अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

३५. शिष्यस्य स्वानुभवकथनम्

कञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् ।
व्युत्थाय परमानन्दादिदं वचनमब्रवीत् ॥४८१॥

४८१

बुद्धिर्विनष्टा गलिता प्रवृत्तिः
ब्रह्मा­त्म­नो­रे­क­त­या­धि­गत्या ।
इदं न जानेप्यनिदं न जाने
किं वा कियद्वा सुखमस्य पारम् ॥४८२॥

४८२

ब्रह्मा­त्म­नो­रे­क­त­या­धि­गत्या साक्षात्कारेण बुद्धि­र्वि­नष्टा, प्रवृ­त्ति­र्ग­लिता, इदं प्रत्यक्षगतं न जाने अनिदमपि परोक्षमपि न जाने । पूर्वं तथा विभाग आसीत् पुरोवर्ति प्रत्यक्षम् अपरं परोक्षमिति, इदानीं तथा नास्तीति कथनम् । किंवा कियद्वा सुखम् , अस्य पारं किं कियद्वा सुखम् । एतावन्तं कालम् अनुभूतम् अखण्डं सुखम् इति तत्र कालतः देशतः वस्तुतश्च अपरिच्छिन्नत्वं कथयति । इदं न जानेऽप्यनिदं न जाने इत्यनेन वस्तुतः परिच्छेदो नास्तीत्युक्तम् । किं वा कियद्वा सुखमस्य पारमिति कालतो देशतश्च स नास्तीत्युक्तम् ॥४८२॥

वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते
स्वान­न्दा­मृ­त­पू­र­पू­रि­त­प­र­ब्र­ह्मा­म्बु­धे­र्वै­भ­वम् ।
अम्भो­रा­शि­वि­शी­र्ण­वा­र्षि­क­शि­ला­भावं भजन् मे मनः
यस्यांशांशलवे विली­न­म­धु­नाऽऽ­न­न्दा­त्मना निर्वृतम् ॥४८३॥

४८३

वार्षिकशिला ‘वर्षोपलस्तु करकः’ इत्यमरः −

क्वगतं केन वा नीतं कुत्र लीनमिदं जगत् ।
अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥४८४॥

४८४

किं हेयं किमुपादेयं किन्मयत् किं विलक्षणम् ।
अख­ण्डा­न­न्द­पी­यू­ष­पूर्णो ब्रह्ममहार्णवे ॥४८५॥

४८५

न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् ।
स्वात्मनैव सदा­न­न्द­रू­पे­णास्मि विलक्षणः ॥४८६॥

४८६

पञ्चकोशविलक्षण इत्यर्थः ॥४८६॥

प्लुष्टाज्ञानः कृतकृत्यः गुरुं प्रणमिति । नम इति −

नमो नमस्ते गुरवे महात्मने विमुक्तसङ्गाय सदुत्तमाय ।
नित्या­द्व­या­न­न्द­र­स­स्व­रू­पिणे भूम्ने सदा­पा­र­द­या­म्बु­धाम्ने ॥४८७॥

४८७

भावाद्वैतं सदा कार्यं क्रियाद्वैतं न कुत्रचित् । अद्वैतं त्रिषु लोकेषु नाद्वैतं गुरुणा सह ॥ (तत्त्वोपदेशः ८७)

इत्यनुशासनम् । सदुत्तमाय ब्रह्म­वि­द्व­रि­ष्ठाय, भूम्ने ब्रह्म­व्य­ति­रि­क्त­वि­ष­य­क­द­र्श­न­श्र­व­ण­वि­ज्ञा­न­शू­न्याय सदा अपरा च सा दया च सैवाम्बु तस्य धाम्ने निक्षेपस्थानाय करुणाजलनिधये ॥४८७॥

यत्क­टा­क्ष­श­शि­सा­न्द्र­च­न्द्रि­का­पा­त­धू­त­भ­व­ता­प­ज­श्रमः ।
प्राप्त­वा­न­ह­म­ख­ण्ड­वै­भ­वा­न­न्द­मा­त्म­प­द­म­क्षयं क्षणात् ॥४८८॥

