विवेकचूडामणिः सव्याख्यः
२४. साक्षिस्वरूपम्
पञ्चानामपि कोशानां निषेधे युक्तितः कृते ।
तन्निषेधावधिः साक्षी बोधरूपोऽवशिष्यते ॥२१२॥
पञ्चानामपि कोशानां निषेधे प्रतिकोशं नायमात्मा इति निषेधे निराकरणे सति, तन्निषेधावधिः तद्बाधाधिष्ठानभूतः साक्षी । यत्पर्यन्तं निषेधः सः अवधिः सीमा इति यावत् । साक्षी साक्षित्वोपलक्षितः । बोधरूपः केवलनिर्विषयज्ञानस्वरूपः अवशिष्यते ॥२१२॥
स एव मुख्यात्मेति ज्ञेय इत्याह योऽयमिति −
योऽयमात्मा स्वयं ज्योतिः पञ्चकोशविलक्षणः ।
अवस्थात्रयसाक्षी सन्निर्विकारो निरञ्जनः ।
सदानन्दः स विज्ञेयः स्वात्मत्वेन विपश्चिता ॥२१३॥
यः अवशिष्यते अयमात्मा इति पूर्वश्लोकेन सम्बन्धः । उपक्रमैकवाक्यतया परमात्मनिरूपणमुपसंहरति ।
अस्ति कश्चित्स्वयं नित्यम् अहंप्रत्ययलम्बनः । अवस्थात्रयसाक्षी सन् पञ्चकोशविलक्षणः ॥ (श्लो. १२७)
इत्यादिना उपक्रान्तः, एतावता कोशपञ्चकनिषेधेन तद्विलक्षणतया उपपादितः, जाग्रदादिसाक्षी अबाध्यः विकारशून्यः निर्लेपः सदा आनन्दस्वरूपः सः विपश्चिता विवेककुशलेन स्वात्मत्वेन स्वस्वरूपतया विज्ञेयः । येष्वात्मत्वं कल्पितं तेषां निरासे कृते तदधिष्ठानं ‘ब्रह्मपुच्छं प्रतिष्ठा’ इति (तै.उ. २.५) श्रुत्या बोध्यमानं परं ब्रह्मैव वास्तवस्वरूपम् । अत एवोक्तं श्रुत्या − ‘असन्नेव स भवति, असद्ब्रह्मेति वेद चेत् , अस्ति ब्रह्मेति चेद्वेद, सन्तमेनं ततो विदुरिति’(तै.उ. २.६) इति । ब्रह्मणः स्वस्वरूपत्वे तदसदिति वेद चेत् , स्वस्यासत्वम् । तस्यान्यत्वे स्वेनात्मत्वेन ज्ञातानां कोशानां निरासे नैरात्म्यमेव प्रसज्येत इत्यर्थः ॥२१३॥
शिष्य उवाच −
मिथ्यात्वेन निषिद्धेषु कोशेष्वेतेषु पञ्चसु ।
सर्वाभावं विना किञ्चित् न पश्याम्यत्र हे गुरो ।
विज्ञेयं किमु वस्त्वस्ति स्वात्मनात्र विपश्चिता ॥२१४॥
स्पष्टोऽर्थः ॥२१४॥
श्रीगुरुरुवाच −
सत्यमुक्तं त्वया विद्वन् निपुणोऽसि विचारणे ।
अहमादिविकारास्ते तदभावोऽयमप्यथ ॥२१५॥
सर्वे येनानुभूयन्ते यः स्वयं नानुभूयते ।
तमात्मानं वेदितारं विद्धि बुद्ध्या सुसूक्ष्मया ॥२१६॥
