विवेकचूडामणिः सव्याख्यः
३४. आत्मयोगः कर्तव्यः
निरस्तरागा निरपास्तभोगाः
शान्ताः सुदान्ता यतयो महान्तः ।
विज्ञाय तत्त्वं परमेतदन्ते
प्राप्ताः परां निर्वृतिमात्मयोगात् ॥४७२॥
निरस्तः रागः यैस्ते निरस्तरागाः दूरीकृतविषयेच्छाः, निरपास्तभोगाः अत एव निरपास्तः भोगः यैस्ते नितरां त्यक्तभोगाः । यदृच्छालाभसन्तुष्टाः रागसत्त्वे हि भोगः । उक्तं हि पूर्वम् ‘अन्यावेदितभोग्यभोगकलनो निद्रालुवद् बालवत्’(श्लो. ४२६) इति । यद्वा शीतोष्णादिद्वन्द्वसहिष्णव इति तत्पदस्यार्थः । शान्ताः ब्रह्मणि स्थापितमनसः, सुदान्ताः निगृहीतबहिरिन्द्रियाः, यतयः प्रयत्नशीलाः । महान्तः बहिरिन्द्रियद्वारा निर्गतस्य मनसः परिच्छिन्न विषयाकारेण परिणामे तदुपहितः जीवोऽप्यल्पो भवति न शान्तानां दान्तानां च तथात्वमिति । निरन्तरमन्तर्मुखमनसां महत्त्वं सहजमेव । तादृशाः पुरुषधौरेयाः एतत् ‘परिपूर्णमनाद्यन्तम्’(श्लो. ४६५) इत्यादिना सङ्कीर्तितं परं तत्त्वं सर्वोत्कृष्टं ब्रह्म विज्ञाय, आत्मनि योगः आत्मयोगः निर्विकल्पकसमाधिः तस्माद्धेतोः परां निर्वृतिं नित्यनिरतिशयानन्दरूपां मुक्तिम् अन्ते ज्ञानप्राप्त्यनन्तरं, प्राप्ताः अवापुः । अन्ते प्रारब्धकर्मणो वा अन्ते देहपात इति यावत् । परां निर्वृतिं विदेहकैवल्यं प्राप्ताः, तदा आत्मयोगाद्विज्ञाय इति सम्बन्धः ॥४७२॥
‘माभैष्ट विद्वंस्तव नास्त्यपायः संसारसिन्धोस्तरणेऽस्त्युपायः । येनैव याताः यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि’(श्लो. ४५) इति यदुक्तं तत्समापयति भवानपीत्यादिना −
भवानपीदं परतत्त्वमात्मनः
स्वरूपमानन्दघनं निचाय्य ।
विधूय मोहं स्वमनःप्रकल्पितं
मुक्तः कृतार्थो भवतु प्रबुद्धः ॥४७३॥
भवानपि आत्मनः भवतः स्वरूपम् आनन्दघनम् इदं परतत्त्वं ब्रह्म निचाय्य साक्षात्कृत्य स्वमनःप्रकल्पितं मोहम् अनात्मस्वात्मभ्रमं विधूय समूलं विनाश्य प्रबुद्धः अविद्यानिद्रारहितः मुक्तः अध्यासरूपबन्धान्मुक्तः कृतार्थो भवतु इत्याशीरूपोपदेशः ॥४७३॥
समाधिना साधु सुनिश्चलात्मना
पश्यात्मतत्त्वं स्फुटबोधचक्षुषा ।
निस्संशयं सम्यगवेक्षितश्चेत्
श्रुतः पदार्थो न पुनर्विकल्पते ॥४७४॥
सुष्ठु निश्चलः आत्मा अन्तःकरणं यस्मिन् तेन समाधिना निर्विकल्पकेन स्फुटं यद्बोधरूपं चक्षुः −
