विवेकचूडामणिः सव्याख्यः
३५. शिष्यस्य स्वानुभवकथनम्
कञ्चित्कालं समाधाय परे ब्रह्मणि मानसम् ।
व्युत्थाय परमानन्दादिदं वचनमब्रवीत् ॥४८१॥
बुद्धिर्विनष्टा गलिता प्रवृत्तिः
ब्रह्मात्मनोरेकतयाधिगत्या ।
इदं न जानेप्यनिदं न जाने
किं वा कियद्वा सुखमस्य पारम् ॥४८२॥
ब्रह्मात्मनोरेकतयाधिगत्या साक्षात्कारेण बुद्धिर्विनष्टा, प्रवृत्तिर्गलिता, इदं प्रत्यक्षगतं न जाने अनिदमपि परोक्षमपि न जाने । पूर्वं तथा विभाग आसीत् पुरोवर्ति प्रत्यक्षम् अपरं परोक्षमिति, इदानीं तथा नास्तीति कथनम् । किंवा कियद्वा सुखम् , अस्य पारं किं कियद्वा सुखम् । एतावन्तं कालम् अनुभूतम् अखण्डं सुखम् इति तत्र कालतः देशतः वस्तुतश्च अपरिच्छिन्नत्वं कथयति । इदं न जानेऽप्यनिदं न जाने इत्यनेन वस्तुतः परिच्छेदो नास्तीत्युक्तम् । किं वा कियद्वा सुखमस्य पारमिति कालतो देशतश्च स नास्तीत्युक्तम् ॥४८२॥
वाचा वक्तुमशक्यमेव मनसा मन्तुं न वा शक्यते
स्वानन्दामृतपूरपूरितपरब्रह्माम्बुधेर्वैभवम् ।
अम्भोराशिविशीर्णवार्षिकशिलाभावं भजन् मे मनः
यस्यांशांशलवे विलीनमधुनाऽऽनन्दात्मना निर्वृतम् ॥४८३॥
वार्षिकशिला ‘वर्षोपलस्तु करकः’ इत्यमरः −
क्वगतं केन वा नीतं कुत्र लीनमिदं जगत् ।
अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् ॥४८४॥
किं हेयं किमुपादेयं किन्मयत् किं विलक्षणम् ।
अखण्डानन्दपीयूषपूर्णो ब्रह्ममहार्णवे ॥४८५॥
न किञ्चिदत्र पश्यामि न शृणोमि न वेद्म्यहम् ।
स्वात्मनैव सदानन्दरूपेणास्मि विलक्षणः ॥४८६॥
पञ्चकोशविलक्षण इत्यर्थः ॥४८६॥
प्लुष्टाज्ञानः कृतकृत्यः गुरुं प्रणमिति । नम इति −
नमो नमस्ते गुरवे महात्मने विमुक्तसङ्गाय सदुत्तमाय ।
नित्याद्वयानन्दरसस्वरूपिणे भूम्ने सदापारदयाम्बुधाम्ने ॥४८७॥
भावाद्वैतं सदा कार्यं क्रियाद्वैतं न कुत्रचित् । अद्वैतं त्रिषु लोकेषु नाद्वैतं गुरुणा सह ॥ (तत्त्वोपदेशः ८७)
इत्यनुशासनम् । सदुत्तमाय ब्रह्मविद्वरिष्ठाय, भूम्ने ब्रह्मव्यतिरिक्तविषयकदर्शनश्रवणविज्ञानशून्याय सदा अपरा च सा दया च सैवाम्बु तस्य धाम्ने निक्षेपस्थानाय करुणाजलनिधये ॥४८७॥
यत्कटाक्षशशिसान्द्रचन्द्रिकापातधूतभवतापजश्रमः ।
प्राप्तवानहमखण्डवैभवानन्दमात्मपदमक्षयं क्षणात् ॥४८८॥