४८८

निष्क­ल­नि­ष्क्रि­य­शा­न्त­नि­र­व­द्य­नि­र­ञ्ज­न­प­र­ब्र­ह्म­नि­र्म­ग्न­म­न­स्सं­व­लि­तया शिशिरशिशिराः जगदाह्लादकाः ये कटाक्षाः अमृतझरभङ्गाः अपाङ्गाः त एव शशी तदीया सान्द्र­च­न्द्रिका । यद्वा त एव शशि­सा­न्द्र­च­न्द्रिका तस्याः पातेन निरर्गलं प्रसरणेन धूतः तिरस्कृतः संसारतापजश्रमः यस्य मम सः अहम् अखण्डवैभवानन्दं निर­ति­श­य­स्व­प्र­का­श­सु­खम् अक्षयं शाश्वतम् आत्मपदं विष्णुपरमपदं क्षणात् प्राप्तवान् तस्मै गुरवे महात्मने नमः इति पूर्वेणान्वयः ॥४८८॥

गुरुप्रसादलब्धं स्वानु­भ­व­मा­वि­ष्क­रोति −

धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् ।
नित्या­न­न्द­स्व­रू­पोऽहं पूर्णोऽहं तदनुग्रहात् ॥४८९॥

४८९

अस­ङ्गोऽ­हऽ­म­न­ङ्गोऽ­ह­म­लि­ङ्गोऽ­ह­म­भ­ङ्गुरः ।
प्रशा­न्तोऽ­ह­म­न­न्तोऽ­ह­म­ता­न्तोऽहं चिरन्तनः ॥४९०॥

४९०

अतान्तः अश्रान्तः इत्यर्थः ॥४९०॥

अक­र्ता­ह­म­भो­क्ता­ह­म­वि­का­रोऽ­ह­म­क्रियः ।
शुद्ध­बो­ध­स्व­रू­पोऽहं केवलोऽहं सदाशिवः ॥४९१॥

४९१

द्रष्टुः श्रोतुर्वक्तुः कर्तु­र्भो­क्तु­र्वि­भिन्न एवाहम् ।
नित्य­नि­र­न्त­र­नि­ष्क्रि­य­नि­स्सी­मा­स­ङ्ग­पू­र्ण­बो­धात्मा ॥४९२॥

४९२

नाहमिदं नाह­म­दोऽ­प्यु­भ­यो­र­व­भा­सकं परं शुद्धम् ।
बाह्या­भ्य­न्त­र­शून्यं पूर्णं ब्रह्मा­द्वि­ती­य­मे­वा­हम् ॥४९३॥

४९३

सर्वो­पा­धि­स­म्ब­न्ध­वि­नि­र्मुक्त इत्यर्थः । त्रिवि­ध­प­रि­च्छे­द­शून्ये कुतो वा बाह्या­भ्य­न्त­र­क­ल्पना, शरीरदृष्ट्या सा नात्मदृष्टया ॥४९३॥

निरु­प­म­म­ना­दि­तत्त्वं त्वमहमिदमद इति कल्पनादूरम् ।
नित्यानन्दैकरसं सत्यं ब्रह्मा­द्वि­ती­य­मे­वा­हम् ॥४९४॥

४९४

नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः ।
अख­ण्ड­बो­धोऽ­ह­म­शे­ष­साक्षी निरीश्वरोऽहं निरहं च निर्ममः ॥४९५॥

४९५

अहन्ताममताशून्य इत्यर्थः । ‘अत एव चानन्याधिपतिः’ इति ब्रह्मसूत्रम् (४.४.९) ॥४९५॥

सर्वेषु भूतेष्वहमेव संस्थितः
ज्ञाना(त्रा)त्म­ना­न्त­र्ब­हि­रा­श्रयः सन् ।
भोक्ता च भोग्यं स्वयमेव सर्वं
(य)तद्य­त्पृ­थ­ग्दृ­ष्ट­मि­द­न्तया पुरा ॥४९६॥

४९६

सर्वेषु भूतेषु वियदादिषु अन्त­र्ब­हि­रा­श्रयः सन् ज्ञाना(त्रा)त्मना अहमेव संस्थितः स्वोपा­ध्य­न्तः­क­र­ण­वृत्त्या व्याप्य हि सर्वं जानाति, ज्ञानकाले सर्वस्यापि अन्तः­क­र­णा­व­च्छि­न्न­चै­त­न्य­रू­प­प्र­मा­त्र­भि­न्न­स्वा­व­च्छि­न्न­चै­त­न्या­ध्य­स्त­तया अधिष्ठानं सर्वस्य स्वयमेवेति भावः नाधिष्ठानाद् भिन्न­ता­रो­पि­त­स्येति भोक्ता च भोग्यं शब्दादि स्वयमेव सर्वं पुरा यद्यत् पृथक् पृथक् दृष्टं तत्स­त्ता­स्फू­र्ति­व्य­ति­रि­क्त­स­त्ता­स्फू­र्ति­क­त्वा­भा­वात् शुक्ति­र­ज­त­र­ज्जु­स­र्पा­दि­वत् ॥४९६॥

