अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

८. गुरूपसत्तिः

श्रोत्रि­योऽ­वृ­जि­नोऽ­का­म­हतो यो ब्रह्मवित्तमः ।
ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः ॥३४-१/२॥

३४

‘श्रोत्रि­य­श्छ­न्दोऽ­धीत’(पा.सू. ५.२.८५) इति पाणि­नि­नाऽ­नु­शि­ष्ट­त्वात् अधीतोपनिषत्क इत्यर्थः । उपनिषदमधीत्य कृत­त­द­र्थ­वि­चा­र­स्यैव साक्षा­त्का­र­हे­तु­त्वात् । अवृजिनः निष्पाप इत्यर्थः ।

नाविरतो दुश्चरितात् नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञा­ने­नै­न­मा­प्नु­यात् ॥ (क.उ. २.२४)

इति श्रुतेः । तत्र कारणमाह अकामहत इति । कामेन विषयाशया हतः कामहतः अभासितस्वस्वरूप इत्यर्थः । न कामहतः अकामहतः यस्ता­व­त्स्व­रू­पम् आनन्दं न जानाति स एव बहि­रा­न­न्दोऽ­स्तीति तं प्राप्तुं कदाचित्पापमपि कुर्यात् । अस्य तावत् ब्रह्मवित्तमस्य साक्षा­त्क्रि­य­मा­ण­स्व­रू­पा­न­न्द­त्वात् −

विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्स्य परं दृष्ट्वा निवर्तते ॥ (२.५९)

इति गीतोक्तरीत्या निवृ­त्त­रा­ग­त्व­रू­पा­का­म­ह­तत्वं सिध्यत्येवेति निष्पापत्वं तस्मिन् । कामस्यैव पापहेतुत्वात् । तदुक्तम् गीतासु –

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिछन्नपि वार्ष्णेय बलादिव नियोजितः ॥ (३.३६)

इत्यर्जुनेन पृष्टो भगवानाह −

काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ (३.३७) इत्यादि ।

ब्रह्मण्युपरतः ब्रह्मणि विलीनमनस्कः अत एव निरिन्धन अनल इव शान्तः, यथा इन्धनाभावे अग्निः शान्तः ज्वालाशून्यः भाति तथा अना­ल­म्बि­त­बा­ह्य­वृ­त्ति­त्वात् शान्तः निर्गुणे ब्रह्मणि परि­नि­ष्ठि­त­चि­त्त­त्वात् शान्तः निर्विकार इत्यर्थः । अत्र श्रोत्रि­य­त्वा­दीनां विशेषणानां व्यावर्तकत्वं नास्ति, ब्रह्मवित्तमे अश्रो­त्रि­य­त्वस्य पापस्य कामहतत्वस्य च असम्भावितत्वात् , किन्तु वस्तुसत्तया तेषां तादृ­श­गु­रु­ज्ञा­प­कत्वं सम्भवतीति स्वरू­प­ल­क्ष­ण­त्व­मेव मन्तव्यम् ॥३४ – १/२॥

अहे­तु­क­द­या­सि­न्धु­र्ब­न्धु­रा­न­मतां सताम् ॥३५॥

३५

न विद्यते हेतुर्यस्याः सा अहेतुकी तादृशी या दया पर­दुः­ख­प्र­हा­णेच्छा तस्याः सिन्धुः आश्रय इत्यर्थः । इतरस्य दयालोरपि दया अन्यत्र दुःखदर्शनेन स्वस्यापि जातदुःखत्वात् । तन्नि­रा­सा­र्थ­म­हे­तु­केति । अस्य तु ज्ञानमहिम्ना स्वतो वा परतो वा दुःखाप्रसक्तेः केवलं जनास्तरन्तु संसारवार्धिमिति इच्छा परं व्युत्थानकाले इति भावः । बन्धुः दुःखहारक इत्यर्थः । केषाम् ? आनमतां सतां प्रह्वीभवतां सत्पु­रु­षा­णा­मि­त्य­नेन शिष्यस्य लक्षणं परिज्ञायैव ते उपदिशन्तीति सूचितम् । श्रूयते किल तत्र ‘नासूयकायानृजवे शठाय’, ‘इदमशिष्याय नो देयम्’ इत्यादि । स्मर्यते च गीतायाम् −

इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ (१८.३७)

इदमुपसदनं समीपगमनम् ॥३५॥

तदनन्तरकर्तव्यं करुणया शिष्यायोपदिशति भगवान् भाष्यकारः – तमिति −

तमाराध्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः ।
प्रसन्नं तमनुप्राप्य पृच्छे­ज्ज्ञा­त­व्य­मा­त्मनः ॥३६॥

३६

भक्तिः पूज्येष्वनुरागः मानसधर्मः, तया प्रह्वः तद्व्य­ञ्ज­का­का­र­वि­शिष्टः नम्रकायः बद्धाञ्जलिपुटः, प्रश्रयसेवनैः प्रश्रयश्च सेवनानि च प्रश्रयसेवनानि तैरित्यर्थः । तत्र प्रश्रयः विनीतवाक्त्वं सेवनानि साष्टा­ङ्ग­न­म­स्का­र­त­त्पा­द­सं­व­ह­न­त­दु­क्त­क­र­णा­दीनि तैस्तमाराध्य संसेव्य, ऋज्व्या तया सेवया प्रसन्नं स्वाभिमुखं तम् अनुप्राप्य यथासमयनिर्देशं तत्सन्निधौ यथाविधि स्थित्वा आत्मनः ज्ञातव्यं यज्जिज्ञासितम् आत्म­या­था­त्म्य­वि­षये तत्पृच्छेत् । भक्त्या प्रह्वः प्रश्र­य­से­व­नै­रा­राध्य इत्यनेन आराधयितुः मनसि वचसि काये च शुद्ध­त्व­रू­प­त्रि­क­र­ण­शु­द्धि­रुक्ता ॥३६॥

भक्ति­पु­र­स्स­र­वा­चि­का­रा­ध­न­प्र­कारं दयया दर्शयति भगवान् जिज्ञासुभ्यः । ‘स्वामि­न्न­मस्ते’ इत्यादिना ‘तथा वदन्तम्’(श्लो. ४३) इत्यन्तम् –

स्वामिन्नमस्ते नतलोकबन्धो
कारुण्यसिन्धो पतितं भवाब्धौ ।
मामु­द्ध­रा­त्मी­य­क­टा­क्ष­दृष्ट्या
ऋज्व्याऽ­ति­का­रु­ण्य­सु­धा­भि­वृष्ट्या ॥३७॥

३७

नतलोकबन्धो नतानां कृतनतीनां लोकानां जनानां बन्धुः दुःखमोचकः तस्य सम्बुद्धौ नतलोकबन्धो, स्वामिन् प्रभो, ते तुभ्यं नमः, प्रह्वीभावः अस्त्विति शेषः । यतस्त्वं नतलोकदुःखमोचकः अतस्त्वां दुःखमुक्त्यै नमामीति भावः । तत्र हेतुमाह कारुण्यसिन्धो इति सम्बोधनेन । विवृतमेतत् अहे­तु­क­द­या­सि­न्धु­रि­त्यत्र । स्वकीयं दुःखं निवेदयति भवाब्धौ पतितं जन्म­ज­रा­रो­ग­म­र­णा­न­र्थ­स­ङ्कुले संसारसमुद्रे पतितमित्यर्थः । इदानीं तन्निवृत्तिं प्रार्थयते मामुद्धरेति । जन्मा­दि­ब­न्ध­नि­र्मुक्तं कुर्वित्यर्थः । तत्र साधनं याचते आत्मी­य­क­टा­क्ष­दृ­ष्ट्येति । स्वकी­य­लो­च­न­प्रा­न्ते­ने­त्यर्थः । ब्रह्म­सा­क्षा­त्का­र­नि­र्धू­त­स­क­ल­म­लस्य भवतः पवि­त्र­क­टा­क्ष­पाते सक­ल­पा­प­नि­र्मु­क्तोऽहं संसारसागरं तरामीति भावः । उक्तं हि −

यस्या­नु­भ­व­प­र्यन्ता बुद्धिः (त)सत्त्वे प्रवर्तते । तद्दृ­ष्टि­गो­च­रा­स्सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥ (सू.सं. २.२०.४४) इति ।

