अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

४. मुक्त्यर्थो यत्नविशेषः

अतो विमुक्त्यै प्रयतेत विद्वान्
संन्य­स्त­बा­ह्या­र्थ­सु­ख­स्पृहः सन् ।
सन्तं महान्तं समुपेत्य देशिकं
तेनो­प­दि­ष्टा­र्थ­स­मा­हि­तात्मा ॥८॥

८

विद्वानिति नित्या­नि­त्य­वि­वेकी कथितः ।

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते । आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ॥ (भ.गी. ५.२२)

इति गीतासु बुध­श­ब्दे­ना­र्थ­स्यास्य सूचितत्वात् । वैषयिकसुखस्य अनित्यत्वं द्योतयति बाह्यार्थेति । अर्थानां बाह्यत्वेन आगन्तुकतया सार्व­दि­क­त्वा­भा­वात् तत्प्र­यो­ज्य­सु­खा­वि­र्भा­व­स्यापि तादृशत्वमिति । अतो विवेकिना पुरुषधौरेयेण तत्र स्पृहा त्यक्तव्येति प्रयत्नप्रकारं प्रथममाह संन्य­स्त­बा­ह्या­र्थ­सु­ख­स्पृहः सन्निति ।

बाह्याश्च ते अर्थाश्च बाह्यार्थाः, तैः सुखं बाह्यार्थसुखम् , तस्मिन् स्पृहा बाह्या­र्थ­सु­ख­स्पृहा संन्यस्ता येन इति ऐहि­का­मु­ष्मि­क­फ­ल­भो­ग­वि­रागः कथितः । तेन श्रुति­स्मृ­त्यु­क्त­क­र्मणां निष्का­मा­नु­ष्ठा­नेन निता­न्त­नि­र्म­ली­कृ­त­स्वा­न्त­त्व­मु­क्त­प्रा­यम् । अविवेकिनः विषयलम्पटस्य अस्तित्वमपि दुर्लभमिति सूचयति – सन्निति । ‘आचा­र्य­वा­न्पु­रुषो वेद’(छा.उ. ६.१४.२) ‘आचार्याद्धैव विद्या विदिता साधिष्ठं प्रापत्’(छा.उ. ४.९.३) इति श्रुतेः अतीन्द्रियस्य आत्मैक्यस्य गुरुं विनाऽ­धि­ग­न्तु­म­श­क्य­त्वात् पूर्वोक्तरीत्या महापुरुषसंश्रयः कर्तव्य इत्याह – सन्तम् इत्यादिना । अस्तीति सन् , तमित्यर्थः| ‘अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुः’(तै.उ. २.६) ‘सदेव सौम्येदमग्र आसीत्’(छा.उ. ६.२.१) ‘यो वै भूमा तदमृतम्’(छा.उ. ७.२४.१) ‘अतोऽ­न्य­दा­र्तम्’(बृ.उ. ३.४.२) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) ,

नासतो विद्यते भावो नाभावो विद्यते सतः । उभयोरपि दृष्टोऽ­न्त­स्त्व­न­यो­स्त­त्त्व­द­र्शिभिः ॥ (भ.गी. २.१६) −

इत्या­दि­श्रु­ति­स्मृ­तिभ्यः काल­त्र­या­बा­ध्य­त्व­रू­पा­स्ति­त्वस्य ब्रह्मण्येव सत्त्वात् । देशिकस्य तथात्वं, ‘ब्रह्म­वि­द्ब्र­ह्मैव भवति’(मु.उ. ३.२.९) इति श्रुत्या तदभिन्नत्वात् । तेन अस­द्भ्योऽ­ना­त्मभ्यः सुतरां निवृ­त्ता­भि­मा­न­त्व­रूपा ब्रह्मनिष्ठा सूचिता भवति । ‘तद्वि­ज्ञा­नार्थं स गुरु­मे­वा­भि­ग­च्छेत् समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम्’(मु.उ. १.२.१२) , ‘अनन्यप्रोक्ते गतिरत्र नास्ति अणी­या­न्ह्य­त­र्क्य­म­णु­प्र­मा­णात्’(क.उ. २.८) इत्या­दि­श्रु­तिभ्यः तादृशादेव गुरोः संश­य­भा­व­ना­दि­वि­र­हि­त­शु­द्धा­त्म­बो­धस्य सम्भवात् ।