निष्कलनिष्क्रियशान्तनिरवद्यनिरञ्जनपरब्रह्मनिर्मग्नमनस्संवलितया शिशिरशिशिराः जगदाह्लादकाः ये कटाक्षाः अमृतझरभङ्गाः अपाङ्गाः त एव शशी तदीया सान्द्रचन्द्रिका । यद्वा त एव शशिसान्द्रचन्द्रिका तस्याः पातेन निरर्गलं प्रसरणेन धूतः तिरस्कृतः संसारतापजश्रमः यस्य मम सः अहम् अखण्डवैभवानन्दं निरतिशयस्वप्रकाशसुखम् अक्षयं शाश्वतम् आत्मपदं विष्णुपरमपदं क्षणात् प्राप्तवान् तस्मै गुरवे महात्मने नमः इति पूर्वेणान्वयः ॥४८८॥
गुरुप्रसादलब्धं स्वानुभवमाविष्करोति −
धन्योऽहं कृतकृत्योऽहं विमुक्तोऽहं भवग्रहात् ।
नित्यानन्दस्वरूपोऽहं पूर्णोऽहं तदनुग्रहात् ॥४८९॥
असङ्गोऽहऽमनङ्गोऽहमलिङ्गोऽहमभङ्गुरः ।
प्रशान्तोऽहमनन्तोऽहमतान्तोऽहं चिरन्तनः ॥४९०॥
अतान्तः अश्रान्तः इत्यर्थः ॥४९०॥
अकर्ताहमभोक्ताहमविकारोऽहमक्रियः ।
शुद्धबोधस्वरूपोऽहं केवलोऽहं सदाशिवः ॥४९१॥
द्रष्टुः श्रोतुर्वक्तुः कर्तुर्भोक्तुर्विभिन्न एवाहम् ।
नित्यनिरन्तरनिष्क्रियनिस्सीमासङ्गपूर्णबोधात्मा ॥४९२॥
नाहमिदं नाहमदोऽप्युभयोरवभासकं परं शुद्धम् ।
बाह्याभ्यन्तरशून्यं पूर्णं ब्रह्माद्वितीयमेवाहम् ॥४९३॥
सर्वोपाधिसम्बन्धविनिर्मुक्त इत्यर्थः । त्रिविधपरिच्छेदशून्ये कुतो वा बाह्याभ्यन्तरकल्पना, शरीरदृष्ट्या सा नात्मदृष्टया ॥४९३॥
निरुपममनादितत्त्वं त्वमहमिदमद इति कल्पनादूरम् ।
नित्यानन्दैकरसं सत्यं ब्रह्माद्वितीयमेवाहम् ॥४९४॥
नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः ।
अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहं च निर्ममः ॥४९५॥
अहन्ताममताशून्य इत्यर्थः । ‘अत एव चानन्याधिपतिः’ इति ब्रह्मसूत्रम् (४.४.९) ॥४९५॥
सर्वेषु भूतेष्वहमेव संस्थितः
ज्ञाना(त्रा)त्मनान्तर्बहिराश्रयः सन् ।
भोक्ता च भोग्यं स्वयमेव सर्वं
(य)तद्यत्पृथग्दृष्टमिदन्तया पुरा ॥४९६॥
सर्वेषु भूतेषु वियदादिषु अन्तर्बहिराश्रयः सन् ज्ञाना(त्रा)त्मना अहमेव संस्थितः स्वोपाध्यन्तःकरणवृत्त्या व्याप्य हि सर्वं जानाति, ज्ञानकाले सर्वस्यापि अन्तःकरणावच्छिन्नचैतन्यरूपप्रमात्रभिन्नस्वावच्छिन्नचैतन्याध्यस्ततया अधिष्ठानं सर्वस्य स्वयमेवेति भावः नाधिष्ठानाद् भिन्नतारोपितस्येति भोक्ता च भोग्यं शब्दादि स्वयमेव सर्वं पुरा यद्यत् पृथक् पृथक् दृष्टं तत्सत्तास्फूर्तिव्यतिरिक्तसत्तास्फूर्तिकत्वाभावात् शुक्तिरजतरज्जुसर्पादिवत् ॥४९६॥