एतेन शिष्येण गुरो­स्सा­क्षा­त्पुरः न स्थेयमिति विनयप्रकारो दर्शितो भवति । किञ्च सम्पूर्णावलोकनं कटाक्षपात एव अतस्तत्कामये इत्यपि भावः । नित्य­शु­द्ध­ब्र­ह्मा­न­न्द­म­ग्नस्य मनसः चक्षुः­प्रा­न्त­द्वारा पूर्णतया मयि पाते सर्वथाऽपि पूतः दुःखविमुक्तो भवेयमहमिति भावः । यद्वा आत्मी­य­क­टा­क्ष­दृष्ट्या स्वकी­य­सा­नु­ग्र­ह­वी­क्ष­णे­ने­त्यर्थः । ऋज्व्या स्वभावसरलया, तद्विशेषेण यथा लोके अगाधजलपतितः ऋज्वीं रज्जुं यष्टिं वा अवलम्ब्य उद्धृतो भवति तथाऽहं भवत्कटाक्षं दीर्घ­दी­र्घ­म­व­लम्ब्य संसा­रा­ब्धे­रु­द्धृतो भवामीति भावः व्यञ्जितः । सूर्यमण्डलाद्वा दीपाद्वा किरणाः पुञ्जीभूय रज्जुवद्यथा निष्क्रामन्ति तथा चक्षुषोऽपि तेजस्त्वात् निष्क्रान्ता रश्मयः एतस्मिन् सङ्क्रान्ताः ब्रह्म­नि­ष्ठ­म­न­स्सं­यु­क्त­त्वा­दे­न­मु­द्ध­र­न्तीति भावः । अति­का­रु­ण्य­सु­धा­भि­वृष्ट्या अत्यन्तं कारुण्यम् अतिकारुण्यं तदेव सुधा, सक­ल­ता­प­हा­र­क­त्वात् सुधेति रूप्यते । सुधा नामामृतं, तस्याः अभितो वृष्टिः यस्यां दृष्ट्यां सा अति­का­रु­ण्य­सु­धा­भि­वृष्टिः तया अति­का­रु­ण्य­सु­धा­भि­वृष्ट्या । अमृताभिवर्षणेन पुरुषः जरा­म­र­णा­दि­व­र्जितो भवतीति प्रसिद्धम् । युद्धे मृता वानरा इन्द्र­का­रि­ता­मृ­त­व­र्ष­णेन उज्जीविता इति रामायणे प्रसिद्धम् । तादृशामृतस्यैव तथात्वे ब्रह्म­नि­ष्ठा­नु­क­म्पा­मृ­त­व­र्ष­ण­दृष्टिः अस­ङ्कु­चि­त­ज­रा­म­र­णा­दि­व­र्जि­तत्वं दास्यतीति भावः ॥३७॥

स्वोद्धरणे विलम्बमसहिष्णुः स्वकी­य­ती­व्र­मु­मु­क्षुत्वं प्रकटीकरोति दुर्वारेति –

दुर्वा­र­सं­सा­र­द­वा­ग्नि­तप्तं
दोधूयमानं दुरदृष्टवातैः ।
भीतं प्रपन्नं परिपाहि मृत्योः
शरण्यमन्यं यदहं न जाने ॥३८॥