युक्तं ह्येतत् – लोकेऽ­प्य­स्मा­भि­र­दृष्टो मार्गः दृष्टतन्मार्गैः किल बोधनीयः, स्वयमेव कथ­ञ्चि­ल्ल­ब्धोऽपि, संशयः दृष्टतत्त्वैः किल निरसनीयो भवति । तत्र शुकजनकसंवादः प्रमाणम् । जन्मा­न्त­र­कृ­त­सु­कृ­त­प­रि­पा­क­व­शात् स्वयं ज्ञातज्ञेयोऽपि पित्रा­नु­शि­ष्टोऽपि महानुभविनो जनकस्य वैदेहस्य वचनात्किल ब्रह्मणि विश्रा­न्त­मा­न­सोऽ­भू­च्छुक इति हि वासिष्ठादौ स्मर्यते । तथा च सद्रू­प­ब्र­ह्मा­भि­न्न­त्वात् सद्रूपत्वं देशिकस्य । अत एव महत्त्वम् । विवे­चि­त­को­श­प­ञ्च­क­त्वात् अप­रि­च्छि­न्न­त्वम् । यद्वा – शास्त्रो­क्त­स­म­स्त­स­द्गु­ण­म­ण्डि­त­त्वम् । वक्ष्यते हि –

श्रोत्रि­योऽ­वृ­जि­नोऽ­का­म­हतो यो ब्रह्मवित्तमः । ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः । अहे­तु­क­द­या­सि­न्धु­र्ब­न्धु­रा­न­मतां सताम् ॥ (श्लो. ३४-३५)

इत्यादिगुणजातम् ।

शिष्येभ्यो ज्ञानं दिशतीति देशिकः, तं समुपेत्य यथाविधि उपसद्य तेन गुरुणा उपदिष्टो योऽर्थः ब्रह्मरूपः तत्प्रा­प्ति­प्र­का­र­रू­पश्च, तत्रैव सम्यगाहितः आत्मा अन्तःकरणं येन तादृशः सन् विमुक्त्यै प्रयतेत इत्यनेन मुक्तीच्छां विना तत्र प्रय­त्ना­स­म्भ­वात् मुमुक्षुत्वं ध्वनितम् । उप­दि­ष्टा­र्थ­स­मा­हि­ता­त्मे­त्य­नेन सततं ब्रह्म­स­मा­हि­त­मा­न­स­त्वस्य सर्व­क­र्म­सं­न्यासं विनाऽ­स­म्भ­वा­द्वि­वे­किना विरक्तेन स्वरूपतः सक­ल­क­र्म­सं­न्या­स­पु­र­स्सरं ब्रह्मनिष्ठं गुरुमुपसद्य सर्वदा ब्रह्मविचारः कर्तव्य इत्युक्तं भवति ॥८॥

सङ्ग्र­हे­णो­क्त­मर्थं सप्तभिः श्लोकैः विवृणोति । तत्र मुक्त्यर्थं क्रिय­मा­ण­प्र­य­त्नस्य सम्य­ग्द­र्श­न­नि­ष्ठा­न्त­त्वात् , मोक्ष­सा­क्षा­त्सा­धनं सम्य­ग्द­र्श­न­निष्ठां तत्र मुख्यहेतुं पर­वै­रा­ग्या­प­र­प­र्यायं योगारूढत्वं चाह अनेन श्लोकेन –

उद्ध­रे­दा­त्म­ना­त्मानं मग्नं संसारवारिधौ ।
योगा­रू­ढ­त्व­मा­साद्य सम्य­ग्द­र्श­न­नि­ष्ठया ॥९॥

९

यदा हि नेन्द्रि­या­र्थेषु न कर्मस्वनुषज्जते । सर्व­स­ङ्क­ल्प­सं­न्यासी योगा­रू­ढ­स्त­दो­च्यते ॥ (भ.गी. ६.४)

इति भगवद्वचनात् । पर­वै­रा­ग्य­पु­र­स्स­र­स­म्य­ग्द­र्श­न­नि­ष्ठैव संसा­रा­ब्धि­प­ति­ता­त्मो­द्ध­रणे हेतुरिति भावः ।

क्लेशा­दि­प­ञ्च­क­त­र­ङ्ग­युतं भ्रमाढ्यं दारा­त्म­जा­प्त­ध­न­ब­न्धु­झ­षा­भि­यु­क्तम् । और्वा­न­ला­भ­नि­ज­रो­ष­म­न­ङ्ग­जालं संसारसागरमतीत्य हरिं व्रजामि ॥ (अ.रा.यु. १०.६१)

संसा­र­सा­ग­र­वि­शा­ल­क­रा­ल­का­ल­न­क्र­ग्र­ह­ग्र­सि­त­नि­ग्र­ह­वि­ग्र­हस्य । व्यग्रस्य राग­नि­च­यो­र्मि­नि­पी­डि­तस्य लक्ष्मीनृसिंह मम देहि करावलम्बम् ॥ (नृ.क.स्तो. ९)

