अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

२४. साक्षिस्वरूपम्

पञ्चानामपि कोशानां निषेधे युक्तितः कृते ।
तन्निषेधावधिः साक्षी बोध­रू­पोऽ­व­शि­ष्यते ॥२१२॥

२१२

पञ्चानामपि कोशानां निषेधे प्रतिकोशं नायमात्मा इति निषेधे निराकरणे सति, तन्निषेधावधिः तद्बा­धा­धि­ष्ठा­न­भूतः साक्षी । यत्पर्यन्तं निषेधः सः अवधिः सीमा इति यावत् । साक्षी साक्षि­त्वो­प­ल­क्षितः । बोधरूपः केव­ल­नि­र्वि­ष­य­ज्ञा­न­स्व­रूपः अवशिष्यते ॥२१२॥

स एव मुख्यात्मेति ज्ञेय इत्याह योऽयमिति −

योऽयमात्मा स्वयं ज्योतिः पञ्चकोशविलक्षणः ।
अव­स्था­त्र­य­साक्षी सन्निर्विकारो निरञ्जनः ।
सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥२१३॥

२१३

यः अवशिष्यते अयमात्मा इति पूर्वश्लोकेन सम्बन्धः । उप­क्र­मै­क­वा­क्य­तया पर­मा­त्म­नि­रू­प­ण­मु­प­सं­ह­रति ।

अस्ति कश्चित्स्वयं नित्यम् अहं­प्र­त्य­य­ल­म्बनः । अव­स्था­त्र­य­साक्षी सन् पञ्चकोशविलक्षणः ॥ (श्लो. १२७)

इत्यादिना उपक्रान्तः, एतावता कोशपञ्चकनिषेधेन तद्विलक्षणतया उपपादितः, जाग्रदादिसाक्षी अबाध्यः विकारशून्यः निर्लेपः सदा आनन्दस्वरूपः सः विपश्चिता विवेककुशलेन स्वात्मत्वेन स्वस्वरूपतया विज्ञेयः । येष्वात्मत्वं कल्पितं तेषां निरासे कृते तदधिष्ठानं ‘ब्रह्मपुच्छं प्रतिष्ठा’ इति (तै.उ. २.५) श्रुत्या बोध्यमानं परं ब्रह्मैव वास्तवस्वरूपम् । अत एवोक्तं श्रुत्या − ‘असन्नेव स भवति, असद्ब्रह्मेति वेद चेत् , अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुरिति’(तै.उ. २.६) इति । ब्रह्मणः स्वस्वरूपत्वे तदसदिति वेद चेत् , स्वस्यासत्वम् । तस्यान्यत्वे स्वेनात्मत्वेन ज्ञातानां कोशानां निरासे नैरात्म्यमेव प्रसज्येत इत्यर्थः ॥२१३॥

शिष्य उवाच −

मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु ।
सर्वाभावं विना किञ्चित् न पश्याम्यत्र हे गुरो ।
विज्ञेयं किमु वस्त्वस्ति स्वात्मनात्र विपश्चिता ॥२१४॥

२१४

स्पष्टोऽर्थः ॥२१४॥

श्रीगुरुरुवाच −

सत्यमुक्तं त्वया विद्वन् निपुणोऽसि विचारणे ।
अह­मा­दि­वि­का­रास्ते तदभावोऽयमप्यथ ॥२१५॥

२१५

सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते ।
तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया ॥२१६॥

२१६

हे विद्वन् , त्वया सत्यमुक्तं यथाज्ञातं कथितम् । विचारणे निपुणोऽसि पूर्व­मु­च्चा­व­च­तया प्रतीतस्य सर्वस्यापि यथा न भानं तथा विचारस्य कृतत्वात् इति श्लाघया तद्बु­द्धि­मु­ल्लास्य वक्तव्यं सूक्ष्ममाह − अहमादीति । ते पूर्वमनुभूताः अहमादिविकाराः, अथ इदानीम् अयं तदभावोऽपि पूर्वप्रतीतानां सर्वेषामभावोऽपि । एते सर्वे येनानुभूयन्ते पूर्वमनुभूताः तादात्म्येन इदानीं पृथक्तया तदभावो वा अनुभूयते । यः स्वयं नानुभूयते तं वेदितारं सर्वसाक्षिणं सुसूक्ष्मया बुद्ध्या एकाग्रया अनन्यविषयकया बुद्ध्या आत्मानं विद्धि जानीहि ॥२१६॥