३८

संसार एव दवाग्निः सर्वशो व्याप्य तापहेतुत्वात् वनानलः, सः भव­दी­य­स­दु­प­दे­श­ज­नि­त­ज्ञानं विना न वारयितुं शक्य इति दुर्वारः वारयितुं स्वयमशक्य इत्यर्थः । दुर्वारश्चासौ संसारदवाग्निः तेन तप्तं दग्धं, वनानलस्य वातसहितत्वे बहु­व्या­प्य­ता­प­कत्वं प्रसिद्धम् । तथा दुरदृष्टवातैः दुरदृष्टानि पापानि तान्येव वाताः प्रतिकूलवायवः तैः दोधूयमानं मुहुर्मुहुः कम्प्यमानम् , अनु­कू­ल­श्चे­द्वातः एनमन्यत्र नयेत् , प्रतिकूलस्तु वातः अग्नौ पातयति अग्निं वा अस्मिन् । एवं दवाग्नितप्तस्य अमृतवर्षणे तापमोक्षो भव­ती­त्य­भि­प्रा­येण पूर्वं दृष्टेः अति­का­रु­ण्य­सु­धा­भि­वृ­ष्ट्येति विशेषणं दत्तम् । तत्र बहु­व्री­हि­म­कृत्वा दृष्ट्या करणेन अति­का­रु­ण्य­सु­धा­भि­वृष्ट्या सुधाभिवर्षणेन इत्यपि वक्तुं शक्यते । तेन दवाग्नितप्तं मां मृत्योः परिपाहीत्यन्वयः । इत्थं च स्वकी­य­क­टा­क्ष­दृष्ट्या ऋज्व्या मामुद्धरेति पूर्वमन्वयः । तया अति­का­रु­ण्य­सु­धा­भि­व­र्ष­णेन संसा­र­द­वा­ग्नि­तप्तं मां मृत्योः परि­पा­ही­त्यु­त्त­र­त्रा­न्वयः । मृत्योर्भीतं, प्रपन्नं शरणागतं, मां मृत्योः परि­पा­ही­त्यु­भ­य­त्रा­न्वयः । भव­द­नु­ग्र­हा­दा­त्म­ज्ञाने सति मम शरी­रो­त्क्र­म­ण­रू­प­म­रणं न सम्भवतीति भावः । ‘न तस्य प्राणा उत्क्रामन्ति अत्रैव समवनीयन्ते’(बृ.उ. ४.४.६) इति श्रुतेः । तथा च ‘ध्रुवं जन्म मृतस्य च’(भ.गी. २.२७) इत्युक्तत्वात् मरणाभावे जन्माभावस्य सिद्धत्वात् जन्म­म­र­ण­प्र­वा­ह­रू­प­सं­सा­रात् मुक्तो भवामि भवदनुग्रहे इति भावः । स्वस्या­न­न्य­श­र­णत्वं गुर्वाभिमुख्याय प्रकटयति शरण्यमन्यं यदहं न जाने इति । भवदन्यं शरण्यं मद्रक्षकं यत् यस्मात् अहं न जाने । अतोऽनन्यशरणोऽयं नोदासितव्य इति भावः ॥३८॥

श्लोकद्वयेन भवादृशां सत्पुरुषाणाम् अस्मासु करुणा निर्व्या­जै­वे­त्याह − शान्ता इति −

शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः ।
तीर्णास्स्वयं भीमभवार्णवं जना­न­हे­तु­नाऽ­न्या­नपि तारयन्तः ॥३९॥

३९

अयं स्वभावस्स्वत एव यत्प­र­श्र­मा­प­नो­द­प्र­वणं महात्मनाम् ।
सुधांशुरेष स्वय­म­र्क-क­र्क­श-प्र­भा­भि­त­प्ता­म­वति क्षितिं किल ॥४०॥