मय्य­ख­ण्ड­सु­खा­म्भोधौ बहुधा विश्ववीचयः ।
उत्पद्यन्ते विलीयन्ते माया­मा­रु­त­वि­भ्र­मात् ॥४९७॥

४९७

स्वात्मनिरूपणे −

मयि सुखबोधपयोधौ महति ब्रह्मा­ण्ड­बु­द्बु­द­स­ह­स्रम् । मायामयेन मरुता भूत्वा भूत्वा मुहुस्तिरोधत्ते ॥ (स.सं. ९२९)

इति स्पष्टम् ॥४९७॥

स्थूलादिभावा मयि कल्पिता भ्रमात्
आरो­पि­ता­नु­स्फु­र­णेन लोकैः ।
काले यथा कल्पकवत्सरायन-
र्त्वादयो निष्क­ल­नि­र्वि­कल्पे ॥४९८॥

४९८

‘अष्टा­द­श­नि­मे­षास्तु काष्ठा त्रिंशत्तु ताः कला’(अ.को.) इत्यादिना अखण्डे एककाले निष्कले निरवयवे निर्विकल्पे कला­का­ष्ठा­दि­प­रि­णा­म­र­हिते यथा लोकैः क्षण­दि­न­मा­स­र्त्व­य­न­सं­व­त्स­र­क­ल्पा­दि­भेदाः कल्पिताः, तथा आरो­पि­ता­नु­स्फु­र­णेन कल्पि­त­स्फू­र्ति­मा­त्रेण स्थूलादिभावाः स्थूल­सू­क्ष्म­का­र­ण­श­री­र­रू­प­प­दार्थाः भ्रमात् मयि कल्पिताः लोकैः इत्यन्वयः । नहि नाद­बि­न्दु­क­ला­तीतः कालं वा तद्भेदान् वा पश्यति तद्वत् देश­का­ल­व­स्तु­प­रि­च्छे­द­शून्यं भूमानं पश्यतो मम समूलकाषं कषिताज्ञानस्य नारो­पि­ता­नु­स्फु­रणं भ्रान्त्य­भा­वा­दिति भावः ॥४९८॥

आरोपितं नाश्रयदूषकं भवेत्
कदापि मूढै­र्म­ति­दो­ष­दू­षितैः ।
नार्द्री­क­रो­त्यू­ष­र­भू­मि­भागं
मरी­चि­का­वा­रि­म­हा­प्र­वाहः ॥४९९॥

४९९

मतिदोषदूषितैः मूढैरारोपितम् आश्रयदूषकं निर­धि­ष्ठा­न­भ्र­मा­यो­गात् आश्रयस्य स्वाधिष्ठानस्य दोषावहं कदापि न भवेत् । उक्तं हि अध्यासभाष्ये ‘तत्रैवं सति यत्र यदध्यासः तत्कृतेन गुणेन दोषेण वा अणुमात्रेणापि स न सम्बध्यते’ इति । तद् दृष्टान्तेन स्फुटयति नेति । मरी­चि­का­वा­रि­म­हा­प्र­वाहः ऊषरभूमिभागं नार्द्रीकरोतीति । ऊषरभूमिभागः मरी­चि­का­वा­रि­म­हा­प्र­वा­ह­क­ल्प­ना­श्रयः ॥४९९॥

आकाशवत् कल्पविदूरगोऽहं
आदित्यवद् भास्य­वि­ल­क्ष­णोऽ­हम् ।
अहा­र्य­व­न्नि­त्य­वि­नि­श्च­लोऽ­हम्
अम्भोधिवत् पार­वि­व­र्जि­तोऽ­हम् ॥५००॥

५००

‘आकाशवत् सर्वगतश्च नित्यः’(श.ब्रा. १०.६.३) इत्या­दि­श्रु­ते­रर्थः अनुभूत इति अनु­भ­व­प्र­का­श­न­मि­दम् । कल्पविदूरगः कालापरिच्छिन्नः । ‘स्वयञ्ज्योतिः’(बृ.उ. ४.३.९) श्रुत्यर्थमाह आदित्यवत् भास्य­वि­ल­क्ष­णोऽ­हम् अहार्यवत् पर्वतवत् नित्य­वि­नि­श्च­लोऽ­हम् । अम्भोधिवत् पार­वि­व­र्जि­तोऽ­हम् ॥५००॥

