अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

३८. शरीरपातः

यत्र क्वापि विशीर्णं सत् पर्णमिव तरोर्वपुः पतनात् ।
ब्रह्मीभूतस्य यतेः प्रागेव हि तच्चिदग्निना दग्धम् ॥५५७॥

५५७

सदात्मनि ब्रह्मणि तिष्ठतो मुनेः
पूर्णा­द्व­या­न­न्द­म­या­त्मना सदा ।
न देश­का­ला­द्यु­चि­त­प्र­तीक्षा
त्वङ्मां­स­वि­त्पि­ण्ड­वि­स­र्ज­नाय ॥५५८॥

५५८

देहस्य मोक्षो नो मोक्षो न दण्डस्य कमण्डलोः ।
अविद्या हृद­य­ग्र­न्थि­मोक्षो मोक्षो यतस्ततः ॥५५९॥

५५९

कुल्यायामथ नद्यां वा शिवक्षेत्रेऽपि चत्वरे ।
पर्णं पतति चेत्तेन तरोः किं नु शुभाशुभम् ॥५६०॥

५६०

पत्रस्य पुष्पस्य फलस्य नाशवद्
देहे­न्द्रि­य­प्रा­ण­धियां विनाशः ।
नैवात्मनः स्वस्य सदात्मकस्या-
नन्दा­कृ­ते­र्वृ­क्ष­व­दास्त एषः ॥५६१॥

५६१

प्रज्ञानघन इत्यात्मलक्षणं सत्यसूचकम् ।
अनू­द्यौ­पा­धि­क­स्यैव कथयन्ति विनाशनम् ॥५६२॥

५६२

अविनाशी वा अरेऽयमात्मेति श्रुतिरात्मनः ।
प्रब्र­वी­त्य­वि­ना­शित्वं विनश्यत्सु विकारिषु ॥५६३॥

५६३