विवेकचूडामणिः सव्याख्यः
११. आत्मानात्मविवेचनम्
यद्बोद्धव्यं तवेदानीमात्मानात्मविवेचनम् ।
तदुच्यते मया सम्यक् श्रुत्वाऽऽत्मन्यवधारय ॥७३॥
एतेन ‘कोऽसावनात्मा परमः क आत्मा’(श्लो. ५१) इति प्रश्नोऽप्युत्तरितो भवति । तव इदानीं मोक्षहेतुज्ञानबोधात्प्राक् तद्धेतुत्वेन आत्मानात्मविवेचनम् अयमात्मा अयमनात्मा इति भेदज्ञानानुकूलव्यापारः बोद्धव्यं ज्ञातव्यः, तत्तस्मात्कारणात् मया सम्यक् स उच्यते । तं श्रुत्वा आत्मनि मनसि, अवधारय निश्चिनुहीत्यर्थः ॥७३॥
तत्र अनात्मद्वारैव आत्मनः ज्ञातव्यत्वेन अनात्मनः स्थूलत्वेन प्रथमं ज्ञातुं शक्यत्वेन तस्मिंश्च ज्ञाते सूक्ष्मस्याप्यात्मनः ज्ञानं सुलभं भवतीति प्रथमतोऽनात्मनो निरूपयति ‘अथ ते सम्प्रवक्ष्यामि’(श्लो. १२६) इत्यन्तम् । तत्रादौ सकलबुद्धिगम्यं स्थूलशरीरं निरूपयति अहन्तया विस्पष्टव्यवहारगम्यत्वात् मज्जेत्यादिना –