अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

३७. ब्रह्मविदः समाचारः

एष स्वयं ज्योति­र­न­न्त­शक्तिः
आत्माप्रमेयः सकलानुभूतिः ।
यमेव विज्ञाय विमुक्तबन्धः
जयत्ययं ब्रह्म­वि­दु­त्त­मो­त्तमः ॥५३६॥

५३६

न खिद्यते नो विषयैः प्रमोदते
न सज्जते नापि विरज्यते च ।
स्वस्मिन्सदा क्रीडति नन्दति स्वयं
निर­न्त­रा­न­न्द­र­सेन तृप्तः ॥५३७॥

५३७

क्षुधां देहव्यथां त्यक्त्वा बालः क्रीडति वस्तुनि ।
तथैव विद्वान् रमते निर्ममो निरहं सुखी ॥५३८॥

५३८

चिन्ता­शू­न्य­म­दै­न्य­भै­क्ष­म­शनं पानं सरिद्वारिषु
स्वातन्त्र्येण निरङ्कुशा स्थिति­र­भी­र्निद्रा श्मशाने वने ।
वस्त्रं क्षाल­न­शो­ष­णा­दि­र­हितं दिग्वातु शय्या मही
सञ्चारो निगमान्तवीथिषु विदां क्रीडा परे ब्रह्मणि ॥५३९॥

५३९

विमानमालम्ब्य शरीरमेतत्
भुन­क्त्य­शे­षा­न्वि­ष­या­नु­प­स्थि­तान् ।
परेच्छया बालवदात्मवेत्ता
योऽव्य­क्त­लि­ङ्गोऽ­न­नु­ष­क्त­बाह्यः ॥५४०॥

५४०

दिगम्बरो वापि च साम्बरो वा
त्वगम्बरो वापि चिदम्बरस्थः ।
उन्मत्तवद्वापि च बालवद्वा
पिशाचवद्वापि चरत्यवन्याम् ॥५४१॥

५४१

कामान्नी कामरूपी संश्चरत्येकचरो मुनिः ।
स्वात्मनैव सदा तुष्टः स्वयं सर्वात्मना स्थितः ॥५४२॥

५४२

क्वचिन्मूढो विद्वान् क्वचिदपि महाराजविभवः
क्वचिद् भ्रान्तः सौम्यः क्वचि­द­ज­ग­रा­चा­र­क­लितः ।
क्वचि­त्पा­त्री­भूतः क्वचिदवमतः क्वाप्यविदितः
चरत्येवं प्राज्ञः सत­त­प­र­मा­न­न्द­सु­खितः ॥५४३॥

५४३

निर्धनोपि सदा तुष्टोऽप्यसहायो महाबलः ।
नित्य­तृ­प्तोऽ­प्य­भु­ञ्जा­नोऽ­प्य­समः समदर्शनः ॥५४४॥

५४४

अपि कुर्व­न्न­कु­र्वा­ण­श्चा­भोक्ता फलभोग्यपि ।
शरी­र्य­प्य­श­री­र्येष परिच्छिन्नोऽपि सर्वगः ॥५४५॥

५४५

अशरीरं सदा सन्तमिमं ब्रह्मविदं क्वचित् ।
प्रियाप्रिये न स्पृशतस्तथैव च शुभाशुभे ॥५४६॥

५४६

स्थूला­दि­स­म्ब­न्ध­व­तोऽ­भि­मा­निनः
सुखं च दुःखं च शुभाशुभे च ।
विध्वस्तबन्धस्य सदात्मनो मुनेः
कुतः शुभं वाप्यशुभं फलं वा ॥५४७॥

५४७

तमसा ग्रस्त­व­द्भा­ना­द­ग्र­स्तोऽपि रविर्जनैः ।
ग्रस्त इत्युच्यते भ्रान्त्या ह्यज्ञात्वा वस्तुलक्षणम् ॥५४८॥

५४८

तद्व­द्दे­हा­दि­ब­न्धेभ्यो विमुक्तं ब्रह्मवित्तमम् ।
पश्यन्ति देहिवन्मूढाः शरी­रा­भा­स­द­र्श­नात् ॥५४९॥

५४९

अहि­नि­र्ल्व­य­नी­वाऽयं मुक्तदेहस्तु तिष्ठति ।
इत­स्त­त­श्चा­ल्य­मानो यत्कि­ञ्चि­त्प्रा­ण­वा­युना ॥५५०॥

५५०

स्त्रोतसा नीयते दारु यथा निम्नो­न्न­त­स्थ­लम् ।
देवेन नीयते देहो यथा­का­लो­प­भु­क्तिषु ॥५५१॥

५५१

प्रार­ब्ध­क­र्म­प­रि­क­ल्पि­त­वा­स­नाभिः
संसारिवच्चरति भुक्तिषु मुक्तदेहः ।
सिद्धः स्वयं वसति साक्षिवदत्र तूष्णीं
चक्रस्य मूलमिव कल्प­वि­क­ल्प­शून्यः ॥५५२॥

५५२

नैवेन्द्रियाणि विषयेषु नियुङ्क्त एष
नैवापयुङ्क्त उप­द­र्श­न­ल­क्ष­णस्थः ।
नैव क्रिया­फ­ल­म­पी­ष­द­पे­क्षते सः
स्वान­न्द­सा­न्द्र­र­स­पा­न­सु­म­त्त­चित्तः ॥५५३॥

५५३

लक्ष्या­ल­क्ष्य­गतिं त्यक्त्वा यस्ति­ष्ठे­त्के­व­ला­त्मना ।
शिव एव स्वयं साक्षादयं ब्रह्मविदुत्तमः ॥५५४॥

५५४

जीवन्नेव सदा मुक्तः कृतार्थो ब्रह्मवित्तमः ।
उपा­धि­ना­शा­द्ब्र­ह्मैव सन्ब्र­ह्मा­प्येति निर्द्वयम् ॥५५५॥

५५५

शैलूषो वेष­स­द्भा­वा­भा­व­योश्च यथा पुमान् ।
तथैव ब्रह्म­वि­च्छ्रेष्ठः सदा ब्रह्मैव नापरः ॥५५६॥

५५६