विवेकचूडामणिः सव्याख्यः
४. मुक्त्यर्थो यत्नविशेषः
अतो विमुक्त्यै प्रयतेत विद्वान्
संन्यस्तबाह्यार्थसुखस्पृहः सन् ।
सन्तं महान्तं समुपेत्य देशिकं
तेनोपदिष्टार्थसमाहितात्मा ॥८॥
विद्वानिति नित्यानित्यविवेकी कथितः ।
ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ (भ.गी. ५.२२)
इति गीतासु बुधशब्देनार्थस्यास्य सूचितत्वात् । वैषयिकसुखस्य अनित्यत्वं द्योतयति बाह्यार्थेति । अर्थानां बाह्यत्वेन आगन्तुकतया सार्वदिकत्वाभावात् तत्प्रयोज्यसुखाविर्भावस्यापि तादृशत्वमिति । अतो विवेकिना पुरुषधौरेयेण तत्र स्पृहा त्यक्तव्येति प्रयत्नप्रकारं प्रथममाह संन्यस्तबाह्यार्थसुखस्पृहः सन्निति ।
बाह्याश्च ते अर्थाश्च बाह्यार्थाः, तैः सुखं बाह्यार्थसुखम् , तस्मिन् स्पृहा बाह्यार्थसुखस्पृहा संन्यस्ता येन इति ऐहिकामुष्मिकफलभोगविरागः कथितः । तेन श्रुतिस्मृत्युक्तकर्मणां निष्कामानुष्ठानेन नितान्तनिर्मलीकृतस्वान्तत्वमुक्तप्रायम् । अविवेकिनः विषयलम्पटस्य अस्तित्वमपि दुर्लभमिति सूचयति – सन्निति । ‘आचार्यवान्पुरुषो वेद’(छा.उ. ६.१४.२) ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्’(छा.उ. ४.९.३) इति श्रुतेः अतीन्द्रियस्य आत्मैक्यस्य गुरुं विनाऽधिगन्तुमशक्यत्वात् पूर्वोक्तरीत्या महापुरुषसंश्रयः कर्तव्य इत्याह – सन्तम् इत्यादिना । अस्तीति सन् , तमित्यर्थः| ‘अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुः’(तै.उ. २.६) ‘सदेव सौम्येदमग्र आसीत्’(छा.उ. ६.२.१) ‘यो वै भूमा तदमृतम्’(छा.उ. ७.२४.१) ‘अतोऽन्यदार्तम्’(बृ.उ. ३.४.२) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) ,
नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ॥ (भ.गी. २.१६) −
इत्यादिश्रुतिस्मृतिभ्यः कालत्रयाबाध्यत्वरूपास्तित्वस्य ब्रह्मण्येव सत्त्वात् । देशिकस्य तथात्वं, ‘ब्रह्मविद्ब्रह्मैव भवति’(मु.उ. ३.२.९) इति श्रुत्या तदभिन्नत्वात् । तेन असद्भ्योऽनात्मभ्यः सुतरां निवृत्ताभिमानत्वरूपा ब्रह्मनिष्ठा सूचिता भवति । ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’(मु.उ. १.२.१२) , ‘अनन्यप्रोक्ते गतिरत्र नास्ति अणीयान्ह्यतर्क्यमणुप्रमाणात्’(क.उ. २.८) इत्यादिश्रुतिभ्यः तादृशादेव गुरोः संशयभावनादिविरहितशुद्धात्मबोधस्य सम्भवात् ।
युक्तं ह्येतत् – लोकेऽप्यस्माभिरदृष्टो मार्गः दृष्टतन्मार्गैः किल बोधनीयः, स्वयमेव कथञ्चिल्लब्धोऽपि, संशयः दृष्टतत्त्वैः किल निरसनीयो भवति । तत्र शुकजनकसंवादः प्रमाणम् । जन्मान्तरकृतसुकृतपरिपाकवशात् स्वयं ज्ञातज्ञेयोऽपि पित्रानुशिष्टोऽपि महानुभविनो जनकस्य वैदेहस्य वचनात्किल ब्रह्मणि विश्रान्तमानसोऽभूच्छुक इति हि वासिष्ठादौ स्मर्यते । तथा च सद्रूपब्रह्माभिन्नत्वात् सद्रूपत्वं देशिकस्य । अत एव महत्त्वम् । विवेचितकोशपञ्चकत्वात् अपरिच्छिन्नत्वम् । यद्वा – शास्त्रोक्तसमस्तसद्गुणमण्डितत्वम् । वक्ष्यते हि –
श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः । ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः । अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥ (श्लो. ३४-३५)
