विवेकचूडामणिः सव्याख्यः
७. साधनचतुष्टयसम्पत्तिः
विवेकिनो विरक्तस्य शमादिगुणशालिनः ।
मुमुक्षोरेव हि ब्रह्मजिज्ञासायोग्यता मता ॥१७॥
विवेकादिस्वरूपं स्पष्टयिष्यते मूल एवोपरिष्टात् (श्लो. १९) । ज्ञातुमिच्छा जिज्ञासा, ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासा तत्रावगति पर्यन्तं ज्ञानं सन्वाच्याया इच्छायाः कर्म । अखण्डाकारवृत्तिप्रतिफलितं चैतन्यं जिज्ञासापदलक्ष्यमाणविचारस्य फलम् । सामान्यतो ब्रह्मज्ञानस्य विचारात्पूर्वमपि सत्त्वात् एतादृशमिष्टं सम्पादनीयं चेत् ,
दद्यान्नावसरं किञ्चित् कामादीनां मनागपि । आसुप्तेरामृतेः कालं नयेद्वेदान्तचिन्तया ॥
इत्युक्तरीत्या सार्वदिकवेदान्तविचार आवश्यकः ।
देहात्मज्ञानवज्ज्ञानं देहात्मज्ञानबाधकम् । आत्मन्येव भवेद्यस्य स नेच्छन्नपि मुच्यते ॥ (व.उ. २.१५)
इत्युक्तज्ञानं जनयितुं स एव समर्थः ॥१७॥
एतादृशविचारजननी या इच्छा तत्र योग्यता विवेकादिसाधनयुतस्यैव नान्यस्येत्येवकारबोधितमर्थमन्वयेन व्यतिरेकेण च स्पष्टयति – साधनानीति −
साधनान्यत्र चत्वारि कथितानि मनीषीभिः ।
येषु सत्स्वेव सन्निष्ठा यदभावे न सिद्ध्यति ॥१८॥
लोके यस्य तावत् कार्यत्वेनाभिमतसमानाधिकरणात्यन्ताभावप्रतियोगित्वं स्वसमानाधिकरणात्यन्ताभावप्रतियोगिकार्यत्वाभिमतकत्वं वा तस्य तत्कारणत्वं न सम्भवति । यथा पटसमानाधिकरणात्यन्ताभावप्रतियोगिनी मृत् , मृत्समानाधिकरणात्यान्ताभावप्रतियोगिपटवती वा सा पटकारणत्वं नाश्नुते । अपि तु मृत्सत्त्वे घटसत्त्वं, मृदभावे घटाभाव इत्यन्वयव्यतिरेकसहचारग्रहवशात् घटकारणत्वं भजते । एवं विवेकादिचतुष्टयसत्त्व एव सति ब्रह्मणि नितरां स्थितिप्रयोजकब्रह्मजिज्ञासायाः सम्भवात् तदभावे चासम्भवात् अन्वयव्यतिरेकसहचारग्रहाधीना तेषां विवेकादीनां सन्निष्ठापरपर्यायफलपर्यन्तब्रह्मजिज्ञासाकारणत्वावगतिः इत्युक्तम् । मनीषिभिः कथितानीति − तत्र मनीषित्वं च श्रुतितात्पर्यज्ञानवत्त्वम् । श्रुत्यवलम्बनाभावे एतादृशाधिकारिविशेषणानां दुर्ज्ञानत्वात् । तादृशाश्च मनीषिणः बादरायणप्रभृतयः । ते किल ‘अथातो ब्रह्मजिज्ञासा’(ब्र.सू. १.१.१) इति सूत्रघटकाथशब्देन साधनचतुष्टयसम्पत्त्यानन्तर्यं सूत्रयन्तः ब्रह्मजिज्ञासाधिकारिणमेवंविधं सूत्रयामासुः इति शारीरकमीमांसाद्याधिकरणतृतीयवर्णकभाष्यादर्थतोऽवगम्यते । एतादृशविशेषणलम्भकश्रुतयस्तु ‘यत्कृतकं तदनित्यम्’ इति न्यायवती ‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा.उ. ८.१.६) , ‘यो वै भूमा तदमृतम् अतोऽन्यदार्तम्’(छा.उ. ७.२४.१) , ‘न जायते म्रियते वा विपश्चित्’(क.उ. २.१८) इत्यादिश्रुतिः आत्मनः नित्यत्वम् अनात्मनः अनित्यत्वं च बोधयतीति विवेकलम्भिका । ‘परीक्ष्य लोकान् कर्मचितान् ब्राह्मणो निर्वेदमायान्नास्त्यकृतः कृतेन’(मु.