अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (१)

यद­वि­द्या­व­शा­द्विश्वं दृश्यते रशनाहिवत् ।
यद्विद्यया च तद्धानिस्तं वन्दे पुरुषोत्तमम् ॥१॥
नम­स्त्र­य्य­न्त­स­न्दो­ह­स­र­सी­रु­ह­भा­नवे ।
गुरवे पर­प­क्षौ­घ­ध्वा­न्त­ध्वं­स­प­टी­यसे ॥२॥
भग­व­त्पा­दा­ब्ज­द्वन्द्वं द्वन्द्व­नि­ब­र्ह­णम् ।
सुरे­श्च­रा­दि­स­द्भृ­ङ्गै­र­व­ल­म्बि­त­मा­भजे ॥३॥
बृहदारण्यके भाष्ये शिष्यो­प­कृ­ति­सि­द्धये ।
सुरे­श्व­रो­क्ति­मा­श्रित्य क्रियते न्यायनिर्णयः ॥४॥

काण्वो­प­नि­ष­द्वि­व­र­ण­व्या­जे­ना­शे­षा­मे­वो­प­नि­षदं शोधयितुकामो भगवान्भाष्यकारो विघ्नो­प­श­मा­दि­स­मर्थं शिष्टा­चा­र­प्र­मा­णकं परा­प­र­गु­रु­न­म­स्का­र­रूपं मङ्गलमाचरति —
ओं नमो ब्रह्मादिभ्य इति ।
वेदो हिरण्यगर्भो वा ब्रह्म तन्नमस्कारेण सर्वा देवता नमस्कृता भवन्ति तद­र्थ­त्वा­त्त­दा­त्म­क­त्वाच्च ‘एष उ ह्येव सर्वे देवाः’(बृ. उ. ३ । ९ । ९) इति श्रुतेः । आदिपदेन पर­मे­ष्ठि­प्र­भृ­तयो गृह्यन्ते । यद्यपि तेषामुक्तो ब्रह्मा­न्त­र्भा­व­स्त­थाऽपि तेष्व­ना­द­र­नि­रा­सार्थं पृथग्ग्रहणम् । चतुर्थी नमो योगे । नमः­श­ब्द­स्त्रि­वि­ध­प्र­ह्वी­भा­व­वि­षयः ।

ननु ब्रह्मविद्यां वक्तुकामेन किमित्येते नमस्क्रियन्ते सैव हि वक्तव्येत्यत आह —
ब्रह्मविद्येति ।

एतेषां तत्सं­प्र­दा­य­क­र्तृत्वे वंशब्राह्मणं प्रमाणयति —
वंशऋषिभ्य इति ।
यद्यपि तत्र पौतिमाष्यादयो ब्रह्मान्ताः संप्रदायकर्तारः श्रूयन्ते तथाऽपि गुरुशिष्यक्रमेण ब्रह्मणः प्राथम्यमिति तदादित्वमिति भावः ।

संप्र­त्य­प­र­गु­रू­न्न­म­स्क­रोति —
नमो गुरुभ्य इति ।
यद्यपि ब्रह्म­वि­द्या­सं­प्र­दा­य­क­र्त्र­न्त­र्भा­वा­देते प्रागेव नम­स्कृ­ता­स्त­थाऽपि शिष्याणां गुरु­वि­ष­या­द­रा­ति­रे­क­का­र्यार्थं पृथ­ग्गु­रु­न­म­स्क­रणं ‘यस्य देवे परा भक्तिः’(श्वे. उ. ६ । २३) इत्या­दि­श्रु­ते­रिति ।

यदुद्दिश्य मङ्गलमाचरितं तत्प्रतिज्ञातुं प्रतीकमादत्ते —
उषा वा इति ।
एतेन चिकीर्षिताया वृत्ते­र्भ­र्तृ­प्र­प­ञ्च­भा­ष्ये­णा­ग­ता­र्थ­त्व­मु­क्तम् । तद्धि ‘द्वया हे’(बृ. उ. १ । ३ । १) त्यादि­मा­ध्य­न्दि­न­श्रु­ति­म­धि­कृत्य प्रवृत्तम् । इयं पुनः ‘उषा वा अश्वस्य’(बृ. उ. १ । १ । १) इत्या­दि­का­ण्व­श्रु­ति­मा­श्रि­त्येति ।

अथोद्देश्यं निर्दिशति —
तस्या इति ।

भर्तृ­प्र­प­ञ्च­भा­ष्या­द्वि­शे­षा­न्त­र­माह —
अल्पग्रन्थेति ।
अस्या ग्रन्थ­तोऽ­ल्प­त्वेऽपि नार्थ­त­स्त­था­त्व­मिति ग्रन्थस्य ग्रहणम् । वृत्तिशब्दो भाष्यविषयः । सूत्रा­नु­का­रि­भि­र्वाक्यैः सूत्रार्थस्य स्वपदानां चोपवर्णनस्य भाष्य­ल­क्ष­ण­स्यात्र भावादिति ।

