विवेकचूडामणिः सव्याख्यः
८. गुरूपसत्तिः
श्रोत्रियोऽवृजिनोऽकामहतो यो ब्रह्मवित्तमः ।
ब्रह्मण्युपरतः शान्तो निरिन्धन इवानलः ॥३४-१/२॥
‘श्रोत्रियश्छन्दोऽधीत’(पा.सू. ५.२.८५) इति पाणिनिनाऽनुशिष्टत्वात् अधीतोपनिषत्क इत्यर्थः । उपनिषदमधीत्य कृततदर्थविचारस्यैव साक्षात्कारहेतुत्वात् । अवृजिनः निष्पाप इत्यर्थः ।
नाविरतो दुश्चरितात् नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञानेनैनमाप्नुयात् ॥ (क.उ. २.२४)
इति श्रुतेः । तत्र कारणमाह अकामहत इति । कामेन विषयाशया हतः कामहतः अभासितस्वस्वरूप इत्यर्थः । न कामहतः अकामहतः यस्तावत्स्वरूपम् आनन्दं न जानाति स एव बहिरानन्दोऽस्तीति तं प्राप्तुं कदाचित्पापमपि कुर्यात् । अस्य तावत् ब्रह्मवित्तमस्य साक्षात्क्रियमाणस्वरूपानन्दत्वात् −
विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जं रसोऽप्स्य परं दृष्ट्वा निवर्तते ॥ (२.५९)
इति गीतोक्तरीत्या निवृत्तरागत्वरूपाकामहतत्वं सिध्यत्येवेति निष्पापत्वं तस्मिन् । कामस्यैव पापहेतुत्वात् । तदुक्तम् गीतासु –
अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः । अनिछन्नपि वार्ष्णेय बलादिव नियोजितः ॥ (३.३६)
इत्यर्जुनेन पृष्टो भगवानाह −
काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ॥ (३.३७) इत्यादि ।
ब्रह्मण्युपरतः ब्रह्मणि विलीनमनस्कः अत एव निरिन्धन अनल इव शान्तः, यथा इन्धनाभावे अग्निः शान्तः ज्वालाशून्यः भाति तथा अनालम्बितबाह्यवृत्तित्वात् शान्तः निर्गुणे ब्रह्मणि परिनिष्ठितचित्तत्वात् शान्तः निर्विकार इत्यर्थः । अत्र श्रोत्रियत्वादीनां विशेषणानां व्यावर्तकत्वं नास्ति, ब्रह्मवित्तमे अश्रोत्रियत्वस्य पापस्य कामहतत्वस्य च असम्भावितत्वात् , किन्तु वस्तुसत्तया तेषां तादृशगुरुज्ञापकत्वं सम्भवतीति स्वरूपलक्षणत्वमेव मन्तव्यम् ॥३४ – १/२॥
अहेतुकदयासिन्धुर्बन्धुरानमतां सताम् ॥३५॥
३५न विद्यते हेतुर्यस्याः सा अहेतुकी तादृशी या दया परदुःखप्रहाणेच्छा तस्याः सिन्धुः आश्रय इत्यर्थः । इतरस्य दयालोरपि दया अन्यत्र दुःखदर्शनेन स्वस्यापि जातदुःखत्वात् । तन्निरासार्थमहेतुकेति । अस्य तु ज्ञानमहिम्ना स्वतो वा परतो वा दुःखाप्रसक्तेः केवलं जनास्तरन्तु संसारवार्धिमिति इच्छा परं व्युत्थानकाले इति भावः । बन्धुः दुःखहारक इत्यर्थः । केषाम् ? आनमतां सतां प्रह्वीभवतां सत्पुरुषाणामित्यनेन शिष्यस्य लक्षणं परिज्ञायैव ते उपदिशन्तीति सूचितम् । श्रूयते किल तत्र ‘नासूयकायानृजवे शठाय’, ‘इदमशिष्याय नो देयम्’ इत्यादि । स्मर्यते च गीतायाम् −
इदं ते नातपस्काय नाभक्ताय कदाचन । न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ॥ (१८.३७)