उ. १.२.१२) , ‘न वा अरे पत्युः कामाये’यारभ्य ‘आत्मनस्तु कामाय सर्वम्प्रियं भवति’(बृ.उ. २.४.५) इत्यन्ता श्रुतिः अनात्ममात्रे वैराग्यप्रतिपादिका । ‘शान्तो दान्त उपरतस्तितिक्षुः समाहितः श्रद्धावित्तो भूत्वाऽऽत्मन्येवात्मानं पश्येत्’(बृ.उ. ४.४.२३) इति श्रुतिः शमादिषट्कं बोधयति । ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुतिः मोक्षस्य नित्यत्वं वदन्ती तत्रेच्छामादधाति । उपनिषदामर्थवादत्वं वदतां कर्ममीमांसकानां मते एतासां स्वार्थे तात्पर्यं नास्तीत्येव ज्ञानसम्भवात् ‘ब्रह्मजिज्ञासितव्यं, तत्र च एतादृशविशेषण विशिष्टोऽधिकारीति’ ज्ञानस्य दुर्लभत्वात् मनीषिभिः कथितानीत्युक्तम् । तथा च प्रमाणान्तरानधिगतकालत्रयाबाध्यपरमपुरुषार्थस्वरूपब्रह्मप्रतिपादकत्वादुपनिषदां तात्त्विकप्रामाण्यस्यात्रैव सम्भवात् तत्तद्वाक्यसमर्पितविवेकादिविशिष्टस्यैव ‘सोऽन्वेष्टव्यः स विजिज्ञासितव्यः’(छा.उ. ८.७.१) इत्यादिवाक्यविहितजिज्ञासायोग्यतेति सर्वं चतुरस्रम् ॥१८॥
तत्र विवेकिनो विरक्तस्येत्यादिना (श्लो. १७) कथितं विवेकादिकं क्रमतो निर्दिशति आदावित्यादिना –
आदौ नित्यानित्यवस्तुविवेकः परिगण्यते ।
इहामुत्रफलभोगविरागस्तदनन्तरम् ॥१९॥
शमादिषट्कसम्पत्तिर्मुमुक्षुत्वमिति स्फुटम् ।
१९विवेकादीनां मध्ये पूर्वपूर्वस्य उत्तरोत्तरहेतुत्वात् क्रमः समाश्रितः । इदं नित्यम् इदमनित्यमिति जानानः किल अनित्याद्विरज्येत । अतः नित्यानित्यवस्तुविवेकाभावे वैराग्यं दुस्सम्पादम् इति विवेकस्य वैराग्यहेतुत्वम् । वैराग्यवत एव पुरुषस्य अन्तर्बहिरिन्द्रियनिरोधरूपशान्तिदान्ती । तत्रापि निरुद्धान्तःकरणस्यैव बहिरिन्द्रियनिरोधरूपदमः, मनस्सम्बन्धाभावे इतरेषामिन्द्रियाणामकिञ्चित्करत्वात् । तर्हि शमे सति दमस्य स्वतस्सिद्धत्वात् किमिति तस्य साधनकोटिप्रविष्टत्वमिति चेत् , ‘इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः’(२.६०) इति गीतोक्तरीत्या बाह्येन्द्रियनिरोधाभावे शमस्य दृढत्वाभावात् । जितेन्द्रियस्यैव उपरमशब्दितसंन्यासः, तस्यैव शीतोष्णादिद्वन्द्वसहिष्णुत्वरूपा तितिक्षा, तस्यैव बाह्यविक्षेपाभावात् ब्रह्मण्यैदम्पर्येणावस्थानलक्षणं समाधानम् , एतादृशगुणविशिष्टस्यैव ‘ब्रह्मैकमस्ति जगन्मिथ्या’ इत्युपदिश्यमानगुरुवेदान्तवाक्यविश्वासरूपश्रद्धा इति शमादिषट्कमध्येऽपि पूर्वापरीभावे कारणं सुवचम् । एतादृशः किल पुरुषधौरेयः मोक्षादन्यन्न कामयते, तत्र विलम्बं च न सहत इति तीव्रमुमुक्षावान् भवितुमर्हति इत्यभिप्रायेण आदौ नित्यानित्येत्याद्याह । तदनन्तरम् इहामुत्रफलभोगविराग इति च । तेन विवेकानन्तर्यस्य वैराग्ये कथनेन ‘तदुदितः स हि यो यदनन्तरः’(नै.च. ४.३) इति न्यायेन विवेककार्यत्वं वैराग्ये उक्तप्रायम् । तदनन्तरमिति उत्तरत्राप्यनुषज्यते वैराग्यानन्तरं शमादिसम्पत्तिः, तदनन्तरं मुमुक्षुत्वमिति ॥१९॥
