अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

५. वस्तुविचारः कर्तव्यः

चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये ।
वस्तु­सि­द्धि­र्वि­चा­रेण न किञ्चि­त्क­र्म­को­टिभिः ॥११॥

११

स्पष्टोऽर्थः ।

विचारस्य वस्तू­प­ल­ब्धि­हे­तुत्वं दृष्टान्तेन विशदयति सम्यगिति –

सम्यग्विचारतः सिद्धा रज्जु­त­त्त्वा­व­धा­रणा ।
भ्रान्त्यो­दि­त­म­हा­स­र्प­भ­व­दुः­ख­वि­ना­शिनी ॥१२॥

१२

मन्दान्धकारे पतितां रज्जुं सर्पं मन्वानः पुरुषः बिभ्यत् दीपानयनेन सम्यग्विचार्य वस्तुतत्त्वं बुद्ध्वा भयकम्पादिदुःखं जहातीति प्रसिद्धम् । तत्र रज्ज्वां भ्रान्त्या उदितः यो महासर्पः, तद्भवं तत्प्रत्ययजन्यं यद्दुःखं, तद्विनाशिनी सम्य­ग्वि­चा­र­जन्या रज्जु­त­त्त्वा­व­धृतिः । तद्वत् भ्रान्त्या जातं यद्भवदुःखं जन्म­म­र­ण­प्र­यो­ज्य­दुःखं, तद्विनाशिनी सम्य­ग्वि­चा­र­प्र­योज्या तत्त्वावधारणा आत्म­या­था­त्म्या­व­धृतिः ब्रह्म­सा­क्षा­त्कारः इति सर्वांशे प्रकृतोपयोग्ययं दृष्टान्तः ॥१२॥

आप्तो­क्त्य­नु­सा­रेण क्रिय­मा­ण­वि­चा­र­स्यैव अर्थ­नि­श्च­य­हे­तु­त्वम् नान्यस्य कर्मण इत्याह अर्थस्येति −

अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥१३॥

१३

अज्ञानदोषवशात् स्वयं भ्रान्तस्य पुरुषस्य आप्तो­क्ति­रू­पा­व­ल­म्ब­ना­भावे भय­क­म्पा­द्य­न­र्थ­म­नु­भ­वतः स्वतो विचारे प्रवृत्तेः दुर्लभत्वात् विचारे हितो­क्ति­र्हे­तू­कृता । हितत्वं च यथा­र्थ­व­क्तृ­त्वम् । यदि भ्रान्तः पुरुषः हितो­क्त्य­नु­सा­रेण विचारमविधाय स्नानं वा दानं वा प्राणायामशतं वा कर्म कुर्यात् भ्रम­नि­व­र्त­का­प­रो­क्ष­प्र­माया अभावे, अन­र्थ­प्र­यो­ज­क­भ्र­मा­नि­वृत्तेः कथं निवृत्तानर्थो भवेदिति भावः । विचारश्च अर्थ­या­था­त्म्य­नि­श्च­या­नु­कूलो मानसो व्यापारः । तथा च हितो­क्ति­स­ह­कृ­त­वि­चा­र­स्यैव अर्थ­प्र­मा­हे­तुत्वं भ्रमस्थले प्रत्य­क्ष­सि­द्धम् । तथा सति प्रकृतेऽपि श्रुत्या­चा­र्यो­प­दे­शा­नु­सा­रेण आत्मविचारं कृत्वा तद्या­था­त्म्य­म­प­रो­क्षी­कृत्य अना­त्मा­ध्या­स­रू­प­सं­सा­रा­दा­त्मानं मोच­ये­दि­त्यु­प­देशः ॥१३॥

तत्तत्कर्मणि समर्थस्यैव तत्त­त्क­र्म­फ­ल­भो­क्तृ­त्व­स­म्भ­वात् असर्मथस्य तदयोगात् बाह्यदेशकालादेः सह­का­रि­त्व­मा­त्रम् , आन्त­र­सा­म­र्थ्य­स्यैव फल­दा­य­क­त्व­मि­त्याह – अधिकारिणमिति −