इदमुपसदनं समीपगमनम् ॥३५॥
तदनन्तरकर्तव्यं करुणया शिष्यायोपदिशति भगवान् भाष्यकारः – तमिति −
तमाराध्य गुरुं भक्त्या प्रह्वः प्रश्रयसेवनैः ।
प्रसन्नं तमनुप्राप्य पृच्छेज्ज्ञातव्यमात्मनः ॥३६॥
भक्तिः पूज्येष्वनुरागः मानसधर्मः, तया प्रह्वः तद्व्यञ्जकाकारविशिष्टः नम्रकायः बद्धाञ्जलिपुटः, प्रश्रयसेवनैः प्रश्रयश्च सेवनानि च प्रश्रयसेवनानि तैरित्यर्थः । तत्र प्रश्रयः विनीतवाक्त्वं सेवनानि साष्टाङ्गनमस्कारतत्पादसंवहनतदुक्तकरणादीनि तैस्तमाराध्य संसेव्य, ऋज्व्या तया सेवया प्रसन्नं स्वाभिमुखं तम् अनुप्राप्य यथासमयनिर्देशं तत्सन्निधौ यथाविधि स्थित्वा आत्मनः ज्ञातव्यं यज्जिज्ञासितम् आत्मयाथात्म्यविषये तत्पृच्छेत् । भक्त्या प्रह्वः प्रश्रयसेवनैराराध्य इत्यनेन आराधयितुः मनसि वचसि काये च शुद्धत्वरूपत्रिकरणशुद्धिरुक्ता ॥३६॥
भक्तिपुरस्सरवाचिकाराधनप्रकारं दयया दर्शयति भगवान् जिज्ञासुभ्यः । ‘स्वामिन्नमस्ते’ इत्यादिना ‘तथा वदन्तम्’(श्लो. ४३) इत्यन्तम् –
स्वामिन्नमस्ते नतलोकबन्धो
कारुण्यसिन्धो पतितं भवाब्धौ ।
मामुद्धरात्मीयकटाक्षदृष्ट्या
ऋज्व्याऽतिकारुण्यसुधाभिवृष्ट्या ॥३७॥
नतलोकबन्धो नतानां कृतनतीनां लोकानां जनानां बन्धुः दुःखमोचकः तस्य सम्बुद्धौ नतलोकबन्धो, स्वामिन् प्रभो, ते तुभ्यं नमः, प्रह्वीभावः अस्त्विति शेषः । यतस्त्वं नतलोकदुःखमोचकः अतस्त्वां दुःखमुक्त्यै नमामीति भावः । तत्र हेतुमाह कारुण्यसिन्धो इति सम्बोधनेन । विवृतमेतत् अहेतुकदयासिन्धुरित्यत्र । स्वकीयं दुःखं निवेदयति भवाब्धौ पतितं जन्मजरारोगमरणानर्थसङ्कुले संसारसमुद्रे पतितमित्यर्थः । इदानीं तन्निवृत्तिं प्रार्थयते मामुद्धरेति । जन्मादिबन्धनिर्मुक्तं कुर्वित्यर्थः । तत्र साधनं याचते आत्मीयकटाक्षदृष्ट्येति । स्वकीयलोचनप्रान्तेनेत्यर्थः । ब्रह्मसाक्षात्कारनिर्धूतसकलमलस्य भवतः पवित्रकटाक्षपाते सकलपापनिर्मुक्तोऽहं संसारसागरं तरामीति भावः । उक्तं हि −
यस्यानुभवपर्यन्ता बुद्धिः (त)सत्त्वे प्रवर्तते । तद्दृष्टिगोचरास्सर्वे मुच्यन्ते सर्वकिल्बिषैः ॥ (सू.सं. २.२०.४४) इति ।
एतेन शिष्येण गुरोस्साक्षात्पुरः न स्थेयमिति विनयप्रकारो दर्शितो भवति । किञ्च सम्पूर्णावलोकनं कटाक्षपात एव अतस्तत्कामये इत्यपि भावः । नित्यशुद्धब्रह्मानन्दमग्नस्य मनसः चक्षुःप्रान्तद्वारा पूर्णतया मयि पाते सर्वथाऽपि पूतः दुःखविमुक्तो भवेयमहमिति भावः । यद्वा आत्मीयकटाक्षदृष्ट्या स्वकीयसानुग्रहवीक्षणेनेत्यर्थः । ऋज्व्या स्वभावसरलया, तद्विशेषेण यथा लोके अगाधजलपतितः ऋज्वीं रज्जुं यष्टिं वा अवलम्ब्य उद्धृतो भवति तथाऽहं भवत्कटाक्षं