विवेकचूडामणिः सव्याख्यः
५. वस्तुविचारः कर्तव्यः
चित्तस्य शुद्धये कर्म न तु वस्तूपलब्धये ।
वस्तुसिद्धिर्विचारेण न किञ्चित्कर्मकोटिभिः ॥११॥
स्पष्टोऽर्थः ।
विचारस्य वस्तूपलब्धिहेतुत्वं दृष्टान्तेन विशदयति सम्यगिति –
सम्यग्विचारतः सिद्धा रज्जुतत्त्वावधारणा ।
भ्रान्त्योदितमहासर्पभवदुःखविनाशिनी ॥१२॥
मन्दान्धकारे पतितां रज्जुं सर्पं मन्वानः पुरुषः बिभ्यत् दीपानयनेन सम्यग्विचार्य वस्तुतत्त्वं बुद्ध्वा भयकम्पादिदुःखं जहातीति प्रसिद्धम् । तत्र रज्ज्वां भ्रान्त्या उदितः यो महासर्पः, तद्भवं तत्प्रत्ययजन्यं यद्दुःखं, तद्विनाशिनी सम्यग्विचारजन्या रज्जुतत्त्वावधृतिः । तद्वत् भ्रान्त्या जातं यद्भवदुःखं जन्ममरणप्रयोज्यदुःखं, तद्विनाशिनी सम्यग्विचारप्रयोज्या तत्त्वावधारणा आत्मयाथात्म्यावधृतिः ब्रह्मसाक्षात्कारः इति सर्वांशे प्रकृतोपयोग्ययं दृष्टान्तः ॥१२॥
आप्तोक्त्यनुसारेण क्रियमाणविचारस्यैव अर्थनिश्चयहेतुत्वम् नान्यस्य कर्मण इत्याह अर्थस्येति −
अर्थस्य निश्चयो दृष्टो विचारेण हितोक्तितः ।
न स्नानेन न दानेन प्राणायामशतेन वा ॥१३॥
अज्ञानदोषवशात् स्वयं भ्रान्तस्य पुरुषस्य आप्तोक्तिरूपावलम्बनाभावे भयकम्पाद्यनर्थमनुभवतः स्वतो विचारे प्रवृत्तेः दुर्लभत्वात् विचारे हितोक्तिर्हेतूकृता । हितत्वं च यथार्थवक्तृत्वम् । यदि भ्रान्तः पुरुषः हितोक्त्यनुसारेण विचारमविधाय स्नानं वा दानं वा प्राणायामशतं वा कर्म कुर्यात् भ्रमनिवर्तकापरोक्षप्रमाया अभावे, अनर्थप्रयोजकभ्रमानिवृत्तेः कथं निवृत्तानर्थो भवेदिति भावः । विचारश्च अर्थयाथात्म्यनिश्चयानुकूलो मानसो व्यापारः । तथा च हितोक्तिसहकृतविचारस्यैव अर्थप्रमाहेतुत्वं भ्रमस्थले प्रत्यक्षसिद्धम् । तथा सति प्रकृतेऽपि श्रुत्याचार्योपदेशानुसारेण आत्मविचारं कृत्वा तद्याथात्म्यमपरोक्षीकृत्य अनात्माध्यासरूपसंसारादात्मानं मोचयेदित्युपदेशः ॥१३॥
तत्तत्कर्मणि समर्थस्यैव तत्तत्कर्मफलभोक्तृत्वसम्भवात् असर्मथस्य तदयोगात् बाह्यदेशकालादेः सहकारित्वमात्रम् , आन्तरसामर्थ्यस्यैव फलदायकत्वमित्याह – अधिकारिणमिति −
अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः ।
उपाया देशकालाद्याः सन्त्यस्यां सहकारिणः ॥१४॥
कर्मणां तावद्दृष्टार्थत्वात् , ‘यदाहवनीये जुहोति’(तै.ब्रा. १.१.१०) , ‘अश्वस्य पदे जुहोति’(तै.ब्रा. ३.८.९) , ‘प्राचीनप्रवणे वैश्वदेवेन यजेत’(मै.सं. १.१०.७) वैश्वदेवेन यजेत’ , ‘सायं जुहोति’(मै.सं. १.८.७) , ‘प्रातर्जुहोति’(तै.ब्रा. २.१.३) , ‘वसन्ते वसन्ते ज्योतिषा यजेत’(आप.श्रौ.सू. १०.२.५) , ‘वसन्ते ब्राह्मणोऽग्नीनादधीत’(तै.सं. २.२.३.२) इत्यादि शास्त्रानुसारेण देशकालयोरपि असाधारणकारणत्वम् अङ्गीकर्तव्यम् ।
यद्यपि ज्ञानस्यापि,
यथाऽदर्शे तथाऽत्मनि यथा स्वप्ने तथा पितृलोके । यथाऽप्सु परीव ददृशे तथा गन्धर्वलोके छायातपयोरिव ब्रह्मलोके ॥ (क.उ. ६.५)
इह चेदवेदीदथ सत्यमस्ति न चेदिहावेदीन्महती विनष्टिः । (के.उ. २.५)
इत्यादि श्रुत्यनुसारेण मनुष्यलोकब्रह्मलोकयोरेव ज्ञानभूमित्वं प्रतीयते, एवं