उक्तसाधनानि विवृणोति – ब्रह्मेत्यादिना −
ब्रह्म सत्यं जगन्मिथ्येत्येवं रूपो विनिश्चयः ॥२०॥
२०सोऽयं नित्यानित्यवस्तुविवेकः समुदाहृतः ॥२० – १/२॥
२०ब्रह्म नित्यं जगदनित्यमिति निश्चयसत्त्वेऽपि दृढं वैराग्यं न सम्भवति, अनित्यसुखस्यापि प्रायः काम्यमानत्वात् । जगन्मिथ्येत्युक्ते मिथ्याभूतार्थः केनापि न काम्यते । न हि स्वाप्निकं राज्यं कामयन्ते राज्यकामयितारः । अतः वैराग्यस्य नियतमुत्पत्तये ब्रह्म नित्यं जगदनित्यमित्यनुक्त्वा ब्रह्म सत्यं जगन्मिथ्येत्याह । विनिश्चय इति विशेषेण निश्चय इत्यर्थकेन निश्चयेऽप्रामाण्यज्ञानानास्कन्दितत्वमुक्तं भवति । सोऽयमिति, सः विवेकिन इत्यत्र विवेकिविशेषणत्वेनोक्तः, अयम् आदौ नित्यानित्यवस्तुविवेक इत्युक्तः इत्यर्थः । अस्यैव ऐहिकामुष्मिकफलभोगविरागहेतुत्वं नियतमिति समुदाहृत इत्यत्र समित्युपसर्गेण द्योतितम् ॥२०-१/२॥
विवेकं निरूप्य वैराग्यं निरूपयति तद्वैराग्यमिति –
तद्वैराग्यं जुगुप्सा या दर्शनश्रवणादिभिः । २१ ।
२१देहादिब्रह्मपर्यन्ते ह्यनित्ये भोग्यवस्तुनि ॥ २१-१/२॥
२१ऐहिकदेहादिभोग्यवस्तुनः दर्शनेन, आमुष्मिकदिव्यदेहादिभोग्यवस्तुनः श्रवणेन, आदिपदेन दृष्टजातीयस्य श्रुतजातीयस्य अनुमानेन । अनुभूयमानशरीरप्रभृति ब्राह्ममानेन शतवर्षजीविचतुर्दशभुवनाधिपत्यावच्छेदकहिरण्यगर्भशरीरपर्यन्तं सर्वस्मिन् भोग्यवस्तुनि अनित्ये मिथ्याभूते या जुगुप्सा, कदापीदृशपदार्थसम्बन्धो माभूदिति, काकविष्ठायामिवासह्यबुद्धिः तद्वैराग्यम् । ‘शैत्यं हि यत्सा प्रकृतिर्जलस्य’(र.वं. ५.५४) इतिवद्विधेयप्राधान्यात् नपुंसकनिर्देशः तदिति ।
स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् । वैराग्यकारणं तस्य किमन्यदुपदिश्यताम् ॥ (मुक्ति.उ. २.६६)
सततं प्रवाह्यमानैर्वृषभैरश्वैः खरैर्गजैर्महिषैः । हा कष्टं क्षुत्क्षामैः श्रान्तैर्नो शक्यते वक्तुम् ॥ (प्रबो.सुधा. १.१८)
‘तद्यथेह कर्मचितो लोकः क्षीयते एवमेवामुत्र पुण्यचितो लोकः क्षीयते’(छा.उ. ८.१.६) , ‘भूम्नोऽन्यदार्तम्’(बृ.उ. ३.४.२, छां.उ. ७.२४) , ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’(भ.गी. ९.२१) , ‘आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोर्जुन’(भ.गी. ८.१६) सूतसंहितायां यज्ञवैभवखण्डे सप्तदशोऽध्यायः, सर्ववेदान्तसिद्धान्तसारसङ्ग्रहस्थाः ‘कुक्षौ स्वमातुर्मलमूत्रमध्ये’(श्लो. २७) इत्यादिना −
पुण्यक्षये पुण्यकृतो नभस्थैः निपात्यमानान् शिथिलीकृताङ्गान् । नक्षत्ररूपेण दिवश्च्युतांस्तान् विचार्य को वा विरतिं न याति ॥