न मे देहेन सम्बन्धो मेघेनेव विहायसः ।
अतः कुतो मे तद्धर्माः जाग्र­त्स्व­प्न­सु­षु­प्तयः ॥५०१॥

५०१

विहायसः आकाशस्य मेघेन यथा सम्बन्धो नास्ति, ‘धूम­ज्यो­ति­स्स­लि­ल­म­रुतां सन्निपातः क्व मेघः’(मे.दू. ५) इति कालिदासोक्तेः पृथ्वी­ज­ल­ते­जो­वा­यु­स­ङ्घा­त­रू­पेण मेघेन यथाकाशं न संसृज्यते नवा नीरवर्षणेन आर्द्रीक्रियते निर्लि­प्त­स्व­भा­व­त्वात् अमूर्तत्वात् एवं मे मम आत्मनः पाञ्चभौतिकेनापि देहेन सम्बन्धः नास्ति उक्तहेतोरेव । अतः धर्मि­स­म्ब­न्धा­भा­वात् तद्धर्माः जाग्र­त्स्व­प्न­सु­षु­प्तयः मे कुतः इत्यन्वयः ॥५०१॥

उपाधिरायाति स एव गच्छति
स एव कर्माणि करोति भुङ्क्ते ।
स एव जीवन् म्रियते सदाहं
कुला­द्रि­व­न्नि­श्चल एव संस्थितः ॥५०२॥

५०२

न मे प्रवृत्तिर्नच मे निवृत्तिः
सदैकरूपस्य निरङ्कुशस्य ।
एकात्मको यो निबिडो निरन्तरो
व्योमेव पूर्णः स कथं नु चेष्टते ॥५०३॥

५०३

‘उत्क्रा­न्ति­ग­त्या­ग­तीनां’(ब्र.सू. २.३.१) ‘तद्गु­ण­सा­र­त्वा­त्त­द्व्य­प­देशः प्राज्ञवत्’(ब्र, सू.२.३.२९) ‘कर्ता शास्त्रा­र्थ­व­त्त्वात्’(ब्र.सू. २.३.३३) ‘यथा च तक्षोभयथा’(ब्र.सू. २.३.४०) ‘चरा­च­र­व्य­पा­श्र­यस्तु स्यात्त­द्व्य­प­देशो भाक्त­स्त­द्भा­व­भा­वि­त्वात्’(ब्र.सू. २.३.१६) इति क्रमेण तत्र तत्र सूत्राणि । सदाहं कुला­द्रि­व­न्नि­श्चल एव संस्थितः प्रवृ­त्ति­नि­वृत्त्योः यौगपद्ये वा क्रमिकत्वे वा एकरूपत्वं न सम्भवति, निरंशकस्य निरवयवस्य विक्रि­या­स­म्भ­वश्च । तदुपपादयति एकात्मको यो निबिडः सान्द्रः, निरन्तरः निरवकाशः व्योमेव गगनमिव पूर्णः स कथं नु चेष्टते ॥५०३॥

पुण्यानि पापानि निरिन्द्रियस्य
निश्चेतसो निर्वि­कृ­ते­र्नि­रा­कृतेः ।
कुतो ममा­ख­ण्ड­सु­खा­नु­भूतेः
ब्रूते ह्यन­न्वा­ग­त­मि­त्यपि श्रुतिः ॥५०४॥

५०४

विहितकर्मजन्यं पुण्यम् , निषि­द्ध­क­र्म­जन्यं पापम् , कर्म च त्रिविधं शारीरं मानसं वाचिकं चेति, उक्तं च गीतासु −

शरी­र­वा­ङ्म­नो­भि­र्यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा (भ.गी. १८.१५) इति ।

महा­न­दी­स्ना­न­दे­व­ब्रा­ह्म­ण­प्र­द­क्षि­णा­दीनि शारीराणि पुण्यानि, महा­म­न्त्र­ज­प­भ­ग­व­न्ना­म­स­ङ्की­र्त­न­त­द्गु­ण­क­थ­ना­दीनि वाचिकानि पुण्यानि, ईश्व­र­ध्या­न­स्व­प­र­हि­त­चि­न्त­ना­दीनि मानसानि पुण्यानि । अग­म्या­ग­म­न­प­र­नि­न्दा­नृ­त­व­द­न­नि­षि­द्ध­ध्या­ना­दीनि क्रमेण शरी­र­वा­ङ्म­नो­ज­न्यानि पापानि । उक्तं हि −

शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मान­सै­र­न्त्य­जा­ति­ताम् ॥ (म.स्मृ. १२.९)

इति । वाक्पदं चक्षु­श्श्रो­त्रा­द्यु­प­ल­क्ष­कम् । यद्वा वाक्पदेन कर्म साध­ना­नी­न्द्रि­याणि, मनः पदेन ज्ञानसाधनानि चक्षु­रा­दी­न्द्रि­याणि गृह्यन्ते । सद­स­त्क­र­ण­द­र्श­न­श्र­व­णा­दीनि तत्त­त्पु­ण्य­पा­पानि । एत­त्स­र्व­मि­न्द्रि­याणां चेतसो वा साकारस्य शरीरस्य वा स्थूलस्य । निरिन्द्रियस्य ‘न तस्य कार्यं करणं च विद्यते’(श्वे.उ. ६.८) इति श्रुतेः । ‘सच­क्षु­र­च­क्षु­रिव सकर्णोऽकर्ण इव समना अमना इव सप्राणोऽप्राण इवेति’ च । वस्तुतः अचक्षुरपि परदृष्ट्या सचक्षुरिव जीवन्मुक्तः आध्या­सि­क­स­म्ब­न्ध­र­हि­त­तया तिष्ठतीति तदर्थः । तथाच सेन्द्रियत्वं समनस्त्वं सशरीरत्वं च मिथ्या­ज्ञा­न­नि­ब­न्ध­नम् आभि­मा­नि­क­ता­दा­त्म्य­स­म्ब­न्धेन तत्त­द्वि­शि­ष्ट­त्व­मेव । ब्रह्म­सा­क्षा­त्का­र­द­ग्धा­ज्ञा­नस्य कुतः अभिमानः कुतस्तरां तादात्म्यम् । तस्मात् निरिन्द्रियस्य निश्चेतसः निराकृतेः इति पदत्रयेण वाङ्म­न­श्श­री­र­रू­प­पु­ण्य­पा­प­सा­ध­न­र­हि­तत्वं कथितम् । तार्किकाः आत्मन एव पुण्यं पापं च वदन्ति । निर्वि­कृ­ते­रि­त्य­नेन विहि­त­नि­षि­द्ध­क­र्म­ज­न्ययोः पुण्यपापयोः विकारतया नित्य­स्या­नि­त्य­ध­र्मा­श्र­यत्वे अनि­त्य­त्व­प्र­स­ङ्गात् विकृतिशून्य आत्मा उक्तः । उक्तं हि श्रुति­सा­र­स­मु­द्ध­रणे तोटकाचार्यैः − ‘न हि नित्य­म­नि­त्य­गु­णेन गुणि’(२५) इति । वियदधिकरणभाष्ये (ब्र.सू. २.३.१) च अनि­त्य­श­ब्दा­श्र­य­त्वेन गग­न­स्या­नि­त्य­त्वम् इति । तथाच स्वतो निर्विकारतया मूलाज्ञाननाशेन शरी­रे­न्द्रि­य­चे­तो­रू­पो­पा­धि­स­म्ब­न्धा­भा­वाच्च अख­ण्ड­सु­खा­नु­भूतेः अना­वृ­ता­प­रि­च्छि­न्न­स्व­य­म्प्र­का­शा­न­न्द­स्व­रू­पस्य मम कुतः पुण्यानि कुतस्तरां पापानि । तत्र श्रुतिं प्रमाणयति ‘ब्रूते ह्यन­न्वा­ग­त­मि­त्यपि श्रुतिः’ इति । ‘अनन्वागतं पुण्येन अनन्वागतं पापेन तीर्णो हि सदा सर्वान् शोकान् हृदयस्य भवति’(बृ.उ. ४.३.२२) इति सुषुप्तिकाले मूला­ज्ञा­न­स­त्त्वेऽपि तत्का­र्या­ध्या­सा­भा­वात् पुण्य­पा­पा­स्पृ­ष्टत्वं हृद­य­ग­त­स­क­ल­शो­का­स्पृ­ष्टत्वं च बोधितम् । तथा सर्वैरनुभूयते च । सम्प्रति कार­णा­ज्ञा­न­स्यापि नाशात् पुण्य­पा­प­दुः­ख­स­म्बन्धः सुतरां नास्तीति ‘को मोहः कः शोकः’(ई.उ. ७) इति श्रुताविव कुतश्शब्देन तेषाम् अभावः आक्षेपेण बोधितः । यदि पुण्य­पा­प­दुः­खा­नाम् आत्मधर्मत्वं सुषुप्तावपि तदन्वयः स्यात् । तदा स्वरू­प­सु­खा­नु­भवः, न तु पुण्यफलं परिन्छिन्नं सुखमनुभूयते । तस्य सुखस्य विष­य­स­म्ब­न्धा­ज­नि­त­त्वात् । तदा दुःखं तु नैवास्ति ‘एषोऽस्य परम आनन्दः’(बृ.उ. ४.३.२२) इति श्रुतेः­अ­नु­भ­वाच्च । ततः पापानन्वयः । हृदयस्य शोकान् इत्यनेन शोक­श­ब्दि­त­दुः­खस्य आत्मधर्मत्वं नास्तीति कथितं भवति । जाग्र­त्स्व­प्न­यो­र­ध्या­सात् ते कल्प्यन्ते स्म, इदानीं तदभावात् कल्पना नास्तीति श्रुत्यर्थः ॥५०४॥

