अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

७. साधनचतुष्टयसम्पत्तिः

विवेकिनो विरक्तस्य शमादिगुणशालिनः ।
मुमुक्षोरेव हि ब्रह्म­जि­ज्ञा­सा­यो­ग्यता मता ॥१७॥

१७

विवेकादिस्वरूपं स्पष्टयिष्यते मूल एवोपरिष्टात् (श्लो. १९) । ज्ञातुमिच्छा जिज्ञासा, ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा तत्रावगति पर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म । अख­ण्डा­का­र­वृ­त्ति­प्र­ति­फ­लितं चैतन्यं जिज्ञा­सा­प­द­ल­क्ष्य­मा­ण­वि­चा­रस्य फलम् । सामान्यतो ब्रह्मज्ञानस्य विचा­रा­त्पू­र्व­मपि सत्त्वात् एतादृशमिष्टं सम्पादनीयं चेत् ,

दद्यान्नावसरं किञ्चित् कामादीनां मनागपि । आसुप्तेरामृतेः कालं नये­द्वे­दा­न्त­चि­न्तया ॥

इत्युक्तरीत्या सार्व­दि­क­वे­दा­न्त­वि­चार आवश्यकः ।

देहा­त्म­ज्ञा­न­व­ज्ज्ञानं देहा­त्म­ज्ञा­न­बा­ध­कम् । आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥ (व.उ. २.१५)

इत्युक्तज्ञानं जनयितुं स एव समर्थः ॥१७॥

एतादृशविचारजननी या इच्छा तत्र योग्यता विवे­का­दि­सा­ध­न­यु­त­स्यैव नान्य­स्ये­त्ये­व­का­र­बो­धि­त­म­र्थ­म­न्व­येन व्यतिरेकेण च स्पष्टयति – साधनानीति −

साधनान्यत्र चत्वारि कथितानि मनीषीभिः ।
येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्ध्यति ॥१८॥

१८

लोके यस्य तावत् कार्य­त्वे­ना­भि­म­त­स­मा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गित्वं स्वस­मा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गि­का­र्य­त्वा­भि­म­त­कत्वं वा तस्य तत्कारणत्वं न सम्भवति । यथा पट­स­मा­ना­धि­क­र­णा­त्य­न्ता­भा­व­प्र­ति­यो­गिनी मृत् , मृत्स­मा­ना­धि­क­र­णा­त्या­न्ता­भा­व­प्र­ति­यो­गि­प­ट­वती वा सा पटकारणत्वं नाश्नुते । अपि तु मृत्सत्त्वे घटसत्त्वं, मृदभावे घटाभाव इत्य­न्व­य­व्य­ति­रे­क­स­ह­चा­र­ग्र­ह­व­शात् घटकारणत्वं भजते । एवं विवे­का­दि­च­तु­ष्ट­य­सत्त्व एव सति ब्रह्मणि नितरां स्थिति­प्र­यो­ज­क­ब्र­ह्म­जि­ज्ञा­सायाः सम्भवात् तदभावे चासम्भवात् अन्व­य­व्य­ति­रे­क­स­ह­चा­र­ग्र­हा­धीना तेषां विवेकादीनां सन्नि­ष्ठा­प­र­प­र्या­य­फ­ल­प­र्य­न्त­ब्र­ह्म­जि­ज्ञा­सा­का­र­ण­त्वा­व­गतिः इत्युक्तम् । मनीषिभिः कथितानीति − तत्र मनीषित्वं च श्रुति­ता­त्प­र्य­ज्ञा­न­व­त्त्वम् । श्रुत्य­व­ल­म्ब­ना­भावे एता­दृ­शा­धि­का­रि­वि­शे­ष­णानां दुर्ज्ञानत्वात् । तादृशाश्च मनीषिणः बादरायणप्रभृतयः । ते किल ‘अथातो ब्रह्मजिज्ञासा’(ब्र.सू. १.१.१) इति सूत्र­घ­ट­का­थ­श­ब्देन साध­न­च­तु­ष्ट­य­स­म्प­त्त्या­न­न्तर्यं सूत्रयन्तः ब्रह्म­जि­ज्ञा­सा­धि­का­रि­ण­मे­वं­विधं सूत्रयामासुः इति शारी­र­क­मी­मां­सा­द्या­धि­क­र­ण­तृ­ती­य­व­र्ण­क­भा­ष्या­द­र्थ­तोऽ­व­ग­म्यते । एता­दृ­श­वि­शे­ष­ण­ल­म्भ­क­श्रु­त­यस्तु ‘यत्कृतकं तदनित्यम्’ इति न्यायवती ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा.उ. ८.१.६) , ‘यो वै भूमा तदमृतम् अतोऽन्यदार्तम्’(छा.उ. ७.२४.१) , ‘न जायते म्रियते वा विपश्चित्’(क.उ. २.१८) इत्यादिश्रुतिः आत्मनः नित्यत्वम् अनात्मनः अनित्यत्वं च बोधयतीति विवेकलम्भिका । ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वे­द­मा­या­न्ना­स्त्य­कृतः कृतेन’(मु.उ. १.२.१२) , ‘न वा अरे पत्युः कामाये’यारभ्य ‘आत्मनस्तु कामाय सर्वम्प्रियं भवति’(बृ.उ. २.४.५) इत्यन्ता श्रुतिः अनात्ममात्रे वैरा­ग्य­प्र­ति­पा­दिका । ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वाऽऽ­त्म­न्ये­वा­त्मानं पश्येत्’(बृ.उ. ४.४.२३) इति श्रुतिः शमादिषट्कं बोधयति । ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुतिः मोक्षस्य नित्यत्वं वदन्ती तत्रे­च्छा­मा­द­धाति । उप­नि­ष­दा­म­र्थ­वा­दत्वं वदतां कर्ममीमांसकानां मते एतासां स्वार्थे तात्पर्यं नास्तीत्येव ज्ञानसम्भवात् ‘ब्रह्म­जि­ज्ञा­सि­तव्यं, तत्र च एतादृशविशेषण विशि­ष्टोऽ­धि­का­रीति’ ज्ञानस्य दुर्लभत्वात् मनीषिभिः कथि­ता­नी­त्यु­क्तम् । तथा च प्रमा­णा­न्त­रा­न­धि­ग­त­का­ल­त्र­या­बा­ध्य­प­र­म­पु­रु­षा­र्थ­स्व­रू­प­ब्र­ह्म­प्र­ति­पा­द­क­त्वा­दु­प­नि­षदां तात्त्वि­क­प्रा­मा­ण्य­स्या­त्रैव सम्भवात् तत्त­द्वा­क्य­स­म­र्पि­त­वि­वे­का­दि­वि­शि­ष्ट­स्यैव ‘सोऽन्वेष्टव्यः स विजि­ज्ञा­सि­तव्यः’(छा.उ. ८.७.१) इत्या­दि­वा­क्य­वि­हि­त­जि­ज्ञा­सा­यो­ग्य­तेति सर्वं चतुरस्रम् ॥१८॥