हे विद्वन् , त्वया सत्यमुक्तं यथाज्ञातं कथितम् । विचारणे निपुणोऽसि पूर्वमुच्चावचतया प्रतीतस्य सर्वस्यापि यथा न भानं तथा विचारस्य कृतत्वात् इति श्लाघया तद्बुद्धिमुल्लास्य वक्तव्यं सूक्ष्ममाह − अहमादीति । ते पूर्वमनुभूताः अहमादिविकाराः, अथ इदानीम् अयं तदभावोऽपि पूर्वप्रतीतानां सर्वेषामभावोऽपि । एते सर्वे येनानुभूयन्ते पूर्वमनुभूताः तादात्म्येन इदानीं पृथक्तया तदभावो वा अनुभूयते । यः स्वयं नानुभूयते तं वेदितारं सर्वसाक्षिणं सुसूक्ष्मया बुद्ध्या एकाग्रया अनन्यविषयकया बुद्ध्या आत्मानं विद्धि जानीहि ॥२१६॥
तदेवोपपादयति स्फुटतया ज्ञानाय तत्साक्षिकमिति −
तत्साक्षिकं भवेत्तत्तद् यद्यद्येनानुभूयते ।
कस्याप्यननुभूतार्थे साक्षित्वं नोपपद्यते ॥२१७॥
यद्यत् येनानुभूयते अनुभवविषयीक्रियते, तत्तत् सः साक्षी यस्य तत् तत्साक्षिकं भवेत् । त्वया सर्वाभावं विना किञ्चिन्न पश्यामीत्युक्तत्वात् सर्वाभावं त्वं पश्यसीति सिद्धं भवति । त्वया दृष्टः सः अभावः त्वत्साक्षिक इति तत्साक्षी । त्वम् आत्मेति भावः । तत्र हेतुमाह − अननुभूतार्थे स्वकीयानुभवाविषये अर्थे कस्यापि पुरुषस्य साक्षित्वं नोपपद्यते अकर्तृत्वे सति बोद्धृत्वस्यैव साक्षित्वात् ॥२१७॥
सामान्यत उक्त्वा प्रकृते त्वाह असाविति −
असौ स्वसाक्षिको भावो यतः स्वेनानुभूयते ।
अतः परं स्वयं साक्षात् प्रत्यगात्मा न चेतरः ॥२१८॥
असौ अहमादिसर्वविकाराणाम् अभावः, स्वसाक्षिकः । स्वं स्वयं साक्षी यस्य सः स्वसाक्षिकः । तत्र हेतुः − यतः यस्मात्कारणात् , स्वेन पञ्चानां कोशानां निषेधेऽपि अवशिष्टेन स्वेन अनुभूयते । तत्र सर्वाभावं विना किञ्चिन्न पश्यामीत्युक्तिरेव मानं सर्वाभावं विना किचिन्न पश्यामीत्युक्तौ सर्वाभावं पश्यामीत्युक्तमेव भवति इति तस्याभावस्य दर्शनविषयत्वम् , तव द्रष्टृत्वम् । अतः प्रत्यगात्मा, स्वयं साक्षात् नित्यापरोक्षं ‘यत्साक्षादपरोक्षात् ब्रह्म’(बृ.उ. ३.४.१) इति श्रुतेः । परं सर्वोत्कृष्टं ब्रह्मैव । इतरो न च ब्रह्मभिन्नं नैवेत्यर्थः ॥२१८॥
उक्तमर्थं स्पष्टं विस्तरेण कथयति जाग्रदिति −
जाग्रत्स्वप्नसुषुप्तिषु स्फुटतरं योऽसौ समुज्जृम्भते
प्रत्यग्रूपतया सदाहमहमित्यन्तः स्फुरन्नेकधा ।
नानाकारविकारभाजिन इमान् पश्यन्नहन्धीमुखान्
नित्यानन्दचिदात्मना स्फुरति तं विद्धि स्वमेतं हृदि ॥२१९॥
