अद्वैतशारदाचिह्नितानि

विवेकचूडामणिः सव्याख्यः

६. आत्मविद्याधिकारी

मेधावी पुरुषो विद्वान् ऊहापोहविचक्षणः ।
अधि­का­र्या­त्म­वि­द्या­या­मु­क्त­ल­क्ष­ण­ल­क्षितः ॥१६॥

१६

‘अधि­का­रि­ण­मा­शास्ते फल­सि­द्धि­र्वि­शे­षतः’(श्लो. १४) इत्यु­क्त­म­धि­का­रिणं प्रकृते कथयति मेधावीत्यादिना – ‘धीर्धारणावती मेधा’(अ.को. १.५.२) इति कोशात् श्रुता­र्थ­धा­र­ण­क्ष­म­बु­द्धि­मा­नु­च्यते मेधाऽस्यास्तीति व्युत्पत्त्या ‘मेधावी’शब्देन, विद्वानिति अधी­त­का­व्य­को­श­व्या­क­रणः उच्यते । ऊहापोहविचक्षणः − एतेन तर्क­मी­मां­सा­सं­स्कृ­त­बु­द्धित्वं गम्यते । पद­वा­क्य­प्र­मा­णज्ञ इति यावत् । उक्तलक्षणलक्षित इति अष्ट­म­श्लो­का­दा­रभ्य पञ्च­द­श­श्लो­क­म­ध्य­पा­ति­श्लोकैः समासव्यासाभ्यां सूचि­त­वि­वे­क­वै­रा­ग्य­श­मा­दि­ष­ट्क­मु­मु­क्षु­त्व­रू­प­सा­ध­न­च­तु­ष्ट­य­स­म्पन्न इत्यर्थः । आत्म­वि­द्या­या­म­धि­कारी आत्मविद्याफलं मोक्ष­म­नु­भ­वि­तु­म­र्ह­ती­त्यर्थः ॥१६॥

उक्तानि लक्षणानि स्फुट­प्र­ति­प­त्तये क्रोडीकृत्याह − विवेकिन इति । यद्वा – उक्तं लक्षणं जिज्ञासुत्वम् , ‘अतो विचारः कर्तव्यो जिज्ञा­सो­रा­त्म­व­स्तुनः’(श्लो. १५) इत्यत्र जिज्ञासुरेव मेधा­वि­त्वा­दि­वि­शे­ष­ण­वि­शिष्टः आत्म­वि­द्या­फ­ल­भाक् । इदानीं जिज्ञासायां कस्याधिकार इति चेत् , पूर्व­म­ष्ट­म­श्लोके विद्वा­न्सं­न्य­स्त­बा­ह्या­र्थ­सु­ख­स्पृ­ह­स्सन् उप­दि­ष्टा­र्थ­स­मा­हि­तात्मा इति, दशमश्लोके धीरैः इति शब्दसूचितस्य साध­न­च­तु­ष्ट­य­स­म्प­त्ति­वि­शि­ष्टस्य इत्याह विवेकिन इति –