४०

वर्षासु वृष्टिबाधा, ग्रीष्मे तापः, शरदि प्रारम्भे सुखं, न मासद्वये, कार्ति­का­न्ति­म­भा­गस्य यम­दं­ष्ट्रा­त्व­की­र्त­नात्, हेम­न्त­शि­शि­र­यो­श्शैत्यं, सुग­न्धि­कु­सु­मा­करः वसन्तर्तुः कार्त्स्न्येन लोकस्य सुखं जनयतीति वस­न्त­व­दि­त्युक्तं तदा वर्ष­ता­प­शै­त्य­रो­गा­दी­ना­म­भा­वात् । स ऋतुः यथा सुखमेव जनयति तथा लोकस्य सुखमेव तन्वानाः शान्ताः निर्वि­का­र­म­नस्काः अत एव महान्तः, अप­रि­च्छि­न्न­ब्र­ह्म­सा­क्षा­त्का­र­वन्तः, अत एव तादृ­श­स­द्ब्र­ह्मा­भे­देन सन्तः ‘ब्रह्मविद् ब्रह्मैव भवती’ति (मु.उ ३.२.९) श्रुतेः, स्वयं भीमः भयङ्करः यः भवार्णवः संसारसागरः तं तीर्णाः असंसारिण इत्यर्थः । स्वस्य आप्तकामत्वेन प्रयोजनाभावात् अहेतुना हेतुं विना, अन्यानपि तारयन्तः भवा­म्भो­धि­म­ग्ना­निति भावः । हेतुं विना कथं तेषां तत्तारणे प्रवृत्तिः निर्नि­मि­त्त­प्र­वृ­त्त्या­भा­वात् इति शङ्कायामाह − अयं स्वभावः इत्यादिना । नहि स्वभावे कारणं गवेषणीयम् । नहि शर्करायां माधुर्यं किं निमित्तमिति प्रश्नो युज्यते तत्र तस्य स्वाभा­वि­क­त्वा­दि­त्य­भि­प्रायः । पर­श्र­मा­प­नो­द­प्र­वणं परेषां यश्श्रमः दुःखं तस्यापनोदः निवारणं तत्र प्रवणं भावप्रधानो निर्देशः प्रवणभावः प्रवणता सक्तता वैय­ग्र्य­मि­त्यर्थः । इति यत् अयं स्वभावः महात्मनां स्वत एव । परप्रेरणादिकं तत्र नापेक्ष्यत इत्यर्थः । तत्र दृष्टान्तमाह सुधां­शु­रि­त्या­दिना । अर्क-क­र्क­श-प्र­भा­भि­त­प्ताम् अर्कस्य सूर्यस्य या कर्कशा तीक्ष्णा प्रभा प्रकाशः तया अभितः तप्तां क्षितिं भूमिं, सुधांशुः अमृ­त­कि­र­ण­श्चन्द्रः एषः प्रसिद्धः समीपवर्ती, स्वयं पराप्रेरितः अवति रक्षति, किलेति प्रसिद्धौ ॥४०॥

एवं विनीतवेषेण तदनुसारिण्या वाचा तद­भि­व्य­ञ्जि­त­भक्त्या च आर्तः अनन्यशरणोऽयं सर्वथा रक्षणीय इत्यभिप्रायेण स्वाभिमुखं स्वात्मानं सानु­ग्र­हा­नु­क­म्पा­मृ­त-व­र्षि­क­टाक्षैः पावयन्तं देशिकोत्तमं स्वब­न्ध­मो­च­को­प­दे­शाय धैर्येण प्रार्थयते − ब्रह्मा­न­न्दे­त्या­दिना −

ब्रह्मा­न­न्द­र­सा­नु­भू­ति­क­लितैः पूतैः सुशीतैः सितैः
युष्म­द्वा­क्क­ल­शो­ज्झितैः श्रुति­सु­खै­र्वा­क्या­मृतैः सेचय ।
सन्तप्तं भव­ता­प­दा­व­द­ह­न­ज्वा­ला­भि­रेनं प्रभो
धन्यास्ते भव­दी­क्ष­ण­क्ष­ण­गतेः पात्रीकृताः स्वीकृताः ॥४१॥

