अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

९. मार्गोपदेशः

विद्वान्स तस्मा उपसत्तिमीयुषे मुमुक्षवे साधु­य­थो­क्त­का­रिणे ।
प्रशान्तचित्ताय शमान्विताय तत्त्वोपदेशं कृपयैव कुर्यात् ॥४४॥

४४

तथा वद­न्त­मि­त्युक्त्या वाग्व्यापारेण तदीयाधिकारस्य आन्तरस्य सम्यग्ज्ञातुं शक्यत्वात् अधिकारिणं ज्ञात्वैव अभ­य­दा­नो­प­दे­शा­दिकं गुरुभिः कर्तव्यमिति द्योतितम् । संसा­र­दा­वा­न­ल­ता­प­तप्तं, स्वं स्वात्मानं शरणागतं रक्षकत्वेन मत्वा प्राप्तं, कारु­ण्य­र­सा­र्द्र­दृष्ट्या निरीक्ष्य, महात्मा अक्षु­द्र­बुद्धिः, गुरुः सहसाऽभीतिं दद्यादित्यनेन भीताः सहसा भीत्या मोचनीया इति व्यञ्जितम् । अभयदानेन निवृत्तभीतेरेव पुरुषस्य उप­दि­ष्टा­र्थ­ग्र­ह­णादौ सामर्थ्यं सम्भवतीति भावः । भीतस्य भयं शक्तेन बहुकालं न स्थापनीयम् इति च सहसेत्युक्तम् ॥४३॥

भीतस्याभयदानं प्रथमतः कर्त­व्य­मि­त्युक्त्वा अधिकारानुसारेण उपदेशः अनन्तरकालिक इति बोधयति विद्वा­नि­त्या­दिना − स विद्वान् ब्रह्मवित्तमो देशिकः, उपसत्तिमीयुषे विधिवत्समीपं गताय मुमुक्षवे मोक्षं कामयमानाय, साधु­य­थो­क्त­का­रिणे सम्य­ग्वि­हि­ता­नु­ष्ठात्रे । एतेन शिष्टत्वमुक्तम् । ‘नाविरतो दुश्चरितात् नाशान्तो नासमाहितः । नाशान्तमानसो वापि प्रज्ञा­ने­नै­न­मा­प्नु­यात्’(क.उ. १.२.२४) इत्युक्तत्वात् । श्रोत्रियत्वम् अवृजिनत्वं मोक्ष­का­म­व्य­ति­रि­क्त­का­म­शू­न्यत्वं च शिष्ये अवेक्षणीयमिति भावः । प्रशान्तचित्ताय देहा­दि­ब्र­ह्म­प­र्य­न्त­भो­ग्य­व­स्तुनो विरज्य, स्वलक्ष्ये निय­ता­व­स्थि­त­म­न­स्काय, शमान्विताय निगृ­ही­त-ब­हि­रि­न्द्रि­याय, एतेन शमा­दि­ष­ट्क­मु­क्तम् अधिकारिविशेषणम् । तस्मै वैरा­ग्या­दि­गु­ण­ग­ण­म­ण्डि­ताय, तत्त्वोपदेशं कृपया तदी­य­दुः­ख­प्र­हा­णे­च्छया आप्तकामस्य स्पृहा­न्त­रा­भा­वात् कुर्या­दे­वे­त्ये­व­कारो भिन्नक्रमः । अधिकारिणि लब्धे नोदासितव्यं, पात्रे दत्ता ब्रह्मविद्या लोकानुग्रहार्थं प्रतिष्ठिता भवतीति भावः । इत्थं च सर्वा­न­र्थ-हे­तु­भू­ता­वि­द्या­नि­व­र्त­क-ब्र­ह्म­वि­द्या­पा­र­म्प­र्या­वि­च्छेदः स्वशिष्यमोचनं च उपदेशस्य फलम् । तत्र गुरु­शि­ष्य­सं­वा­द­रू­पेण प्रकरणप्रणयनं सुलभतया तत्त्वस्य श्रोतृ­बु­द्ध्या­रो­हाय । अत एव किला­ख्या­त्या­ख्या­यिकां तत्र तत्र श्रुतिरपि । तेन गुरुलक्षणं शिष्यलक्षणं प्रष्ट­व्या­द्यंशाः सर्वे अनायासेन अस्माभिः ज्ञातुं शक्यन्ते इति ॥४४॥

परमकारुणिको गुरुः शिष्येण ‘कथं तरेयं भवसिन्धुमेतम्’ इत्यादिना दर्शितां भीतिं झटिति निनाशयिषुराह − माभैष्टेति −

माभैष्ट विद्वंस्तव नास्त्यपायः संसा­र­सि­न्धो­स्त­र­णेऽ­स्त्यु­पायः ।
येनैव याता यतयोऽस्य पारं तमेव मार्गं तव निर्दिशामि ॥४५॥

४५

हे विद्वन् ! भवान् माभैष्ट, भवतो भयं माभूदिति सहसा अभीतिर्दत्ता । विद्वन्निति सम्बोधयन् विवेकादिकं सम्पाद्य गुरुकरुणां विना दुःखतरणं न भवतीति मां प्राप्तस्त्वं ज्ञातव्यं जानीष एव इति सूचयति, तादृशस्य तव साधु­य­थो­क्त­का­रिणः नास्त्यपायः ‘न हि कल्या­ण­कृ­त्क­श्चित् दुर्गतिं तात गच्छति’(भ.गी. ६.४०) इति स्मृतेः । अतः कथं तरेयम् , का वा गतिरिति मैव भैषीरित्यर्थः । एवं मा भैष्ट तव कल्याणकर्तुः अपायो नास्तीति तमाश्वास्य कतमोऽस्त्युपायः इत्यस्य उत्तरमाह संसा­र­सि­न्धो­स्त­र­णेऽ­स्त्यु­पाय इति । तत्र सम्य­ग्वि­श्वा­सो­त्प­त्त्यर्थं तमुपायं सप्रमाणं कथयति । येनैव मार्गेण अस्य संसारसिन्धोः पारम् अन्तं यतयः प्रयत्नशीलाः संन्यासिनः, याताः तमेव मार्गं तव निर्दिशामि उपदिशामीत्यर्थः ॥४५॥

तादृ­श­मा­र्ग­शु­श्रू­षा­या­मौ­त्क­ट्य­सि­द्ध्यर्थं पुनरपि सामान्यरूपेणैव उपायं निर्दिशति − अस्तीति −

अस्त्युपायो महान्कश्चित् संसारभयनाशनः ।
तेन तीर्त्वा भवाम्भोधिं पर­मा­न­न्द­मा­प्स्यसि ॥४६॥

४६

संसारभयनाशनः महान् बह्वा­या­स­सा­ध्य­सा­ध­न­साध्यः कश्चि­दु­पा­योऽस्ति, तेन वक्ष्यमाणोपायेन भवाम्भोधिं दुस्तरं संसारसागरं तीर्त्वा तन्मूलभूताम् अविद्यां भङ्क्त्वा परमानन्दं निरवधिकं शाश्वतं सन्तोषम् , आप्स्यसि लप्स्यसे इत्यर्थः । तेन दुःखनिवृत्तिरेव त्वया काम्यते मयो­प­दे­क्ष्य­मा­णो­पा­येन तु दुःखमप्यत्यन्तं निवर्तते, नित्य­नि­र­ति­श­या­न­न्दा­वि­र्भा­वश्च तव भवतीति शिष्यः अत्य­न्त­मा­प्या­यित इति भावः ॥४६॥

तमुपायं विशेषतो निर्दिशति − वेदान्तेति −

वेदा­न्ता­र्थ­वि­चा­रेण जायते ज्ञानमुत्तमम् ।
तेना­त्य­न्ति­क­सं­सा­र­दुः­ख­नाशो भवत्यनु ॥४७॥

४७

वेदानामन्ताः वेदान्ताः उपनिषदः तासां योऽर्थः तद्विचारेण, उप­क्र­मो­प­सं­हा­रा­दि­ष­ड्वि­ध­ता­त्प­र्य­लिङ्गैः प्रतिपाद्यमानः सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­र­हितः नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भावः परमात्मा तस्य विचारेण तन्नि­र्ण­या­नु­कू­ल­मा­न­स­व्या­पा­रेण, उत्तमं ज्ञानं संश­य­भा­व­ना­द्य­श­ब­लितं ज्ञानं निर्णयः जायते । तेन निर्णयेन आत्य­न्ति­क­सं­सा­र­दुः­ख­नाशः स्वस­मा­ना­धि­क­र­ण­दुः­ख­प्रा­ग­भा­वा­स­मा­न­का­लिकः दुःखनाशः, अनु तन्निर्णयानुपदं भवति भविष्यतीत्यर्थः ॥४७॥