इत्यादिगुणजातम् ।
शिष्येभ्यो ज्ञानं दिशतीति देशिकः, तं समुपेत्य यथाविधि उपसद्य तेन गुरुणा उपदिष्टो योऽर्थः ब्रह्मरूपः तत्प्राप्तिप्रकाररूपश्च, तत्रैव सम्यगाहितः आत्मा अन्तःकरणं येन तादृशः सन् विमुक्त्यै प्रयतेत इत्यनेन मुक्तीच्छां विना तत्र प्रयत्नासम्भवात् मुमुक्षुत्वं ध्वनितम् । उपदिष्टार्थसमाहितात्मेत्यनेन सततं ब्रह्मसमाहितमानसत्वस्य सर्वकर्मसंन्यासं विनाऽसम्भवाद्विवेकिना विरक्तेन स्वरूपतः सकलकर्मसंन्यासपुरस्सरं ब्रह्मनिष्ठं गुरुमुपसद्य सर्वदा ब्रह्मविचारः कर्तव्य इत्युक्तं भवति ॥८॥
सङ्ग्रहेणोक्तमर्थं सप्तभिः श्लोकैः विवृणोति । तत्र मुक्त्यर्थं क्रियमाणप्रयत्नस्य सम्यग्दर्शननिष्ठान्तत्वात् , मोक्षसाक्षात्साधनं सम्यग्दर्शननिष्ठां तत्र मुख्यहेतुं परवैराग्यापरपर्यायं योगारूढत्वं चाह अनेन श्लोकेन –
उद्धरेदात्मनात्मानं मग्नं संसारवारिधौ ।
योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया ॥९॥
यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते । सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ॥ (भ.गी. ६.४)
इति भगवद्वचनात् । परवैराग्यपुरस्सरसम्यग्दर्शननिष्ठैव संसाराब्धिपतितात्मोद्धरणे हेतुरिति भावः ।
क्लेशादिपञ्चकतरङ्गयुतं भ्रमाढ्यं दारात्मजाप्तधनबन्धुझषाभियुक्तम् । और्वानलाभनिजरोषमनङ्गजालं संसारसागरमतीत्य हरिं व्रजामि ॥ (अ.रा.यु. १०.६१)
संसारसागरविशालकरालकालनक्रग्रहग्रसितनिग्रहविग्रहस्य । व्यग्रस्य रागनिचयोर्मिनिपीडितस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ (नृ.क.स्तो. ९)
इत्यादिरीत्या अविद्यातद्विलासरूपस्य संसारस्य सम्यग्ज्ञानं विना दुस्तरत्वाद् वारिधित्वेन रूपणम् । न ह्यनात्मानं देहमात्मत्वेन मन्वानस्य तस्मिन् जायमाने म्रियमाणे वा तद्गतधर्मः स्वस्मिन्नास्तीति विज्ञातुं शक्यं, क्षुत्पिपासायुते वा प्राणे, सुखिनि दुःखिनि वाऽन्तःकरणे । एवमविद्यास्मितारागद्वेषाभिनिवेशानां सन्ततत्वात् क्लेशादिपञ्चकस्य तरङ्गतया रूपणम् , भ्रम एव भ्रमः अतस्मिंस्तद्बुद्धिरेव आवर्तः इत्यादि स्पष्टम् । अनाद्यविद्यावशात् ‘अज्ञः कर्ता मनुष्योऽहम्’ इत्यादिरीत्या स्थूलसूक्ष्मकारणशरीरेषु अनात्मसु अहमिति स्वरूपाप्राप्त्या स्थितिरेव संसारवारिधिमग्नत्वमसङ्गसच्चिदानन्दरूपस्यात्मनः । तत्रापि सुषुप्तौ संसाराननुभवात् अविवेकिमनोरूपोपाधिमूलकत्वमेव वक्तव्यं संसारस्य । श्रूयते हि –
मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ इति । (ब्र.बिं. २)
अतः विवेचनशून्यस्य मनसः शरीरादिसंसक्तत्वम् आत्मनः संसारवारिधिमग्नत्वम् ।
अतः श्रवणमननादिशास्त्रीयसंस्कारसंस्कृतं मनो यदा भवति तदा भ्रमशून्यम् आत्मयाथात्म्यज्ञानावाप्त्या भवतीति, अविवेकिमनः शास्त्रजन्यविवेकवता मनसा उद्धरेत् अनात्मभ्योऽपनयेत् । तथा च तस्मिन् पराङ्मुखत्वस्वाभाव्यात् बाह्येषु शरीरादिषु सक्ते वस्तुतोऽसङ्गस्यापि लोहितस्फटिकवत् संसक्तस्येव भासमानस्य आत्मनः उपाधेरनात्मसम्बन्धाभावे प्रत्यङ्मुखतयाऽऽत्ममात्रसंस्थत्वे च आत्मा उद्धृत इव भवतीति भावः । संसारवारिधौ मग्नमात्मानं योगारूढत्वमासाद्य सम्यग्दर्शननिष्ठया आत्मना उद्धरेदित्यन्वयः ॥ ९॥