उक्तमर्थं दृष्टान्तेन विशदयति द्वाभ्याम् −

छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा ।
न स्पृशत्येव यत्किञ्चित् पुरुषं तद्विलक्षणम् ॥५०५॥

५०५

स्वश­री­र­च्छा­यायाः जला­ग्न्या­दि­स­म्बन्धे सद­स­द्व­स्तु­स­म्बन्धे वा शरीरस्य यथा शीतो­ष्णा­दि­स­म्बन्धो नास्ति एवं बुद्धौ प्रतिफलतः जीवस्य उपाधेः प्रति­बि­म्ब­प­क्ष­पा­ति­त्वात् तद्ध­र्म­पु­ण्य­सु­खा­दि­स­म्ब­न्धेऽपि अज्ञाननाशेन जीव­त्व­वि­ग­मा­न­न्तरं तत् विलक्षणं बिम्बभूतं पूर्णत्वात् पुरुषं यत्किञ्चिदपि न स्पृशति । छायापर्याये पुरुषशब्देन शरीरं ग्राह्यम् । तद्विलक्षणं छायाविलक्षणम् । न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति कदाचन ॥५०५॥

अविकारमुदासीनं गृहधर्माः प्रदीपवत् ।
देहे­न्द्रि­य­म­नो­धर्माः नैवात्मानं स्पृशन्त्यहो ॥५०६॥

५०६

गृहधर्माः गृहप्रकाशकं प्रदीपं यथा न संस्पृशन्ति, एवं साक्ष्यधर्माः दृश्य­बु­द्धी­न्द्रि­य­श­री­र­धर्माः विलक्षणं कदाचन दृग्रूपं स्वयम्प्रकाशम् अविकारम् उदासीनं साक्षिणं न संस्पृशन्ति । देहे­न्द्रि­य­म­नो­धर्माः नैवात्मानम् अविकारमुदासीनं स्पृशन्तीति प्रदी­प­दृ­ष्टा­न्तेन पुण्यानि पापा­नी­त्या­दि­श्लो­कार्थो विवृतः ॥५०६॥

त्रिभिः दृष्टान्तैः आत्मनोऽसङ्गतां प्रतिपादयति रवेरिति −

रवेर्यथा कर्मणि साक्षिभावो
वह्नेर्यथा वाऽयसि दाहकत्वम् ।
रज्जो­र्य­थाऽऽ­रो­पि­त­व­स्तु­सङ्गः
तथैव कूटस्थचिदात्मनो मे ॥५०७॥

५०७

कर्मसाक्षि जगच्चक्षुरिति प्रसिद्ध्या सक­ल­प्रा­णि­क­र्म­सा­क्षित्वं तादृ­श­क­र्म­स­ङ्गिनो रवेर्यथा तथा कूटस्थचिदात्मनो मे निर्वि­का­र­चि­द्रू­पस्य मम सकलकर्मासङ्गिनः साक्षित्वम् । एवं वह्ने­र्दा­ह­क­त्वम् अयो दहतीति यथा अयसि कल्पितम् एवं बुद्ध्यादिगतं कर्तृत्वं मयि । एवं रज्जोः कल्पि­त­स­र्प­द­ण्डो­द­धा­रा­दि­व­स्तु­सङ्गः तादात्म्यरूपः यथा कल्पितः तथा निर्वि­का­र­चि­द्रू­पस्य मम कल्पि­त­दे­हा­दि­स­म्बन्धः । वस्तुतः असङ्गत्वं दृष्टा­न्त­त्र­येऽपि ॥५०७॥