‘यत्रास्ति लोके गतितारतम्यम्’ इत्यन्ताश्च (श्लो. ३९) श्लोकाः वैराग्यविषयेऽनुसन्धेयाः । मानुषदेहादेः रोगाद्युपप्लुतत्वं, पश्वादीनामत्यन्तपारतन्त्र्यं मूकत्वादि, देवानां राक्षसादिपीडितत्वं, शब्दादीनां विषयाणां बहुविधानर्थप्रदत्वं कुरङ्गादिदृष्टान्तैः अनुसन्दधानस्य सर्वत्रानात्मसु जुगुप्सा सुलभेति भावः । एतच्च ‘शब्दादिभिः पञ्चभिरेव’(श्लो. ७८) इत्यादिना स्वयमुत्तरत्र स्पष्टयिष्यते ।
यद्यपि ‘अपाम सोमममृता अभूम’(ऋ. ६.४.११) ‘अक्षय्यं ह वै चातुर्मास्ययाजिनस्सुकृतं भवति’(श.ब्रा. २.६.३.१) इति श्रुत्यवलोकनेन कर्मफलस्यापि नित्यत्वं प्रतीयते । अथापि ‘यत्कृतकं तदनित्यम्’ इति न्यायसहकृत – ‘तद्यथेह कर्मचित’(छा.उ. ८.१.६) इत्यादिश्रुत्यनुसारेण अमृताक्षय्यपदयोः सङ्कुचितार्थकत्वस्यावश्यंवक्तव्यत्वात् न दोषः । उक्तं हि –
‘आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते’ । (वि.पु. २.८.९७) इति ॥२१-१/२॥
शमस्वरूपं ब्रवीति विरज्येति −
विरज्य विषयव्रातात् दोषदृष्ट्या मुहुर्मुहुः ।
स्वलक्ष्ये नियतावस्था मनसः शम उच्यते ॥२२-१/२॥
आद्यन्तवत्त्वबहुवित्तव्ययायाससाध्यत्वपरिणतिविरसत्वादिदोषान् पुनःपुनः विषयेषु पश्यतः पुरुषस्य तत्र वैराग्यं नियतमिति विषयदोषदर्शनं वैराग्यहेतुरिति । तस्मिंश्च वैराग्ये सति मनस्स्वलक्ष्ये सगुणे निर्गुणे वा नियतमवतिष्ठमानं निश्चलं निर्विकारं भवतीति मनोनियतावस्थारूपशमस्य वैराग्यजन्यत्वमाह विरज्येति । तत्र ल्यपा उत्तरकालिकत्वस्य बोधनात् वैराग्यजन्यत्वं बोधितं भवति ॥ २२-१/२॥
दमं निरूपयति विषयेभ्य इति −
विषयेभ्यः परावर्त्य स्थापनं स्वस्वगोलके ।
उभयेषामिन्द्रयाणां स दमः परिकीर्तितः ॥२३-१/२॥
मनसः विषयविचारसामर्थ्यसत्त्वात् स्वत एव विरज्येत्युक्तम् । बाह्येन्द्रियाणां श्रोत्रादीनां ज्ञानकरणानां, वागादीनां कर्मकरणानां च स्वतस्तत्र सामर्थ्याभावात् प्रग्रहस्थानीयेन मनसा अश्वस्थानीयानां बहिरिन्द्रियाणां शब्दादिरूपविषममार्गेभ्यः परावर्त्य पराङ्मुखीकृत्य स्वस्वगोलके कर्णशष्कुलीवदनादिदेशेषु स्थापनम् उपरतव्यापारता सम्पादनं यत् स दमः परिकीर्तितः । मन आदीनां प्रग्रहादिरूपत्वं कठोपनिषद्युक्तम् −
आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयांस्तेषु गोचरान् । (१.३.३,४) इति ।
मार्गानित्यर्थः ॥२३ १/२॥
दमरूपबहिरिन्द्रियनिग्रहसाध्यामुपरतिमाह बाह्येति −
बाह्यानालम्बनं वृत्तेरेषोपरतिरुत्तमा ॥ २४॥
२४तटाकोदकस्य तटाकच्छिद्रद्वारा निर्गत्य यथा क्षेत्राद्यात्मना परिणामः, एवमन्तस्थस्य मनसः श्रोत्रादिच्छिद्रद्वारा बहिरागत्य शब्दादिविषयाकारेण परिणामरूपा वृत्तिर्जायते । निगृहीतेषु च बहिरिन्द्रियेषु अन्तस्थं मनः न बाह्याकारेण परिणमत इति भावः ॥२४॥
यदा बाह्यं नालम्बते चित्तं तदा शीतोष्णादिद्वन्द्वस्य अप्रतीयमानत्वात् कर्मकालादिवशात् तत्प्रसक्तावपि तत्सहनरूपा तितिक्षा सिद्ध्यतीत्याह − सहनमिति −