४१

हे प्रभो सर्वशक्त, भव­दी­क्ष­ण­क्ष­ण­गतेः भवतां यदीक्षणं दया­र्द्र­वि­लो­कनं, तस्य क्षणगतेः क्षणप्राप्तेः, पात्रीकृताः आस्पदीभूताः, यद्वा भवतां यदीक्षणं नयनं तस्य क्षणगतेः क्षणसंयोगस्य पात्रीकृताः आश्रयीभूताः क्षणमात्रं वा भव­न्ने­त्र­पा­त­लक्ष्या इति यावत् । अत एव स्वीकृताः आत्मीयत्वेन कृताः ये पुरुषाः ते धन्याः कृतार्थाः । तस्मादहमपि भवत्कटाक्षेण पातिततमाः पाविततमश्च धन्योऽस्मि । अतिक्षिप्रं सांसा­रि­का­ग्नि­तापं शिशमयिषुः एवं प्रार्थये इति सूचयति । ‘श्रेयसि केन तृप्यते’ इति न्यायेन कटाक्षपात्रं मां स्वीकृतं भव­ता­प­दा­व­द­ह­न­ज्वा­लाभिः भवस्य तापः भवतापः, संसारशोकः स एव दावदहनः वनाग्निः, तज्ज्वालाभिः सन्तप्तम् अत्यन्तदग्धम् , एनं पुरोवर्तिनं, मां ब्रह्मानन्द एव रस इव आस्वद्यत इति रसः, तदनुभूतिकलितैः तदनुभवमिश्रैः, अत एव पूतैः सक­ल­क­ल्म­ष­हा­र­क­त्वेन पवित्रैः ‘न हि ज्ञानेन सदृशं पवित्रमिह विद्यते’(भ.गी. ४.३८) इति स्मृतेः । तादृशज्ञानवत् वाक्यानां सक­ल­पा­पा­प­हा­र­क­ज्ञा­नो­प­दे­श­रू­प­त्वेन पूतत्वम् । सुशीतैः आन्तराणाम् आध्या­त्मि­का­धि­दै­वि­का­धि­भौ­तिक तापानां नाशकत्वात् । सितैः रज­स्त­मो­मा­र्ग­नि­व­र्त­न­द्वारा सत्त्व­मा­र्गै­क­प्रा­प­क­त्वेन निर्मलैः । युष्म­द्वा­क्क­ल­शो­ज्झितैः युष्माकं वाक् युष्मद्वाक्, वागिन्द्रियं तत्स्थानं मुखं वा स एव कलशः घटः ततो निर्गलन्ति वाक्यामृतानीति, तेन उज्झितैः विसृष्टैः, श्रुतिसुखैः कर्णा­न­न्द­दा­यकैः, वाक्यामृतैः वाक्या­न्ये­वा­मृ­तानि तैरित्यर्थः । सेचय मां सिञ्चेत्यर्थः । स्वार्थे णिच् । पूतत्वं सुशीतत्वं सितत्वं कलशोज्झितत्वं वाक्येष्वमृते चाविशिष्टमिति वाक्या­न्य­मृ­त­त्वेन रूपितानि । पूतत्वे हेतुः ब्रह्मा­न­न्द­र­सा­नु­भू­ति­क­लि­तै­रिति, श्रुतिसुखैरिति श्रवणकालेऽपि आन­न्द­क­रै­रि­त्य­नेन तदर्थमनुसन्धाय यद्यनुभव उत्पद्येत तादात्विकः आनन्दः किमु वक्तव्य इति भावः ॥४१॥

पूर्वं भीतं प्रपन्नम् इत्यत्रोक्तां भीतिं स्पष्टयति सहसा स्वस्मि­न्न­नु­ग्र­ह­सि­ध्य­र्थम् − कथमित्यादिना −

कथं तरेयं भवसिन्धुमेतं
का वा गतिर्मे कतमोऽस्त्युपायः ।
जाने न किञ्चित्कृपयाव मां प्रभो
संसा­र­दुः­ख­क्ष­ति­मा­त­नुष्व ॥४२॥

४२

एतं बहु­वि­ध­दु­र्वा­र­दुः­ख­जा­ल­ज­टिलं भवसिन्धुं कथं तरेयम् । एवमेव यदि वर्तेय मे का वा गतिः ? मया किं तावत्प्राप्यम् ? सर्वथा दुःखमेवेति भावः । अतः कतमोस्त्युपायः एत­द्भ­व­सि­न्धु­त­रणे को वोपायोऽस्ति ? अहं तावत् किञ्चिदपि न जाने । मामव एवं भीतं परिपाहि । अवनं स्पष्टम् प्रार्थयते संसा­र­दुः­ख­क्ष­ति­मा­त­नु­ष्वेति । सांसारिकशोकं समूलघातं जहीत्यर्थः ॥४२॥

इदानीं गुरोः कर्त­व्य­मु­प­दि­शति, तथेत्यादिना, श्लोकद्वयेन −

तथा वदन्तं शरणागतं स्वं संसा­र­दा­वा­न­ल­ता­प­त­प्तम् ।
निरीक्ष्य कारु­ण्य­र­सा­र्द्र­दृष्ट्या दद्यादभीतिं सहसा महात्मा ॥४३॥

४३