तत्र विवेकिनो विर­क्त­स्ये­त्या­दिना (श्लो. १७) कथितं विवेकादिकं क्रमतो निर्दिशति आदावित्यादिना –

आदौ नित्या­नि­त्य­व­स्तु­वि­वेकः परिगण्यते ।
इहा­मु­त्र­फ­ल­भो­ग­वि­रा­ग­स्त­द­न­न्त­रम् ॥१९॥

१९

शमा­दि­ष­ट्क­स­म्प­त्ति­र्मु­मु­क्षु­त्व­मिति स्फुटम् ।

१९

विवेकादीनां मध्ये पूर्वपूर्वस्य उत्त­रो­त्त­र­हे­तु­त्वात् क्रमः समाश्रितः । इदं नित्यम् इदमनित्यमिति जानानः किल अनि­त्या­द्वि­र­ज्येत । अतः नित्या­नि­त्य­व­स्तु­वि­वे­का­भावे वैराग्यं दुस्सम्पादम् इति विवेकस्य वैरा­ग्य­हे­तु­त्वम् । वैराग्यवत एव पुरुषस्य अन्त­र्ब­हि­रि­न्द्रि­य­नि­रो­ध­रू­प­शा­न्ति­दान्ती । तत्रापि निरु­द्धा­न्तः­क­र­ण­स्यैव बहि­रि­न्द्रि­य­नि­रो­ध­रू­प­दमः, मन­स्स­म्ब­न्धा­भावे इत­रे­षा­मि­न्द्रि­या­णा­म­कि­ञ्चि­त्क­र­त्वात् । तर्हि शमे सति दमस्य स्वत­स्सि­द्ध­त्वात् किमिति तस्य साध­न­को­टि­प्र­वि­ष्ट­त्व­मिति चेत् , ‘इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः’(२.६०) इति गीतोक्तरीत्या बाह्ये­न्द्रि­य­नि­रो­धा­भावे शमस्य दृढत्वाभावात् । जिते­न्द्रि­य­स्यैव उप­र­म­श­ब्दि­त­सं­न्यासः, तस्यैव शीतो­ष्णा­दि­द्व­न्द्व­स­हि­ष्णु­त्व­रूपा तितिक्षा, तस्यैव बाह्य­वि­क्षे­पा­भा­वात् ब्रह्म­ण्यै­द­म्प­र्ये­णा­व­स्था­न­ल­क्षणं समाधानम् , एता­दृ­श­गु­ण­वि­शि­ष्ट­स्यैव ‘ब्रह्मैकमस्ति जगन्मिथ्या’ इत्यु­प­दि­श्य­मा­न­गु­रु­वे­दा­न्त­वा­क्य­वि­श्वा­स­रू­प­श्रद्धा इति शमा­दि­ष­ट्क­म­ध्येऽपि पूर्वापरीभावे कारणं सुवचम् । एतादृशः किल पुरुषधौरेयः मोक्षादन्यन्न कामयते, तत्र विलम्बं च न सहत इति तीव्र­मु­मु­क्षा­वान् भवितुमर्हति इत्यभिप्रायेण आदौ नित्या­नि­त्ये­त्या­द्याह । तदनन्तरम् इहा­मु­त्र­फ­ल­भो­ग­वि­राग इति च । तेन विवे­का­न­न्त­र्यस्य वैराग्ये कथनेन ‘तदुदितः स हि यो यदनन्तरः’(नै.च. ४.३) इति न्यायेन विवेककार्यत्वं वैराग्ये उक्तप्रायम् । तदनन्तरमिति उत्त­र­त्रा­प्य­नु­ष­ज्यते वैराग्यानन्तरं शमादिसम्पत्तिः, तदनन्तरं मुमुक्षुत्वमिति ॥१९॥