इत्यादिरीत्या अवि­द्या­त­द्वि­ला­स­रू­पस्य संसारस्य सम्यग्ज्ञानं विना दुस्तरत्वाद् वारिधित्वेन रूपणम् । न ह्यनात्मानं देहमात्मत्वेन मन्वानस्य तस्मिन् जायमाने म्रियमाणे वा तद्गतधर्मः स्वस्मि­न्ना­स्तीति विज्ञातुं शक्यं, क्षुत्पि­पा­सा­युते वा प्राणे, सुखिनि दुःखिनि वाऽन्तःकरणे । एव­म­वि­द्या­स्मि­ता­रा­ग­द्वे­षा­भि­नि­वे­शानां सन्ततत्वात् क्लेशा­दि­प­ञ्च­कस्य तरङ्गतया रूपणम् , भ्रम एव भ्रमः अत­स्मिं­स्त­द्बु­द्धि­रेव आवर्तः इत्यादि स्पष्टम् । अना­द्य­वि­द्या­व­शात् ‘अज्ञः कर्ता मनुष्योऽहम्’ इत्यादिरीत्या स्थूल­सू­क्ष्म­का­र­ण­श­री­रेषु अनात्मसु अहमिति स्वरू­पा­प्राप्त्या स्थितिरेव संसा­र­वा­रि­धि­म­ग्न­त्व­म­स­ङ्ग­स­च्चि­दा­न­न्द­रू­प­स्या­त्मनः । तत्रापि सुषुप्तौ संसाराननुभवात् अवि­वे­कि­म­नो­रू­पो­पा­धि­मू­ल­क­त्व­मेव वक्तव्यं संसारस्य । श्रूयते हि –

मन एव मनुष्याणां कारणं बन्धमोक्षयोः । बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् ॥ इति । (ब्र.बिं. २)

अतः विवेचनशून्यस्य मनसः शरी­रा­दि­सं­स­क्त­त्वम् आत्मनः संसा­र­वा­रि­धि­म­ग्न­त्वम् ।

अतः श्रव­ण­म­न­ना­दि­शा­स्त्री­य­सं­स्का­र­सं­स्कृतं मनो यदा भवति तदा भ्रमशून्यम् आत्म­या­था­त्म्य­ज्ञा­ना­वाप्त्या भवतीति, अविवेकिमनः शास्त्र­ज­न्य­वि­वे­क­वता मनसा उद्धरेत् अना­त्म­भ्योऽ­प­न­येत् । तथा च तस्मिन् परा­ङ्मु­ख­त्व­स्वा­भा­व्यात् बाह्येषु शरीरादिषु सक्ते वस्तु­तोऽ­स­ङ्ग­स्यापि लोहितस्फटिकवत् संसक्तस्येव भासमानस्य आत्मनः उपा­धे­र­ना­त्म­स­म्ब­न्धा­भावे प्रत्य­ङ्मु­ख­त­याऽऽ­त्म­मा­त्र­सं­स्थत्वे च आत्मा उद्धृत इव भवतीति भावः । संसारवारिधौ मग्नमात्मानं योगा­रू­ढ­त्व­मा­साद्य सम्य­ग्द­र्श­न­नि­ष्ठया आत्मना उद्ध­रे­दि­त्य­न्वयः ॥ ९॥

योगारूढत्वं विशदयन्नेव श्रव­ण­म­न­न­नि­दि­ध्या­स­नानि संन्या­सो­त्त­र­का­लि­कानि सम्य­ग्द­र्श­न­नि­ष्ठा­वा­प्ति­सा­ध­नानि तावदाह संन्य­स्ये­त्या­दिना –

संन्यस्य सर्वकर्माणि भवबन्धविमुक्तये ।
यत्यतां पण्डितैर्धीरैः आत्माभ्यास उपस्थितैः ॥ १०॥

१०

सर्वकर्माणि संन्यस्य कर्म­का­ण्डो­क्तानि स्वरूपतोऽपि परित्यज्य भवबन्धविमुक्तये सांसा­रि­क­ब­न्ध­नि­वृ­त्ति­हे­तु­भू­त­स­म्य­ग्द­र्श­न­नि­ष्ठायै, पण्डितैः आत्म­वि­ष­य­क­प­रो­क्ष­ज्ञा­न­वद्भिः, धीरैः वशीकृतबुद्धिभिः –

पराञ्चि खानि व्यतृणत् स्वयम्भूः तस्मात् पराङ् पश्यति नान्तरात्मन् । कश्चिद्धीरः प्रत्य­गा­त्मा­न­मै­क्षत् आवृ­त्त­च­क्षु­र­मृ­त­त्व­मि­च्छन् ॥ (क.उ. ४.१)

