विवेकचूडामणिः सव्याख्यः
६. आत्मविद्याधिकारी
मेधावी पुरुषो विद्वान् ऊहापोहविचक्षणः ।
अधिकार्यात्मविद्यायामुक्तलक्षणलक्षितः ॥१६॥
‘अधिकारिणमाशास्ते फलसिद्धिर्विशेषतः’(श्लो. १४) इत्युक्तमधिकारिणं प्रकृते कथयति मेधावीत्यादिना – ‘धीर्धारणावती मेधा’(अ.को. १.५.२) इति कोशात् श्रुतार्थधारणक्षमबुद्धिमानुच्यते मेधाऽस्यास्तीति व्युत्पत्त्या ‘मेधावी’शब्देन, विद्वानिति अधीतकाव्यकोशव्याकरणः उच्यते । ऊहापोहविचक्षणः − एतेन तर्कमीमांसासंस्कृतबुद्धित्वं गम्यते । पदवाक्यप्रमाणज्ञ इति यावत् । उक्तलक्षणलक्षित इति अष्टमश्लोकादारभ्य पञ्चदशश्लोकमध्यपातिश्लोकैः समासव्यासाभ्यां सूचितविवेकवैराग्यशमादिषट्कमुमुक्षुत्वरूपसाधनचतुष्टयसम्पन्न इत्यर्थः । आत्मविद्यायामधिकारी आत्मविद्याफलं मोक्षमनुभवितुमर्हतीत्यर्थः ॥१६॥
उक्तानि लक्षणानि स्फुटप्रतिपत्तये क्रोडीकृत्याह − विवेकिन इति । यद्वा – उक्तं लक्षणं जिज्ञासुत्वम् , ‘अतो विचारः कर्तव्यो जिज्ञासोरात्मवस्तुनः’(श्लो. १५) इत्यत्र जिज्ञासुरेव मेधावित्वादिविशेषणविशिष्टः आत्मविद्याफलभाक् । इदानीं जिज्ञासायां कस्याधिकार इति चेत् , पूर्वमष्टमश्लोके विद्वान्संन्यस्तबाह्यार्थसुखस्पृहस्सन् उपदिष्टार्थसमाहितात्मा इति, दशमश्लोके धीरैः इति शब्दसूचितस्य साधनचतुष्टयसम्पत्तिविशिष्टस्य इत्याह विवेकिन इति –