विवेकचूडामणिः सव्याख्यः
३३. ब्रह्मणि नानात्वनिषेधः
परिपूर्णमनाद्यन्तम् अप्रमेयमविक्रियम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६५॥
परिपूर्णं देशपरिच्छेदशून्यम् , अनाद्यन्तम् उत्पत्तिनाशविधुरम् , अप्रमेयं फलव्याप्तिशून्यम् , अविक्रियम् अपरिणामि, एकं स्वगतभेदरहितम् , एव सजातीयभेदरहितम् , अद्वयं विजातीयभेदरहितम् , इह ब्रह्मणि, किञ्चन किञ्चिदपि, नाना नानात्वं भेद इत्यर्थः नास्तीति श्रुतिःसकलविधभेदशून्यं ब्रह्म ब्रूते ।
मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥ (४.४.१९)
इति बृहदारण्यकश्रुतिः । एकमेवाद्वितीयमिति छान्दोग्यश्रुतिः अर्थत उक्ता एकमेवाद्वयमिति ॥४६५॥
श्रौतशब्दैः श्रुत्यर्थानुसारिस्वशब्दैश्च परमार्थतत्वं ब्रूते −
सद्घनं चिद्घनं नित्यमानन्दघनमक्रियम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६६॥
घनः मूर्तिः, सच्छरीरं, चिच्छरीरं, नित्यम् आनन्दशरीरं, सच्चिदानन्दस्वरूपमित्यर्थः । अक्रियं सृष्ट्यादिक्रियाशून्यम् ॥४६६॥
प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६७॥
सर्वात्मभूतं व्यापि, नाशरहितम् , सर्वात्मभूतत्वादेव सर्वतोमुखं ‘त्वं जातो भवसि विश्वतोमुखः’(श्वे.उ. ४.३) इति श्रुतेः ॥४६७॥
अहेयमनुपादेयम् अनाधेयमनाश्रयम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६८॥
स्वात्मत्वादहेयम् अनुपादेयं च, निष्प्रपञ्चत्वादनाधेयं न विद्यते आधेयं यस्य । अनाश्रयं न आश्रयो यस्य निराधारम् , अहेयं निर्दोषम् अनुपादेयं निर्गुणमिति वा अर्थः ॥४६८॥
निर्गुणं निष्कलं सूक्ष्मं निर्विकल्पं निरञ्जनम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४६९॥
अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४७०॥
यत् मनोवाचामगोचरं, तत् तस्मात् अनिरूप्यस्वरूपं केवलानुभवैकवेद्यमित्यर्थः । ‘वाचा वक्तुमशक्यमेव मनसा मन्तुम्’(श्लो. ४८३) इति वक्ष्यते शिष्योक्तिमुखेन ॥४७०॥
सत्समृद्धं स्वतस्सिद्धं शुद्धं बुद्धमनीदृशम् ।
एकमेवाद्वयं ब्रह्म नेह नानास्ति किञ्चन ॥४७१॥
सत् अबाध्यं, समृद्धम् अखण्डानन्दरूपं, स्वतस्सिद्धं सर्वप्रमाणप्रवृत्तिहेतुत्वात् । शुद्धं दोषास्पृष्टं, बुद्धं ज्ञानरूपम् , अनीदृशम् इदमिव दृश्यत इति ईदृशं न ईदृशं निरुपमं, बुद्धौ धारया सूक्ष्मतमार्थं ग्राहयितुम् एवं श्रौतार्थस्य कथनीयत्वात् ईदृशस्थलेषु पौनरुक्त्याशङ्का नैव कार्या ॥४७१॥