स्वस्या­नु­भ­वा­न्नि­र्ध­र्म­क­त्व­माह कर्तेति −

कर्तापि वा कारयितापि नाहं
भोक्तापि वा भोजयितापि नाहम् ।
द्रष्टापि वा दर्शयितापि नाहं
सोऽहं स्वय­ञ्ज्यो­ति­र­नी­दृ­गात्मा ॥५०८॥

५०८

‘विज्ञानं यज्ञं तनुते’(तै.उ. २.५) , ‘एष ह्येव साधु कर्म कारयति’(कौ.उ. ३.९) इति श्रुत्या बुद्ध्युपहितस्य मायोपहितस्य च क्रमेण कर्तृत्वं कारयितृत्वम् एवं भोक्तृत्वं भोजयितृत्वं च । द्रष्टृ­त्व­स्यापि दृश्य­सा­पे­क्ष­त्वात् अद्वितीये तदपि कल्पितमेव वस्तुतो नास्ति । चक्षु­रा­दि­प्रे­र­क­त्व­मपि व्यव­हा­रा­व­स्था­या­मेव न वस्तुतः । अतः दर्शयितापि नाहम् , सोऽहम् अनीदृक् सकलधर्मवर्जितः ‘साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ. ६.११) इति श्रुतेः । स्वयञ्ज्योतिः अन­न्या­धी­न­स्फु­रणः आत्मा ॥५०८॥

चलत्युपाधौ प्रति­बि­म्ब­लौ­ल्यम्
औपाधिकं मूढधियो नयन्ति ।
स्वबिम्बभूतं रवि­व­द्वि­नि­ष्क्रियं
कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥५०९॥

५०९

‘ध्यायतीव लेलायतीव’(बृ.उ. ४.३.७) इति श्रुतिः । बुद्धि­श­री­रा­द्यु­पा­धि­ध­र्मान् भ्रान्त्या मूढधियः विनिष्क्रिये रवौ बिम्बभूते यथा चलति जले, तत्र उपाधौ भास­मा­न­र­वि­प्र­ति­बिम्बे प्रतीयमानं चलनं नयन्ति कल्पयन्ति रविश्चलतीति तथा उपाधौ बुद्ध्यादौ चलति औपाधिकं तन्निमित्तं तत्र प्रति­बि­म्ब­भू­त­जी­व­लौल्यं विनिष्क्रियं स्वबिम्बभूतम् आत्मानं कर्तास्मि भोक्तास्मीति बुद्धि­ता­दा­त्म्या­ध्या­सात् हतोऽस्मीति स्थूल­दे­ह­ता­दा­त्म्या­ध्या­सात् नयन्ति । प्रतिबिम्बेऽपि उपाधिधर्माः भ्रान्तिसिद्धाः बिम्बे सुतरां न सन्ति । तथापि मूढधियः नयन्ति । अतः श्रुत्या युक्त्या अनुभवेन च सिद्ध­नि­र्गु­ण­त्वस्य न कोऽपि विरोधः ॥५०९॥

घटा­का­श­दृ­ष्टा­न्तेन स्थूलदेहधर्माः नात्मन इत्याह जल इति −

जले वापि स्थले वापि लुठत्येष जडात्मकः ।
नाहं विलिप्ये तद्धर्मैः घटधर्मैर्नभो यथा ॥५१०॥

५१०

जडात्मकः एष देहः जले वापि स्थले वापि लुठतु । नभः आकाशः यथा घटधर्मैः अनित्यत्वादिभिः पृथु­बु­ध्नो­द­रा­द्या­कारैः नीलादिरूपैश्च न लिप्यते तथा तद्धर्मैः स्थूलदेहधर्मैः जल­स्थ­ला­दि­स­म्ब­न्ध­प्र­यु­क्त­शै­त्या­भि­घा­ता­दिभिः नाहं विलिप्ये जरामरणादिभिश्च ॥५१०॥

कर्तृ­त्व­भो­क्तृ­त्व­ख­ल­त्व­म­त्तता-
जड­त्व­ब­द्ध­त्व­वि­मु­क्त­ता­दयः ।
बुद्धेर्विकल्पा न तु सन्ति वस्तुतः
स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥५११॥