दीर्घदीर्घमवलम्ब्य संसाराब्धेरुद्धृतो भवामीति भावः व्यञ्जितः । सूर्यमण्डलाद्वा दीपाद्वा किरणाः पुञ्जीभूय रज्जुवद्यथा निष्क्रामन्ति तथा चक्षुषोऽपि तेजस्त्वात् निष्क्रान्ता रश्मयः एतस्मिन् सङ्क्रान्ताः ब्रह्मनिष्ठमनस्संयुक्तत्वादेनमुद्धरन्तीति भावः । अतिकारुण्यसुधाभिवृष्ट्या अत्यन्तं कारुण्यम् अतिकारुण्यं तदेव सुधा, सकलतापहारकत्वात् सुधेति रूप्यते । सुधा नामामृतं, तस्याः अभितो वृष्टिः यस्यां दृष्ट्यां सा अतिकारुण्यसुधाभिवृष्टिः तया अतिकारुण्यसुधाभिवृष्ट्या । अमृताभिवर्षणेन पुरुषः जरामरणादिवर्जितो भवतीति प्रसिद्धम् । युद्धे मृता वानरा इन्द्रकारितामृतवर्षणेन उज्जीविता इति रामायणे प्रसिद्धम् । तादृशामृतस्यैव तथात्वे ब्रह्मनिष्ठानुकम्पामृतवर्षणदृष्टिः असङ्कुचितजरामरणादिवर्जितत्वं दास्यतीति भावः ॥३७॥
स्वोद्धरणे विलम्बमसहिष्णुः स्वकीयतीव्रमुमुक्षुत्वं प्रकटीकरोति दुर्वारेति –
दुर्वारसंसारदवाग्नितप्तं
दोधूयमानं दुरदृष्टवातैः ।
भीतं प्रपन्नं परिपाहि मृत्योः
शरण्यमन्यं यदहं न जाने ॥३८॥
संसार एव दवाग्निः सर्वशो व्याप्य तापहेतुत्वात् वनानलः, सः भवदीयसदुपदेशजनितज्ञानं विना न वारयितुं शक्य इति दुर्वारः वारयितुं स्वयमशक्य इत्यर्थः । दुर्वारश्चासौ संसारदवाग्निः तेन तप्तं दग्धं, वनानलस्य वातसहितत्वे बहुव्याप्यतापकत्वं प्रसिद्धम् । तथा दुरदृष्टवातैः दुरदृष्टानि पापानि तान्येव वाताः प्रतिकूलवायवः तैः दोधूयमानं मुहुर्मुहुः कम्प्यमानम् , अनुकूलश्चेद्वातः एनमन्यत्र नयेत् , प्रतिकूलस्तु वातः अग्नौ पातयति अग्निं वा अस्मिन् । एवं दवाग्नितप्तस्य अमृतवर्षणे तापमोक्षो भवतीत्यभिप्रायेण पूर्वं दृष्टेः अतिकारुण्यसुधाभिवृष्ट्येति विशेषणं दत्तम् । तत्र बहुव्रीहिमकृत्वा दृष्ट्या करणेन अतिकारुण्यसुधाभिवृष्ट्या सुधाभिवर्षणेन इत्यपि वक्तुं शक्यते । तेन दवाग्नितप्तं मां मृत्योः परिपाहीत्यन्वयः । इत्थं च स्वकीयकटाक्षदृष्ट्या ऋज्व्या मामुद्धरेति पूर्वमन्वयः । तया अतिकारुण्यसुधाभिवर्षणेन संसारदवाग्नितप्तं मां मृत्योः परिपाहीत्युत्तरत्रान्वयः । मृत्योर्भीतं, प्रपन्नं शरणागतं, मां मृत्योः परिपाहीत्युभयत्रान्वयः । भवदनुग्रहादात्मज्ञाने सति मम शरीरोत्क्रमणरूपमरणं न सम्भवतीति भावः । ‘न तस्य प्राणा उत्क्रामन्ति अत्रैव समवनीयन्ते’(बृ.उ. ४.४.६) इति श्रुतेः । तथा च ‘ध्रुवं जन्म मृतस्य च’(भ.गी. २.२७) इत्युक्तत्वात् मरणाभावे जन्माभावस्य सिद्धत्वात् जन्ममरणप्रवाहरूपसंसारात् मुक्तो भवामि भवदनुग्रहे इति भावः । स्वस्यानन्यशरणत्वं गुर्वाभिमुख्याय प्रकटयति शरण्यमन्यं यदहं न जाने इति । भवदन्यं शरण्यं मद्रक्षकं यत् यस्मात् अहं न जाने । अतोऽनन्यशरणोऽयं नोदासितव्य इति भावः ॥३८॥