मय्यखण्डसुखाम्भोधौ बहुधा विश्ववीचयः ।
उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् ॥४९७॥
स्वात्मनिरूपणे −
मयि सुखबोधपयोधौ महति ब्रह्माण्डबुद्बुदसहस्रम् । मायामयेन मरुता भूत्वा भूत्वा मुहुस्तिरोधत्ते ॥ (स.सं. ९२९)
इति स्पष्टम् ॥४९७॥
स्थूलादिभावा मयि कल्पिता भ्रमात्
आरोपितानुस्फुरणेन लोकैः ।
काले यथा कल्पकवत्सरायन-
र्त्वादयो निष्कलनिर्विकल्पे ॥४९८॥
‘अष्टादशनिमेषास्तु काष्ठा त्रिंशत्तु ताः कला’(अ.को.) इत्यादिना अखण्डे एककाले निष्कले निरवयवे निर्विकल्पे कलाकाष्ठादिपरिणामरहिते यथा लोकैः क्षणदिनमासर्त्वयनसंवत्सरकल्पादिभेदाः कल्पिताः, तथा आरोपितानुस्फुरणेन कल्पितस्फूर्तिमात्रेण स्थूलादिभावाः स्थूलसूक्ष्मकारणशरीररूपपदार्थाः भ्रमात् मयि कल्पिताः लोकैः इत्यन्वयः । नहि नादबिन्दुकलातीतः कालं वा तद्भेदान् वा पश्यति तद्वत् देशकालवस्तुपरिच्छेदशून्यं भूमानं पश्यतो मम समूलकाषं कषिताज्ञानस्य नारोपितानुस्फुरणं भ्रान्त्यभावादिति भावः ॥४९८॥
आरोपितं नाश्रयदूषकं भवेत्
कदापि मूढैर्मतिदोषदूषितैः ।
नार्द्रीकरोत्यूषरभूमिभागं
मरीचिकावारिमहाप्रवाहः ॥४९९॥
मतिदोषदूषितैः मूढैरारोपितम् आश्रयदूषकं निरधिष्ठानभ्रमायोगात् आश्रयस्य स्वाधिष्ठानस्य दोषावहं कदापि न भवेत् । उक्तं हि अध्यासभाष्ये ‘तत्रैवं सति यत्र यदध्यासः तत्कृतेन गुणेन दोषेण वा अणुमात्रेणापि स न सम्बध्यते’ इति । तद् दृष्टान्तेन स्फुटयति नेति । मरीचिकावारिमहाप्रवाहः ऊषरभूमिभागं नार्द्रीकरोतीति । ऊषरभूमिभागः मरीचिकावारिमहाप्रवाहकल्पनाश्रयः ॥४९९॥
आकाशवत् कल्पविदूरगोऽहं
आदित्यवद् भास्यविलक्षणोऽहम् ।
अहार्यवन्नित्यविनिश्चलोऽहम्
अम्भोधिवत् पारविवर्जितोऽहम् ॥५००॥
‘आकाशवत् सर्वगतश्च नित्यः’(श.ब्रा. १०.६.३) इत्यादिश्रुतेरर्थः अनुभूत इति अनुभवप्रकाशनमिदम् । कल्पविदूरगः कालापरिच्छिन्नः । ‘स्वयञ्ज्योतिः’(बृ.उ. ४.३.९) श्रुत्यर्थमाह आदित्यवत् भास्यविलक्षणोऽहम् अहार्यवत् पर्वतवत् नित्यविनिश्चलोऽहम् । अम्भोधिवत् पारविवर्जितोऽहम् ॥५००॥
न मे देहेन सम्बन्धो मेघेनेव विहायसः ।
अतः कुतो मे तद्धर्माः जाग्रत्स्वप्नसुषुप्तयः ॥५०१॥