प्रत्यग्रूपतया सर्वान्तरतया सदा एकधा एकरूपेण, अहमहमिति अनिदन्तया स्फुरन् स्वयं प्रकाशमानः, अहन्धीमुखान् अहङ्कारप्रमुखान् देहान्तान् कोशान् , नानाकारविकारभजिनः नानाविधा ये आकाराः अवयवसंस्थानविशेषाः, ते च विकाराः जन्मस्थितिविपरिणामवृद्ध्यपक्षयनाशरूपा ये नाना बहवः विकाराः तान् भजन्त इति नानाकारविकारभाजिनः तान् । अहङ्कारस्याप्यन्तःकरणपदवाच्यस्य देहाद्याकारेण परिणममानत्वात् नानाकारत्वं बोध्यम् । इमान् दृश्यपदार्थान् पश्यन् विषयीकुर्वन् , जाग्रत्स्वप्नसुषुप्तिषु सकलप्राणिसिद्धासु तिसृष्वप्यवस्थासु, स्फुटतरम् अतिस्फुटं योऽसौ । अविवेकिन विप्रकर्षाददश्शब्दप्रयोगः । समुज्जृम्भते परनिरपेक्षं भासते । नित्यानन्दचिदात्मना स्वयम्प्रकाशनित्यानन्दस्वरूपेण हृदि स्फुरति तमेतम् अविदुषां दूरमपि विदुषां प्रत्यक्तया प्रत्यासन्नतरं स्वं स्वात्मानं विद्धि जानीहि ॥२१९॥
एवं सर्वसाक्षितया स्फुटस्य कुतस्तथा विविक्ततया अग्रहणमिति शङ्कायां मौढ्यमेव मूलमिति सदृष्टान्तमाह घटोदक इति −
घटोदके बिम्बितमर्कबिम्बम्
आलोक्यमूढो रविमेव मन्यते ।
तथा चिदाभासमुपाधिसंस्थं
भ्रान्त्याहमित्येव जडोऽभिमन्यते ॥२२०॥
मूढः घटोदके घटान्तर्वर्तिजले बिम्बितं प्रतीयमानम् अर्कबिम्बं सूर्यमण्डलं प्रतिबिम्बम् आलोक्य दृष्ट्वा रविमेव मन्यते । न तस्य तत्र सूर्यः भिन्नः अयन्तु तत्प्रतिबिम्ब इति ज्ञानम् , तथा उपाधिसंस्थम् उपाधिषु बुद्ध्यादिषु प्रतीयमानं चिदाभासं चित्प्रतिबिम्बं भ्रान्त्या अविवेकेन अहमित्येव अभिमन्यते भ्राम्यति विपरीतं प्रतिपद्यते इत्यर्थः ॥२२०॥
वस्तुतस्तु −
घटं जलं तद्गतमर्कबिम्बं
विहाय सर्वं दिवि वीक्ष्यतेऽर्कः ।
तटस्थितस्तत्त्रितयावभासकः
स्वयम्प्रकाशो विदुषा यथा तथा ॥२२१॥
घटमिति । घटं जलं तद्गतं घटगतजलगतम् अर्कबिम्बं सूर्यप्रतिबिम्बं सर्वं विहाय । तटस्थितः उदासीनः, त्रीनेतान् अतिरिच्य वर्तमानः । तत्र हेतुः तत्त्रितयावभासकः घटतद्गतजलतद्गतप्रतिबिम्बरूपपदार्थत्रयप्रकाशकः । स्वयम्प्रकाशः स्वेतरबहिर्ज्योतिरनवभास्यः यथा अर्कः सूर्यः दिवि वीक्ष्यते अन्तरिक्षे अवलोक्यते तथा ॥२२१॥
देहं धियं चित्प्रतिबिम्बमेतं
विसृज्य बुद्धौ निहितं गुहायाम् ।
द्रष्टारमात्मानमखण्डबोधं
सर्वप्रकाशं सदसद्विलक्षणम् ॥२२२॥
नित्यं विभुं सर्वगतं सुसूक्ष्मम्
अन्तर्बहिश्शून्यमनन्यमात्मनः ।
विज्ञाय सम्यङ्निजरूपमेतत्
पुमान्विपाप्मा विरजा विमृत्युः ॥२२३॥
