अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

३४. आत्मयोगः कर्तव्यः

निरस्तरागा निरपास्तभोगाः
शान्ताः सुदान्ता यतयो महान्तः ।
विज्ञाय तत्त्वं परमेतदन्ते
प्राप्ताः परां निर्वृ­ति­मा­त्म­यो­गात् ॥४७२॥

४७२

निरस्तः रागः यैस्ते निरस्तरागाः दूरी­कृ­त­वि­ष­येच्छाः, निरपास्तभोगाः अत एव निरपास्तः भोगः यैस्ते नितरां त्यक्तभोगाः । यदृ­च्छा­ला­भ­स­न्तुष्टाः रागसत्त्वे हि भोगः । उक्तं हि पूर्वम् ‘अन्या­वे­दि­त­भो­ग्य­भो­ग­क­लनो निद्रालुवद् बालवत्’(श्लो. ४२६) इति । यद्वा शीतो­ष्णा­दि­द्व­न्द्व­स­हि­ष्णव इति तत्पदस्यार्थः । शान्ताः ब्रह्मणि स्थापितमनसः, सुदान्ताः निगृ­ही­त­ब­हि­रि­न्द्रियाः, यतयः प्रयत्नशीलाः । महान्तः बहि­रि­न्द्रि­य­द्वारा निर्गतस्य मनसः परिच्छिन्न विषयाकारेण परिणामे तदुपहितः जीवोऽप्यल्पो भवति न शान्तानां दान्तानां च तथात्वमिति । निर­न्त­र­म­न्त­र्मु­ख­म­नसां महत्त्वं सहजमेव । तादृशाः पुरुषधौरेयाः एतत् ‘परि­पू­र्ण­म­ना­द्य­न्तम्’(श्लो. ४६५) इत्यादिना सङ्कीर्तितं परं तत्त्वं सर्वोत्कृष्टं ब्रह्म विज्ञाय, आत्मनि योगः आत्मयोगः निर्वि­क­ल्प­क­स­माधिः तस्माद्धेतोः परां निर्वृतिं नित्य­नि­र­ति­श­या­न­न्द­रूपां मुक्तिम् अन्ते ज्ञान­प्रा­प्त्य­न­न्तरं, प्राप्ताः अवापुः । अन्ते प्रारब्धकर्मणो वा अन्ते देहपात इति यावत् । परां निर्वृतिं विदेहकैवल्यं प्राप्ताः, तदा आत्म­यो­गा­द्वि­ज्ञाय इति सम्बन्धः ॥४७२॥

‘माभैष्ट विद्वंस्तव नास्त्यपायः संसा­र­सि­न्धो­स्त­र­णेऽ­स्त्यु­पायः । येनैव याताः यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि’(श्लो. ४५) इति यदुक्तं तत्समापयति भवानपीत्यादिना −

भवानपीदं परतत्त्वमात्मनः
स्वरूपमानन्दघनं निचाय्य ।
विधूय मोहं स्वम­नः­प्र­क­ल्पितं
मुक्तः कृतार्थो भवतु प्रबुद्धः ॥४७३॥

४७३

भवानपि आत्मनः भवतः स्वरूपम् आनन्दघनम् इदं परतत्त्वं ब्रह्म निचाय्य साक्षात्कृत्य स्वम­नः­प्र­क­ल्पितं मोहम् अना­त्म­स्वा­त्म­भ्रमं विधूय समूलं विनाश्य प्रबुद्धः अवि­द्या­नि­द्रा­र­हितः मुक्तः अध्या­स­रू­प­ब­न्धा­न्मुक्तः कृतार्थो भवतु इत्या­शी­रू­पो­प­देशः ॥४७३॥

समाधिना साधु सुनिश्चलात्मना
पश्यात्मतत्त्वं स्फुटबोधचक्षुषा ।
निस्संशयं सम्य­ग­वे­क्षि­त­श्चेत्
श्रुतः पदार्थो न पुनर्विकल्पते ॥४७४॥

४७४

सुष्ठु निश्चलः आत्मा अन्तःकरणं यस्मिन् तेन समाधिना निर्विकल्पकेन स्फुटं यद्बोधरूपं चक्षुः −

निर्वि­क­ल्प­क­स­मा­धिना स्फुटं ब्रह्म­त­त्त्व­म­व­ग­म्यते ध्रुवम् । नान्यथा चलतया मनोगतेः प्रत्य­या­न्त­र­वि­मि­श्रितं भवेत् ॥ (श्लो. ३६६)