विहायसः आकाशस्य मेघेन यथा सम्बन्धो नास्ति, ‘धूमज्योतिस्सलिलमरुतां सन्निपातः क्व मेघः’(मे.दू. ५) इति कालिदासोक्तेः पृथ्वीजलतेजोवायुसङ्घातरूपेण मेघेन यथाकाशं न संसृज्यते नवा नीरवर्षणेन आर्द्रीक्रियते निर्लिप्तस्वभावत्वात् अमूर्तत्वात् एवं मे मम आत्मनः पाञ्चभौतिकेनापि देहेन सम्बन्धः नास्ति उक्तहेतोरेव । अतः धर्मिसम्बन्धाभावात् तद्धर्माः जाग्रत्स्वप्नसुषुप्तयः मे कुतः इत्यन्वयः ॥५०१॥
उपाधिरायाति स एव गच्छति
स एव कर्माणि करोति भुङ्क्ते ।
स एव जीवन् म्रियते सदाहं
कुलाद्रिवन्निश्चल एव संस्थितः ॥५०२॥
न मे प्रवृत्तिर्नच मे निवृत्तिः
सदैकरूपस्य निरङ्कुशस्य ।
एकात्मको यो निबिडो निरन्तरो
व्योमेव पूर्णः स कथं नु चेष्टते ॥५०३॥
‘उत्क्रान्तिगत्यागतीनां’(ब्र.सू. २.३.१) ‘तद्गुणसारत्वात्तद्व्यपदेशः प्राज्ञवत्’(ब्र, सू.२.३.२९) ‘कर्ता शास्त्रार्थवत्त्वात्’(ब्र.सू. २.३.३३) ‘यथा च तक्षोभयथा’(ब्र.सू. २.३.४०) ‘चराचरव्यपाश्रयस्तु स्यात्तद्व्यपदेशो भाक्तस्तद्भावभावित्वात्’(ब्र.सू. २.३.१६) इति क्रमेण तत्र तत्र सूत्राणि । सदाहं कुलाद्रिवन्निश्चल एव संस्थितः प्रवृत्तिनिवृत्त्योः यौगपद्ये वा क्रमिकत्वे वा एकरूपत्वं न सम्भवति, निरंशकस्य निरवयवस्य विक्रियासम्भवश्च । तदुपपादयति एकात्मको यो निबिडः सान्द्रः, निरन्तरः निरवकाशः व्योमेव गगनमिव पूर्णः स कथं नु चेष्टते ॥५०३॥
पुण्यानि पापानि निरिन्द्रियस्य
निश्चेतसो निर्विकृतेर्निराकृतेः ।
कुतो ममाखण्डसुखानुभूतेः
ब्रूते ह्यनन्वागतमित्यपि श्रुतिः ॥५०४॥
विहितकर्मजन्यं पुण्यम् , निषिद्धकर्मजन्यं पापम् , कर्म च त्रिविधं शारीरं मानसं वाचिकं चेति, उक्तं च गीतासु −
शरीरवाङ्मनोभिर्यत् कर्म प्रारभते नरः । न्याय्यं वा विपरीतं वा (भ.गी. १८.१५) इति ।
महानदीस्नानदेवब्राह्मणप्रदक्षिणादीनि शारीराणि पुण्यानि, महामन्त्रजपभगवन्नामसङ्कीर्तनतद्गुणकथनादीनि वाचिकानि पुण्यानि, ईश्वरध्यानस्वपरहितचिन्तनादीनि मानसानि पुण्यानि । अगम्यागमनपरनिन्दानृतवदननिषिद्धध्यानादीनि क्रमेण शरीरवाङ्मनोजन्यानि पापानि । उक्तं हि −
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् ॥ (म.स्मृ. १२.९)