इदानीं तादृ­श­नि­र्ण­या­सा­धा­र­ण­हे­तू­नाह − श्रद्धेत्यादिना −

श्रद्धा­भ­क्ति­ध्या­न­यो­गान् मुमुक्षो
र्मुक्ते­र्हे­तून् वक्ति साक्षात् श्रुतेर्गीः ।
यो वा एतेष्वेव तिष्ठत्यमुष्य
मोक्षोऽ­वि­द्या­क­ल्पि­ता­द्दे­ह­ब­न्धात् ॥४८॥

४८

तत्र श्रद्धा − गुरु­वे­दा­न्त­वा­क्य­वि­श्वासः शास्त्रस्य गुरु­वा­क्य­स्ये­त्या­दिना लक्षिता । भक्तिः स्वस्व­रू­पा­नु­स­न्धानं निदिध्यासनम् । ध्यानं, ‘तत्र प्रत्ययैकतानता ध्यानम्’(यो.सू. ३.२) इति सूत्रितं ‘सम्यगास्थापनं बुद्धेः शुद्धे ब्रह्मणि सर्वदा’ इति लक्षितं समाधानम् । योगः ‘योग­श्चि­त्त­वृ­त्ति­नि­रोधः’(यो.सू. १.२) इति सूत्रितः । तत्र श्रद्धा सर्वत्र हेतुः । भक्ति­ध्या­न­यो­गानां मध्ये उत्तरोत्तरस्य पूर्व­पू­र्व­हे­तु­त्वम् । चित्त­वृ­त्ति­नि­रोधे समाधानस्य तस्मिन् श्रुता­चा­र्यो­प­दे­श­मनु स्वस्व­रू­पा­नु­स­न्धा­न­रू­प­नि­दि­ध्या­स­नस्य सम्भवात् । यद्वा ध्यै चिन्तायामिति धातोः युक्ति­भि­र­नु­चि­न्त­न­रूपं मननं निदि­ध्या­स­न­सा­क्षा­त्का­र­ण­मु­च्यते ध्यानशब्देन, ज्ञान­प्र­ति­ब­न्ध­क­स­क­ल­दु­रि­त­नि­व­र्तकं सगुणध्यानं वा । अत्रोभयत्रापि चित्त­बा­ह्य­वृ­त्ति­नि­रो­ध­रू­प­यो­गस्य हेतुत्वम् अस्त्येव । यद्वा युज्यते सम्बध्यते आत्म­सा­क्षा­त्का­रे­णा­ने­नेति योगः, भक्तिश्चासौ योगः, ध्यानं च तद्योगः इति भक्तियोगः ध्यानयोगः इति वा सम्बन्धः । मुमुक्षोः पुरुषस्य मुक्तेः बन्धनिवृत्तेः, हेतून् श्रुतेर्गीः ‘श्रद्धा­भ­क्ति-ध्या­न-यो­गा­द­वेहि’(कै.उ.२) इति कैवल्योपनिषत् , साक्षाद्वक्ति प्रत्य­क्ष­श्रु­ति­रि­त्यर्थः । यद्वा मुक्तेः मुक्ति­हे­तु­ज्ञा­नस्य साक्षाद्धेतून् साक्षा­त्का­र­णा­नीति अवेहीति पदघटिता श्रुतिः वक्ति इति वा अन्वयः । यो वै पुरुषः एतेष्वेव श्रद्धा­भ­क्ति-ध्या­न­यो­गेषु तिष्ठति, श्रद्धालुः भक्तिमान् ध्याता योगी च सदा भवति, अमुष्य अद­श्श­ब्द­प्र­यो­गेण तादृशाधिकारिणः दुर्लभत्वं सूचयति ‘अदसस्तु विप्रकृष्टम्’ इत्युक्तेः । तस्य अवि­द्या­क­ल्पि­तात् अज्ञानमूलकात् देहबन्धात् अह­ङ्का­रा­दि­दे­ह­ब­न्धात् , मोक्षः निवृत्तिः सिध्यत्येवेति शेषः । यो वा इत्यत्र वै इत्यवधारणे, स अन्ते सम्बन्धनीयः । एतेष्वेवेत्यत्र अवधारणम् उक्त­सा­ध­ना­न्य­नि­ष्ठत्वं वारयति ॥४८॥

इदानीं गुरुः सङ्ग्रहेण शिष्यं प्रति संसृतिहेतुं तन्निदानं तन्नि­वृ­त्त्यु­पायं च सकारणमुपदिशति − अज्ञानयोगादिति −

अज्ञा­न­यो­गा­त्प­र­मा­त्म­न­स्तव
ह्यना­त्म­ब­न्ध­स्तत एव संसृतिः ।
तयो­र्वि­वे­को­दि­त­बो­ध­वह्निः
अज्ञानकार्यं प्रदहेत्समूलम् ॥४९॥

४९

परमात्मनस्तव अज्ञानयोगात् अना­द्य­वि­द्या­स­म्ब­न्धात् , अनात्मबन्धः अनात्मसु स्थूल­सू­क्ष्म­का­र­ण­श­री­रे­ष्वा­त्म­त्व­बुद्धिः । तत एव जन्म­ज­रा­म­र­ण­सु­ख­दुः­ख­ज­ड­त्वा­दि­ध­र्मा­ध्या­स­रूपा संसृतिः । तयोः आत्मानात्मनोः विवे­को­दि­त­बो­ध­वह्निः विवेकः भेदज्ञानं तेन उदितो जातः बोधवह्निः साक्षा­त्का­र­रू­पाग्निः समूलम् अज्ञा­न­रू­प­बी­जो­पे­तम् अज्ञानकार्यम् अह­ङ्का­रा­दि­दे­हा­न्त­बन्धं तत्प्र­यो­ज्य­ज­न्म­ज­रा­म­र­णा­दि­रू­प­सं­सारं च प्रदहेत् प्रकर्षेण भस्मी­कु­र्या­दि­त्यर्थः । तथा च संसृतिकारणम् अनात्मबन्धः, तत्र कारणं तवाज्ञानयोगः, तन्नि­वृ­त्त्यु­पायः परमात्मबोधः तत्र कारणम् आत्मा­ना­त्म­वि­वेकः इति सङ्ग्रहेणोक्तम् । तेन वेदा­न्त­वि­चा­र­ज­न्यो­त्त­म­ज्ञा­नस्य संसा­र­दुः­ख­ना­श­क­त्व­वि­षये उपपत्तिः प्रदर्शिता आज्ञानिकस्य बन्धस्य ज्ञानादेव निवृत्तिः नान्यत इति ॥४९॥

इत्थं गुरु­मु­खा­र­वि­न्द­नि­र्ग­लि­त­वा­क्सु­धा­स्य­न्दा­न­न्दितः शिष्यः तन्मु­ख­क­ल­श­नि­र­र्ग­ल­नि­र्ग­ल­द्वा­क्य­पी­यू­ष­पा­रा­वारे गाढं मिमङ्क्षुः स्वकी­य­स­क­ल­स­न्दे­ह­भ­ञ्ज­नाय तं प्रष्टुं विनयेन प्रार्थयते ।

शिष्य उवाच –

कृपया श्रूयतां स्वामिन् प्रश्नोऽयं क्रियते मया ।
यदुत्तरमहं श्रुत्वा कृतार्थः स्यां भवन्मुखात् ॥५०॥

५०

एतेन गुरु­स­न्नि­धा­व­नि­वेद्य प्रश्नो न कर्तव्य इति शिष्यधर्मो बोधितः । यस्य उत्तरं यदुत्तरम् । तत्र प्रश्नोऽयं क्रियते मयेति अनुक्त्वा, प्रथमं कृपया श्रूयतामिति प्रार्थनोत्तरं तदुक्त्या गुरोः स्वस्मिन् दयाभिवृद्धये मानसमार्दवं क्षिप्र­जि­ज्ञा­सुत्वं च सूचितम् । भवन्मुखात् श्रुत्वेत्यनेन स्वस्य अनन्यशरणत्वं गमितम् ॥५०॥

पृच्छति को नामेति −

को नाम बन्धः कथमेष आगतः
कथं प्रतिष्ठास्य कथं विमोक्षः ।
कोऽसावनात्मा परमः क आत्मा
तयोर्विवेकः कथमेतदुच्यताम् ॥५१॥