निर्विकल्पकसमाधिना स्फुटं ब्रह्मतत्त्वमवगम्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्ययान्तरविमिश्रितं भवेत् ॥ (श्लो. ३६६)
इत्युक्तम् । तेन बोधचक्षुषा रूपं यथा बाह्यचक्षुषा तथा साधु असन्दिग्धाविपर्यासम् , आत्मतत्त्वं पश्य साक्षात्कुरु । श्रुतः आप्तमुखेन श्रुतः पदार्थः निस्संशयं क्रियाविशेषणं संशयाविषयः सन् सम्यगविपर्यस्तः अवेक्षितश्चेत् अनुभवगोचरतामापादितश्चेत् पुनर्न विकल्पते नान्यथा भातीत्यर्थः ॥४७४॥
स्वस्याविद्याबन्धसम्बन्धमोक्षात्
सत्यज्ञानानन्दरूपात्मलब्धौ ।
शास्त्रं युक्तिर्देशिकोक्तिः प्रमाणं
चान्तस्सिद्धा स्वानुभूतिः प्रमाणम् ॥४७५॥
स्वस्य आत्मनः अविद्याबन्धसम्बन्धमोक्षात् अविद्यया ये बन्धाः अहङ्कारादिदेहान्ताः तैः यः सम्बन्धः आध्यासिकतादात्म्यं तस्मान्मोक्षः स्वस्वरूपावबोधेन वियोगः, तस्मात् सत्यज्ञानानन्दरूपात्मलब्धौ सत्यज्ञानानन्दरूपः यः आत्मा स्वस्वरूपं तस्य लब्धौ प्राप्तौ विषये शास्त्रम् ‘अस्य महिमानमिति वीतशोकः’(मु.उ ३.१.२) ‘ब्रह्मविदाप्नोति परं’(तै.उ. २.१) इत्यादि, युक्तिः कण्ठचामीकरन्यायः, देशिकोक्तिः −
तत्त्वमस्यादिवाक्योत्थब्रह्मात्मैकत्वबोधतः । ब्रह्मण्यात्मत्वदार्ढ्याय स्वाध्यासापनयं कुरु ॥ (श्लो. २८४)
इत्यादिः प्रमाणम् अन्तः सिद्धा शास्त्रयुक्तिगुरूक्त्यनुरूपा स्वानुभूतिश्च प्रमाणम् ॥४७५॥
उक्तार्थे दृष्टान्तार्थमनुभवप्रमाणकानन्यानप्याह बन्ध इति −
बन्धो मोक्षश्च तृप्तिश्च चिन्तारोग्यक्षुधादयः ।
स्वेनैव वेद्या यज्ज्ञानं परेषामानुमानिकम् ॥४७६॥
अविद्या तदस्तमयः अलम्बुद्धिः चिन्ता आरोग्यं क्षुत् , पिपासा रोगः कुक्षिशूलादिः आदिपदार्थः । स्वेनैव वेद्याः साक्षादनुभवगम्याः यत् यस्मात् परेषां ज्ञानम् आनुमानिकं परोक्षं हेतोर्दुष्टत्वे भ्रमात्मकं च स्यादिति भावः ॥४७६॥
तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा ।
प्रज्ञयैव तरेद्विद्वान् ईश्वरानुगृहीतया ॥४७७॥
यथा नद्यां नावि गच्छन्तम् एवमेवं क्षेपणीं क्षिपेति तटस्थितः बोधयति स्वयं क्षेपणाकुशलं तथा गुरवोऽपि तथा श्रुतयः उपनिषदः तटस्थिताः परोक्षज्ञानजनकाः तथा मार्गं दर्शयन्ति । विद्वान् ईश्वरानुगृहीतया प्रज्ञयैव ‘ब्रह्मात्मनोश्शोधितयोः’(श्लो. ४२७) इति लक्षितया चिन्मात्रवृत्त्यैव तरेत् संसारवारिधिमिति शेषः ॥४७७॥
