रह्मा­त्म­नै­वा­त्मनि तिष्ठतो मुनेः ।
प्रार­ब्ध­स­द्भा­व­कथा न युक्ता
स्वप्ना­र्थ­स­म्ब­न्ध­क­थेव जाग्रतः ॥४५५॥

४५५

अज्ञा­न­द­शा­या­मा­ध्या­सि­क­मु­पा­धि­ता­दात्म्यं जीवस्य आसीत् । इदानीं तु श्रुत्या­चा­र्य­प्र­सा­देन समु­प­जा­त­प­रा­प­रै­क­त्व­वि­वे­क­प्र­क­र्षेण उपाधिभिः अहङ्कारादिभिः यत्तादात्म्यं तद्विहीनं यत् केवलं ब्रह्म­त्रि­वि­ध­प­रि­च्छे­द­शून्यं निर्विकल्पं निष्प्रपञ्चं ब्रह्म तत्ता­दा­त्म्ये­नैव आत्मनि तिष्ठतः ‘स भगवः कस्मि­न्प्र­ति­ष्ठित इति, स्वे महिम्नि’(छा.उ. ७.२४.१) इति श्रुतेः । पूर्वमुपाधिषु स्थितिरासीत् तदिदानीं नास्ती­त्या­वे­द­यि­तुम् आत्मनि तिष्ठत इति कथितम् । स्वस्थस्य मुनेः प्रार­ब्ध­स­द्भा­व­कथा न युक्ता तत्र दृष्टान्तः जाग्रतः प्रबुद्धस्य स्वप्ना­र्थ­स­म्ब­न्ध­क­थे­वेति ॥४५५॥

तत्स्फुटयति नेति −

न हि प्रबुद्धः प्रतिभासदेहे
देहोपयोगिन्यपि च प्रपञ्चे ।
करोत्यहन्तां ममतामिदन्तां
किन्तु स्वयं तिष्ठति जागरेण ॥४५६॥

४५६

प्रबुद्धुः स्वप्नादुत्थितः पुरुषः प्रतिभासदेहे स्वप्नकाले भातदेहे, देहोपयोगिनि प्रपञ्चेऽपि क्रमेण अहन्तां ममताम् इदन्तां च न करोति । हि निश्चयः किन्तु स्वयं जागरेण तिष्ठति । न हि स्वप्ने पश्वादिरूपतां स्वस्य दृष्ट्वा जाग्रत् सः तृणादिकं भक्षयति स्वकीयनियमं वा त्यजति ॥४५६॥

न तस्य मिथ्या­र्थ­स­म­र्थ­नेच्छा
न सङ्ग्र­ह­स्त­ज्ज­ग­तोऽपि दृष्टः ।
तत्रा­नु­वृ­त्ति­र्यदि चेन्मृषार्थे
न निद्रया मुक्त इतीष्यते ध्रुवम् ॥४५७॥

४५७

तस्य मिथ्या­र्थ­स­म­र्थ­नेच्छा स्वप्न­भा­त­दे­हा­दि­प­दा­र्थ­स­म­र्थ­नेच्छा नास्ति । तत्काले भातजगत् तज्जगत् स्वाप्निकं जगदित्यर्थः । तस्य सङ्ग्रहः स्वीकारः न दृष्टः । यदि तत्र मृषार्थे देहजगदादिरूपे अनुवृत्तिः मनसः जाग्र­त्का­लि­क­व­स्तु­नीव, न निद्रया मुक्त इति ध्रुवमिष्यते ॥४५७॥

तद्वत्परे ब्रह्मणि वर्तमानः
सदात्मना तिष्ठति नान्यदीक्षते ।
स्मृतिर्यथा स्वप्न­वि­लो­कि­तार्थे
तथाविदः प्राशनमोचनादौ ॥४५८॥

४५८

तद्वत् सुप्त­प्र­बु­द्ध­वत् परे ब्रह्मणि वर्तमानः संस्थापितमनाः पुमान् सदात्मना अबा­ध्या­स­ङ्ग­चि­द्रू­पेण तिष्ठति । अन्यत् नेक्षते अन्यस्यासत्वात् ‘यत्र नान्यत्पश्यति’(बृ.उ. ७.२४.१) इत्यादिश्रुतेः, यत्र त्वस्य ‘सर्वा­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुतेश्च । ब्रह्मविदोऽपि अन्ना­दा­न­वि­स­र्गा­दिकं कुर्वन्तीति मन्द­श­ङ्का­या­मु­त्त­र­माह स्मृतिरिति । प्रबुद्धश्च स्वप्न­वि­लो­कि­तार्थे यथा स्मृतिः न तत्र सत्यत्वबुद्धिः तथाविदः ज्ञानिनः प्राशनमोचनादौ, ‘नाप्र­ती­ति­स्त­यो­र्बाधः किन्तु मिथ्या­त्व­नि­श्चयः’(६.१३) इति पञ्चदश्याम् । स्वप्ने स्वात्मानं व्याघ्रं मन्वानोऽपि प्रबुद्धः न तत्सत्यत्वं मनुते किन्तु स्मृतिः स्यात् तथा पूर्वं प्राश­न­मो­च­ना­दि­क­र्तृ­श­री­र­म­ह­न्तया अमन्यत इदानीं स्ववा­स्त­वि­क­स्व­रूपं दृष्टवतः अहन्तां विना प्राश­ना­दि­क­र्तृ­श­रीरं प्रतीयेत पृथक्तया, व्युत्थानेऽपीति भावः ॥४५८॥