५१

प्रथमं बन्धस्वरूपं पृच्छति को नाम बन्ध इति, तस्मिन् ज्ञाते तन्निवृत्तिः युक्तेन उपायेन सुकरेति । तत्र कारणं पृच्छति कथमेष आगत इति, तस्य स्थितौ हेतुं पृच्छति कथं प्रति­ष्ठा­स्येति, अस्य बन्धस्य प्रतिष्ठा चिरकालं स्थितिः, कथं कुतः, केन हेतुनेति यावत् । विमोक्षः निवृत्तिः । गुरुणा पर­मा­त्म­न­स्त­वा­ना­त्म­बन्ध इत्युक्तत्वात् , कोऽसावनात्मा परम आत्मा कः । तयो­र्वि­वे­को­दि­ते­त्यु­क्त­त्वात् , तयोः अना­त्म­प­र­मा­त्मनोः विवेकः भेदग्रहः कथं जायते, एतत्सर्वम् उच्यतां दयया विस्तरेण उच्यतामिति भावः । यद्यपि श्रीच­र­ण­स­ङ्ग्र­होक्त्या परमात्मनो मे अज्ञानयोगात् अनात्मबन्ध इत्युक्त्या, कथमेष आगत इति किञ्चि­ज्ज्ञा­त­मिव, तयो­र्वि­वे­को­दि­त­बो­ध­व­ह्नि­र­ज्ञा­न­कार्यं समूलं प्रदहेदित्यनेन कथं विमोक्ष इत्यपि किञ्चि­ज्ज्ञा­त­मिव, अथापि केवलं शब्द­मा­त्र­श्र­व­णेन किञ्चि­ज्ज्ञा­ता­र्थ­स्यापि विस्तरेण तन्नि­रा­का­ङ्क्ष­नि­र्ण­यार्थं बन्धस्वरूपस्य तत्स्थितिहेतोः आत्मा­ना­त्म­वि­वे­कस्य च सुत­रा­म­ज्ञा­त­त्वात् एतत्सर्वं सम्य­क्छ्रा­व­यित्वा कृतार्थयितव्यः दीनदीनोऽयं जनः इति भावः ॥५१॥

अनया प्रश्नवैखर्या पूर्व­ज्ञा­त­त्रि­क­र­ण­शुध्या च ब्रह्म­वि­द्या­या­मु­त्त­मा­धि­का­रिणं मत्वा ब्रह्मविचारे झटिति तस्य प्रवेशार्थं श्लाघते । ब्रह्म­वि­दु­त्त­मेन महात्मना श्लाघितः स्वमनोगतं सकलं दुःखं दूरिकृत्य विचारोत्कमनाः ऐदम्पर्येण परमात्मानं विचार्य झटिति कृतार्थः स्यादिति भावः ।

श्री गुरुरुवाच ।

श्रीयुतश्चासौ गुरुश्च श्रीगुरुः, ‘ऋचस्सामानि यजूंषि, सा हि श्रीरमृता सताम्’(तै.ब्रा. १.२.१) इति श्रुत्या ऋगादीनां शब्दरूपाणामेव अमृ­त­स­म्प­द्रू­पत्वे सकलवेदान्तान् तत्प्र­ति­पा­द्य­मर्थं च साक्षात्कृतवतो गुरोः श्रीमत्वे किं वक्तव्यम् ? सूर्या­दि­स­क­ल­ते­जो­भा­न­हे­तु­भू­त­ब्र­ह्म­ते­जसा सम्पन्न इत्यर्थः । तादृ­शः­शि­ष्या­न्त­रा­न्ध­का­र­नि­रो­धकः श्रीगुरुः शिष्येण पृष्टस्य उत्तरमुवाच ।

आदौ तन्म­नो­वि­का­सार्थं श्लाघते − धन्योऽसीति −

धन्योऽसि कृतकृत्योऽसि पावितं ते कुलं त्वया ।
यद­वि­द्या­ब­न्ध­मुक्त्या ब्रह्मी­भ­वि­तु­मि­च्छसि ॥५२॥

५२

धन्यः धनार्हः,

न खलु धनत्वं जातिः यस्य यदिष्टं तदेव तस्य धनम् । तत्तदिव पाम­रा­णा­मा­कि­ञ्चन्यं धनं विदुषाम् ॥ (वैरा.शत. ४३)

इत्युक्तरीत्या विद्वद्भिः धनत्वेन सम्म­त­वै­रा­ग्या­दि­भा­ग्य­भा­ग­सी­त्यर्थः । तत्र हेतुः कृतकृत्योऽसीति, शास्त्र­वि­हि­त­क­र्मा­नु­ष्ठा­नेन शुद्ध­चि­त्तोऽ­सी­त्यर्थः, तदभावे संसारे वैरा­ग्या­नु­त्पत्तेः । कृतानि कृत्यानि शास्त्रविहितानि येन स्वव­र्णा­श्र­मो­चि­तानि कर्माणि साध्वनुष्ठाय चित्तं संशोध्य जात­ती­व्र­वै­राग्यः मुमुक्षुरसि । त्वया एतादृशेन ते कुलं वंशः, सर्वोऽपि पावितं पवित्रीकृतः । उक्तं हि –

कुलं पवित्रं जननी कृतार्था विश्वम्भरा पुण्यवती च तेन । अपा­र­स­च्चि­त्सु­ख­सा­ग­रेऽ­स्मिन् लीनं परे ब्रह्मणि यस्य चेतः ॥ (सूत.सं. २.२०.४५) इति ।

स्नातं तेन समस्ततीर्थसलिले सर्वापि दत्तावनी यज्ञानां च सहस्रमिष्टमखिला देवाश्च सम्पूजिताः । संसाराच्च समुद्धृताः स्वपि­त­र­स्त्रै­लो­क्य­पू­ज्योऽ­प्यसौ यस्य ब्रह्मविचारणे क्षणमपि स्थैर्यं मनः प्राप्नुयात् ॥

इति च । यद्यपीदानीं तस्य ज्ञानं न जातम् , अथापि गुरू­प­दे­श­श्र­व­ण­स­म­न­न्त­र­मेव उत्त­मा­धि­का­रि­त्वात् स जातज्ञानो भवति । ‘परिपक्वमतेः सकृत् श्रुतं जनयेदात्मधियं श्रुतेर्वचः’ इति माध­वी­य­श­ङ्क­र­वि­जये (१०.९५) श्रीम­दा­चा­र्योक्तेः । ‘अत्य­न्त­वै­रा­ग्य­वतः समाधिः’(श्लो. ३७६) इत्यत्रैव वक्ष्य­मा­ण­त्वाच्च । क्षिप्रमेव ब्रह्म­वि­ली­न­म­नस्को भूत्वा कुलं भुवं च पावयिष्यतीति भावः ।

न विषयभोगो भाग्यं योग्यं खलु यत्र जन्तुमात्रमपि । ब्रह्मे­न्द्र­रु­द्र­मृग्यं भाग्यं विषयेषु वैराग्यम् ॥

इति वैरा­ग्य­भा­ग्य­व­त्त्वेन महा­पु­ण्य­शा­लि­त्वात् इदानीमपि तस्य वंश­पा­व­यि­तृ­त्व­म­स्त्येव । तत्र हेतुं स्पष्टयति यद्यस्मात् कारणात् अवि­द्या­ब­न्ध­मुक्त्या अवि­द्या­प्र­यो­ज्या­ह­ङ्का­रा­दि­दे­हा­न्त­ब­न्ध­प­रि­त्या­गेन, ब्रह्मीभवितुं ब्रह्म­स्व­रू­पे­णैव वर्तितुम् इच्छसि तस्मादिति अनेन तीव्र­वै­रा­ग्या­न­न्त­र­का­लि­क­ती­व्र­मु­मुक्षा उक्ता । एतादृशः अस्मिन्नेव जन्मनि परं ब्रह्म साक्षात्कृत्य कुलं जगच्च पवि­त्र­यि­ष्य­ती­त्य­भि­प्रायः ।

ननु ब्रह्मी­भ­वि­तु­मि­त्यत्र ‘अभूततद्भावे च्विः’(५.४.५४ पा. सूत्रे वार्तिकम्) इत्य­नु­शा­स­ना­नु­सा­रेण अभूतः पूर्वमस्थितः ब्रह्मभावः पश्चा­द्भ­वि­ष्य­तीति प्रतीयते, तर्हि ब्रह्मभावस्य आगन्तुकत्वात् तद्रूपस्य मोक्ष­स्या­प्य­नि­त्य­त्व­मिति चेन्न, यद्यपि ब्रह्मैव जीवरूपेण वर्तते इति सर्वदा ब्रह्मभाव इष्ट एव वर्तते, अथापि इदा­नी­म­ज्ञा­त­त्वात् अज्ञा­त­त्व­ज्ञा­त­त्व­कृ­त­वि­शे­ष­मा­श्रित्य ब्रह्मी­भ­वि­तु­मिति च्विप्र­त्य­य­प्र­योग इति मन्तव्यम् । इदा­नी­म­ज्ञा­न­व­शात् अब्रह्मरूपेण ब्रह्मण एव सतः स्थितिः, ज्ञानानन्तरं तु ब्रह्मा­त्म­नै­वा­व­स्था­न­मि­त्या­शयः । एतेन ब्रह्म­भा­व­स्या­ग­न्तु­क­त्व­शङ्का परास्ता ॥५२॥