उक्तसाधनानि विवृणोति – ब्रह्मेत्यादिना −

ब्रह्म सत्यं जग­न्मि­थ्ये­त्येवं रूपो विनिश्चयः ॥२०॥

२०

सोऽयं नित्या­नि­त्य­व­स्तु­वि­वेकः समुदाहृतः ॥२० – १/२॥

२०

ब्रह्म नित्यं जगदनित्यमिति निश्च­य­स­त्त्वेऽपि दृढं वैराग्यं न सम्भवति, अनित्यसुखस्यापि प्रायः काम्यमानत्वात् । जग­न्मि­थ्ये­त्युक्ते मिथ्याभूतार्थः केनापि न काम्यते । न हि स्वाप्निकं राज्यं कामयन्ते राज्यकामयितारः । अतः वैराग्यस्य नियतमुत्पत्तये ब्रह्म नित्यं जग­द­नि­त्य­मि­त्य­नुक्त्वा ब्रह्म सत्यं जगन्मिथ्येत्याह । विनिश्चय इति विशेषेण निश्चय इत्यर्थकेन निश्च­येऽ­प्रा­मा­ण्य­ज्ञा­ना­ना­स्क­न्दि­त­त्व­मुक्तं भवति । सोऽयमिति, सः विवेकिन इत्यत्र विवे­कि­वि­शे­ष­ण­त्वे­नोक्तः, अयम् आदौ नित्या­नि­त्य­व­स्तु­वि­वेक इत्युक्तः इत्यर्थः । अस्यैव ऐहि­का­मु­ष्मि­क­फ­ल­भो­ग­वि­रा­ग­हे­तुत्वं नियतमिति समुदाहृत इत्यत्र समित्युपसर्गेण द्योतितम् ॥२०-१/२॥

विवेकं निरूप्य वैराग्यं निरूपयति तद्वैराग्यमिति –

तद्वैराग्यं जुगुप्सा या दर्श­न­श्र­व­णा­दिभिः । २१ ।

२१

देहा­दि­ब्र­ह्म­प­र्यन्ते ह्यनित्ये भोग्यवस्तुनि ॥ २१-१/२॥

२१

ऐहि­क­दे­हा­दि­भो­ग्य­व­स्तुनः दर्शनेन, आमु­ष्मि­क­दि­व्य­दे­हा­दि­भो­ग्य­व­स्तुनः श्रवणेन, आदिपदेन दृष्टजातीयस्य श्रुतजातीयस्य अनुमानेन । अनु­भू­य­मा­न­श­री­र­प्र­भृति ब्राह्ममानेन शत­व­र्ष­जी­वि­च­तु­र्द­श­भु­व­ना­धि­प­त्या­व­च्छे­द­क­हि­र­ण्य­ग­र्भ­श­री­र­प­र्यन्तं सर्वस्मिन् भोग्यवस्तुनि अनित्ये मिथ्याभूते या जुगुप्सा, कदा­पी­दृ­श­प­दा­र्थ­स­म्बन्धो माभूदिति, काक­वि­ष्ठा­या­मि­वा­स­ह्य­बुद्धिः तद्वैराग्यम् । ‘शैत्यं हि यत्सा प्रकृतिर्जलस्य’(र.वं. ५.५४) इति­व­द्वि­धे­य­प्रा­धा­न्यात् नपुंसकनिर्देशः तदिति ।

स्वदे­हा­शु­चि­ग­न्धेन न विरज्येत यः पुमान् । वैराग्यकारणं तस्य किम­न्य­दु­प­दि­श्य­ताम् ॥ (मुक्ति.उ. २.६६)

सततं प्रवा­ह्य­मा­नै­र्वृ­ष­भै­रश्वैः खरै­र्ग­जै­र्म­हिषैः । हा कष्टं क्षुत्क्षामैः श्रान्तैर्नो शक्यते वक्तुम् ॥ (प्रबो.सुधा. १.१८)

‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा.उ. ८.१.६) , ‘भूम्नोऽ­न्य­दा­र्तम्’(बृ.उ. ३.४.२, छां.उ. ७.२४) , ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’(भ.गी. ९.२१) , ‘आब्र­ह्म­भु­व­ना­ल्लोकाः पुन­रा­व­र्ति­नो­र्जुन’(भ.गी. ८.१६) सूतसंहितायां यज्ञवैभवखण्डे सप्तदशोऽध्यायः, सर्व­वे­दा­न्त­सि­द्धा­न्त­सा­र­स­ङ्ग्र­हस्थाः ‘कुक्षौ स्वमा­तु­र्म­ल­मू­त्र­मध्ये’(श्लो. २७) इत्यादिना −

पुण्यक्षये पुण्यकृतो नभस्थैः निपात्यमानान् शिथि­ली­कृ­ता­ङ्गान् । नक्षत्ररूपेण दिव­श्च्यु­तां­स्तान् विचार्य को वा विरतिं न याति ॥