स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् ।
संसिद्धः सुसुखं तिष्ठेत् निर्विकल्पात्मनात्मनि ॥४७८॥
स्वमात्मानमखण्डितं स्वयं स्वानुभूत्या ज्ञात्वा, संसिद्धः आत्मनि निर्विकल्पात्मना सुसुखं तिष्ठेत् इत्यन्वयः । स्पष्टोऽर्थः ॥४७८॥
वेदान्तसिद्धान्तनिरुक्तिरेषा
ब्रह्मैव जीवः सकलं जगच्च ।
अखण्डरूपस्थितिरेव मोक्षः
ब्रह्माद्वितीयं श्रुतयः प्रमाणम् ॥४७९॥
वेदान्तैः सिद्धः यः अन्तः निर्णयः तस्य निरुक्तिः तज्जनकसङ्कुचितशब्दः एषा, जीवः ब्रह्मैव सकलं जगच्च ब्रह्मैव, मोक्षः अखण्डरूपस्थितिरेव ब्रह्मस्वरूपेणावस्थानमित्यर्थः । ब्रह्माद्वितीयं, तत्र प्रमाणं श्रुतयः । श्रुतीनां बहुत्वेऽपि सर्वाभिरपि जनिष्यमाणप्रमायाः एकत्वात् प्रमाणमित्येकवचनम् । वेदान्तानां यः सिद्धान्तः निर्णीतार्थः, सिद्धान्तशब्दस्य तत्तच्छास्त्रसिद्धार्थरूपतया परैर्व्याकृतत्वात् तस्य निरुक्तिः निर्णयजनकसङ्कुचितशब्दः निर्वचनमिति वार्थः । ‘तत्त्वमसि’, (छा.उ. ६.८.७) ‘सर्वं खल्विदं ब्रह्म’, (छा.उ. ३.१४.१) ‘ब्रह्मैवेदं विश्वम्’, (छा.उ. २.२.१२) ‘एकमेवाद्वितीयम्’(छा.उ. ६.२.१) इत्यादिश्रुतयः ॥४७९॥
इति गुरुवचनात् श्रुतिप्रमाणात्
परमवगम्य सतत्त्वमात्मयुक्त्या ।
प्रशमितकरणः समाहितात्मा
क्वचिदचलाकृतिरात्मनिष्ठितोऽभूत् ॥४८०॥
इति पूर्वं विस्तरसङ्ग्रहरूपेण कथितात् गुरुवचनात् श्रुतिप्रमाणात् श्रुतयः प्रमाणानि यस्य गुरुवचनस्य तत् श्रुतिप्रमाणं तस्मात् ।
शास्त्रं युक्तिः देशिकोक्तिः प्रमाणं चान्तःसिद्धा स्वानुभूतिः प्रमाणम् । (श्लो. ४७५)
इत्यत्र शास्त्रस्य पृथक्कीर्तनात् श्रुतिरूपप्रमाणादिति वा अर्थः । आत्मयुक्त्या श्रुत्याचार्योपदिष्टार्थमननेनेत्यर्थः । परं सतत्त्वं परं ब्रह्म परमार्थतत्त्वम् अवगम्य प्रशमितकरणः प्रकर्षेण शमितानि करणानि चक्षुरादीनि बाह्यानि येन । यद्वा आत्मयुक्त्या, युक्तिः योगः वृत्तिनिरोध आत्मनः मनसः वृत्तिनिरोधेन करणानि बाह्यानि प्रकर्षेण शमितानि इति सुवचम् । सम्यगाहितः ब्रह्मणि स्थापितः आत्मा अन्तःकरणं येन यस्येति वा, मनोवृत्तिनिरोधेन चक्षुराद्युपशमेऽपि नात्मनिष्ठा अत उक्तं समाहितात्मेति । क्वचिदेकान्तप्रदेशे अचलाकृतिः पर्वतवदप्रकम्प्यः, आत्मनिष्ठितः ब्रह्मनिष्ठः अभूत् । आत्मनि स्थितः आत्मनिष्ठितः, जातात्मनिष्ठ इति वा ॥४८०॥