तत्र प्रथमतः सर्वेषां भव­ब­न्ध­वि­मु­क्त्यर्थं प्रवृ­त्ति­सि­द्धये तस्याः विमुक्तेः स्वस्व­मा­त्र­ल­भ्यत्वं लोकानुजिघृक्षया उपदिशति गुरुः, तत्र जना उदासीना भूत्वा ईश्व­रा­नु­ग्र­ह­लब्धं जन्म व्यर्थयित्वा दुःखपरम्परां मानु­भू­व­न्नि­त्य­भि­प्रा­येण − ऋणमोचनेति −

ऋणमोचनकर्तारः पितुः सन्ति सुतादयः ।
बन्धमोचनकर्ता तु स्वस्मादन्यो न कश्चन ॥५३॥

५३

लोके तावत् पुत्रपौत्रादयः पितुः ऋणमोचनकर्तारः सन्ति । ऋणात् शास्त्रीयात् लौकिकाद्वा मोचयन्ति पुत्रप्राप्त्या तद्वा­क्या­नु­पा­ल­नेन अर्थसमर्पणेन वा । बन्धमोचनकर्ता तु अना­त्मा­ह­ङ्का­रा­दि­दे­हा­न्त­ब­न्ध­मो­च­यिता तु स्वस्मादन्यो न कश्चन, स्वस्य अन्तः­क­र­णा­द्य­ना­त्मनि वर्तमानाध्यासः स्वेनैव निवर्तनीयः नान्यस्तत्र प्रभुरित्यर्थः ॥५३॥

स्वीय­त­द्वि­ष­य­क­प्र­त्य­क्ष­प्र­माया एव स्वीय­त­द्वि­ष­य­क­प्र­त्य­क्ष­भ्र­म­नि­व­र्त­क­त्वात् । यदि पिता मन्दान्धकारे पतितां रज्जुं सर्पं मत्वा बिभेति, तत्पुत्रः तां रज्जुं साक्षा­त्कु­र्व­न्नपि पितुः साक्षा­त्का­र­म­न्तरा न तद्भयं निव­र्त­यि­तु­मीष्टे, तद्वत् स्वानुभवसिद्धो बन्धः स्वेनैव निवर्तनीयः नान्ये­ने­त्य­मु­मर्थं बहु­भि­र्दृ­ष्टान्तैः द्रढ­य­न्त्या­चार्याः, दृढ­नि­श्चि­तै­त­दर्थाः सहसा प्रवर्तन्तां जनाः स्वबन्धमुक्तय इति । मस्तकेति –

मस्त­क­न्य­स्त­भा­रादेः दुःख­म­न्यै­र्नि­वा­र्यते ।
क्षुधा­दि­कृ­त­दुःखं तु विना स्वेन न केनचित् ॥५४॥

५४

मस्तके न्यस्तः भारः यस्य, आदिपदेन शृङ्ख­ला­दि­नि­ग­डि­त­क­र­च­र­णादिः तस्य दुःखम् अन्यै­र्नि­वा­र्यते भारा­ध­स्स्था­प­ना­दिना शृङ्खलादिमोचनेन वा । क्षुधा­दि­कृ­त­दुःखं स्वेन विना केनचिदन्येन न निवार्यत इत्यर्थः । नह्यन्यस्मिन् पुत्रादौ भुञ्जाने वारि पिबति वा पितुः क्षुत्पि­पा­सा­नि­वृ­त्ति­र्दृष्टा ॥५४॥

दृष्टा­न्ता­न्त­र­माह − पथ्यमिति –

पथ्यमौषधसेवा च क्रियते येन रोगिणा ।
आरो­ग्य­सि­द्धि­र्दृ­ष्टाऽस्य नान्या­नु­ष्ठि­त­क­र्मणा ॥५५॥

५५

येन रोगिणा पथ्यं सेव्यते औषधसेवा च क्रियते तस्यै­वा­रो­ग्य­सिद्धिः दृष्टा । अन्येन पथ्यमौषधसेवा च क्रियते चेत् अन्य­दी­य­रो­ग­नि­वृ­त्तिःन दृष्टेत्यर्थः । पथ्यमौषधसेवा चेति द्वयकथनेन दृढ­त­र­सा­ध­न­च­तु­ष्ट­य­स­म्पत्तिः वेदान्तश्रवणं च ज्ञानहेतुरिति व्यञ्जितम् ॥५५॥

वस्तुस्वरूपं स्फुटबोधचक्षुषा
स्वेनैव वेद्यं न तु पण्डितेन ।
चन्द्रस्वरूपं निजचक्षुषैव
ज्ञात­व्य­म­न्यै­र­व­ग­म्यते किम् ॥५६॥

५६

स्फुटः निर्मलः संश­य­त्वा­द्य­ना­स्क­न्दितः यो बोधः श्रव­ण­म­न­न­नि­दि­ध्या­स­न­जातः साक्षात्कारः तेन वस्तुस्वरूपम् आत्म­रू­प­व­स्तु­या­थात्म्यं पर­मा­त्मा­भि­न्न­त्व­मिति यावत् । स्वेनैव वेद्यं विषयीकर्तव्यं न तु स्वभिन्नेन केनचित्पण्डितेन वेद्यम् । शुकवामदेवादयः परं ब्रह्म साक्षात्कृत्य मुक्ता बभूवुः । तेन इतरेषां किं जातमिति भावः । तत्रानुरूपं दृष्टान्तमाह ताप­वा­र­का­ह्ला­द­ज­न­क­च­न्द्र­स्व­रूपं निजचक्षुषैव ज्ञातव्यम् । अन्यैः चक्षुर्हीनैः अवगम्यते किम् ? यद्वा चक्षु­ष्म­द्भि­र­प्यन्यैः स्वभि­न्नै­र­व­ग­म्यते चेत् एतदीयतापं हरति वा एतमाह्लादयति वा चन्द्रस्वरूपम् ? तद्वदित्यर्थः ॥५६॥

लोक­प्र­सि­द्ध­पा­शा­दि­ब­न्धम् अन्यो मोचयितुं शक्नुयात् नाना­दि­सि­द्ध­ब­न्ध­मि­त्याह − अविद्येति –

अवि­द्या­का­म­क­र्मा­दि­पा­श­बन्धं विमोचितुम् ।
कः शक्नु­या­द्वि­नाऽऽ­त्मानं कल्पकोटिशतैरपि ॥५७॥

५७

पूर्वपूर्वस्य उत्त­रो­त्त­र­हे­तुत्वं, स्वस्व­रू­पा­ज्ञा­नात् बाह्येषु कामः, ततः कर्मणि प्रवृत्तिः, नहि लब्ध­सा­क्षा­त्काराः किञ्चित् कामयन्ते ‘कृता­त्म­न­स्त्वि­हैव सर्वे प्रविलीयन्ति कामाः’(मु.उ. ३.२.२) ‘रसोप्यस्य परं दृष्ट्वा निवर्तते’(भ.गी. २.५९) इत्या­दि­श्रु­ति­स्मृ­तिभ्यः । कामाभावे कर्म कुतः ?

‘यद्यद्धि कुरुते जन्तुः तत्तत्कामस्य’(म.स्मृ. २.४) इति स्मृतेः । तथा च अज्ञा­ना­शा­ध­र्मा­ध­र्म­रू­प­पा­श­प्र­युक्तं बन्धम् अनात्माध्यासं विमोचितुम् , आत्म­सा­क्षा­त्का­रेण विना त्यक्तुं, कल्पकोटिशतैरपि कल्पानां कोटयः तेषां शतानि तैरपि आत्मानं विना को वा शक्नु­या­दि­त्यर्थः । अती­ता­न­न्त­र­श्लो­को­क्त­रीत्या स्वस्वरूपस्य स्वेनैव साक्षा­त्क­र्त­व्य­त्वात् तं विना अज्ञानानिवृत्तौ कामकर्मादेः नैव निवृत्तिरिति भावः । आदिपदेन जन्म­ज­रा­म­र­ण­सु­ख­दुः­खा­दि­प­रि­ग्रहः ॥५७॥

इदानीं ‘पठन्तु शास्त्राणि’(श्लो. ६) इत्य­त्रो­क्त­रीत्या गुरु­शि­ष्य­सं­वा­द­रू­पेऽ­स्मिन् ग्रन्थे ‘तमेव विदि­त्वा­ति­मृ­त्यु­मेति नान्यः पन्था विद्यतेऽयनाय’(श्वे.उ. ३.८) (वा.सं. ३१.१८) ‘ज्ञानादेव तु कैवल्यम्’ इत्यादि श्रुत्यनुसारेण ब्रह्मा­त्मै­क­त्व­बो­ध­व्य­ति­रि­क्तस्य मोक्षहेतुत्वं व्यासेधति − न योगेनेति –

