अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

३. आत्मबोध एव मुक्तिहेतुः

पठन्तु शास्त्राणि यजन्तु देवान्
कुर्वन्तु कर्माणि भजन्तु देवताः ।
आत्मैक्यबोधेन विना विमुक्तिः
न सिद्ध्यति ब्रह्म­श­ता­न्त­रेऽपि ॥६॥

६

अमृतत्वस्य नाशास्ति वित्तेनेत्येव हि श्रुतिः ।
ब्रवीति कर्मणो मुक्तेरहेतुत्वं स्फुटं यतः ॥७॥

७

यतो बहु­ज­न्मा­र्जि­त­सु­कृ­त­वि­शे­ष­प्राप्यं मानु­ष­पौ­रु­षा­दि­कम् , यतश्च स्वार्थेऽ­प्र­म­त्तेन पुरुषेण भवितव्यम् , यत­श्चा­त्य­न्ति­क­दुः­ख­नि­वृ­त्ति­नि­र­ति­श­य­सु­ख­रू­प­मोक्षः आत्मैक्यबोधेन विना कर्म­का­ण्डा­ध्य­य­न­त­द­नु­ष्ठा­ना­दि­रू­प­क­र्म­क­ला­पेन साक्षा­न्ना­वि­र्भ­वति, यतश्च श्रुतिरेव साक्षादिममर्थं, ‘अमृतत्वस्य नाशास्ति वित्तेन’(बृ.उ. २.४.२) इति वित्त­सा­ध्य­क­र्मणः साक्षा­न्मो­क्षो­प­यो­गित्वं प्रत्य­क्षे­प्सीत् , अतः विमुक्त्यै प्रयतेत विद्वानिति –