इति श्रुतेः । धियं रातीति धीरः, प्रधानभूतां कार्य­क­र­ण­स­ङ्घा­त­मध्ये बुद्धिं वशयतीत्युक्ते इतरेन्द्रियजयः अर्थसिद्धः । एतेन शान्त्या­द्यु­पे­तत्वं सूचितं भवति । अत एव आत्माभ्यासे –

तच्चिन्तनं तत्कथनमन्योन्यं तत्प्रबोधनम् । एतदेकपरत्वं च ब्रह्माभ्यासं विदुर्बुधाः ॥ (पं.द. ७.१०६)

इत्य­भि­यु­क्तो­क्ति­रीत्या अनन्यव्यापारतया श्रुता­र्थ­म­न­न­त­त्क­थ­न­प­र­स्प­र­प्र­बो­ध­न­रू­प­ज्ञा­न­का­ण्डो­क्त­व्या­पा­रे­षू­प­स्थि­तै­र्व­र्त­मानैः, विजा­ती­य­प्र­त्य­या­ति­र­स्कृ­त­स­जा­ती­य­प्र­त्य­य­प्र­वा­ह­रू­प­नि­दि­ध्या­स­ना­नु­ष्ठा­नेन यत्य­ता­मि­त्य­न्वयः । एतादृशस्य पुंसः सर्व­स­ङ्क­ल्प­सं­न्या­सेन पर­वै­रा­ग्या­प­र­प­र्यायं योगारूढत्वं सिद्धमेव मन्तव्यम् ॥१०॥

ननु ‘याव­ज्जी­व­म­ग्नि­होत्रं जुहुयात्’(पू.मी. ६.२.७) ‘यावज्जीवं दर्श­पू­र्ण­मा­साभ्यां यजेत’(आप.श्रौ. ३.१४.११) ‘अह­र­ह­स्स­न्ध्या­मु­पा­सीत’(श.ब्रा.) , ‘कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः’(ई.उ. २) इत्या­दि­श्रु­तिभिः यावज्जीवं कर्मणः कर्तव्यत्वेन चोदितत्वात् सर्व­क­र्म­सं­न्यासे श्रुत्यु­ल्ल­ङ्घनं प्रसज्येतेति चेत् , तासां श्रुतीनाम् अशु­द्ध­चि­त्त­वि­ष­य­त्वात् । अत एव, ‘एवं त्वयि नान्यथेतोस्ति न कर्म लिप्यते नरे’(ई.उ. २) इती­शा­वा­स्य­म­न्त्रेण नरे नर­मा­त्रा­भि­मा­निनि त्वयि इतः कर्मकरणात् अन्यथा अन्यो मार्गः कर्म­ले­पा­भा­व­प्र­यो­जकः नास्तीत्युक्तम् ।

‘न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ... संन्या­स­यो­गा­द्य­त­यः­शु­द्ध­सत्वाः’(म.ना.उ. १०.५) ॥

प्लवा ह्येते अदृढा यज्ञरूपा अष्टादशोक्तमवरं येषु कर्म । एतच्छ्रेयो येऽभिनन्दन्ति मूढा जरामृत्युं ते पुनरेवापि यन्ति ॥ (मु.उ १.२.७)

‘किमर्था वयमध्येष्यामहे किमर्था वयं यक्ष्यामहे’(ऐ.उ. २.३.६) इत्यादिना कर्म­सं­न्या­स­स्यापि विहि­त­त्वा­न्नि­न्दि­त­त्वाच्च कर्मणः ॥ ‘तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन’(बृ.उ. ४.४.२२) , ‘योगिनः कर्म कुर्वन्ति संङ्गं त्यक्त्वाऽऽ­त्म­शु­द्धये’(भ.गी. ५.११) इत्या­दि­श्रु­ति­स्मृ­त्य­र्थ­प­र्या­लो­च­नया विवि­दि­षा­सा­ध­नत्वं चित्त­शु­द्धि­द्वारा तेषामवसीयते, न तु सार्वदिकत्वम् । तथा सति, ‘यदहरेव विरजेत् तदहरेव प्रव्रजेत्’(जा.उ. ४.४) इत्या­दि­सं­न्या­स­वि­धा­य­क­वा­क्य­व्या­को­पा­पत्तेः, कर्म­नि­न्दा­नु­प­प­त्तेश्च । ‘अत एव चाग्नी­न्ध­ना­द्य­न­पेक्षा’, ‘सर्वापेक्षा च यज्ञादि श्रुतेरश्ववत्’(ब्र.सू. ३.४.२५, २६) इति च सूत्रा­भ्या­म­य­मे­वार्थो भण्यते । पर­म­पु­रु­षा­र्थ­भू­त­मो­क्षा­र्थत्वं नास्ति कर्मणां, चित्त­शु­द्धि­द्वारा ज्ञान­ब­हि­र­ङ्ग­त्वम् इति तदिदमाह चित्तस्येति –