सहनं सर्वदुःखानामप्रतीकारपूर्वकम् ।
चिन्ताविलापरहितं सा तितिक्षा निगद्यते ॥२५॥
कम्बलव्यजनादिभिः शैत्यौष्ण्यादिदुःखप्रतीकारः लोकसिद्धः । तादृशसामग्र्यभावे किमस्माभिर्दीनैः करणीयमिति चिन्ता, प्रलापश्च । विचारसाधनतितिक्षायास्तथात्वं व्यावर्तयति अप्रतीकारपूर्वकं चिन्ताविलापरहितं यत्सहनं सा तितिक्षेति । दुःखानां दुःखहेतुशीतोष्णादीनामित्यर्थः । चिन्ताविलापादिसहितस्य मनसः विचारस्य दूरापास्तत्वादिति भावः ॥२५॥
इदानीं वस्तूपलब्ध्यसाधारणकारणं श्रद्धां निरूपयति − शास्त्रस्येति −
शास्त्रस्य गुरुवाक्यस्य सत्यबुद्ध्याऽवधारणा ।
सा श्रद्धा कथिता सद्भिर्यया वस्तूपलभ्यते ॥२६॥
लोकेऽपि आप्तवाक्ये विश्वासाभावे नैव तदनुसारेण प्रवर्तते पुरुषः विचारादौ । किमुतातीन्द्रिये शास्त्रार्थे, अतः सा परमकारणम् । उक्तं हि गीतायाम् −
अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप । अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ॥ इति । (९.३)
यस्तावत् शान्तो दान्त उपरतस्तितिक्षुश्च स एव ‘ब्रह्मैकमेव सत्यं तदेव त्वम् अन्यत्सर्वं मिथ्या’ इति गुरुणा वेदान्तैश्च बोध्यमानं वस्तु विश्वसिति इदमेवमेवेति । नान्यस्तादृशसाधनहीनः इति श्रद्धा तदनन्तरं परिगणिता गुरुवेदान्तवाक्यविषयिणी ।
शास्त्रं तत्त्वमस्यादिशास्त्रं गुरुवाक्यं तदनुसारि ‘नासि त्वं संसारी, किन्तु नित्यशुद्धबुद्धमुक्तस्वभावं परं ब्रह्मैव, अन्यत्सर्वं मिथ्या’ इत्यादि वाक्यं तस्य सत्यम् अबाधितार्थबोधकम् इति बुद्ध्या, अवधारणा दृढविश्वासः, यया वस्तूपलभ्यते सा श्रद्धा इति सद्भिः कथितेत्यन्वयः ॥२६॥
एतादृशश्रद्धावत एव समाधानं सम्यक्सिद्ध्यतीति तदनन्तरं समाधानं निरूपयति − सम्यगिति −
सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा ।
तत्समाधानमित्युक्तं न तु चित्तस्य लालनम् ॥२७॥
यद्यपि स्वलक्ष्ये नियतावस्थारूपशमापेक्षया भेदो न लक्ष्यते ईदृशे समाधाने, तथापि ‘मुहुर्मुहुः दोषदृष्ट्या विषयेभ्यो विरज्य स्वलक्ष्ये नियतावस्था’ इत्यनेन,
यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् । ततस्ततो नियम्यैतत् आत्मन्येव वशं नयेत् ॥ (६.२६)
इति गीतोक्तरीत्या शमावस्थायां प्रयत्नविशेषोऽपेक्ष्यते सङ्कल्पविकल्पात्मकस्य मनसः स्थिरीकरणे ।
अत एवात्र अध्यवसायात्मिकायाः बुद्धेः शुद्धे ब्रह्मणि सम्यगास्थापनं सर्वदा इत्यनेन सङ्कल्पविकल्पविनिर्मुक्तत्वमन्तःकरणस्य प्रकृते कथितं भवति । अत एव मनःशब्दं विहाय निर्णयात्मकवृत्तिमद्बुद्धिशब्दः प्रायोजि । तत्रापि शुद्धे ब्रह्मणीति निर्गुणं कथ्यते सर्वोपाधिविनिर्मुक्तम् । शमनिरूपणावसरे ‘स्वलक्ष्ये नियतावस्थे’त्यनेन सगुणे नियतावस्थानेऽपि शान्तत्वं मनसो वक्तुं शक्यम् । शम इति साधनं कथ्यते, समाधानं तस्य फलं तस्यैव परिपाक इति यावत् । लोके बालका विशेषतो रुदन्ति चेत् तदिष्टं दत्वा समादधते जनाः, तद्वत् मनसो यथेष्टं विषयमार्गसञ्चरणं न समाधानमित्याह न तु चित्तस्य लालनमिति । यद्वा –
शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् । पौरुषेण प्रयत्नेन योजनीया शुभे पथि ॥ अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् । स्वमनः पुरुषार्थेन बलेन बलिनां वर ॥ अशुभाच्चालितं याति शुभं तस्मादपीतरत् । जन्तोश्चित्तं तु शिशुवत् तस्मात्तच्चालयेद् बलात् ॥ समतासान्त्वनेनाशु न द्रागिति शनैः शनैः । पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ॥ (यो.वा. २.९.३०-३३)
इति वासिष्ठरीत्या चालनं लालनं वा शमादिसाधनत्वेन पूर्वमपेक्ष्यते । न तु फलीभूतसमाधानावस्थायां, तदाभ्यासं विनापि शमादिसम्पादनकाले कृतप्रयत्नेनैव क्षीणबाह्यवासनस्य मनसः सगुणात्प्रच्यावनमात्रस्य निर्गुणे स्थापयितुमपेक्षितत्वात् इति ॥२७॥
एतादृशसाधनगणमण्डितस्यैव मुमुक्षुत्वं सम्भवति नान्यस्येति इदानीं मुमुक्षुत्वमाह अहङ्कारादीति –
अहङ्कारादिदेहान्तान् बन्धानज्ञानकल्पितान् ।
स्वस्वरूपावबोधेन मोक्तुमिच्छा मुमुक्षुता ॥२८॥
अन्तःकरणमेतेषु चक्षुरादिषु वर्ष्मणि । अहमित्यभिमानेन तिष्ठत्याभासतेजसा ॥ अहङ्कारः स विज्ञेयः ... (श्लो. १०५, १०६)
इत्युक्त्या चित्प्रतिफलनोपेतमन्तःकरणम् अहङ्कारः । यद्वा भोक्ता जीवोऽहङ्कारः आनन्दमयकोशनामा, स्वात्मनिरूपणे –
सुप्तिगतैस्सुखलेशैरभिमनुते सुखीभवामीति । आनन्दकोशनामा सोऽहङ्कारः कथं भवेदात्मा ॥ (स्वा.नि. १.१३)
इत्युक्तत्वात् । तस्याप्यज्ञानकल्पितत्वं मनोरूपोपाधिवशाद्विकारत्वं च गौणं वक्तुं शक्यम् । तथा च आनन्दकोशप्रभृतिविज्ञानमयमनोमयप्राणमयान्नमयान्तान् बन्धान् स्वरूपसाक्षात्कारात्प्रागात्मत्वेन मन्यमानान् स्वस्वरूपावबोधेन मोक्तुं पुनस्तत्र यथाऽहन्ता न स्यात् तथा त्यक्तुं बाधितुमित्यर्थः । या इच्छा सा मुमुक्षुता । स्वस्वरूपावबोधे हि ‘यत्र त्वस्य सर्वमात्मैवाभूत् तत्केन कं पश्येत्’(बृ.उ. ४.५.१५) इति श्रुत्या स्वव्यतिरिक्तस्य कस्यापि भानाभावेन कोशपञ्चकात्मकबन्धनिवृत्तिरत्यन्तमिति भावः ॥२८॥
इयं तावत् मुमुक्षुता त्रिविधा मन्दा मध्यमा प्रवृद्धा चेति । मोक्षस्य नित्यसुखरूपत्वेऽपि सांसारिकवासनावासितान्तःकरणानां मोक्षेच्छैव दुर्लभा । अध्यात्मशास्त्रश्रवणकाले जाता सा न कार्यमादधाति । यदा पुरुषः श्रवणानन्तरजातविवेकेन विषयेषु सांसारिकेषु दोषान् दर्शं दर्शं तत्र वैराग्यं लब्ध्वा विधिवत्संन्यस्य सर्वकर्माणि, विचारार्थं गुरूपसदनादौ प्रवर्तते तदा अध्यात्मशास्त्रश्रवणकाले जाता तात्कालिक्येव मुमुक्षुता मन्देति नामार्हैव मध्यमत्वं प्राप्नोति । यथा यथा तीव्रं वैराग्यं मनश्चोपशान्तं समाधित्सति गुरुश्चास्मिन्प्रसीदति ‘क्षिप्रमयं तरतु भवाब्धिमिति’ तदा पुरुषः नित्यसुखरूपमोक्षादन्यन्न कामयते तत्र विलम्बं च न सहत इति प्रवृद्धमुमुक्षुः मुख्याधिकारी भूत्वा क्षिप्रं लभते फलमित्याह − मन्देति −