५११

केवलेऽद्वये परे ब्रह्मणि स्वस्मिन् कर्तृ­त्वा­दि­वि­मु­क्त­तान्ताः बुद्ध्य­ध्या­स­नि­ब­न्धनाः विविधकल्पनाः वस्तुतो न सन्ति ॥५११॥

सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि ।
तैः किं मेऽसङ्गचितेः न ह्यम्बु­द­ड­म्ब­रोऽ­म्बरं स्पृशति ॥५१२॥

५१२

सर्वस्य प्रपञ्चस्य मूलप्रकृतेः सकाशात् साक्षा­त्प­र­म्प­रया जातत्वात् मूलप्रकृतेः मायायाः विकाराः दशधा शतधा सहस्रधा वापि सन्तु । असङ्गचितेः मे तैः विकारैः किं स्यात् । तत्र दृष्टान्तः अम्बुदडम्बरः मेघगर्जनादिकम् अम्बरं गगनं न हि स्पृशति । सदा निर्विकारे गगने मेघो­द­य­ग­र्ज­न­वि­ना­शा­दिना न कोऽपि विशेषः इति ॥५१२॥

श्रीगु­रू­प­दे­शा­नु­सा­रेण जातमद्वैतानुभवं विशदयति अव्य­क्ता­दी­त्या­दिना −

अव्यक्तादि स्थूल­प­र्य­न्त­मे­तद्
विश्वं यत्राभासमात्रं प्रतीतम् ।
व्योमप्रख्यं सूक्ष्म­मा­द्य­न्त­हीनं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१३॥

५१३

स्पष्टम् ॥५१३॥

सर्वाधारं सर्व­व­स्तु­प्र­काशं सर्वाकारं सर्वगं सर्वशून्यम् ।
नित्यं शुद्धं निष्कलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१४॥

५१४

यत्प्रत्यस्ता (यस्मिन्नस्ता) शेषमाया विशेषं
प्रत्यग्रूपं प्रत्य­या­ग­म्य­मा­नम् ।
सत्य­ज्ञा­ना­न­न्त­मा­न­न्द­रूपं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१५॥

५१५

‘तस्य भासा सर्वमिदं विभाति’(मु.उ २.२.१०) इति श्रुतेः सर्वेषां वस्तूनां प्रकाशो यस्मात् तत्स­र्व­व­स्तु­प्र­का­शम् ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) इति श्रुतेः सर्वाकारं सर्वगम् अपरिच्छिन्नं सर्वशून्यं स्वव्य­ति­रि­क्त­स्या­भा­वात् , (यस्मिन्निति अभेदे सप्तमी) अख­ण्डा­का­र­वृ­त्ती­त­र­वृ­त्त्य­वि­षयः इत्यर्थः प्रत्य­या­ग­म्य­मा­न­मि­त्यस्य ॥५१५॥

निष्क्रि­योऽ­स्म्य­वि­का­रोऽस्मि
निष्कलोऽस्मि निराकृतिः ।
निर्वि­क­ल्पोऽस्मि नित्योऽस्मि
निरालम्बोऽस्मि निर्द्वयः ॥५१६॥

५१६

सर्वात्मकोहं सर्वोऽहं सर्वा­ती­तोऽ­ह­म­द्वयः ।
केव­ला­ख­ण्ड­बो­धोऽ­ह­मा­न­न्दोऽहं निरन्तरम् ॥५१७॥

५१७

स्वारा­ज्य­सा­म्रा­ज्य­वि­भू­ति­रेषा
भव­त्कृ­पा­श्री­म­हि­त­प्र­सा­दात् ।
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्तेस्तु पुनर्नमोऽस्तु ॥५१८॥

५१८

महास्वप्ने माया­कृ­त­ज­नि­ज­रा­मृ­त्यु­ग­हने
भ्रमन्तं क्लिश्यन्तं बहु­ल­त­र­ता­पै­र­नु­क­लम् ।
अह­ङ्का­र­व्या­घ्र­व्य­थि­त­मि­म­म­त्य­न्त­कृ­पया
प्रबोध्य प्रस्वा­पा­त्प­र­म­वि­त­वा­न्मा­मसि गुरो ॥५१९॥

५१९

नमस्तस्मै सदेकस्मै नमश्चिन्महसे मुहुः ।
यदे­त­द्वि­श्व­रू­पेण राजते गुरुराज ते ॥५२०॥

५२०