देहमिति । देहं घटवदवस्थितं स्थूलदेहं धियं स्वच्छतया सूक्ष्मतया च जलवत्तदन्तर्गतां बुद्धिं, गुहायाम् आवारकत्वेन अनेकानर्थसङ्कुलायां गुहासदृश्यां बुद्धौ निहितं च एतं भ्रान्त्या अहमिति प्रतीयमानं चित्प्रतिबिम्बं विसृज्य त्यक्त्वा । पूर्ववत् तटस्थितं तत्त्रितयावभासकं द्रष्टारं सर्वसाक्षिणम् आत्मानं सर्वान्तरम् । अखण्डबोधम् अपरिच्छिन्नज्ञानस्वरूपम् । अत एव सर्वप्रकाशं सर्वस्य प्रकाशः यस्मात् तम् । सदसद्विलक्षणं सत् प्रत्यक्षं तेजः आपः अन्नं च । असदप्रत्यक्षं वायुराकाशं च । एद्विलक्षणं तद्भिन्नं व्यक्ताव्यक्तभिन्नमिति वा अर्थः । नित्यं कालपरिच्छेदशून्यं विभुं देशपरिच्छेदशून्यं सर्वगतं सर्वोपादानतया अन्वयिनम् । अथापि सुसूक्ष्मं रूपादिरहिततया दुर्ज्ञेयम् ‘एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते’(क.उ. १.३.१२) इति श्रुतेः । अन्तर्बहिश्शून्यं ‘अनन्तरमबाह्यम्’(बृ.उ. ३.८.८) इति श्रुतेः । आत्मनः अनन्यं न अन्यः अनन्यः आत्मनः ब्रह्मणः भेदरहितं ‘अयमात्मा ब्रह्म’(मा.उ. २) इति श्रुतेः । पूर्वोक्तयुक्तेश्च । यद्वा अनन्यं न विद्यते अन्यः यस्मात् सः अनन्यः अद्वितीयः इत्यर्थः तम् । आत्मनः निजरूपं वास्तविकस्वरूपं विज्ञाय एतत् । पुमान् पूर्वमन्यथा ज्ञातवान् एष एव पुमान् विपाप्मा विगतपापः ‘ज्ञानाग्निः सर्वकर्माणि’(भ.गी. ४.३७) इत्यादिस्मृतेः । तत्र हेतुः विरजाः निर्गुणब्रह्मनिष्ठतया तत्स्वरूपतया च तापहेतुरजश्शून्यः पापपदं पुण्यस्याप्युपलक्षकम् , तस्यापि बन्धकत्वेन मुमुक्षोरनिष्टत्वात् अत एव जन्मनिमित्तकर्मशून्यतया विमृत्युः मृत्युसहितसंसाररहित इत्यर्थः । स्वरूपच्युतिशून्य इति यावत् । भवतीति शेषः । ‘प्रमादं वै मृत्युमहं ब्रवीमि’ इति सनत्सुजातोक्तेः ॥२२३॥
अत एव −
विशोक आनन्दघनो विपश्चित्
स्वयं कुतश्चिन्नबिभेति कश्चित् ।
नान्योऽस्ति पन्था भवबन्धमुक्तेः
विना स्वतत्त्वावगमं मुमुक्षोः ॥२२४॥
विशोकः निर्दुःखः अत एवानन्दघनः आनन्द एव घनः मूर्तिः यस्य सः आनन्दघनः निरामयानन्दस्वरूपः इत्यर्थः । विपश्चित् , सर्वज्ञ इत्यर्थः सर्वात्मकब्रह्मवित्त्वात् , स्वयं कुतश्चित् न बिभेति द्वितीयाभावात् । अतः मुमुक्षोः नित्यनिरतिशयनिरामयस्वयम्प्रकाशसुखरूपमोक्षेच्छावतः स्वतत्वावगमं विना स्वयाथाम्यावबोधं विना भवबन्धमुक्तेःपन्थाः अन्यः कश्चित् नास्तीत्यन्वयः ॥२२४॥
एवं त्वम्पदार्थमवस्थात्रयसाक्षित्वेन पञ्चकोशविलक्षणत्वेन असङ्गत्वेन विशोध्य सप्रपञ्चत्वेन ज्ञातं तत्पदवाच्यार्थं परिशोध्य तयोरैक्यं सर्वोपनिषत्तात्पर्यविषयीभूतं सम्प्रदायानुसारेण विस्तरेण वक्तुं पातनिकामारचयति ब्रह्मेत्यादिना −