इति । वाक्पदं चक्षुश्श्रोत्राद्युपलक्षकम् । यद्वा वाक्पदेन कर्म साधनानीन्द्रियाणि, मनः पदेन ज्ञानसाधनानि चक्षुरादीन्द्रियाणि गृह्यन्ते । सदसत्करणदर्शनश्रवणादीनि तत्तत्पुण्यपापानि । एतत्सर्वमिन्द्रियाणां चेतसो वा साकारस्य शरीरस्य वा स्थूलस्य । निरिन्द्रियस्य ‘न तस्य कार्यं करणं च विद्यते’(श्वे.उ. ६.८) इति श्रुतेः । ‘सचक्षुरचक्षुरिव सकर्णोऽकर्ण इव समना अमना इव सप्राणोऽप्राण इवेति’ च । वस्तुतः अचक्षुरपि परदृष्ट्या सचक्षुरिव जीवन्मुक्तः आध्यासिकसम्बन्धरहिततया तिष्ठतीति तदर्थः । तथाच सेन्द्रियत्वं समनस्त्वं सशरीरत्वं च मिथ्याज्ञाननिबन्धनम् आभिमानिकतादात्म्यसम्बन्धेन तत्तद्विशिष्टत्वमेव । ब्रह्मसाक्षात्कारदग्धाज्ञानस्य कुतः अभिमानः कुतस्तरां तादात्म्यम् । तस्मात् निरिन्द्रियस्य निश्चेतसः निराकृतेः इति पदत्रयेण वाङ्मनश्शरीररूपपुण्यपापसाधनरहितत्वं कथितम् । तार्किकाः आत्मन एव पुण्यं पापं च वदन्ति । निर्विकृतेरित्यनेन विहितनिषिद्धकर्मजन्ययोः पुण्यपापयोः विकारतया नित्यस्यानित्यधर्माश्रयत्वे अनित्यत्वप्रसङ्गात् विकृतिशून्य आत्मा उक्तः । उक्तं हि श्रुतिसारसमुद्धरणे तोटकाचार्यैः − ‘न हि नित्यमनित्यगुणेन गुणि’(२५) इति । वियदधिकरणभाष्ये (ब्र.सू. २.३.१) च अनित्यशब्दाश्रयत्वेन गगनस्यानित्यत्वम् इति । तथाच स्वतो निर्विकारतया मूलाज्ञाननाशेन शरीरेन्द्रियचेतोरूपोपाधिसम्बन्धाभावाच्च अखण्डसुखानुभूतेः अनावृतापरिच्छिन्नस्वयम्प्रकाशानन्दस्वरूपस्य मम कुतः पुण्यानि कुतस्तरां पापानि । तत्र श्रुतिं प्रमाणयति ‘ब्रूते ह्यनन्वागतमित्यपि श्रुतिः’ इति । ‘अनन्वागतं पुण्येन अनन्वागतं पापेन तीर्णो हि सदा सर्वान् शोकान् हृदयस्य भवति’(बृ.उ. ४.३.२२) इति सुषुप्तिकाले मूलाज्ञानसत्त्वेऽपि तत्कार्याध्यासाभावात् पुण्यपापास्पृष्टत्वं हृदयगतसकलशोकास्पृष्टत्वं च बोधितम् । तथा सर्वैरनुभूयते च । सम्प्रति कारणाज्ञानस्यापि नाशात् पुण्यपापदुःखसम्बन्धः सुतरां नास्तीति ‘को मोहः कः शोकः’(ई.उ. ७) इति श्रुताविव कुतश्शब्देन तेषाम् अभावः आक्षेपेण बोधितः । यदि पुण्यपापदुःखानाम् आत्मधर्मत्वं सुषुप्तावपि तदन्वयः स्यात् । तदा स्वरूपसुखानुभवः, न तु पुण्यफलं परिन्छिन्नं सुखमनुभूयते । तस्य सुखस्य विषयसम्बन्धाजनितत्वात् । तदा दुःखं तु नैवास्ति ‘एषोऽस्य परम आनन्दः’(बृ.उ. ४.३.२२) इति श्रुतेःअनुभवाच्च । ततः पापानन्वयः । हृदयस्य शोकान् इत्यनेन शोकशब्दितदुःखस्य आत्मधर्मत्वं नास्तीति कथितं भवति । जाग्रत्स्वप्नयोरध्यासात् ते कल्प्यन्ते स्म, इदानीं तदभावात् कल्पना नास्तीति श्रुत्यर्थः ॥५०४॥