न योगेन न साङ्ख्येन कर्मणा नो न विद्यया ।
ब्रह्मा­त्मै­क­त्व­बो­धेन मोक्षः सिद्ध्यति नान्यथा ॥ ५८॥

५८

मोक्षः ब्रह्म­स्व­रू­पे­णा­व­स्था­न­ल­क्ष­ण­मोक्षः, ब्रह्मा­त्मै­क­त्व­बो­धेन ब्रह्म च आत्मा च ब्रह्मात्मानौ तयोरेकत्वमभेदः तद्बोधः तत्साक्षात्कारः तेन सिद्ध्यति अभिव्यज्यते । नान्यथा अन्येन प्रकारेण न सिध्यतीत्यर्थः । तदेव विशदयति, योगेन मोक्षो न सिद्ध्यति, योग­शा­स्त्र­ज­न्य­ज्ञा­नेन भेदविषयेण, चित्त­वृ­त्ति­नि­रो­ध­रू­प­यो­गेन वा मोक्षो न भवतीत्यर्थः । एवं साङ्ख्येन कपि­ल­म­ह­र्षि­प्र­णी­त­सा­ङ्ख्य­शा­स्त्र­ज­न्य­ज्ञा­नेन वा नानात्मविषयेण मोक्षो न सिद्ध्यति । कर्मणा पूर्व­का­ण्ड­वि­हि­त­य­ज्ञा­दि­क­र्मणा न सिद्ध्यति । न विद्ययेति, उप­नि­ष­द्वि­हि­त­यापि विद्यया सगुणोपासनया कैवल्यरूपमोक्षो न सिध्यतीति । तत्र योग­सा­ङ्ख्य­शा­स्त्र­ज­न्य­ज्ञा­नस्य भेदविषयत्वात् , ‘यदाह्येवैष एत­स्मि­न्नु­द­र­म­न्तरं कुरुते । अथ तस्य भयं भवति’(तै.उ. २.७) इति अभयप्रापकत्वमेव नास्ति । ‘नास्त्यकृतः कृतेन’(मु.उ. १.२.१२) , ‘अमृतत्वस्य नाशास्ति वित्तेन’(बृ.उ. २.४.२) इत्यादि श्रुतिभ्यः नित्य­मो­क्षा­भि­व्य­ञ्ज­कत्वं कर्मणः नास्ती­त्य­व­ग­म्यते । नित्यत्वं च मोक्षस्य ‘न स पुनरावर्तते’(छा.उ. ८.१५.१) इति श्रुत्या­व­ग­म्यते, सः ब्रह्मलोकं गतः सगुणोपासकः पुरुषः पुनर्नावर्तते न संसारीभवति, जन्मभाङ् न भवतीत्यर्थः । तत्र कारणं मुक्तत्वमेव । तच्च ब्रह्म­स्व­रू­पे­णा­व­स्था­न­मेव । तथा च ब्रह्मणः ‘यो वै भूमा तदमृतं’(छा.उ. ७.२४.१) ‘सत्यं ज्ञानमनन्तं ब्रह्म’(तै.उ. २.१) ‘नित्योऽ­नि­त्या­नाम्’(क.उ. २.५.१३) इत्या­दि­श्रु­ति­श­तेभ्यः नित्यत्वेन प्रतीयमानत्वात् तत्स्व­रू­प­मो­क्ष­स्यापि नित्यत्वम् । उक्तं च शास्त्रा­न्ति­मा­धि­क­र­ण­भाष्ये ‘सम्य­ग्द­र्श­न­वि­ध्व­स्त­त­मसां तु नित्य­सि­द्ध­नि­र्वा­ण­प­रा­य­णानां सिद्धै­वा­ना­वृत्तिः । तदाश्रयणेनैव हि सगुणशरणानामपि अना­वृ­त्ति­सि­द्धि­रिति’ । तेन ब्रह्मलोकं गतानां तत्रैव कृत­सा­क्षा­त्का­राणां कैवल्यरूपमोक्षः ।

‘ते ब्रह्मलोके तु परान्तकाले परा­मृ­ता­त्प­रि­मु­च्यन्ति सर्वे’(म.ना.उ. ८.१५)

ब्रह्मणा सह ते सर्वे सम्प्राप्ते प्रतिसञ्चरे । परस्यान्ते कृतात्मानः प्रविशन्ति परं पदम् ॥ (ब्र.सू.भा. ३.३.३२)

इत्या­दि­श्रु­ति­स्मृ­ति­भ्योऽ­व­ग­म्यते । तत्र परामृतात् वेदा­न्त­वि­चा­र­ज­नि­तो­त्कृ­ष्ट­ज्ञा­नात् इत्यर्थः ।

कृतात्मानः कृता­त्म­सा­क्षा­त्कारा इत्यर्थः । यथा कण्ठगतमेव चामीकरं कवचादिना तिरो­हि­त­म­न्वि­ष्या­न्विष्य श्रान्तः आप्तवाक्येन, ‘वर्तते किलात्रैव तव कण्ठे कुतो वा भ्राम्यति भवान्’ इत्यनेन बोधितः अप्राप्तमिव प्राप्नोति स्थितस्यैव चामीकरस्य अभिव्यञ्जकं तदा­प्त­वा­क्य­ज­न्य­ज्ञा­नम् , एवं सिद्धस्यैव ब्रह्म­भा­व­रू­प­मो­क्षस्य अभिव्यञ्जकः तत्त्व­म­सी­त्या­दि­गु­रू­प­दि­श्य­मा­न­म­हा­वा­क्य­ज­न्य­सा­क्षा­त्कार इति न ज्ञान­ज­न्य­त्व­शङ्का तत्र कार्या । यथा पूर्वमेव कौन्तेयस्सन्नपि कर्णः बाल्यात्प्रभृति राधया पोषितत्वात् स्वात्मानं राधेयं मन्वानः कुन्ती­वा­क्या­दा­त्मानं कौन्तेयं मेने । न तावता तेन कौन्तेयत्वं नूतनमलम्भि । अपि तु पूर्वमज्ञातं कुन्ती­वा­क्या­ज्ज्ञा­तम् । एवं प्रकृतेऽपि वेदितव्यम् । यथा वा श्रीरामेण ‘आत्मानं मानुषं मन्ये रामं’(वा.रा.यु. १२०.१२) इत्याद्यनुसारेण स्वात्मानं मनुष्यम्मन्येन ‘एकशृङ्गो वराहस्त्वं’(वा.रा.यु. १२०.१४) इत्या­दि­प­र­मे­ष्ठि­वाक्यैः महाविष्णुरेव त्वमिति बोधितेन स्वस्वरूपं ज्ञातं न तत्र अविद्यमानं महा­वि­ष्णु­त्व­मा­ग­तम् , अपि तु स्थितमभिव्यञ्जि तं तद्वच्चेति ज्ञेयम् । तथा च उत्पा­द्या­प्य­सं­स्का­र्य­वि­का­र्या­णा­म­न्य­त­मस्य कर्मफलत्वं दृष्टं, यथा स्वर्गस्य यागो­त्पा­द्यत्वं, शब्द­रा­शि­रू­प­वे­दस्य अध्ययनाप्यत्वं, व्रीहीणां प्रोक्ष­णा­दि­सं­स्का­र­सं­स्का­र्य­त्वम् , अवघातादिभिः वैतु­ष्य­स­म्पा­द­न­द्वारा विकार्यत्वं तेषाम् । तत्र नित्यत्वात् नोत्पाद्यत्वं मोक्षस्य, आत्म­स्व­रू­प­त्वा­द­ना­प्यत्वं, नित्य­शु­द्ध­ब्र­ह्म­स्व­रू­प­त्वात् न संस्कार्यत्वं, निर्वि­का­र­ब्र­ह्म­स्व­रू­प­त्वात् न विकार्यत्वम् । एतत्तु सम­न्व­य­सू­त्र­भाष्ये विस्त­रे­णो­प­पा­दितं भगवत्पादैः । अतः कर्म­फ­ल­त्व­व्या­प­को­त्पा­द्य­त्वा­द्य­न्य­त­म­ध­र्मा­भा­वात् कर्मणा नो सिध्यतीत्यर्थः । ‘विद्यां चाविद्यां च’(ई.उ. ११) ‘विद्यया तदारोहन्ति’(श.ब्रा. १०.५.४.१५) इत्यादौ विद्याशब्दस्य उपासनापरत्वं सिद्ध्यति । अतः विद्यापदस्य आत्म­वि­द्या­व्य­ति­रि­क्ता­प­र­वि­द्याऽर्थः । तया ब्रह्म­स्व­रू­पा­व­स्था­न­ल­क्ष­ण­मोक्षः न साक्षा­त्सि­ध्य­ती­त्यर्थः ॥५८॥

