अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

११. आत्मानात्मविवेचनम्

यद्बोद्धव्यं तवे­दा­नी­मा­त्मा­ना­त्म­वि­वे­च­नम् ।
तदुच्यते मया सम्यक् श्रुत्वाऽऽ­त्म­न्य­व­धा­रय ॥७३॥

७३

एतेन ‘कोऽसावनात्मा परमः क आत्मा’(श्लो. ५१) इति प्रश्नोऽ­प्यु­त्त­रितो भवति । तव इदानीं मोक्ष­हे­तु­ज्ञा­न­बो­धा­त्प्राक् तद्धेतुत्वेन आत्मा­ना­त्म­वि­वे­च­नम् अयमात्मा अयमनात्मा इति भेद­ज्ञा­ना­नु­कू­ल­व्या­पारः बोद्धव्यं ज्ञातव्यः, तत्त­स्मा­त्का­र­णात् मया सम्यक् स उच्यते । तं श्रुत्वा आत्मनि मनसि, अवधारय निश्चि­नु­ही­त्यर्थः ॥७३॥

तत्र अनात्मद्वारैव आत्मनः ज्ञातव्यत्वेन अनात्मनः स्थूलत्वेन प्रथमं ज्ञातुं शक्यत्वेन तस्मिंश्च ज्ञाते सूक्ष्म­स्या­प्या­त्मनः ज्ञानं सुलभं भवतीति प्रथमतोऽनात्मनो निरूपयति ‘अथ ते सम्प्र­व­क्ष्यामि’(श्लो. १२६) इत्यन्तम् । तत्रादौ सकलबुद्धिगम्यं स्थूलशरीरं निरूपयति अहन्तया विस्प­ष्ट­व्य­व­हा­र­ग­म्य­त्वात् मज्जेत्यादिना –