इत्युक्तम् । तेन बोधचक्षुषा रूपं यथा बाह्यचक्षुषा तथा साधु अस­न्दि­ग्धा­वि­प­र्या­सम् , आत्मतत्त्वं पश्य साक्षात्कुरु । श्रुतः आप्तमुखेन श्रुतः पदार्थः निस्संशयं क्रियाविशेषणं संशयाविषयः सन् सम्यगविपर्यस्तः अवेक्षितश्चेत् अनु­भ­व­गो­च­र­ता­मा­पा­दि­त­श्चेत् पुनर्न विकल्पते नान्यथा भातीत्यर्थः ॥४७४॥

स्वस्या­वि­द्या­ब­न्ध­स­म्ब­न्ध­मो­क्षात्
सत्य­ज्ञा­ना­न­न्द­रू­पा­त्म­लब्धौ ।
शास्त्रं युक्ति­र्दे­शि­कोक्तिः प्रमाणं
चान्तस्सिद्धा स्वानुभूतिः प्रमाणम् ॥४७५॥

४७५

स्वस्य आत्मनः अवि­द्या­ब­न्ध­स­म्ब­न्ध­मो­क्षात् अविद्यया ये बन्धाः अह­ङ्का­रा­दि­दे­हान्ताः तैः यः सम्बन्धः आध्या­सि­क­ता­दात्म्यं तस्मान्मोक्षः स्वस्व­रू­पा­व­बो­धेन वियोगः, तस्मात् सत्य­ज्ञा­ना­न­न्द­रू­पा­त्म­लब्धौ सत्य­ज्ञा­ना­न­न्द­रूपः यः आत्मा स्वस्वरूपं तस्य लब्धौ प्राप्तौ विषये शास्त्रम् ‘अस्य महिमानमिति वीतशोकः’(मु.उ ३.१.२) ‘ब्रह्म­वि­दा­प्नोति परं’(तै.उ. २.१) इत्यादि, युक्तिः कण्ठ­चा­मी­क­र­न्यायः, देशिकोक्तिः −

तत्त्व­म­स्या­दि­वा­क्यो­त्थ­ब्र­ह्मा­त्मै­क­त्व­बो­धतः । ब्रह्म­ण्या­त्म­त्व­दा­र्ढ्याय स्वाध्यासापनयं कुरु ॥ (श्लो. २८४)

इत्यादिः प्रमाणम् अन्तः सिद्धा शास्त्र­यु­क्ति­गु­रू­क्त्य­नु­रूपा स्वानुभूतिश्च प्रमाणम् ॥४७५॥

उक्तार्थे दृष्टा­न्ता­र्थ­म­नु­भ­व­प्र­मा­ण­का­न­न्या­न­प्याह बन्ध इति −

बन्धो मोक्षश्च तृप्तिश्च चिन्ता­रो­ग्य­क्षु­धा­दयः ।
स्वेनैव वेद्या यज्ज्ञानं परे­षा­मा­नु­मा­नि­कम् ॥४७६॥

४७६

अविद्या तदस्तमयः अलम्बुद्धिः चिन्ता आरोग्यं क्षुत् , पिपासा रोगः कुक्षिशूलादिः आदिपदार्थः । स्वेनैव वेद्याः साक्षा­द­नु­भ­व­गम्याः यत् यस्मात् परेषां ज्ञानम् आनुमानिकं परोक्षं हेतोर्दुष्टत्वे भ्रमात्मकं च स्यादिति भावः ॥४७६॥

तटस्थिता बोधयन्ति गुरवः श्रुतयो यथा ।
प्रज्ञयैव तरेद्विद्वान् ईश्वरानुगृहीतया ॥४७७॥

४७७

यथा नद्यां नावि गच्छन्तम् एवमेवं क्षेपणीं क्षिपेति तटस्थितः बोधयति स्वयं क्षेपणाकुशलं तथा गुरवोऽपि तथा श्रुतयः उपनिषदः तटस्थिताः परो­क्ष­ज्ञा­न­ज­नकाः तथा मार्गं दर्शयन्ति । विद्वान् ईश्वरानुगृहीतया प्रज्ञयैव ‘ब्रह्मा­त्म­नो­श्शो­धि­तयोः’(श्लो. ४२७) इति लक्षितया चिन्मा­त्र­वृ­त्त्यैव तरेत् संसारवारिधिमिति शेषः ॥४७७॥

स्वानुभूत्या स्वयं ज्ञात्वा स्वमा­त्मा­न­म­ख­ण्डि­तम् ।
संसिद्धः सुसुखं तिष्ठेत् निर्वि­क­ल्पा­त्म­ना­त्मनि ॥४७८॥