श्लोकद्वयेन भवादृशां सत्पुरुषाणाम् अस्मासु करुणा निर्व्याजैवेत्याह − शान्ता इति −
शान्ता महान्तो निवसन्ति सन्तो वसन्तवल्लोकहितं चरन्तः ।
तीर्णास्स्वयं भीमभवार्णवं जनानहेतुनाऽन्यानपि तारयन्तः ॥३९॥
अयं स्वभावस्स्वत एव यत्परश्रमापनोदप्रवणं महात्मनाम् ।
सुधांशुरेष स्वयमर्क-कर्कश-प्रभाभितप्तामवति क्षितिं किल ॥४०॥
वर्षासु वृष्टिबाधा, ग्रीष्मे तापः, शरदि प्रारम्भे सुखं, न मासद्वये, कार्तिकान्तिमभागस्य यमदंष्ट्रात्वकीर्तनात्, हेमन्तशिशिरयोश्शैत्यं, सुगन्धिकुसुमाकरः वसन्तर्तुः कार्त्स्न्येन लोकस्य सुखं जनयतीति वसन्तवदित्युक्तं तदा वर्षतापशैत्यरोगादीनामभावात् । स ऋतुः यथा सुखमेव जनयति तथा लोकस्य सुखमेव तन्वानाः शान्ताः निर्विकारमनस्काः अत एव महान्तः, अपरिच्छिन्नब्रह्मसाक्षात्कारवन्तः, अत एव तादृशसद्ब्रह्माभेदेन सन्तः ‘ब्रह्मविद् ब्रह्मैव भवती’ति (मु.उ ३.२.९) श्रुतेः, स्वयं भीमः भयङ्करः यः भवार्णवः संसारसागरः तं तीर्णाः असंसारिण इत्यर्थः । स्वस्य आप्तकामत्वेन प्रयोजनाभावात् अहेतुना हेतुं विना, अन्यानपि तारयन्तः भवाम्भोधिमग्नानिति भावः । हेतुं विना कथं तेषां तत्तारणे प्रवृत्तिः निर्निमित्तप्रवृत्त्याभावात् इति शङ्कायामाह − अयं स्वभावः इत्यादिना । नहि स्वभावे कारणं गवेषणीयम् । नहि शर्करायां माधुर्यं किं निमित्तमिति प्रश्नो युज्यते तत्र तस्य स्वाभाविकत्वादित्यभिप्रायः । परश्रमापनोदप्रवणं परेषां यश्श्रमः दुःखं तस्यापनोदः निवारणं तत्र प्रवणं भावप्रधानो निर्देशः प्रवणभावः प्रवणता सक्तता वैयग्र्यमित्यर्थः । इति यत् अयं स्वभावः महात्मनां स्वत एव । परप्रेरणादिकं तत्र नापेक्ष्यत इत्यर्थः । तत्र दृष्टान्तमाह सुधांशुरित्यादिना । अर्क-कर्कश-प्रभाभितप्ताम् अर्कस्य सूर्यस्य या कर्कशा तीक्ष्णा प्रभा प्रकाशः तया अभितः तप्तां क्षितिं भूमिं, सुधांशुः अमृतकिरणश्चन्द्रः एषः प्रसिद्धः समीपवर्ती, स्वयं पराप्रेरितः अवति रक्षति, किलेति प्रसिद्धौ ॥४०॥
एवं विनीतवेषेण तदनुसारिण्या वाचा तदभिव्यञ्जितभक्त्या च आर्तः अनन्यशरणोऽयं सर्वथा रक्षणीय इत्यभिप्रायेण स्वाभिमुखं स्वात्मानं सानुग्रहानुकम्पामृत-वर्षिकटाक्षैः पावयन्तं देशिकोत्तमं स्वबन्धमोचकोपदेशाय धैर्येण प्रार्थयते − ब्रह्मानन्देत्यादिना −
ब्रह्मानन्दरसानुभूतिकलितैः पूतैः सुशीतैः सितैः
युष्मद्वाक्कलशोज्झितैः श्रुतिसुखैर्वाक्यामृतैः सेचय ।
सन्तप्तं भवतापदावदहनज्वालाभिरेनं प्रभो
धन्यास्ते भवदीक्षणक्षणगतेः पात्रीकृताः स्वीकृताः ॥४१॥