‘यत्रास्ति लोके गतितारतम्यम्’ इत्यन्ताश्च (श्लो. ३९) श्लोकाः वैरा­ग्य­वि­ष­येऽ­नु­स­न्धेयाः । मानुषदेहादेः रोगा­द्यु­प­प्लु­तत्वं, पश्वा­दी­ना­म­त्य­न्त­पा­र­तन्त्र्यं मूकत्वादि, देवानां राक्ष­सा­दि­पी­डि­तत्वं, शब्दादीनां विषयाणां बहु­वि­धा­न­र्थ­प्र­दत्वं कुर­ङ्गा­दि­दृ­ष्टान्तैः अनुसन्दधानस्य सर्वत्रानात्मसु जुगुप्सा सुलभेति भावः । एतच्च ‘शब्दादिभिः पञ्चभिरेव’(श्लो. ७८) इत्यादिना स्वयमुत्तरत्र स्पष्टयिष्यते ।

यद्यपि ‘अपाम सोमममृता अभूम’(ऋ. ६.४.११) ‘अक्षय्यं ह वै चातु­र्मा­स्य­या­जि­न­स्सु­कृतं भवति’(श.ब्रा. २.६.३.१) इति श्रुत्यवलोकनेन कर्मफलस्यापि नित्यत्वं प्रतीयते । अथापि ‘यत्कृतकं तदनित्यम्’ इति न्यायसहकृत – ‘तद्यथेह कर्मचित’(छा.उ. ८.१.६) इत्या­दि­श्रु­त्य­नु­सा­रेण अमृ­ता­क्ष­य्य­प­दयोः सङ्कु­चि­ता­र्थ­क­त्व­स्या­व­श्यं­व­क्त­व्य­त्वात् न दोषः । उक्तं हि –

‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ । (वि.पु. २.८.९७) इति ॥२१-१/२॥

शमस्वरूपं ब्रवीति विरज्येति −

विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहुः ।
स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ॥२२-१/२॥

२२

आद्य­न्त­व­त्त्व­ब­हु­वि­त्त­व्य­या­या­स­सा­ध्य­त्व­प­रि­ण­ति­वि­र­स­त्वा­दि­दो­षान् पुनःपुनः विषयेषु पश्यतः पुरुषस्य तत्र वैराग्यं नियतमिति विषयदोषदर्शनं वैराग्यहेतुरिति । तस्मिंश्च वैराग्ये सति मनस्स्वलक्ष्ये सगुणे निर्गुणे वा नियतमवतिष्ठमानं निश्चलं निर्विकारं भवतीति मनो­नि­य­ता­व­स्था­रू­प­श­मस्य वैरा­ग्य­ज­न्य­त्व­माह विरज्येति । तत्र ल्यपा उत्त­र­का­लि­क­त्वस्य बोधनात् वैराग्यजन्यत्वं बोधितं भवति ॥ २२-१/२॥

दमं निरूपयति विषयेभ्य इति −

विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ।
उभ­ये­षा­मि­न्द्र­याणां स दमः परिकीर्तितः ॥२३-१/२॥

२३

मनसः विष­य­वि­चा­र­सा­म­र्थ्य­स­त्त्वात् स्वत एव विर­ज्ये­त्यु­क्तम् । बाह्ये­न्द्रि­याणां श्रोत्रादीनां ज्ञानकरणानां, वागादीनां कर्मकरणानां च स्वतस्तत्र सामर्थ्याभावात् प्रग्र­ह­स्था­नी­येन मनसा अश्वस्थानीयानां बहि­रि­न्द्रि­याणां शब्दा­दि­रू­प­वि­ष­म­मा­र्गेभ्यः परावर्त्य पराङ्मुखीकृत्य स्वस्वगोलके कर्ण­श­ष्कु­ली­व­द­ना­दि­दे­शेषु स्थापनम् उपरतव्यापारता सम्पादनं यत् स दमः परिकीर्तितः । मन आदीनां प्रग्र­हा­दि­रू­पत्वं कठो­प­नि­ष­द्यु­क्तम् −

आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हया­ना­हु­र्वि­ष­यां­स्तेषु गोचरान् । (१.३.३,४) इति ।

मार्गानित्यर्थः ॥२३ १/२॥

दम­रू­प­ब­हि­रि­न्द्रि­य­नि­ग्र­ह­सा­ध्या­मु­प­र­ति­माह बाह्येति −

बाह्यानालम्बनं वृत्ते­रे­षो­प­र­ति­रु­त्तमा ॥ २४॥

२४

तटाकोदकस्य तटा­क­च्छि­द्र­द्वारा निर्गत्य यथा क्षेत्रा­द्या­त्मना परिणामः, एवमन्तस्थस्य मनसः श्रोत्रा­दि­च्छि­द्र­द्वारा बहिरागत्य शब्दा­दि­वि­ष­या­का­रेण परिणामरूपा वृत्तिर्जायते । निगृहीतेषु च बहिरिन्द्रियेषु अन्तस्थं मनः न बाह्याकारेण परिणमत इति भावः ॥२४॥