योगारूढत्वं विशदयन्नेव श्रवणमनननिदिध्यासनानि संन्यासोत्तरकालिकानि सम्यग्दर्शननिष्ठावाप्तिसाधनानि तावदाह संन्यस्येत्यादिना –
संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।
यत्यतां पण्डितैर्धीरैः आत्माभ्यास उपस्थितैः ॥ १०॥
सर्वकर्माणि संन्यस्य कर्मकाण्डोक्तानि स्वरूपतोऽपि परित्यज्य भवबन्धविमुक्तये सांसारिकबन्धनिवृत्तिहेतुभूतसम्यग्दर्शननिष्ठायै, पण्डितैः आत्मविषयकपरोक्षज्ञानवद्भिः, धीरैः वशीकृतबुद्धिभिः –
पराञ्चि खानि व्यतृणत् स्वयम्भूः तस्मात् पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्यगात्मानमैक्षत् आवृत्तचक्षुरमृतत्वमिच्छन् ॥ (क.उ. ४.१)
इति श्रुतेः । धियं रातीति धीरः, प्रधानभूतां कार्यकरणसङ्घातमध्ये बुद्धिं वशयतीत्युक्ते इतरेन्द्रियजयः अर्थसिद्धः । एतेन शान्त्याद्युपेतत्वं सूचितं भवति । अत एव आत्माभ्यासे –
तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ (पं.द. ७.१०६)
इत्यभियुक्तोक्तिरीत्या अनन्यव्यापारतया श्रुतार्थमननतत्कथनपरस्परप्रबोधनरूपज्ञानकाण्डोक्तव्यापारेषूपस्थितैर्वर्तमानैः, विजातीयप्रत्ययातिरस्कृतसजातीयप्रत्ययप्रवाहरूपनिदिध्यासनानुष्ठानेन यत्यतामित्यन्वयः । एतादृशस्य पुंसः सर्वसङ्कल्पसंन्यासेन परवैराग्यापरपर्यायं योगारूढत्वं सिद्धमेव मन्तव्यम् ॥१०॥
ननु ‘यावज्जीवमग्निहोत्रं जुहुयात्’(पू.मी. ६.२.७) ‘यावज्जीवं दर्शपूर्णमासाभ्यां यजेत’(आप.श्रौ. ३.१४.११) ‘अहरहस्सन्ध्यामुपासीत’(श.ब्रा.) , ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’(ई.उ. २) इत्यादिश्रुतिभिः यावज्जीवं कर्मणः कर्तव्यत्वेन चोदितत्वात् सर्वकर्मसंन्यासे श्रुत्युल्लङ्घनं प्रसज्येतेति चेत् , तासां श्रुतीनाम् अशुद्धचित्तविषयत्वात् । अत एव, ‘एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे’(ई.उ. २) इतीशावास्यमन्त्रेण नरे नरमात्राभिमानिनि त्वयि इतः कर्मकरणात् अन्यथा अन्यो मार्गः कर्मलेपाभावप्रयोजकः नास्तीत्युक्तम् ।
‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ... संन्यासयोगाद्यतयःशुद्धसत्वाः’(म.ना.उ. १०.५) ॥
प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ (मु.उ १.२.७)
‘किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे’(ऐ.उ. २.३.६) इत्यादिना कर्मसंन्यासस्यापि विहितत्वान्निन्दितत्वाच्च कर्मणः ॥ ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’(बृ.उ. ४.४.२२) , ‘योगिनः कर्म कुर्वन्ति संङ्गं त्यक्त्वाऽऽत्मशुद्धये’(भ.गी. ५.११) इत्यादिश्रुतिस्मृत्यर्थपर्यालोचनया विविदिषासाधनत्वं चित्तशुद्धिद्वारा तेषामवसीयते, न तु सार्वदिकत्वम् । तथा सति, ‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’(जा.उ. ४.४) इत्यादिसंन्यासविधायकवाक्यव्याकोपापत्तेः, कर्मनिन्दानुपपत्तेश्च । ‘अत एव चाग्नीन्धनाद्यनपेक्षा’, ‘सर्वापेक्षा च यज्ञादि श्रुतेरश्ववत्’(ब्र.सू. ३.४.२५, २६) इति च सूत्राभ्यामयमेवार्थो भण्यते । परमपुरुषार्थभूतमोक्षार्थत्वं नास्ति कर्मणां, चित्तशुद्धिद्वारा ज्ञानबहिरङ्गत्वम् इति तदिदमाह चित्तस्येति –