ऋणत्रयमपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः ॥ (म.स्मृ. ६.३५)
‘ब्रह्मचर्यं समाप्य गृही भवेत् , गृहाद्वनी भूत्वा प्रव्रजेत्’(जा.उ. ४) इत्यादि प्रमाणानुसारेण ब्रह्मज्ञानान्तरङ्गभूतसंन्यासस्यापि कालो विधीयत इव प्रतिभाति । अथापि अशुद्धचित्तो राक्षसराजो विरोचनः ब्रह्मलोकं गतोऽपि परमगुरुणा परमेष्ठिना उपदिष्टोऽपि नैवाग्रहीदात्मानम् ।
संसारमेव निस्सारं दृष्ट्वा सारदिदृक्षया । प्रव्रजन्त्यकृतोद्वाहाः परं वैराग्यमाश्रिताः ॥ (ना.प.उ. ३.१५) इति ।
‘यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा यदहरेव विरजेत्तदहरेव प्रव्रजेत्’(जा.उ. ४.४) इत्यादिप्रमाणैः वक्ष्यमाणवैराग्यादिसाधनचतुष्टयसम्पन्नस्य देशकालौ न विवक्षितौ इत्यभिप्रायेण तयोस्सहकारित्वमुक्तम् ॥ अत एव, ‘विद्वान् संन्यस्तबाह्यार्थसुखस्पृहस्सन्’(श्लो. ८) इति विवेकवैराग्ये ब्रह्मात्मनाऽवस्थानलक्षणमोक्षसाक्षाद्धेतुभूतसम्यग्दर्शननिष्ठार्थं मोक्षसाधनोपदेशकगुरूपसदनपुरस्सरतदुपदिष्टार्थमनस्समाधाने हेतूकृते । एतादृशमनस्समाधानस्य शमदमोपरतितितिक्षाश्रद्धानामभावे असम्भ\-वात् मुक्तीच्छाभावे तदर्थं प्रयत्नासम्भवाच्च, ‘अतो विमुक्त्यै’(श्लो. ८) इत्याद्यः लोके विवेकवैराग्यशमादिषट्कमुमुक्षुत्वानां जिज्ञासा साधारणहेतूनां सूचनं कृतमेव । तथा च ‘तरति शोकमात्मवित्’(छा.उ. ७.१.३) , ‘तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत्’(मु.उ १.२.१२) इत्यादिश्रुत्यनुसारेण शोकशब्दितबन्धनाशकं सम्यग्ज्ञानं सद्गुरूपदिष्टार्थविचारमन्तरा न केनापि साधनान्तरेणेति । श्लोके अस्यामित्यस्य सिद्धावित्यर्थः ॥१४॥
अतो विचारः कर्तव्यः जिज्ञासोरात्मवस्तुनः ।
समासाद्य दयासिन्धुं गुरुं ब्रह्मविदुत्तमम् ॥१५॥
अतः सर्वानर्थनिवर्तकनिर्णयहेतुत्वात् जिज्ञासोः आत्मानं सम्यग्ज्ञातुमिच्छोः पुरु\-षस्य आत्मवस्तुनः विचारः कर्तव्यः । तत्र इतिकर्तव्यतामाह – दयासिन्धुं स्वयं कृतार्थत्वेन स्वस्य प्रयोजनाभावः सिद्ध एव, इतरेऽपि मा दुःखमनुभूवन्निति करुणायाः समुद्रम् , आधारमित्यर्थः, जलराशिरिव जलानाम् । गुरुम् –
गुशब्दस्त्वन्धकारः स्यात् रुशब्दस्तन्निरोधकः । अन्धकारनिरोधित्वात् गुरुरित्यभिधीयते ॥ (गु.गी. १.३४)
इति गुरुगीतोक्तरीत्या स्वोपदेशेन अज्ञानाख्यहार्दान्धकारहारकम् इत्यर्थः । यथान्धकारः प्रपञ्चमावृत्य तज्ज्ञानप्रतिबन्धको भवति एवमज्ञानमात्मानमावृत्य तत्स्पष्टभानप्रतिबन्धकं भवतीत्यन्धकारत्वमज्ञानस्य, अत एव तम इत्यादिशब्दैरभिलापः श्रुतौ ‘तमो ह्यासीत् तमसा गूळ्हमग्रे’(ऋ. ८.७.१७) इत्यादौ । एतद्विशेषणद्वयं यत्र सम्भवति तमाह – ब्रह्मविदुत्तममिति । ब्रह्म विदन्तीति ब्रह्मविदः तेषामुत्तमं स्थितप्रज्ञमित्यर्थः । अत्र श्रुतयः पूर्वमुदाहृताः । तत्समासादनं च −
‘तमाराघ्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः’(श्लो. ३६) इति वक्ष्यमाणरीत्या, ‘तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया’(४.३४) इति गीतोक्तरीत्या च तस्य स्वात्माभिमुखीकरणमिति ‘अतो विमुक्त्यै’ इत्यष्टमश्लोकस्य इयद्भिः श्लोकैः विवृतिः कृता ॥१५॥