यदा बाह्यं नालम्बते चित्तं तदा शीतो­ष्णा­दि­द्व­न्द्वस्य अप्र­ती­य­मा­न­त्वात् कर्मकालादिवशात् तत्प्रसक्तावपि तत्सहनरूपा तितिक्षा सिद्ध्यतीत्याह − सहनमिति −

सहनं सर्व­दुः­खा­ना­म­प्र­ती­का­र­पू­र्व­कम् ।
चिन्ता­वि­ला­प­र­हितं सा तितिक्षा निगद्यते ॥२५॥

२५

कम्ब­ल­व्य­ज­ना­दिभिः शैत्यौ­ष्ण्या­दि­दुः­ख­प्र­ती­कारः लोकसिद्धः । तादृ­श­सा­म­ग्र्य­भावे किम­स्मा­भि­र्दीनैः करणीयमिति चिन्ता, प्रलापश्च । विचा­र­सा­ध­न­ति­ति­क्षा­या­स्त­थात्वं व्यावर्तयति अप्र­ती­का­र­पू­र्वकं चिन्ता­वि­ला­प­र­हितं यत्सहनं सा तितिक्षेति । दुःखानां दुःख­हे­तु­शी­तो­ष्णा­दी­ना­मि­त्यर्थः । चिन्ता­वि­ला­पा­दि­स­हि­तस्य मनसः विचारस्य दूरा­पा­स्त­त्वा­दिति भावः ॥२५॥

इदानीं वस्तू­प­ल­ब्ध्य­सा­धा­र­ण­का­रणं श्रद्धां निरूपयति − शास्त्रस्येति −

शास्त्रस्य गुरुवाक्यस्य सत्य­बु­द्ध्याऽ­व­धा­रणा ।
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥२६॥

२६

लोकेऽपि आप्तवाक्ये विश्वासाभावे नैव तदनुसारेण प्रवर्तते पुरुषः विचारादौ । किमु­ता­ती­न्द्रिये शास्त्रार्थे, अतः सा परमकारणम् । उक्तं हि गीतायाम् −

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्यु­सं­सा­र­व­र्त्मनि ॥ इति । (९.३)

यस्तावत् शान्तो दान्त उप­र­त­स्ति­ति­क्षुश्च स एव ‘ब्रह्मैकमेव सत्यं तदेव त्वम् अन्यत्सर्वं मिथ्या’ इति गुरुणा वेदान्तैश्च बोध्यमानं वस्तु विश्वसिति इदमेवमेवेति । नान्य­स्ता­दृ­श­सा­ध­न­हीनः इति श्रद्धा तदनन्तरं परिगणिता गुरु­वे­दा­न्त­वा­क्य­वि­ष­यिणी ।

शास्त्रं तत्त्व­म­स्या­दि­शास्त्रं गुरुवाक्यं तदनुसारि ‘नासि त्वं संसारी, किन्तु नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावं परं ब्रह्मैव, अन्यत्सर्वं मिथ्या’ इत्यादि वाक्यं तस्य सत्यम् अबा­धि­ता­र्थ­बो­ध­कम् इति बुद्ध्या, अवधारणा दृढविश्वासः, यया वस्तूपलभ्यते सा श्रद्धा इति सद्भिः कथितेत्यन्वयः ॥२६॥

एतादृशश्रद्धावत एव समाधानं सम्य­क्सि­द्ध्य­तीति तदनन्तरं समाधानं निरूपयति − सम्यगिति −

सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा ।
तत्स­मा­धा­न­मि­त्युक्तं न तु चित्तस्य लालनम् ॥२७॥

२७

यद्यपि स्वलक्ष्ये निय­ता­व­स्था­रू­प­श­मा­पे­क्षया भेदो न लक्ष्यते ईदृशे समाधाने, तथापि ‘मुहुर्मुहुः दोषदृष्ट्या विषयेभ्यो विरज्य स्वलक्ष्ये नियतावस्था’ इत्यनेन,

यतो यतो निश्चरति मन­श्च­ञ्च­ल­म­स्थि­रम् । ततस्ततो नियम्यैतत् आत्मन्येव वशं नयेत् ॥ (६.२६)

इति गीतोक्तरीत्या शमावस्थायां प्रय­त्न­वि­शे­षोऽ­पे­क्ष्यते सङ्क­ल्प­वि­क­ल्पा­त्म­कस्य मनसः स्थिरीकरणे ।

अत एवात्र अध्य­व­सा­या­त्मि­कायाः बुद्धेः शुद्धे ब्रह्मणि सम्यगास्थापनं सर्वदा इत्यनेन सङ्क­ल्प­वि­क­ल्प­वि­नि­र्मु­क्त­त्व­म­न्तः­क­र­णस्य प्रकृते कथितं भवति । अत एव मनःशब्दं विहाय निर्ण­या­त्म­क­वृ­त्ति­म­द्बु­द्धि­शब्दः प्रायोजि । तत्रापि शुद्धे ब्रह्मणीति निर्गुणं कथ्यते सर्वो­पा­धि­वि­नि­र्मु­क्तम् । शमनिरूपणावसरे ‘स्वलक्ष्ये निय­ता­व­स्थे’त्य­नेन सगुणे नियतावस्थानेऽपि शान्तत्वं मनसो वक्तुं शक्यम् । शम इति साधनं कथ्यते, समाधानं तस्य फलं तस्यैव परिपाक इति यावत् । लोके बालका विशेषतो रुदन्ति चेत् तदिष्टं दत्वा समादधते जनाः, तद्वत् मनसो यथेष्टं विष­य­मा­र्ग­स­ञ्च­रणं न समाधानमित्याह न तु चित्तस्य लालनमिति । यद्वा –

शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ अशुभेषु समाविष्टं शुभे­ष्वे­वा­व­ता­र­येत् । स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥ अशुभाच्चालितं याति शुभं तस्मादपीतरत् । जन्तोश्चित्तं तु शिशुवत् तस्मा­त्त­च्चा­ल­येद् बलात् ॥ सम­ता­सा­न्त्व­ने­नाशु न द्रागिति शनैः शनैः । पौरुषेण प्रयत्नेन लाल­ये­च्चि­त्त­बा­ल­कम् ॥ (यो.वा. २.९.३०-३३)

इति वासिष्ठरीत्या चालनं लालनं वा शमादिसाधनत्वेन पूर्वमपेक्ष्यते । न तु फली­भू­त­स­मा­धा­ना­व­स्थायां, तदाभ्यासं विनापि शमा­दि­स­म्पा­द­न­काले कृतप्रयत्नेनैव क्षीण­बा­ह्य­वा­स­नस्य मनसः सगु­णा­त्प्र­च्या­व­न­मा­त्रस्य निर्गुणे स्थाप­यि­तु­म­पे­क्षि­त­त्वात् इति ॥२७॥

एता­दृ­श­सा­ध­न­ग­ण­म­ण्डि­त­स्यैव मुमुक्षुत्वं सम्भवति नान्यस्येति इदानीं मुमुक्षुत्वमाह अहङ्कारादीति –

अह­ङ्का­रा­दि­दे­हा­न्तान् बन्धा­न­ज्ञा­न­क­ल्पि­तान् ।
स्वस्व­रू­पा­व­बो­धेन मोक्तुमिच्छा मुमुक्षुता ॥२८॥

२८

अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि । अहमित्यभिमानेन तिष्ठ­त्या­भा­स­ते­जसा ॥ अहङ्कारः स विज्ञेयः ... (श्लो. १०५, १०६)

इत्युक्त्या चित्प्र­ति­फ­ल­नो­पे­त­म­न्तः­क­र­णम् अहङ्कारः । यद्वा भोक्ता जीवोऽहङ्कारः आनन्दमयकोशनामा, स्वात्मनिरूपणे –

सुप्ति­ग­तै­स्सु­ख­ले­शै­र­भि­म­नुते सुखीभवामीति । आनन्दकोशनामा सोऽहङ्कारः कथं भवेदात्मा ॥ (स्वा.नि. १.१३)

इत्युक्तत्वात् । तस्या­प्य­ज्ञा­न­क­ल्पि­तत्वं मनो­रू­पो­पा­धि­व­शा­द्वि­का­रत्वं च गौणं वक्तुं शक्यम् । तथा च आन­न्द­को­श­प्र­भृ­ति­वि­ज्ञा­न­म­य­म­नो­म­य­प्रा­ण­म­या­न्न­म­या­न्तान् बन्धान् स्वरू­प­सा­क्षा­त्का­रा­त्प्रा­गा­त्म­त्वेन मन्यमानान् स्वस्व­रू­पा­व­बो­धेन मोक्तुं पुनस्तत्र यथाऽहन्ता न स्यात् तथा त्यक्तुं बाधितुमित्यर्थः । या इच्छा सा मुमुक्षुता । स्वस्वरूपावबोधे हि ‘यत्र त्वस्य सर्व­मा­त्मै­वा­भूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुत्या स्वव्य­ति­रि­क्तस्य कस्यापि भानाभावेन कोश­प­ञ्च­का­त्म­क­ब­न्ध­नि­वृ­त्ति­र­त्य­न्त­मिति भावः ॥२८॥

इयं तावत् मुमुक्षुता त्रिविधा मन्दा मध्यमा प्रवृद्धा चेति । मोक्षस्य नित्य­सु­ख­रू­प­त्वेऽपि सांसा­रि­क­वा­स­ना­वा­सि­ता­न्तः­क­र­णानां मोक्षेच्छैव दुर्लभा । अध्या­त्म­शा­स्त्र­श्र­व­ण­काले जाता सा न कार्यमादधाति । यदा पुरुषः श्रव­णा­न­न्त­र­जा­त­वि­वे­केन विषयेषु सांसारिकेषु दोषान् दर्शं दर्शं तत्र वैराग्यं लब्ध्वा विधिवत्संन्यस्य सर्वकर्माणि, विचारार्थं गुरूपसदनादौ प्रवर्तते तदा अध्या­त्म­शा­स्त्र­श्र­व­ण­काले जाता तात्कालिक्येव मुमुक्षुता मन्देति नामार्हैव मध्यमत्वं प्राप्नोति । यथा यथा तीव्रं वैराग्यं मनश्चोपशान्तं समाधित्सति गुरु­श्चा­स्मि­न्प्र­सी­दति ‘क्षिप्रमयं तरतु भवाब्धिमिति’ तदा पुरुषः नित्य­सु­ख­रू­प­मो­क्षा­द­न्यन्न कामयते तत्र विलम्बं च न सहत इति प्रवृ­द्ध­मु­मुक्षुः मुख्याधिकारी भूत्वा क्षिप्रं लभते फलमित्याह − मन्देति −