तदेवोपपादयति स्फुटतया ज्ञानाय तत्साक्षिकमिति −

तत्साक्षिकं भवेत्तत्तद् यद्य­द्ये­ना­नु­भू­यते ।
कस्या­प्य­न­नु­भू­तार्थे साक्षित्वं नोपपद्यते ॥२१७॥

२१७

यद्यत् येनानुभूयते अनु­भ­व­वि­ष­यी­क्रि­यते, तत्तत् सः साक्षी यस्य तत् तत्साक्षिकं भवेत् । त्वया सर्वाभावं विना किञ्चिन्न पश्या­मी­त्यु­क्त­त्वात् सर्वाभावं त्वं पश्यसीति सिद्धं भवति । त्वया दृष्टः सः अभावः त्वत्साक्षिक इति तत्साक्षी । त्वम् आत्मेति भावः । तत्र हेतुमाह − अननुभूतार्थे स्वकी­या­नु­भ­वा­वि­षये अर्थे कस्यापि पुरुषस्य साक्षित्वं नोपपद्यते अकर्तृत्वे सति बोद्धृत्वस्यैव साक्षित्वात् ॥२१७॥

सामान्यत उक्त्वा प्रकृते त्वाह असाविति −

असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते ।
अतः परं स्वयं साक्षात् प्रत्यगात्मा न चेतरः ॥२१८॥

२१८

असौ अह­मा­दि­स­र्व­वि­का­रा­णाम् अभावः, स्वसाक्षिकः । स्वं स्वयं साक्षी यस्य सः स्वसाक्षिकः । तत्र हेतुः − यतः यस्मात्कारणात् , स्वेन पञ्चानां कोशानां निषेधेऽपि अवशिष्टेन स्वेन अनुभूयते । तत्र सर्वाभावं विना किञ्चिन्न पश्या­मी­त्यु­क्ति­रेव मानं सर्वाभावं विना किचिन्न पश्यामीत्युक्तौ सर्वाभावं पश्या­मी­त्यु­क्त­मेव भवति इति तस्याभावस्य दर्शनविषयत्वम् , तव द्रष्टृत्वम् । अतः प्रत्यगात्मा, स्वयं साक्षात् नित्यापरोक्षं ‘यत्सा­क्षा­द­प­रो­क्षात् ब्रह्म’(बृ.उ. ३.४.१) इति श्रुतेः । परं सर्वोत्कृष्टं ब्रह्मैव । इतरो न च ब्रह्मभिन्नं नैवेत्यर्थः ॥२१८॥

उक्तमर्थं स्पष्टं विस्तरेण कथयति जाग्रदिति −

जाग्र­त्स्व­प्न­सु­षु­प्तिषु स्फुटतरं योऽसौ समुज्जृम्भते
प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नेकधा ।
नाना­का­र­वि­का­र­भा­जिन इमान् पश्य­न्न­ह­न्धी­मु­खान्
नित्या­न­न्द­चि­दा­त्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥२१९॥

२१९

प्रत्यग्रूपतया सर्वान्तरतया सदा एकधा एकरूपेण, अहमहमिति अनिदन्तया स्फुरन् स्वयं प्रकाशमानः, अहन्धीमुखान् अह­ङ्का­र­प्र­मु­खान् देहान्तान् कोशान् , नाना­का­र­वि­का­र­भ­जिनः नानाविधा ये आकाराः अव­य­व­सं­स्था­न­वि­शेषाः, ते च विकाराः जन्म­स्थि­ति­वि­प­रि­णा­म­वृ­द्ध्य­प­क्ष­य­ना­श­रूपा ये नाना बहवः विकाराः तान् भजन्त इति नाना­का­र­वि­का­र­भा­जिनः तान् । अह­ङ्का­र­स्या­प्य­न्तः­क­र­ण­प­द­वा­च्यस्य देहाद्याकारेण परिणममानत्वात् नानाकारत्वं बोध्यम् । इमान् दृश्यपदार्थान् पश्यन् विषयीकुर्वन् , जाग्र­त्स्व­प्न­सु­षु­प्तिषु सक­ल­प्रा­णि­सि­द्धासु तिसृ­ष्व­प्य­व­स्थासु, स्फुटतरम् अतिस्फुटं योऽसौ । अविवेकिन विप्र­क­र्षा­द­द­श्श­ब्द­प्र­योगः । समुज्जृम्भते परनिरपेक्षं भासते । नित्या­न­न्द­चि­दा­त्मना स्वय­म्प्र­का­श­नि­त्या­न­न्द­स्व­रू­पेण हृदि स्फुरति तमेतम् अविदुषां दूरमपि विदुषां प्रत्यक्तया प्रत्यासन्नतरं स्वं स्वात्मानं विद्धि जानीहि ॥२१९॥