मन्दमध्यमरूपाऽपि वैराग्येण शमादिना ।
प्रसादेन गुरोः सेयं प्रवृद्धा सूयते फलम् ॥२९॥
इत्थं च मुमुक्षाया मोक्षेच्छारूपत्वेऽपि यदा सा प्रवृद्धा तदैव फलं प्रसूत इत्यनेन तत्प्रवृद्ध्यर्थं विषयवैराग्यशमादिषट्कगुरुप्रसादलाभार्थं प्रयत्नः कर्तव्यः पुरुषेणेत्युक्तं भवति ॥२९॥
साधनचतुष्टयमध्ये द्वितीयतुरीयसत्त्वे सर्वं तत्रास्ति नान्यथेत्याह वैराग्यमिति –
वैराग्यं च मुमुक्षुत्वं तीव्रं यस्य तु विद्यते ।
तस्मिन्नेवार्थवन्तः स्युः फलवन्तः शमादयः ॥३०॥
अर्थवन्तश्शमादय इत्यत्र शमादय इत्यस्य शमादिशब्दा इत्यर्थः । तस्मिन्पुरुषे शमादयस्सन्तीति व्यवहारस्सार्थक इति भावः । अयं शान्तो दान्तः इत्यादिशब्दभाक् तीव्रवैराग्यवान् तीव्रमुमुक्षुतावांश्चेत्यर्थः, तीव्रमुमुक्षुत्वस्यैव शमादिफलत्वात् । यदि तीव्रमुमुक्षुत्वं तदा साधनं विना फलालाभात्कार्यात्कारणमनुमीयत इति शमादिमत्त्वं तस्य सुवचम् । एवं शमादिसाधनं तीव्रवैराग्यं यदा तस्मिन् ज्ञायते, साधने सति फलावश्यम्भावात् शमादिमत्त्वं तस्मिन्नवर्जनीयम् । इत्थं च शमादिसाधने सति तीव्रवैराग्ये शमादिफले च तीव्रमुमुक्षुत्वे स्वसाधनफलमध्यवर्ति स्वयं निरपवादमिति भावः । तीव्रवैराग्ये शमादिशब्दाः अर्थवन्तः, तीव्रमुमुक्षुत्वे शमादयः फलवन्तः इति विभागः । शमादीनाम् इतरान्तःकरणनिष्ठानां दुर्ज्ञानत्वात् कारणकार्याभ्यामवगन्तव्यत्वमुक्तम् । स्वयमपि पुरुषेण शान्त्यादिकं समपादीति कथं ज्ञेयमित्युक्तौ पुष्कलकारणे तीव्रवैराग्ये विशिष्टफले तीव्रमुमुक्षुत्वे च सति तथेति स्वस्मिन् परस्मिंश्च कारणकार्ये ज्ञापके इति भावः ।
काकस्य विष्ठावदसह्यबुद्धिर्भोग्येषु सा तीव्रविरक्तिरिष्यते । विरक्तितीव्रत्वनिदानमाहुर्भोग्येषु दोषेक्षणमेव सन्तः ॥ (स.सं. २४)
इति वैराग्ये तीव्रत्वं तत्साधनं च कथितं सर्ववेदान्तसिद्धान्तसारसङ्ग्रहे । मुमुक्षुत्वे तीव्रत्वं प्रवृद्धत्वमेव । तत्तु प्रागभिहितम् ॥३०॥
एतयोर्मन्दता यत्र विरक्तत्वमुमुक्षयोः ।
मरौ सलिलवत्तत्र शमादेर्भानमात्रता ॥३१॥
यत्र यस्मिन्पुरुषे एतयोः विरक्तत्वमुमुक्षयोः मन्दता तात्कालिकत्वं मरौ सलिलवत् निदाघसमये मरुभूमौ चण्डकिरणसम्पर्के दूरस्थस्य तत्र जलमस्तीति भ्रान्तिर्भवति न जललाभः तत्र नैव पिपासानिवृत्तिः, प्रत्युत श्रान्तस्य तत्र जलधिया जलार्थं गमनेन श्रमाधिक्यमेव, तद्वत्तीव्रवैराग्यमुमुक्षत्वयोरभावे मरुसलिलवत् शमादेस्तत्र भानमात्रता न शमादिफलं तस्य, नापीतरैः शान्त इत्यादिशब्दैर्व्यवह्रियते च इति भावः ॥३१॥