आत्मनः प्रारब्धं कर्म नास्तीत्यंशं युक्त्या समर्थयति कर्मणेति −

कर्मणा निर्मितो देहः प्रारब्धं तस्य कल्प्यताम् ।
नानादेरात्मनो युक्तं नैवात्मा कर्मनिर्मितः ॥४५९॥

४५९

अजो नित्य इति ब्रूते श्रुतिरेषा त्वमोघवाक् ।
तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना ॥४६०॥

४६०

आत्मनोऽनादित्वे प्रमाणमाह । अजो नित्य इति । ‘अजो नित्यः शाश्वतोयं पुराणो न हन्यते हन्यमाने शरीरे’(२.१८) इत्या­दि­क­ठ­श्रुतिः । अमोघवाक् अमोघा अबाधितार्थका वाक् यस्याः, घटकत्वं षष्ठ्यर्थः । तदात्मना स्ववा­स्त­वि­क­स्व­रू­पेण तिष्ठतोऽस्य ज्ञानिनः प्रारब्धकल्पना कुतः ? देहात्मना स्थितौ प्रार­ब्धा­श्र­य­दे­ह­ता­दा­त्म्या­ध्या­सेन तद्ध­र्म­प्रा­र­ब्धा­ध्या­सोऽपि स्यात् , न ज्ञानिनि सा कथा ॥४६०॥

तत्स्पष्टयति प्रारब्धमिति −

प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः ।
देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः ।
शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि ॥४६१॥

४६१

यदा देहात्मना स्थितिः तदा देह­ध­र्म­प्रा­रब्धं कल्पनया वा आत्मनः सिद्ध्यति । देहात्मभावः नैवेष्टः अध्या­स­मू­ला­ज्ञा­नस्य नष्टत्वात् । अतः प्रारब्धं त्यज्यताम् आत्मनि प्रार­ब्ध­प्र­सङ्गः न कार्य इति भावः । विचार्यमाणे शरीरस्यापि प्रारब्धकल्पना भ्रान्तिरेव हि निश्चयः ॥४६१॥

तदुपपादयति अध्यस्तस्येति −

अध्यस्तस्य कुतस्सत्त्वम् असत्त्वस्य कुतो जनिः ।
अजातस्य कुतो नाशः प्रारब्धमसतः कुतः ॥४६२॥

४६२

असत्त्वस्य न विद्यते सत्त्वं यस्य तत् असत्त्वं तस्य असतः इत्यर्थः । जनिः उत्पत्तिः कुतः ? नास्तीत्यर्थः । अजातस्य नाशः कुतः ? सोऽपि न । उत्पत्त्यर्थं प्रार­ब्ध­स्वी­कारः, नो चेत् लोकसिद्धं देव­ति­र्य­ङ्म­नु­ष्या­दि­वै­षम्यं दुरुपपादमिति, ब्रह्म­व्य­ति­रि­क्तस्य सर्वस्य मिथ्यात्वं यदा अवसितं तदा शुक्तिरजतादिवत् केवलाज्ञानतः प्रतिभासमानस्य न कर्म­नि­मि­त्त­क­त्वम् । ‘स्थाणु­म­न्येऽ­नु­सं­यन्ति यथाकर्म यथाश्रुतं’(क.उ. ५.७) इत्या­दि­श्रु­ति­रपि व्यवहारदृष्ट्या वदतीति भावः ॥४६२॥

इदानीं ‘तस्य तावदेव चिरं याव­न्न­वि­मोक्ष्ये अथ सम्पत्स्ये’(छा.उ. ६.१४.२) इति श्रुति­ता­त्प­र्य­माह ज्ञानेति −

ज्ञाने­ना­ज्ञा­न­का­र्यस्य समूलस्य लयो यदि ।
तिष्ठत्ययं कथं देह इतिशङ्कावतो जडान् ।
समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः ॥४६३॥