हे प्रभो सर्वशक्त, भवदीक्षणक्षणगतेः भवतां यदीक्षणं दयार्द्रविलोकनं, तस्य क्षणगतेः क्षणप्राप्तेः, पात्रीकृताः आस्पदीभूताः, यद्वा भवतां यदीक्षणं नयनं तस्य क्षणगतेः क्षणसंयोगस्य पात्रीकृताः आश्रयीभूताः क्षणमात्रं वा भवन्नेत्रपातलक्ष्या इति यावत् । अत एव स्वीकृताः आत्मीयत्वेन कृताः ये पुरुषाः ते धन्याः कृतार्थाः । तस्मादहमपि भवत्कटाक्षेण पातिततमाः पाविततमश्च धन्योऽस्मि । अतिक्षिप्रं सांसारिकाग्नितापं शिशमयिषुः एवं प्रार्थये इति सूचयति । ‘श्रेयसि केन तृप्यते’ इति न्यायेन कटाक्षपात्रं मां स्वीकृतं भवतापदावदहनज्वालाभिः भवस्य तापः भवतापः, संसारशोकः स एव दावदहनः वनाग्निः, तज्ज्वालाभिः सन्तप्तम् अत्यन्तदग्धम् , एनं पुरोवर्तिनं, मां ब्रह्मानन्द एव रस इव आस्वद्यत इति रसः, तदनुभूतिकलितैः तदनुभवमिश्रैः, अत एव पूतैः सकलकल्मषहारकत्वेन पवित्रैः ‘न हि ज्ञानेन सदृशं पवित्रमिह विद्यते’(भ.गी. ४.३८) इति स्मृतेः । तादृशज्ञानवत् वाक्यानां सकलपापापहारकज्ञानोपदेशरूपत्वेन पूतत्वम् । सुशीतैः आन्तराणाम् आध्यात्मिकाधिदैविकाधिभौतिक तापानां नाशकत्वात् । सितैः रजस्तमोमार्गनिवर्तनद्वारा सत्त्वमार्गैकप्रापकत्वेन निर्मलैः । युष्मद्वाक्कलशोज्झितैः युष्माकं वाक् युष्मद्वाक्, वागिन्द्रियं तत्स्थानं मुखं वा स एव कलशः घटः ततो निर्गलन्ति वाक्यामृतानीति, तेन उज्झितैः विसृष्टैः, श्रुतिसुखैः कर्णानन्ददायकैः, वाक्यामृतैः वाक्यान्येवामृतानि तैरित्यर्थः । सेचय मां सिञ्चेत्यर्थः । स्वार्थे णिच् । पूतत्वं सुशीतत्वं सितत्वं कलशोज्झितत्वं वाक्येष्वमृते चाविशिष्टमिति वाक्यान्यमृतत्वेन रूपितानि । पूतत्वे हेतुः ब्रह्मानन्दरसानुभूतिकलितैरिति, श्रुतिसुखैरिति श्रवणकालेऽपि आनन्दकरैरित्यनेन तदर्थमनुसन्धाय यद्यनुभव उत्पद्येत तादात्विकः आनन्दः किमु वक्तव्य इति भावः ॥४१॥
पूर्वं भीतं प्रपन्नम् इत्यत्रोक्तां भीतिं स्पष्टयति सहसा स्वस्मिन्ननुग्रहसिध्यर्थम् − कथमित्यादिना −
कथं तरेयं भवसिन्धुमेतं
का वा गतिर्मे कतमोऽस्त्युपायः ।
जाने न किञ्चित्कृपयाव मां प्रभो
संसारदुःखक्षतिमातनुष्व ॥४२॥
एतं बहुविधदुर्वारदुःखजालजटिलं भवसिन्धुं कथं तरेयम् । एवमेव यदि वर्तेय मे का वा गतिः ? मया किं तावत्प्राप्यम् ? सर्वथा दुःखमेवेति भावः । अतः कतमोस्त्युपायः एतद्भवसिन्धुतरणे को वोपायोऽस्ति ? अहं तावत् किञ्चिदपि न जाने । मामव एवं भीतं परिपाहि । अवनं स्पष्टम् प्रार्थयते संसारदुःखक्षतिमातनुष्वेति । सांसारिकशोकं समूलघातं जहीत्यर्थः ॥४२॥
इदानीं गुरोः कर्तव्यमुपदिशति, तथेत्यादिना, श्लोकद्वयेन −
तथा वदन्तं शरणागतं स्वं संसारदावानलतापतप्तम् ।
निरीक्ष्य कारुण्यरसार्द्रदृष्ट्या दद्यादभीतिं सहसा महात्मा ॥४३॥