मन्द­म­ध्य­म­रू­पाऽपि वैराग्येण शमादिना ।
प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥२९॥

२९

इत्थं च मुमुक्षाया मोक्षे­च्छा­रू­प­त्वेऽपि यदा सा प्रवृद्धा तदैव फलं प्रसूत इत्यनेन तत्प्र­वृ­द्ध्यर्थं विष­य­वै­रा­ग्य­श­मा­दि­ष­ट्क­गु­रु­प्र­सा­द­ला­भार्थं प्रयत्नः कर्तव्यः पुरु­षे­णे­त्युक्तं भवति ॥२९॥

साध­न­च­तु­ष्ट­य­मध्ये द्विती­य­तु­री­य­सत्त्वे सर्वं तत्रास्ति नान्यथेत्याह वैराग्यमिति –

वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।
तस्मि­न्ने­वा­र्थ­वन्तः स्युः फलवन्तः शमादयः ॥३०॥

३०

अर्थवन्तश्शमादय इत्यत्र शमादय इत्यस्य शमादिशब्दा इत्यर्थः । तस्मिन्पुरुषे शमादयस्सन्तीति व्यवहारस्सार्थक इति भावः । अयं शान्तो दान्तः इत्यादिशब्दभाक् तीव्र­वै­रा­ग्य­वान् तीव्र­मु­मु­क्षु­ता­वां­श्चे­त्यर्थः, तीव्र­मु­मु­क्षु­त्व­स्यैव शमादिफलत्वात् । यदि तीव्र­मु­मु­क्षुत्वं तदा साधनं विना फला­ला­भा­त्का­र्या­त्का­र­ण­म­नु­मी­यत इति शमादिमत्त्वं तस्य सुवचम् । एवं शमादिसाधनं तीव्रवैराग्यं यदा तस्मिन् ज्ञायते, साधने सति फलावश्यम्भावात् शमादिमत्त्वं तस्मि­न्न­व­र्ज­नी­यम् । इत्थं च शमादिसाधने सति तीव्रवैराग्ये शमादिफले च तीव्र­मु­मु­क्षुत्वे स्वसा­ध­न­फ­ल­म­ध्य­वर्ति स्वयं निरपवादमिति भावः । तीव्रवैराग्ये शमादिशब्दाः अर्थवन्तः, तीव्र­मु­मु­क्षुत्वे शमादयः फलवन्तः इति विभागः । शमादीनाम् इत­रा­न्तः­क­र­ण­नि­ष्ठानां दुर्ज्ञानत्वात् कार­ण­का­र्या­भ्या­म­व­ग­न्त­व्य­त्व­मु­क्तम् । स्वयमपि पुरुषेण शान्त्यादिकं समपादीति कथं ज्ञेयमित्युक्तौ पुष्कलकारणे तीव्रवैराग्ये विशिष्टफले तीव्र­मु­मु­क्षुत्वे च सति तथेति स्वस्मिन् परस्मिंश्च कारणकार्ये ज्ञापके इति भावः ।

काकस्य विष्ठा­व­द­स­ह्य­बु­द्धि­र्भो­ग्येषु सा तीव्र­वि­र­क्ति­रि­ष्यते । विर­क्ति­ती­व्र­त्व­नि­दा­न­मा­हु­र्भो­ग्येषु दोषेक्षणमेव सन्तः ॥ (स.सं. २४)

इति वैराग्ये तीव्रत्वं तत्साधनं च कथितं सर्व­वे­दा­न्त­सि­द्धा­न्त­सा­र­स­ङ्ग्रहे । मुमुक्षुत्वे तीव्रत्वं प्रवृद्धत्वमेव । तत्तु प्रागभिहितम् ॥३०॥

एतयोर्मन्दता यत्र विर­क्त­त्व­मु­मु­क्षयोः ।
मरौ सलिलवत्तत्र शमा­दे­र्भा­न­मा­त्रता ॥३१॥

३१

यत्र यस्मिन्पुरुषे एतयोः विर­क्त­त्व­मु­मु­क्षयोः मन्दता तात्कालिकत्वं मरौ सलिलवत् निदाघसमये मरुभूमौ चण्ड­कि­र­ण­स­म्पर्के दूरस्थस्य तत्र जलमस्तीति भ्रान्तिर्भवति न जललाभः तत्र नैव पिपा­सा­नि­वृत्तिः, प्रत्युत श्रान्तस्य तत्र जलधिया जलार्थं गमनेन श्रमाधिक्यमेव, तद्व­त्ती­व्र­वै­रा­ग्य­मु­मु­क्ष­त्व­यो­र­भावे मरुसलिलवत् शमादेस्तत्र भानमात्रता न शमादिफलं तस्य, नापीतरैः शान्त इत्या­दि­श­ब्दै­र्व्य­व­ह्रि­यते च इति भावः ॥३१॥