एवं सर्वेषां वेदान्तानामद्वितीयब्रह्मणि प्रत्यगभिन्ने नित्यशुद्धबुद्धमुक्तस्वभावे तात्पर्यनिर्णयानुकूलव्यापाररूपश्रवणात्मकब्रह्मविचाराधिकारिणो विशेषणानि विवेकादीनि निरूप्य आत्मसाक्षात्कारसाक्षात्साधनं भक्तिं पूर्वोक्तविचारसाध्यामाह – मोक्षेति −
मोक्षकारणसामग्र्यां भक्तिरेव गरीयसी ।
स्वस्वरूपानुसन्धानं भक्तिरित्यभिधीयते ॥३२॥
स्वस्वरूपानुसन्धानमिति निदिध्यासनमुच्यते । तस्यैव साक्षात्कारं प्रति साक्षात्साधनत्वात् । श्रुत्याचार्योपदेशेन ‘स आत्मा तत्त्वमसि’(छा.उ. ६.८.७, ६.१६.१३) इति श्रुतः योऽर्थः तव स्वरूपं ब्रह्म तदेव त्वमिति, तदनुसन्धानं तद्भावनाधारा विजातीयप्रत्ययातिरस्कृतसजातीयप्रत्ययप्रवाहरूपा साक्षात्कारे असाधारणं कारणमिति भावः । शमादीनां विचारद्वारकनिदिध्यासनद्वारा कारणत्वं ज्ञाने, अस्य तु साक्षादिति भावः । अत एव मोक्षस्य कारणम् अभिव्यञ्जकं यज्ज्ञानं तत्सामग्र्यां तत्साधनसमुदायमध्ये भक्तिरेव गरीयसी साक्षात्कारणत्वादित्युक्तम् । सा च सामग्री विवेकादिनिदिध्यासनान्ता ॥३२॥
अपरेषां मतमाह −
स्वात्मतत्त्वानुसन्धानं भक्तिरित्यपरे जगुः ॥३२-१/२॥
३२स्वात्मनः स्वस्य जीवस्य तत्त्वानुसन्धानम् । तस्य भावस्तत्त्वं तत्पदवाच्यार्थत्वं परमात्मत्वमित्यर्थः । तस्यानुसन्धानं, वास्तविकभेदसत्त्वेऽपि अभेदेनोपासनम् अहङ्ग्रहोपासनमिति यावत् । तत् भक्तिरिति अपरे जगुः इति भेदबुद्धिपुरस्सरायाः भ्रान्तिरूपाया अस्याः मुख्यभक्तित्वं नास्तीति सूचितम् ॥३२-१/२॥
पूर्वोक्तसाधनसम्पन्नस्य कृत्यमाह – उक्तेति –
उक्तसाधनसम्पन्नः तत्त्वजिज्ञासुरात्मनः ।
उपसीदेद्गुरुं प्राज्ञं यस्माद्बन्धविमोक्षणम् ॥३३-१/२॥
उक्तसाधनसम्पन्नः उक्तानि विचारसाधनत्वेन कथितानि यानि विवेकादीनि साधनानि तैः सम्पन्नः युक्तः, पुमानिति शेषः । आत्मनः स्वस्य तत्त्वं ज्ञातुमिच्छुः स्वयाथात्म्यज्ञानकामः उपसीदेत् शरणं गच्छेत् , कम् ? गुरुमुपदेशकम् । कीदृशम् ? प्राज्ञं, प्रकृष्टा निरतिशया ज्ञा अवगतिः प्रज्ञा ब्रह्मसाक्षात्कारः,
ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनी । निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते ॥ (श्लो. ४२८)
इति वक्ष्यमाणत्वात् । सास्यास्तीति प्रज्ञः स एव प्राज्ञः, तं ब्रह्मनिष्ठमित्यर्थः । तेन स्वस्य फलमाह । यस्माद्यादृशगुरोः सकाशात् , बन्धविमोक्षणं बन्धस्य अज्ञानकल्पितस्य अहङ्कारादिदेहान्तस्य विमोक्षणं विशेषेण परित्यागः इति । तादृशगुरूपसदने तदुपदेशजन्यस्वयाथात्म्यज्ञानेन बन्धनिवृत्तिरूपमोक्षः सिद्ध्यति इति भावः ॥३३-१/२॥
तादृशं गुरुं लक्षयति, श्रोत्रिय इत्यादिना –