एवं सर्वसाक्षितया स्फुटस्य कुतस्तथा विविक्ततया अग्रहणमिति शङ्कायां मौढ्यमेव मूलमिति सदृष्टान्तमाह घटोदक इति −

घटोदके बिम्बि­त­म­र्क­बि­म्बम्
आलोक्यमूढो रविमेव मन्यते ।
तथा चिदा­भा­स­मु­पा­धि­संस्थं
भ्रान्त्या­ह­मि­त्येव जडोऽभिमन्यते ॥२२०॥

२२०

मूढः घटोदके घटा­न्त­र्व­र्ति­जले बिम्बितं प्रतीयमानम् अर्कबिम्बं सूर्यमण्डलं प्रतिबिम्बम् आलोक्य दृष्ट्वा रविमेव मन्यते । न तस्य तत्र सूर्यः भिन्नः अयन्तु तत्प्रतिबिम्ब इति ज्ञानम् , तथा उपाधिसंस्थम् उपाधिषु बुद्ध्यादिषु प्रतीयमानं चिदाभासं चित्प्रतिबिम्बं भ्रान्त्या अविवेकेन अहमित्येव अभिमन्यते भ्राम्यति विपरीतं प्रतिपद्यते इत्यर्थः ॥२२०॥

वस्तुतस्तु −

घटं जलं तद्गतमर्कबिम्बं
विहाय सर्वं दिवि वीक्ष्यतेऽर्कः ।
तट­स्थि­त­स्त­त्त्रि­त­या­व­भा­सकः
स्वयम्प्रकाशो विदुषा यथा तथा ॥२२१॥

२२१

घटमिति । घटं जलं तद्गतं घटगतजलगतम् अर्कबिम्बं सूर्य­प्र­ति­बिम्बं सर्वं विहाय । तटस्थितः उदासीनः, त्रीनेतान् अतिरिच्य वर्तमानः । तत्र हेतुः तत्त्रि­त­या­व­भा­सकः घट­त­द्ग­त­ज­ल­त­द्ग­त­प्र­ति­बि­म्ब­रू­प­प­दा­र्थ­त्र­य­प्र­का­शकः । स्वयम्प्रकाशः स्वेत­र­ब­हि­र्ज्यो­ति­र­न­व­भास्यः यथा अर्कः सूर्यः दिवि वीक्ष्यते अन्तरिक्षे अवलोक्यते तथा ॥२२१॥

देहं धियं चित्प्र­ति­बि­म्ब­मेतं
विसृज्य बुद्धौ निहितं गुहायाम् ।
द्रष्टा­र­मा­त्मा­न­म­ख­ण्ड­बोधं
सर्वप्रकाशं सदसद्विलक्षणम् ॥२२२॥

२२२

नित्यं विभुं सर्वगतं सुसूक्ष्मम्
अन्त­र्ब­हि­श्शू­न्य­म­न­न्य­मा­त्मनः ।
विज्ञाय सम्य­ङ्नि­ज­रू­प­मे­तत्
पुमान्विपाप्मा विरजा विमृत्युः ॥२२३॥