ब्रह्मा­त्मै­क­त्व­बो­धे­नैव मोक्षः सिद्ध्यति नान्यथे(श्लो. ५८)त्यमुमर्थं दृष्टान्तेन विशदयति – वीणाया इति −

वीणाया रूपसौन्दर्यं तन्त्री­वा­द­न­सौ­ष्ठ­वम् ।
प्रजा­र­ञ्ज­न­मात्रं तन्न साम्राज्याय कल्पते ॥५९॥

५९

रञ्जनाद्राजा, ‘राजा प्रकृ­ति­र­ञ्ज­नात्’(रघु. ४.१२) इत्यु­क्ता­नु­सा­रेण कश्चिद्वैणिकः रूपेण जनमनोहरां काञ्चि­द्वी­णा­मा­दाय तत्तन्त्रीः सुष्ठु वादयति चेत् यद्यपि रज्यन्ते प्रजाः सुन्द­र­वी­णा­द­र्श­नेन सौष्ठ­वो­पे­त­त­त्त­न्त्री­वा­द­नेन च । अथापि तद्रञ्जनं न वैणिकस्य साम्राज्याय सम्राड्भावाय कल्पते । तद्व­दा­त्मै­क्य­बो­धेन विना योग­शा­स्त्रा­दि­ज­न्य­ज्ञानं वा कर्म वा उपासनं वा न साक्षा­त्कै­व­ल्याय कल्पत इति भावः । वीणाया रूपसौन्दर्यं सुन्द­र­रू­प­व­त्त्व­मिति यावत् । तन्त्र्याः वादने सौष्ठवं वैणि­क­नि­ष्ठ­प्र­जा­र­ञ्ज­न­मात्रं तत् न साम्राज्याय कल्पत इथ्यर्थः ॥५९॥

केवलं शब्द­श्र­व­ण­मा­त्रेण मनोरञ्जकविषये कथयित्वा अर्थतोऽपि ये मनो रञ्जयन्ति तेषामपि पूर्वो­क्त­ज्ञा­ना­भावे नैव मुक्तिरित्याह वाग्वैखरीति –

वाग्वैखरी शब्दझरी शास्त्र­व्या­ख्या­न­कौ­श­लम् ।
वैदुष्यं विदुषां तद्वत् भुक्तये न तु मुक्तये ॥६०॥

६०

वाग्वैखरी सर­ल­प­द­ब­न्ध­वि­शिष्टा वाक्, शब्दझरी निर­र्ग­ल­नि­र्ग­लन्ती वाक् वाक्प्र­यो­ग­चा­तुर्यं शब्दप्रवाहः, शास्त्र­व्या­ख्या­न­कौ­शलं शास्त्रस्य व्याख्यानं –

पदच्छेदः पदार्थोक्तिः विग्रहो वाक्ययोजना ॥ आक्षेपस्य समाधानं व्याख्यानं पञ्चलक्षणम् । (परा.उ.पु. १८.१७-१८)

इत्युक्तरीत्या शास्त्रार्थकथने कौशलं, प्रावीण्यम् । एतादृशं विदुषां वैदुष्यमपि, तद्वत् वीणावादनादिवद् भुक्तये प्रति­ष्ठा­स­म्पा­द­ना­दि­द्वारा भवति । मुक्तये तु न भवति । तत्र पूर्वो­क्त­सा­क्षा­त्कार एव कारणमिति भावः ॥६०॥

ननु तात्का­लि­क­सु­ख­ज­नकं वैणिककौशलं क्व, श्रवणानन्तरमपि सम्यगन्तः प्रविश्य आनन्दहेतुभूतं विदुषां वैदुष्यं क्व, अतस्तस्य तद्वदिति वैणिककौशलसाम्यं न वक्तव्यमिति चेत् , अस्त्वेवं तत्रान्तरम् , अथापि आत्म­त­त्त्व­सा­क्षा­त्का­रा­भावे शास्त्राध्ययनं तज्जन्यकौशलं वा यथोक्तफलवन्न भवतीत्याह अविज्ञात इति –

अविज्ञाते परे तत्त्वे शास्त्रा­धी­तिस्तु निष्फला ।
विज्ञातेऽपि परे तत्त्वे शास्त्रा­धी­तिस्तु निष्फला ॥६१॥

६१

परे काल­त्र­या­बा­ध्य­त्वेन स्वय­म्प्र­का­शा­न­न्द­रू­प­त्वेन च मिथ्या­भू­त­ज­ड­दुः­खादि रूप­दे­हा­दि­मा­या­न्त­स­क­ल­का­र्य­का­र­णा­पे­क्षया उत्कृष्टे, तस्य सर्व­स्या­धि­ष्ठा­न­भूते तत्त्वे निर्गुणे ब्रह्मणि, अविज्ञाते असाक्षात्कृते सति, शास्त्रा­धी­तिस्तु अर्थ­वि­चा­र­प­र्य­न्त­वे­दा­न्ता­ध्य­य­न­मपि निष्फला । यदर्थं विचारः शास्त्रविहितः तस्यालाभे निष्फलत्वं तत्र तत्फ­ल­ला­भ­प­र्यन्तं यथो­क्त­फ­ल­शू­न्य­त्व­रूपं सिद्धमेवेति भावः । जन्मा­न्त­र­कृ­त­सा­ध­न­व­शात् गर्भस्थेनापि वामदेवेनेव परे तत्त्वे विज्ञाते साक्षात्कृतेऽपि अनन्तरं फलस्य निष्पन्नत्वात् शास्त्रा­ध्य­य­ना­दिकं न कार्यमिति भावः ॥६१॥

यथा महारण्यं प्रविष्टः पुरुषः दिशमज्ञात्वा भ्राम्यति मुधा तथा केव­ल­श्ब्द­जा­ला­त्म­क­शा­स्त्र­स्यापि विक्षे­प­हे­तु­त्वात् तन्निष्ठत्वमपि परित्यज्य पर­मा­त्म­सा­क्षा­त्का­र­वतो देशिकात् आत्मयाथात्म्यं साक्षा­त्क­र्त­व्य­मि­त्याह शब्दजालमिति –

शब्दजालं महारण्यं चित्त­भ्र­म­ण­का­र­णम् ।
अतः प्रयत्नात् ज्ञातव्यं तत्त्व­ज्ञा­त्त­त्त्व­मा­त्मनः ॥६२॥

६२

उप­नि­ष­द्रू­प­शा­स्त्रा­देव आचा­र्यो­प­दे­शा­त्त­त्त्वस्य ज्ञातव्यत्वेऽपि शास्त्रकोलाहलो नाश्रयणीयः तद्वासनाया अपि ज्ञान­प्र­ति­ब­न्ध­क­त्वात् । ‘लोकवासनया जन्तोः शास्त्रवासनयापि च । देहवासनया ज्ञानं यथावन्नैव जायते ॥’(श्लो. २७२) इति वक्ष्य­मा­ण­त्वा­दिति भावः ॥६२॥

ज्ञान­मे­वा­ज्ञा­न­नि­व­र्तकं नान्यदित्याह अज्ञानेति –

अज्ञा­न­स­र्प­द­ष्टस्य ब्रह्मज्ञानौषधं विना ।
किमु वेदैश्च शास्त्रैश्च किमु मन्त्रैः किमौषधैः ॥६३॥

६३

अज्ञानमेव सर्पः अत्य­न्ता­न­र्थ­क­र­त्वात् , तेन दष्टस्य आवृ­ति­वि­क्षे­पाभ्यां प्रापितमोहस्य, ब्रह्म­ज्ञा­न­मे­वौ­षधं ब्रह्मज्ञानौषधं तेन विना, वेदैः ऋगादिवेदैः, शास्त्रैः व्याक­र­णा­दि­शा­स्त्रैश्च किमु प्रयोजनम् । मन्त्रैः सप्तकोटिभिः किमु । औषधैः सञ्जी­वि­न्या­दि­मू­लि­का­भिर्वा किमु फलं तेषां मध्ये केषामपि अज्ञा­न­स­र्प­दं­श­न­प्र­यो­ज्य­मो­ह­नि­व­र्त­क­त्वा­भा­वा­दिति भावः ॥६३॥

शब्दमात्रस्य मोक्षाहेतुत्वं दृष्टान्तेनाह न गच्छतीति –

न गच्छति विना पानं व्याधि­रौ­ष­ध­श­ब्दतः ।
विनाऽ­प­रो­क्षा­नु­भवं ब्रह्मशब्दैर्न मुच्यते ॥६४॥