उक्तमर्थं दृष्टान्तेन विशदयति द्वाभ्याम् −
छायया स्पृष्टमुष्णं वा शीतं वा सुष्ठु दुष्ठु वा ।
न स्पृशत्येव यत्किञ्चित् पुरुषं तद्विलक्षणम् ॥५०५॥
स्वशरीरच्छायायाः जलाग्न्यादिसम्बन्धे सदसद्वस्तुसम्बन्धे वा शरीरस्य यथा शीतोष्णादिसम्बन्धो नास्ति एवं बुद्धौ प्रतिफलतः जीवस्य उपाधेः प्रतिबिम्बपक्षपातित्वात् तद्धर्मपुण्यसुखादिसम्बन्धेऽपि अज्ञाननाशेन जीवत्वविगमानन्तरं तत् विलक्षणं बिम्बभूतं पूर्णत्वात् पुरुषं यत्किञ्चिदपि न स्पृशति । छायापर्याये पुरुषशब्देन शरीरं ग्राह्यम् । तद्विलक्षणं छायाविलक्षणम् । न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति कदाचन ॥५०५॥
अविकारमुदासीनं गृहधर्माः प्रदीपवत् ।
देहेन्द्रियमनोधर्माः नैवात्मानं स्पृशन्त्यहो ॥५०६॥
गृहधर्माः गृहप्रकाशकं प्रदीपं यथा न संस्पृशन्ति, एवं साक्ष्यधर्माः दृश्यबुद्धीन्द्रियशरीरधर्माः विलक्षणं कदाचन दृग्रूपं स्वयम्प्रकाशम् अविकारम् उदासीनं साक्षिणं न संस्पृशन्ति । देहेन्द्रियमनोधर्माः नैवात्मानम् अविकारमुदासीनं स्पृशन्तीति प्रदीपदृष्टान्तेन पुण्यानि पापानीत्यादिश्लोकार्थो विवृतः ॥५०६॥
त्रिभिः दृष्टान्तैः आत्मनोऽसङ्गतां प्रतिपादयति रवेरिति −
रवेर्यथा कर्मणि साक्षिभावो
वह्नेर्यथा वाऽयसि दाहकत्वम् ।
रज्जोर्यथाऽऽरोपितवस्तुसङ्गः
तथैव कूटस्थचिदात्मनो मे ॥५०७॥
कर्मसाक्षि जगच्चक्षुरिति प्रसिद्ध्या सकलप्राणिकर्मसाक्षित्वं तादृशकर्मसङ्गिनो रवेर्यथा तथा कूटस्थचिदात्मनो मे निर्विकारचिद्रूपस्य मम सकलकर्मासङ्गिनः साक्षित्वम् । एवं वह्नेर्दाहकत्वम् अयो दहतीति यथा अयसि कल्पितम् एवं बुद्ध्यादिगतं कर्तृत्वं मयि । एवं रज्जोः कल्पितसर्पदण्डोदधारादिवस्तुसङ्गः तादात्म्यरूपः यथा कल्पितः तथा निर्विकारचिद्रूपस्य मम कल्पितदेहादिसम्बन्धः । वस्तुतः असङ्गत्वं दृष्टान्तत्रयेऽपि ॥५०७॥
स्वस्यानुभवान्निर्धर्मकत्वमाह कर्तेति −
कर्तापि वा कारयितापि नाहं