अधि­का­रि­ण­मा­शास्ते फल­सि­द्धि­र्वि­शे­षतः ।
उपाया देशकालाद्याः सन्त्यस्यां सहकारिणः ॥१४॥

१४

कर्मणां ताव­द्दृ­ष्टा­र्थ­त्वात् , ‘यदाहवनीये जुहोति’(तै.ब्रा. १.१.१०) , ‘अश्वस्य पदे जुहोति’(तै.ब्रा. ३.८.९) , ‘प्राचीनप्रवणे वैश्वदेवेन यजेत’(मै.सं. १.१०.७) वैश्वदेवेन यजेत’ , ‘सायं जुहोति’(मै.सं. १.८.७) , ‘प्रातर्जुहोति’(तै.ब्रा. २.१.३) , ‘वसन्ते वसन्ते ज्योतिषा यजेत’(आप.श्रौ.सू. १०.२.५) , ‘वसन्ते ब्राह्म­णोऽ­ग्नी­ना­द­धीत’(तै.सं. २.२.३.२) इत्यादि शास्त्रानुसारेण देशकालयोरपि असा­धा­र­ण­का­र­ण­त्वम् अङ्गीकर्तव्यम् ।

यद्यपि ज्ञानस्यापि,

यथाऽदर्शे तथाऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ (क.उ. ६.५)

इह चेदवेदीदथ सत्यमस्ति न चेदि­हा­वे­दी­न्म­हती विनष्टिः । (के.उ. २.५)

इत्यादि श्रुत्यनुसारेण मनु­ष्य­लो­क­ब्र­ह्म­लो­क­यो­रेव ज्ञानभूमित्वं प्रतीयते, एवं

ऋणत्रयमपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ (म.स्मृ. ६.३५)

‘ब्रह्मचर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्’(जा.उ. ४) इत्यादि प्रमाणानुसारेण ब्रह्म­ज्ञा­ना­न्त­र­ङ्ग­भू­त­सं­न्या­स­स्यापि कालो विधीयत इव प्रतिभाति । अथापि अशुद्धचित्तो राक्षसराजो विरोचनः ब्रह्मलोकं गतोऽपि परमगुरुणा परमेष्ठिना उपदिष्टोऽपि नैवा­ग्र­ही­दा­त्मा­नम् ।

संसारमेव निस्सारं दृष्ट्वा सारदिदृक्षया । प्रव्र­ज­न्त्य­कृ­तो­द्वाहाः परं वैरा­ग्य­मा­श्रिताः ॥ (ना.प.उ. ३.१५) इति ।

‘यदि वेतरथा ब्रह्मचर्यादेव प्रव्र­जे­द्गृ­हाद्वा वनाद्वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्’(जा.उ. ४.४) इत्यादिप्रमाणैः वक्ष्य­मा­ण­वै­रा­ग्या­दि­सा­ध­न­च­तु­ष्ट­य­स­म्प­न्नस्य देशकालौ न विवक्षितौ इत्यभिप्रायेण तयो­स्स­ह­का­रि­त्व­मु­क्तम् ॥ अत एव, ‘विद्वान् संन्य­स्त­बा­ह्या­र्थ­सु­ख­स्पृ­ह­स्सन्’(श्लो. ८) इति विवेकवैराग्ये ब्रह्मा­त्म­नाऽ­व­स्था­न­ल­क्ष­ण­मो­क्ष­सा­क्षा­द्धे­तु­भू­त­स­म्य­ग्द­र्श­न­नि­ष्ठार्थं मोक्ष­सा­ध­नो­प­दे­श­क­गु­रू­प­स­द­न­पु­र­स्स­र­त­दु­प­दि­ष्टा­र्थ­म­न­स्स­मा­धाने हेतूकृते । एता­दृ­श­म­न­स्स­मा­धा­नस्य शम­द­मो­प­र­ति­ति­ति­क्षा­श्र­द्धा­ना­म­भावे असम्भ\-वात् मुक्तीच्छाभावे तदर्थं प्रय­त्ना­स­म्भ­वाच्च, ‘अतो विमुक्त्यै’(श्लो. ८) इत्याद्यः लोके विवे­क­वै­रा­ग्य­श­मा­दि­ष­ट्क­मु­मु­क्षु­त्वानां जिज्ञासा साधारणहेतूनां सूचनं कृतमेव । तथा च ‘तरति शोकमात्मवित्’(छा.उ. ७.१.३) , ‘तद्वि­ज्ञा­नार्थं स गुरु­मे­वा­भि­ग­च्छेत्’(मु.उ १.२.१२) इत्या­दि­श्रु­त्य­नु­सा­रेण शोक­श­ब्दि­त­ब­न्ध­ना­शकं सम्यग्ज्ञानं सद्गु­रू­प­दि­ष्टा­र्थ­वि­चा­र­म­न्तरा न केनापि साधनान्तरेणेति । श्लोके अस्यामित्यस्य सिद्धावित्यर्थः ॥१४॥