६४

व्याधिः रोगः, पानं विना औषधपानं विना, तद्बोधकात् औषधम् औषधमिति शब्दोच्चारणात् न गच्छति न निवर्तते । तद्वत् अपरोक्षानुभवम् आत्म­सा­क्षा­त्कारं विना केव­ल­मु­प­नि­ष­द्घ­टकैः ब्रह्मशब्दैः न मुच्यते, निवृत्तबन्धो न भवतीत्यर्थः ॥६४॥

तमेवार्थं तत्त्व­ज्ञा­न­प­र­म­का­र­ण­क­थ­न­द्वारा भङ्ग्यन्तरेणाह अकृत्वेत्यादिना –

अकृत्वा दृश्यविलयम् अज्ञात्वा तत्त्वमात्मनः ।
बाह्यशब्दैः कुतो मुक्ति­रु­क्ति­मा­त्र­फ­लै­र्नृ­णाम् ॥६५॥

६५

दृश्यविलयं दृश्यस्य शब्दा­ज­न्य­वृ­त्ति­वि­ष­यस्य चिद्वषयस्य वा, तेन शशशृङ्गादेः ब्रह्मणश्च वारणम् अज्ञानान्तस्य जडस्य सर्वस्य ब्रह्म­व्य­ति­रि­क्तस्य, विलयं ब्रह्मणि प्रवि­ला­प­न­म­कृत्वा, आत्मनः तत्त्वमज्ञात्वा सजा­ती­य­वि­जा­ती­य­स्व­ग­त­भे­द­र­हि­त­स­र्वा­धि­ष्ठा­न­स­त्य­स्व­य­म्प्र­का­शा­न­न्द­रू­प­ता­म­ज्ञात्वा उक्तिमात्रफलैः उच्चा­र­ण­मा­त्र­प्र­यो­जनैः बाह्यशब्दैः आन्तरानुभवं विना उच्चार्यमाणैः ‘अहं ब्रह्मास्मि’(बृ.उ. १.४.१०) इत्यादिशब्दैः नृणां मुक्तिः कुतः, नैव सम्भवतीत्यर्थः । किं शब्दः निषेधार्थकः ‍ ॥६५॥

एतेन आत्म­त­त्त्व­ज्ञाने सम­स्त­दृ­श्य­प्र­वि­ला­प­न­पु­र­स्सरं ब्रह्म­मा­त्रा­व­शे­षणं पर­म­का­र­ण­मि­त्युक्तं व्यतिरेकमुखेन अकृत्वेति, दृश्यप्रविलापने तत्त्वज्ञानं नान्यथेति । एवं तत्त्वज्ञाने मुक्तिः नापरथेति च, मुक्तिहेतुत्वं ज्ञानस्य व्यतिरेकमुखेन कथितम् । तत्रानुरूपं दृष्टान्तमाह अकृत्वेति –

अकृत्वा शत्रुसंहारम् अग­त्वाऽ­खि­ल­भू­श्रि­यम् ।
राजाऽहमिति शब्दान्नो राजा भवितुमर्हति ॥६६॥

६६

स्वकी­य­रा­ज्य­भो­ग­प्र­ति­ब­न्ध­कानां शत्रूणां विलयमकृत्वा अखिलभूश्रियं सम­स्त­पृ­थ्वी­स­म्प­दम् , अगत्वा अप्राप्य, केवलमहं राजेतिशब्दात् नो राजा भवितुमर्हति राजा भवितुं नो अर्हतीत्यन्वयः । राजत्वे सक­ल­श­त्रु­वि­ल­य­पु­र­स्सरं सम­स्त­भू­श्री­प्राप्तिः यथा कारणमेवं सक­ल­दृ­श्य­प्र­वि­ला­प­न­पु­र­स्स­रम् आत्म­त­त्त्व­ज्ञानं मुक्तावपीति भावः ॥६६॥

केवलबाह्यशब्दैः न मुक्तिः । अतः प्रयत्नात् तत्त्वज्ञात् आत्मनः तत्त्वं ज्ञात­व्य­मि­त्य­मु­मर्थं सदृष्टान्तं विस्तरेण कथयति आप्तोक्तिमिति –

आप्तोक्तिं खननं तथो­प­रि­शि­ला­पा­क­र्षणं स्वीकृतिं
निक्षेपः समपेक्षते न हि बहिः शब्दैस्तु निर्गच्छति ।
तद्व­द्ब्र­ह्म­वि­दो­प­दे­श­म­न­न­ध्या­ना­दि­भि­र्ल­भ्यते
माया­का­र्य­ति­रो­हितं स्वममलं तत्त्वं न दुर्युक्तिभिः ॥६७॥

६७

लोके तावत् भूमे­र­न्त­स्स्था­पितः निक्षेपः हिरण्यादिनिधिः, प्राप्त­व्य­श्चेत् तं दृष्टवतां वा, अञ्जनविशेषादिना तं विज्ञाय सत्यं कथयतां वा आप्तानामुक्तिं श्रुत्वा भुवं खनित्वा, तत्र निधे­रु­प­रि­व­र्त­मा­ना­च्छा­द­क­शि­लायाः अपाकर्षणम् अपसारणं कृत्वा प्राप्तव्यः । न तु निक्षेपः निक्षेप इति शब्दैः बहिः निर्गच्छति । तदिदमुक्तं यन्निक्षेपः हिरण्यादिनिधिः स्वफले आधेये आप्तोक्तिं खननं भुवः तथा उप­रि­शि­ला­पा­क­र्षणं तदनन्तरं स्वस्य स्वीकृतिं स्वीकारं च समपेक्षते, बहिश्शब्दैस्तु न निर्गच्छति । तु शब्दोऽवधारणे । नैव निर्गच्छतीति हि लोके प्रसिद्धम् । तद्वत् शिलया भूम्या च आव्रि­य­मा­ण­नि­धि­रिव, स्वं स्वकीयम् अमलं स्वतश्शुद्धं तत्त्वं याथात्म्यं ब्रह्मेति यावत् , माया­का­र्य­ति­रो­हितं मायया अज्ञानेन तत्कार्यैश्च अह­ङ्का­रा­दि­दे­हान्तैः कोशैः, तिरोहितं प्रति­ब­द्ध­स्फु­ट­भानं ब्रह्म­वि­दो­प­दे­श­म­न­न­ध्या­ना­दि­भि­र्ल­भ्यते, आ समन्तादुपदेशः ओपदेशः ब्रह्मविदः ओपदेशः ब्रह्मविदोपदेशः । यद्वा ब्रह्मविदेति व्यस्तं पदं तृतीयान्तम् , तेन उपदेशे तत्कर्तृत्वं लभ्यते । ब्रह्म­वि­त्क­र्तृ­को­प­देशः श्रवणं, मननं युक्ति­भि­र­नु­चि­न्तनं, ध्यानं निदिध्यासनम् , आदिपदेन निर्वि­क­ल्प­स­मा­धि­प­रि­ग्रहः । तैर्लभ्यते साक्षात्क्रियते । अत्र ब्रह्मलाभः साक्षात्कारः स्वानन्यत्वात् अन्या­दृ­श­ला­भा­स­म्भ­वात् । कण्ठ­चा­मी­क­रा­दि­ल­ब्ध­ला­भ­स्थले सर्व­त्रा­प्ये­व­मेव वक्तव्यत्वात् । न दुर्यु­क्ति­भि­र्ल­भ्यते ‘नैषा तर्केण मतिरापनेया’(क.उ. १.२.९) इति श्रुतेः । श्रुत्य­नु­सा­रिण्यः युक्तयस्तु अभ्युपेयन्त एव । ‘पण्डितो मेधावी गान्धा­रा­ने­वो­प­स­म्प­द्येत’(छा.उ. ६.१४.१) इति श्रुत्यैव सत्त­र्क­स्या­भ्यु­पे­त­त्वात् । दर्शयति किल श्रुतिरेव महा­म­त्स्या­दि­दृ­ष्टा­न्तेन असङ्गत्वमात्मनः सुषुप्तौ प्रप­ञ्च­प­रि­त्या­गेन सदात्मना सम्पृक्ते निष्प्र­प­ञ्च­स­दा­त्मत्वं, कार्य­का­र­णा­न­न्यत्व (ब्र.सू. २.१.१४) न्यायेन मृत्पि­ण्डा­दि­दृ­ष्टान्तैः एकविज्ञानेन सर्वविज्ञानं प्रपञ्चस्य ब्रह्मा­व्य­ति­रेकः, ऊर्ण­ना­भ्या­दि­दृ­ष्टान्तैः अभि­न्न­नि­मि­त्तो­पा­दा­नत्वं, तस्क­र­दृ­ष्टा­न्तेन सत्याभिसन्धस्य मुक्तिः मिथ्याभिसन्धस्य बन्ध इत्या­दि­यु­क्ति­जा­लम् । अतः उक्तं दुर्यु­क्ति­भि­रिति ॥६७॥