एवं सर्वेषां वेदा­न्ता­ना­म­द्वि­ती­य­ब्र­ह्मणि प्रत्यगभिन्ने नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावे तात्प­र्य­नि­र्ण­या­नु­कू­ल­व्या­पा­र­रू­प­श्र­व­णा­त्म­क­ब्र­ह्म­वि­चा­रा­धि­का­रिणो विशेषणानि विवेकादीनि निरूप्य आत्म­सा­क्षा­त्का­र­सा­क्षा­त्सा­धनं भक्तिं पूर्वो­क्त­वि­चा­र­सा­ध्या­माह – मोक्षेति −

मोक्ष­का­र­ण­सा­मग्र्यां भक्तिरेव गरीयसी ।
स्वस्व­रू­पा­नु­स­न्धानं भक्ति­रि­त्य­भि­धी­यते ॥३२॥

३२

स्वस्व­रू­पा­नु­स­न्धा­न­मिति निदि­ध्या­स­न­मु­च्यते । तस्यैव साक्षात्कारं प्रति साक्षा­त्सा­ध­न­त्वात् । श्रुत्या­चा­र्यो­प­दे­शेन ‘स आत्मा तत्त्वमसि’(छा.उ. ६.८.७, ६.१६.१३) इति श्रुतः योऽर्थः तव स्वरूपं ब्रह्म तदेव त्वमिति, तदनुसन्धानं तद्भावनाधारा विजा­ती­य­प्र­त्य­या­ति­र­स्कृ­त­स­जा­ती­य­प्र­त्य­य­प्र­वा­ह­रूपा साक्षात्कारे असाधारणं कारणमिति भावः । शमादीनां विचा­र­द्वा­र­क­नि­दि­ध्या­स­न­द्वारा कारणत्वं ज्ञाने, अस्य तु साक्षादिति भावः । अत एव मोक्षस्य कारणम् अभिव्यञ्जकं यज्ज्ञानं तत्सामग्र्यां तत्सा­ध­न­स­मु­दा­य­मध्ये भक्तिरेव गरीयसी साक्षा­त्का­र­ण­त्वा­दि­त्यु­क्तम् । सा च सामग्री विवे­का­दि­नि­दि­ध्या­स­नान्ता ॥३२॥

अपरेषां मतमाह −

स्वात्म­त­त्त्वा­नु­स­न्धानं भक्तिरित्यपरे जगुः ॥३२-१/२॥

३२

स्वात्मनः स्वस्य जीवस्य तत्त्वा­नु­स­न्धा­नम् । तस्य भावस्तत्त्वं तत्प­द­वा­च्या­र्थत्वं पर­मा­त्म­त्व­मि­त्यर्थः । तस्यानुसन्धानं, वास्त­वि­क­भे­द­स­त्त्वेऽपि अभेदेनोपासनम् अह­ङ्ग्र­हो­पा­स­न­मिति यावत् । तत् भक्तिरिति अपरे जगुः इति भेद­बु­द्धि­पु­र­स्स­रायाः भ्रान्तिरूपाया अस्याः मुख्यभक्तित्वं नास्तीति सूचितम् ॥३२-१/२॥

पूर्वो­क्त­सा­ध­न­स­म्प­न्नस्य कृत्यमाह – उक्तेति –

उक्त­सा­ध­न­स­म्पन्नः तत्त्व­जि­ज्ञा­सु­रा­त्मनः ।
उपसीदेद्गुरुं प्राज्ञं यस्मा­द्ब­न्ध­वि­मो­क्ष­णम् ॥३३-१/२॥

३३

उक्त­सा­ध­न­स­म्पन्नः उक्तानि विचारसाधनत्वेन कथितानि यानि विवेकादीनि साधनानि तैः सम्पन्नः युक्तः, पुमानिति शेषः । आत्मनः स्वस्य तत्त्वं ज्ञातुमिच्छुः स्वया­था­त्म्य­ज्ञा­न­कामः उपसीदेत् शरणं गच्छेत् , कम् ? गुरुमुपदेशकम् । कीदृशम् ? प्राज्ञं, प्रकृष्टा निरतिशया ज्ञा अवगतिः प्रज्ञा ब्रह्म­सा­क्षा­त्कारः,

ब्रह्मात्मनोः शोधि­त­यो­रे­क­भा­वा­व­गा­हिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ॥ (श्लो. ४२८)

इति वक्ष्यमाणत्वात् । सास्यास्तीति प्रज्ञः स एव प्राज्ञः, तं ब्रह्म­नि­ष्ठ­मि­त्यर्थः । तेन स्वस्य फलमाह । यस्मा­द्या­दृ­श­गुरोः सकाशात् , बन्धविमोक्षणं बन्धस्य अज्ञानकल्पितस्य अह­ङ्का­रा­दि­दे­हा­न्तस्य विमोक्षणं विशेषेण परित्यागः इति । तादृशगुरूपसदने तदु­प­दे­श­ज­न्य­स्व­या­था­त्म्य­ज्ञा­नेन बन्ध­नि­वृ­त्ति­रू­प­मोक्षः सिद्ध्यति इति भावः ॥३३-१/२॥

तादृशं गुरुं लक्षयति, श्रोत्रिय इत्यादिना –