अतो विचारः कर्तव्यः जिज्ञा­सो­रा­त्म­व­स्तुनः ।
समासाद्य दयासिन्धुं गुरुं ब्रह्म­वि­दु­त्त­मम् ॥१५॥

१५

अतः सर्वा­न­र्थ­नि­व­र्त­क­नि­र्ण­य­हे­तु­त्वात् जिज्ञासोः आत्मानं सम्य­ग्ज्ञा­तु­मिच्छोः पुरु\-षस्य आत्मवस्तुनः विचारः कर्तव्यः । तत्र इतिकर्तव्यतामाह – दयासिन्धुं स्वयं कृतार्थत्वेन स्वस्य प्रयोजनाभावः सिद्ध एव, इतरेऽपि मा दुःख­म­नु­भू­व­न्निति करुणायाः समुद्रम् , आधारमित्यर्थः, जलराशिरिव जलानाम् । गुरुम् –

गुश­ब्द­स्त्व­न्ध­कारः स्यात् रुश­ब्द­स्त­न्नि­रो­धकः । अन्ध­का­र­नि­रो­धि­त्वात् गुरु­रि­त्य­भि­धी­यते ॥ (गु.गी. १.३४)

इति गुरु­गी­तो­क्त­रीत्या स्वोपदेशेन अज्ञा­ना­ख्य­हा­र्दा­न्ध­का­र­हा­र­कम् इत्यर्थः । यथान्धकारः प्रपञ्चमावृत्य तज्ज्ञा­न­प्र­ति­ब­न्धको भवति एव­म­ज्ञा­न­मा­त्मा­न­मा­वृत्य तत्स्प­ष्ट­भा­न­प्र­ति­ब­न्धकं भव­ती­त्य­न्ध­का­र­त्व­म­ज्ञा­नस्य, अत एव तम इत्या­दि­श­ब्दै­र­भि­लापः श्रुतौ ‘तमो ह्यासीत् तमसा गूळ्हमग्रे’(ऋ. ८.७.१७) इत्यादौ । एतद्विशेषणद्वयं यत्र सम्भवति तमाह – ब्रह्म­वि­दु­त्त­म­मिति । ब्रह्म विदन्तीति ब्रह्मविदः तेषामुत्तमं स्थित­प्र­ज्ञ­मि­त्यर्थः । अत्र श्रुतयः पूर्वमुदाहृताः । तत्समासादनं च −

‘तमाराघ्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः’(श्लो. ३६) इति वक्ष्य­मा­ण­रीत्या, ‘तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया’(४.३४) इति गीतोक्तरीत्या च तस्य स्वात्मा­भि­मु­खी­क­र­ण­मिति ‘अतो विमुक्त्यै’ इत्य­ष्ट­म­श्लो­कस्य इयद्भिः श्लोकैः विवृतिः कृता ॥१५॥