४६३

अज्ञानकार्यस्य विय­दा­दि­प्र­प­ञ्चस्य अह­ङ्का­रा­दि­दे­हा­न्तस्य च बाह्या­ध्या­त्मि­कस्य समूलस्य मूलमज्ञानं तेन सहितस्य, ज्ञानेन ब्रह्म­सा­क्षा­त्का­रेण यदि लयः बाधः, अयं देहः पाञ्चभौतिकः कथं तिष्ठति इति शङ्का एषामस्तीति शङ्कावन्तः तान् शङ्कावतः जडान् प्राकृतान् मन्दान् समाधातुं बाह्यदृष्ट्या व्यवहाररीत्या प्रारब्धं श्रुतिर्वदति ‘यावन्न विमोक्ष्ये’(छा.उ. ६.१४.२) इत्यादिना ॥४६३॥

कर्मजन्यं शरीरादि न शुक्तिरजतादिवत् प्रातीतिकं किन्तु सत्यमिति वक्तुमिति कदापि न भ्रमि­त­व्य­मि­त्याह न त्विति −

न तु देहा­दि­स­त्य­त्व­बो­ध­नाय विपश्चिताम् ।
यतः श्रुतेरभिप्रायः परमार्थैकगोचरः ॥४६४॥

४६४

विपश्चितां ज्ञानिनां यद्देहादि तस्य सत्यत्वबोधनाय प्रारब्धं न तु वक्ति । विप­श्चि­ता­मि­त्यस्य बोधनायेत्यनेन वा सम्बन्धः । ज्ञानेन तेजसा तिमिरस्येव जग­दु­पा­दा­न­भू­ता­ज्ञा­नस्य नाशेऽपि देहः प्रारब्धनाशे नश्यति तावान्विलम्ब इत्युक्त्या तस्य आज्ञानिकत्वं नास्ति । किन्तु कर्मजन्यतया सत्यत्वमिति प्रतीयेत, न त्वेवम् , तार्किकादिमते तन्तूपादानकस्य पटस्य तन्तुनाशक्षणे निरुपादानकतया स्थितिवत् −

उपादाने विनष्टेऽपि क्षणं कार्यं प्रतीक्षते । इत्या­हु­स्ता­र्कि­का­स्त­द्व­द­स्माकं किं न सम्भवेत् ॥ (पं.द. ६.५४) तन्तूनां दिनसङ्ख्यानां तैस्तादृक् क्षण ईरितः । भ्रम­स्या­स­ङ्ख्य­क­ल्पस्य योग्यः क्षण इहेष्यताम् ॥ (पं.द. ६.५५)

इति चित्र­दी­पो­क्त­रीत्या अना­दि­का­ल­प्र­वृ­त्ता­ज्ञा­नो­पा­दा­न­क­स्यापि देहादेः अज्ञा­न­ना­शा­न­न्तरं कञ्चित्कालं स्थितेर्वक्तुं शक्यत्वात् । विजि­गी­षु­क­था­या­मे­त­दृ­श­स­मा­धा­नम् ,

न निरोधो न चोत्पत्तिः न बद्धो न च साधकः । न मुमुक्षुर्न वै मुक्त इत्येषा परमार्थता ॥ (गौ.का.वैतथ्य. ३३)

इति श्रुत्यनुसारेण ब्रह्ममात्रस्य परमार्थत्वात् ।

‘ज्ञाने­ना­ज्ञा­न­का­र्यस्य समूलस्य लयो यदि । तिष्ठत्ययं कथं देहः’(श्लो. ४६३) इति जडानां शङ्का­स­मा­धा­नार्थं श्रुतिः प्रारब्धं वक्तीति वस्तुस्थितिः । यतः श्रुतेरभिप्रायः परमार्थैकगोचरः प्रमा­णा­न्त­रा­न­धि­ग­त­प्र­यो­ज­न­व­द­बा­धि­ता­र्थ­वि­ष­यक इत्यर्थः । न हि ज्ञानिनाम् अज्ञा­न­ना­शा­न­न्त­र­मपि कर्म­स­मा­प्ति­प­र्यन्तं शरीरं तिष्ठतीति प्रतिपादनेन किञ्चि­त्फ­ल­म­स्तीति तस्य तावदेवेति श्रुतिः मन्द­श­ङ्का­स­मा­धा­ना­र्थ­मे­वेति भावः ॥४६४॥

इदानीं श्रुति­ता­त्प­र्य­वि­षय़ं परमार्थं सप्तभिः श्लोकैः सङ्गृह्णाति परि­पू­र्ण­मि­त्या­दिभिः −