भोक्तापि वा भोजयितापि नाहम् ।
द्रष्टापि वा दर्शयितापि नाहं
सोऽहं स्वयञ्ज्योतिरनीदृगात्मा ॥५०८॥
‘विज्ञानं यज्ञं तनुते’(तै.उ. २.५) , ‘एष ह्येव साधु कर्म कारयति’(कौ.उ. ३.९) इति श्रुत्या बुद्ध्युपहितस्य मायोपहितस्य च क्रमेण कर्तृत्वं कारयितृत्वम् एवं भोक्तृत्वं भोजयितृत्वं च । द्रष्टृत्वस्यापि दृश्यसापेक्षत्वात् अद्वितीये तदपि कल्पितमेव वस्तुतो नास्ति । चक्षुरादिप्रेरकत्वमपि व्यवहारावस्थायामेव न वस्तुतः । अतः दर्शयितापि नाहम् , सोऽहम् अनीदृक् सकलधर्मवर्जितः ‘साक्षी चेता केवलो निर्गुणश्च’(श्वे.उ. ६.११) इति श्रुतेः । स्वयञ्ज्योतिः अनन्याधीनस्फुरणः आत्मा ॥५०८॥
चलत्युपाधौ प्रतिबिम्बलौल्यम्
औपाधिकं मूढधियो नयन्ति ।
स्वबिम्बभूतं रविवद्विनिष्क्रियं
कर्तास्मि भोक्तास्मि हतोऽस्मि हेति ॥५०९॥
‘ध्यायतीव लेलायतीव’(बृ.उ. ४.३.७) इति श्रुतिः । बुद्धिशरीराद्युपाधिधर्मान् भ्रान्त्या मूढधियः विनिष्क्रिये रवौ बिम्बभूते यथा चलति जले, तत्र उपाधौ भासमानरविप्रतिबिम्बे प्रतीयमानं चलनं नयन्ति कल्पयन्ति रविश्चलतीति तथा उपाधौ बुद्ध्यादौ चलति औपाधिकं तन्निमित्तं तत्र प्रतिबिम्बभूतजीवलौल्यं विनिष्क्रियं स्वबिम्बभूतम् आत्मानं कर्तास्मि भोक्तास्मीति बुद्धितादात्म्याध्यासात् हतोऽस्मीति स्थूलदेहतादात्म्याध्यासात् नयन्ति । प्रतिबिम्बेऽपि उपाधिधर्माः भ्रान्तिसिद्धाः बिम्बे सुतरां न सन्ति । तथापि मूढधियः नयन्ति । अतः श्रुत्या युक्त्या अनुभवेन च सिद्धनिर्गुणत्वस्य न कोऽपि विरोधः ॥५०९॥
घटाकाशदृष्टान्तेन स्थूलदेहधर्माः नात्मन इत्याह जल इति −
जले वापि स्थले वापि लुठत्येष जडात्मकः ।
नाहं विलिप्ये तद्धर्मैः घटधर्मैर्नभो यथा ॥५१०॥
जडात्मकः एष देहः जले वापि स्थले वापि लुठतु । नभः आकाशः यथा घटधर्मैः अनित्यत्वादिभिः पृथुबुध्नोदराद्याकारैः नीलादिरूपैश्च न लिप्यते तथा तद्धर्मैः स्थूलदेहधर्मैः जलस्थलादिसम्बन्धप्रयुक्तशैत्याभिघातादिभिः नाहं विलिप्ये जरामरणादिभिश्च ॥५१०॥
कर्तृत्वभोक्तृत्वखलत्वमत्तता-
जडत्वबद्धत्वविमुक्ततादयः ।
बुद्धेर्विकल्पा न तु सन्ति वस्तुतः
स्वस्मिन्परे ब्रह्मणि केवलेऽद्वये ॥५११॥
केवलेऽद्वये परे ब्रह्मणि स्वस्मिन् कर्तृत्वादिविमुक्ततान्ताः बुद्ध्यध्यासनिबन्धनाः विविधकल्पनाः वस्तुतो न सन्ति ॥५११॥