तस्मात् सर्वप्रयत्नेन भवबन्धविमुक्तये ।
स्वेनैव यत्नः कर्तव्यो रोगादेरिव पण्डितैः ॥६८॥

६८

तस्मादिति । यस्मादेवं स्वीयबन्धः अन्येन निवर्तयितुं न शक्यते, स्वेनापि साध­न­च­तु­ष्ट­य­स­म्प­त्ति­मता गुरुमुपसद्य तन्मुखतः वेदान्तान् श्रुत्वा तदर्थं मत्वा निदिध्यास्य निर्वि­क­ल्प­क­नि­ष्ठया ब्रह्मतत्त्वं स्फुटमवगम्य मोक्तव्यं न केवलं बाह्यशब्दादिभिः मुक्तिः सिद्ध्यति तस्मादित्यर्थः । सर्वप्रयत्नेन उक्त­श्र­व­णा­दि­रू­प­प्र­य­त्नेन भवबन्धविमुक्तये सांसा­रि­का­वि­द्या­दि­दे­हा­न्त­ब­न्ध­नि­वृ­त्तये स्वैरेव ये तावत् बन्धमनुभवन्ति तैस्स्वैरेव, पण्डितैः बुद्धिमद्भिः, रोगादेः रोग­क्षु­त्पि­पा­सादेः, विमुक्तये यथा अग­द­स्वी­का­रा­भ्य­व­हा­र­ज­ल­पा­ना­दिकं स्वयं क्रियते, एवं यत्नः कर्तव्यः । विवे­का­दि­सा­ध­न­च­तु­ष्टयं स्थिरतमं सम्पाद्य सद्गुरुरुपसदनीय इति भावः । अत्र सर्वप्रयत्नेन, भवबन्धविमुक्तये यत्नः कर्तव्य इति द्विवा­र­मु­क्त­त्वात् एवमर्थो युक्त इति भाति ॥६८॥

एवं तीव्र­मु­मु­क्षा­वन्तं शिष्यं प्रशस्य तदीयप्रश्नं श्लाघते यस्त्वयेति –

यस्त्वयाद्य कृतः प्रश्नो वरीयान् शास्त्रसम्मतः ।
सूत्रप्रायो निगूढार्थो ज्ञातव्यश्च मुमुक्षुभिः ॥६९॥

६९

न केवलं तीव्रमुमुक्षया उत्त­मा­धि­का­रित्वं ते, अपि तु मुमु­क्षु­ज्ञे­या­न्यू­ना­न­ति­रि­क्त­वि­ष­यान् क्रोडीकृत्य यद­प्रा­क्षीर्मां, तेनापि मेधा­वि­त्व­वि­द्व­त्त्वो­हा­पो­ह­वि­च­क्ष­ण­त्वादि धर्म­म­ण्डि­तस्त्वं मुमुक्षूणां सर्वेषां ज्ञात­व्य­मा­र्ग­द­र्श­कोऽ­सीति महात्मना गुरुणा श्लाघि­तः­भ­क्ति­श्र­द्धा­भ­रि­त­मनाः क्षिप्रमुक्तं गृह्णा­ती­त्य­भि­प्रा­येण –

यस्य देवे परा भक्तिः यथा देवे तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ (श्वे.उ. ६.२३) इति श्रुतेः ।

अद्य इदानीं, यः प्रश्नः को नाम बन्ध इत्यादि रूपः कृतः सः वरीयान् अत्यन्तं वरः । तत्र हेतुमाह, शास्त्रविन्मतः, ये तावत् अत्यन्तं शास्त्रविदः तैरेवैवं प्रष्टुं शक्यत इति भावः । तत्र हेतुमाह सूत्रप्राय इति । बन्ध­मो­च­क­सा­क्षा­त्का­रार्थं यावत्प्रष्टव्यं सर्वस्यात्रैव पृष्टत्वात् अल्पाक्षरेण सङ्गृहीतेन शब्देन । शब्दस्तु अल्पाक्षरः ज्ञेया­र्थ­स्स­र्वोऽपि अत्र निगूढ इति वदन् सूत्रप्रायत्वं विशदयति निगूढार्थ इति । एत­त्प्र­क­र­ण­ग्र­न्थस्य उत्तरस्य सर्वस्यापि एत­दु­त्त­र­रू­प­त्वात् प्रति­पा­द­नी­या­र्थ­स्स­र्वोऽ­प्यत्र बुद्धिमता शिष्येण उपक्षिप्त इति भावः । अत एव मुमुक्षुभिः ज्ञातव्यः, आत्मा­ना­त्म­वि­वे­क­ज­न्य­सा­क्षा­त्का­रेण हि सहे­तु­क­ब­न्ध­नि­वृ­त्ति­रू­प­मोक्षः उक्तः ‘अज्ञानयोगाद्’(श्लो. ४९) इत्यादिना गुरुणा । सहसा गुरूक्तिं विज्ञाय प्रष्टव्यांशस्य सर्व­स्या­प्य­न­व­शे­षम् अनतिरेकेण पृष्टत्वात् मेधावित्वादिकं शिष्यस्य सम्यगवगम्य गुरुस्तं नितरां श्लाघयामास ॥६९॥

एवं महात्मना श्लाघितं स्वात्मानं धन्यधन्यं मन्वानं शिष्यं स्वोक्ता­र्थ­ग्र­ह­णा­द्य­र्थ­म­व­धा­प­यति शृणुष्वावहित इति −

शृणुष्वावहितो विद्वन् यन्मया समुदीर्यते ।
तदे­त­च्छ्र­व­णा­त्सद्यो भव­ब­न्धा­द्वि­मो­क्ष्यसे ॥७०॥

७०

हे विद्वन् ! मेधा­वि­त्वा­द्यु­क्ता­त्म­वि­द्या­धि­का­र­वि­शिष्ट ! मया यत्समुदीर्यते सङ्ग्रहेण विस्तरेण च सम्यग्ज्ञानाय यदुच्यते, तत् अवहितः विष­या­न्त­र­म­न­स्स­ञ्चा­र­र­हितः, श्रद्धया श्रुणुष्व । एतच्छ्रवणात् यथाविधि मदु­क्त­वा­क्य­श्र­व­णात् सद्यः श्रव­ण­स­म­न­न्त­र­मेव, आत्मानं साक्षात्कृत्य भवबन्धात् संसारबन्धात् कर्तृ­त्व­भो­क्तृ­त्व­ज­न्म­ज­रा­म­र­णा­दि­रू­प­ब­न्धा­द्वि­मो­क्ष्यसे नितरां मुच्यस इत्यर्थः ॥७०॥

इदानीं तदी­य­प्र­श्ना­नु­सा­रेण तेन जिज्ञासितमर्थं विवक्षुः प्रथमतः कथं विमोक्ष इत्यस्य प्रश्न­स्यो­त्त­र­माह । ननु ‘को नाम बन्धः, कथमेष आगतः, कथं प्रतिष्ठास्य’(श्लो. ५१) इति प्रथमतः कृत­प्र­श्न­त्र­यस्य उत्तरमनुक्त्वा तुरीयस्य कथं विमोक्ष इत्यस्य उत्त­र­क­थ­न­म­नु­चि­त­मिति चेन्न, न ह्यत्य­न्त­म­ग्निना दह्यमाने गृहे क्षिप्रं जलसेकादिना अग्नि­शा­न्ति­म­कृत्वा कुत्राग्निः पतितः, कथं पतितः, इति विचारेण कालयापनं युक्तं तथासति निरवशेषं गृहस्य दह्यमानत्वात् । तथा सर्वै­र­प्य­ज्ञा­निभिः सांसारिकबन्धः अनुभूयत एव तीव्रः, तन्निरासे सहसा यत्न आस्थेयः इत्यभिप्रायेण ज्ञातव्यांशस्य मध्ये –

अनन्तशास्त्रं बहु वेदितव्यम् अल्पश्च कालो बहवश्च विघ्नाः । यत्सारभूतं तदुपासितव्यं हंसो यथा क्षीर­मि­वा­म्बु­मि­श्रम् ॥ (उ.गी. ३.१)

इत्य­भि­यु­क्तोक्त्या सारभूतमंशं गुरुरादावाह मोक्ष­स्ये­त्या­दिना, क्षिप्रं मोक्षहेतुं विज्ञाय तल्लाभेन सहसा बन्धान्मुक्तः नित्या­न­न्द­म­नु­भ­व­त्वि­त्य­भि­प्रा­येण । किञ्च आत्मा­ना­त्म­ज्ञानं विना बन्धस्वरूपस्य वक्ष्यमाणस्य ज्ञातु­म­श­क्य­त्वाच्च, तत्सर्वं पश्चा­द्व­क्ष्या­मीति धिया च प्रथमं कथं विमोक्ष इत्यस्य उत्तरमाह मोक्ष­स्ये­त्या­दिना –