२२३

देहमिति । देहं घटवदवस्थितं स्थूलदेहं धियं स्वच्छतया सूक्ष्मतया च जल­व­त्त­द­न्त­र्गतां बुद्धिं, गुहायाम् आवारकत्वेन अने­का­न­र्थ­स­ङ्कु­लायां गुहासदृश्यां बुद्धौ निहितं च एतं भ्रान्त्या अहमिति प्रतीयमानं चित्प्रतिबिम्बं विसृज्य त्यक्त्वा । पूर्ववत् तटस्थितं तत्त्रि­त­या­व­भा­सकं द्रष्टारं सर्वसाक्षिणम् आत्मानं सर्वान्तरम् । अखण्डबोधम् अप­रि­च्छि­न्न­ज्ञा­न­स्व­रू­पम् । अत एव सर्वप्रकाशं सर्वस्य प्रकाशः यस्मात् तम् । सदसद्विलक्षणं सत् प्रत्यक्षं तेजः आपः अन्नं च । असदप्रत्यक्षं वायुराकाशं च । एद्विलक्षणं तद्भिन्नं व्यक्ता­व्य­क्त­भि­न्न­मिति वा अर्थः । नित्यं काल­प­रि­च्छे­द­शून्यं विभुं देश­प­रि­च्छे­द­शून्यं सर्वगतं सर्वोपादानतया अन्वयिनम् । अथापि सुसूक्ष्मं रूपादिरहिततया दुर्ज्ञेयम् ‘एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते’(क.उ. १.३.१२) इति श्रुतेः । अन्त­र्ब­हि­श्शून्यं ‘अन­न्त­र­म­बा­ह्यम्’(बृ.उ. ३.८.८) इति श्रुतेः । आत्मनः अनन्यं न अन्यः अनन्यः आत्मनः ब्रह्मणः भेदरहितं ‘अयमात्मा ब्रह्म’(मा.उ. २) इति श्रुतेः । पूर्वो­क्त­यु­क्तेश्च । यद्वा अनन्यं न विद्यते अन्यः यस्मात् सः अनन्यः अद्वितीयः इत्यर्थः तम् । आत्मनः निजरूपं वास्तविकस्वरूपं विज्ञाय एतत् । पुमान् पूर्वमन्यथा ज्ञातवान् एष एव पुमान् विपाप्मा विगतपापः ‘ज्ञानाग्निः सर्वकर्माणि’(भ.गी. ४.३७) इत्यादिस्मृतेः । तत्र हेतुः विरजाः निर्गु­ण­ब्र­ह्म­नि­ष्ठ­तया तत्स्वरूपतया च ताप­हे­तु­र­ज­श्शून्यः पापपदं पुण्य­स्या­प्यु­प­ल­क्ष­कम् , तस्यापि बन्धकत्वेन मुमु­क्षो­र­नि­ष्ट­त्वात् अत एव जन्म­नि­मि­त्त­क­र्म­शू­न्य­तया विमृत्युः मृत्यु­स­हि­त­सं­सा­र­र­हित इत्यर्थः । स्वरू­प­च्यु­ति­शून्य इति यावत् । भवतीति शेषः । ‘प्रमादं वै मृत्युमहं ब्रवीमि’ इति सनत्सुजातोक्तेः ॥२२३॥

अत एव −

विशोक आनन्दघनो विपश्चित्
स्वयं कुत­श्चि­न्न­बि­भेति कश्चित् ।
नान्योऽस्ति पन्था भवबन्धमुक्तेः
विना स्वतत्त्वावगमं मुमुक्षोः ॥२२४॥

२२४

विशोकः निर्दुःखः अत एवानन्दघनः आनन्द एव घनः मूर्तिः यस्य सः आनन्दघनः निरा­म­या­न­न्द­स्व­रूपः इत्यर्थः । विपश्चित् , सर्वज्ञ इत्यर्थः सर्वा­त्म­क­ब्र­ह्म­वि­त्त्वात् , स्वयं कुतश्चित् न बिभेति द्वितीयाभावात् । अतः मुमुक्षोः नित्य­नि­र­ति­श­य­नि­रा­म­य­स्व­य­म्प्र­का­श­सु­ख­रू­प­मो­क्षे­च्छा­वतः स्वतत्वावगमं विना स्वया­था­म्या­व­बोधं विना भव­ब­न्ध­मु­क्तेः­पन्थाः अन्यः कश्चित् नास्तीत्यन्वयः ॥२२४॥

एवं त्वम्प­दा­र्थ­म­व­स्था­त्र­य­सा­क्षि­त्वेन पञ्च­को­श­वि­ल­क्ष­ण­त्वेन असङ्गत्वेन विशोध्य सप्रपञ्चत्वेन ज्ञातं तत्पदवाच्यार्थं परिशोध्य तयोरैक्यं सर्वो­प­नि­ष­त्ता­त्प­र्य­वि­ष­यी­भूतं सम्प्र­दा­या­नु­सा­रेण विस्तरेण वक्तुं पातनिकामारचयति ब्रह्मेत्यादिना −