सन्तु विकाराः प्रकृतेर्दशधा शतधा सहस्रधा वापि ।
तैः किं मेऽसङ्गचितेः न ह्यम्बुदडम्बरोऽम्बरं स्पृशति ॥५१२॥
सर्वस्य प्रपञ्चस्य मूलप्रकृतेः सकाशात् साक्षात्परम्परया जातत्वात् मूलप्रकृतेः मायायाः विकाराः दशधा शतधा सहस्रधा वापि सन्तु । असङ्गचितेः मे तैः विकारैः किं स्यात् । तत्र दृष्टान्तः अम्बुदडम्बरः मेघगर्जनादिकम् अम्बरं गगनं न हि स्पृशति । सदा निर्विकारे गगने मेघोदयगर्जनविनाशादिना न कोऽपि विशेषः इति ॥५१२॥
श्रीगुरूपदेशानुसारेण जातमद्वैतानुभवं विशदयति अव्यक्तादीत्यादिना −
अव्यक्तादि स्थूलपर्यन्तमेतद्
विश्वं यत्राभासमात्रं प्रतीतम् ।
व्योमप्रख्यं सूक्ष्ममाद्यन्तहीनं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१३॥
स्पष्टम् ॥५१३॥
सर्वाधारं सर्ववस्तुप्रकाशं सर्वाकारं सर्वगं सर्वशून्यम् ।
नित्यं शुद्धं निष्कलं निर्विकल्पं ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१४॥
यत्प्रत्यस्ता (यस्मिन्नस्ता) शेषमाया विशेषं
प्रत्यग्रूपं प्रत्ययागम्यमानम् ।
सत्यज्ञानानन्तमानन्दरूपं
ब्रह्माद्वैतं यत्तदेवाहमस्मि ॥५१५॥
‘तस्य भासा सर्वमिदं विभाति’(मु.उ २.२.१०) इति श्रुतेः सर्वेषां वस्तूनां प्रकाशो यस्मात् तत्सर्ववस्तुप्रकाशम् ‘इदं सर्वं यदयमात्मा’(बृ.उ. ३.४.६) इति श्रुतेः सर्वाकारं सर्वगम् अपरिच्छिन्नं सर्वशून्यं स्वव्यतिरिक्तस्याभावात् , (यस्मिन्निति अभेदे सप्तमी) अखण्डाकारवृत्तीतरवृत्त्यविषयः इत्यर्थः प्रत्ययागम्यमानमित्यस्य ॥५१५॥
निष्क्रियोऽस्म्यविकारोऽस्मि
निष्कलोऽस्मि निराकृतिः ।
निर्विकल्पोऽस्मि नित्योऽस्मि
निरालम्बोऽस्मि निर्द्वयः ॥५१६॥
सर्वात्मकोहं सर्वोऽहं सर्वातीतोऽहमद्वयः ।
केवलाखण्डबोधोऽहमानन्दोऽहं निरन्तरम् ॥५१७॥
स्वाराज्यसाम्राज्यविभूतिरेषा
भवत्कृपाश्रीमहितप्रसादात् ।
प्राप्ता मया श्रीगुरवे महात्मने
नमो नमस्तेस्तु पुनर्नमोऽस्तु ॥५१८॥
महास्वप्ने मायाकृतजनिजरामृत्युगहने
भ्रमन्तं क्लिश्यन्तं बहुलतरतापैरनुकलम् ।
अहङ्कारव्याघ्रव्यथितमिममत्यन्तकृपया
प्रबोध्य प्रस्वापात्परमवितवान्मामसि गुरो ॥५१९॥
नमस्तस्मै सदेकस्मै नमश्चिन्महसे मुहुः ।
यदेतद्विश्वरूपेण राजते गुरुराज ते ॥५२०॥