४७८

स्वमा­त्मा­न­म­ख­ण्डितं स्वयं स्वानुभूत्या ज्ञात्वा, संसिद्धः आत्मनि निर्वि­क­ल्पा­त्मना सुसुखं तिष्ठेत् इत्यन्वयः । स्पष्टोऽर्थः ॥४७८॥

वेदा­न्त­सि­द्धा­न्त­नि­रु­क्ति­रेषा
ब्रह्मैव जीवः सकलं जगच्च ।
अख­ण्ड­रू­प­स्थि­ति­रेव मोक्षः
ब्रह्माद्वितीयं श्रुतयः प्रमाणम् ॥४७९॥

४७९

वेदान्तैः सिद्धः यः अन्तः निर्णयः तस्य निरुक्तिः तज्ज­न­क­स­ङ्कु­चि­त­शब्दः एषा, जीवः ब्रह्मैव सकलं जगच्च ब्रह्मैव, मोक्षः अख­ण्ड­रू­प­स्थि­ति­रेव ब्रह्म­स्व­रू­पे­णा­व­स्था­न­मि­त्यर्थः । ब्रह्मा­द्वि­तीयं, तत्र प्रमाणं श्रुतयः । श्रुतीनां बहुत्वेऽपि सर्वाभिरपि जनि­ष्य­मा­ण­प्र­मायाः एकत्वात् प्रमा­ण­मि­त्ये­क­व­च­नम् । वेदान्तानां यः सिद्धान्तः निर्णीतार्थः, सिद्धा­न्त­श­ब्दस्य तत्त­च्छा­स्त्र­सि­द्धा­र्थ­रू­प­तया परै­र्व्या­कृ­त­त्वात् तस्य निरुक्तिः निर्ण­य­ज­न­क­स­ङ्कु­चि­त­शब्दः निर्वचनमिति वार्थः । ‘तत्त्वमसि’, (छा.उ. ६.८.७) ‘सर्वं खल्विदं ब्रह्म’, (छा.उ. ३.१४.१) ‘ब्रह्मैवेदं विश्वम्’, (छा.उ. २.२.१२) ‘एक­मे­वा­द्वि­ती­यम्’(छा.उ. ६.२.१) इत्यादिश्रुतयः ॥४७९॥

इति गुरुवचनात् श्रुतिप्रमाणात्
परमवगम्य सत­त्त्व­मा­त्म­युक्त्या ।
प्रशमितकरणः समाहितात्मा
क्वचि­द­च­ला­कृ­ति­रा­त्म­नि­ष्ठि­तोऽ­भूत् ॥४८०॥

४८०

इति पूर्वं विस्त­र­स­ङ्ग्र­ह­रू­पेण कथितात् गुरुवचनात् श्रुतिप्रमाणात् श्रुतयः प्रमाणानि यस्य गुरुवचनस्य तत् श्रुतिप्रमाणं तस्मात् ।

शास्त्रं युक्तिः देशिकोक्तिः प्रमाणं चान्तःसिद्धा स्वानुभूतिः प्रमाणम् । (श्लो. ४७५)

इत्यत्र शास्त्रस्य पृथक्कीर्तनात् श्रुति­रू­प­प्र­मा­णा­दिति वा अर्थः । आत्मयुक्त्या श्रुत्या­चा­र्यो­प­दि­ष्टा­र्थ­म­न­ने­ने­त्यर्थः । परं सतत्त्वं परं ब्रह्म परमार्थतत्त्वम् अवगम्य प्रशमितकरणः प्रकर्षेण शमितानि करणानि चक्षुरादीनि बाह्यानि येन । यद्वा आत्मयुक्त्या, युक्तिः योगः वृत्तिनिरोध आत्मनः मनसः वृत्तिनिरोधेन करणानि बाह्यानि प्रकर्षेण शमितानि इति सुवचम् । सम्यगाहितः ब्रह्मणि स्थापितः आत्मा अन्तःकरणं येन यस्येति वा, मनो­वृ­त्ति­नि­रो­धेन चक्षु­रा­द्यु­प­श­मेऽपि नात्मनिष्ठा अत उक्तं समाहितात्मेति । क्वचि­दे­का­न्त­प्र­देशे अचलाकृतिः पर्व­त­व­द­प्र­कम्प्यः, आत्मनिष्ठितः ब्रह्मनिष्ठः अभूत् । आत्मनि स्थितः आत्मनिष्ठितः, जातात्मनिष्ठ इति वा ॥४८०॥