ननु कर्म­का­ण्डा­धि­का­रिणो विलक्षणोऽधिकारी न ज्ञानकाण्डे संभवति अर्थित्वादेः साधा­र­ण­त्वा­द्वै­रा­ग्या­देश्च दुर्वचनत्वात् । न च निरधिकारं शास्त्र­मा­र­म्भ­म­र्ह­ती­त्यत आह —
संसारेति ।
कर्मकाण्डे हि स्वर्गादिकामः संसारपरवशो नरपशुरधिकारी । इह तु संसा­रा­द्व्या­वृ­त्ति­मि­च्छवो विरक्ताः । न च वैराग्यं दुर्वचं शुद्ध­बु­द्धे­र्वि­वे­किनो ब्रह्मलोकान्ते संसारे तत्संभवात् । उक्तं हि –
“शोध्यमानं तु तच्चि­त्त­मी­श्व­रा­र्पि­त­क­र्मभिः ।
वैराग्यं ब्रह्मलोकादौ व्यनक्त्याशु सुनिर्मलम् ॥“ इति ।
अतो यथो­क्त­वि­शि­ष्टा­धि­का­रिभ्यो वृत्तेरारम्भः संभवतीत्यर्थः ।

तथाऽपि विष­य­प्र­यो­ज­न­सं­ब­न्धा­ना­म­भावे कथं वृत्तिरारभ्यते तत्राऽह —
संसारहेत्विति ।
प्रमा­तृ­ता­प्र­मुखः कर्तृ­त्वा­दि­र­नर्थः संसारस्तस्य हेतु­रा­त्मा­विद्या तन्निवृत्तेः साधनं ब्रह्मा­त्मै­क­त्व­विद्या तस्याः प्रति­प­त्ति­र­प्र­ति­ब­द्धायाः प्राप्ति­स्त­दर्थं वृत्तिरारभ्यत इति योजना । एतदुक्तं भवति – सनि­दा­ना­न­र्थ­नि­वृत्तिः शास्त्रस्य प्रयोजनम् । ब्रह्मा­त्मै­क्य­विद्या तदुपायः । तदैक्यं विषयः । संबन्धो ज्ञान­फ­ल­यो­रु­पा­यो­पे­य­त्वम् । शास्त्र­त­द्वि­ष­य­यो­र्वि­ष­य­वि­ष­यित्वं तदारभ्यं शास्त्रमिति ।

प्रयोजनादिषु प्रवृ­त्त्य­ङ्ग­त­यो­क्ते­ष्वपि सर्वव्यापाराणां प्रयो­ज­ना­र्थ­त्वा­त्तस्य प्राधान्यम् । उक्तं हि –
“सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् ।
यावत्प्रयोजनं नोक्तं तावत्तत्केन गृह्यते ॥“इति ।
तथा च शास्त्रा­र­म्भौ­प­यिकं प्रयोजनमेव नाम­व्यु­त्पा­द­न­द्वारा व्युत्पादयति —
सेयमिति ।
अध्या­त्म­शा­स्त्रेषु प्रसिद्धा सन्निहिता चात्र ब्रह्मा­त्मै­क्य­विद्या तन्निष्ठानां सर्व­क­र्म­सं­न्या­सिनां सनिदानस्य संसा­र­स्या­त्य­न्त­ना­श­क­त्वा­द्भ­व­त्यु­प­नि­ष­च्छ­ब्द­वाच्या । ‘उपनिषदं भो ब्रूहि’(के. उ. ४ । ७) इत्याद्या च श्रुतिः । तस्मा­दु­प­नि­ष­च्छ­ब्द­वा­च्य­त्व­प्र­सि­द्धे­र्वि­द्या­या­स्ततो यथो­क्त­फ­ल­सि­द्धि­रि­त्यर्थः ।

कथं तस्या­स्त­च्छ­ब्द­वा­च्य­त्वेऽ­प्ये­ता­वा­नर्थो लभ्यते तत्राऽह —
उपनिपूर्वस्येति ।
अस्यार्थः – “षद्लृ­वि­श­र­ण­ग­त्य­व­सा­द­नेषु” इति स्मर्यते । सदे­र्धा­तो­रु­प­नि­पू­र्वस्य क्विबन्तस्य सहे­तु­सं­सा­र­नि­व­र्त­क­ब्र­ह्म­वि­द्या­र्थ­त्वा­दु­प­नि­ष­च्छ­ब्द­वाच्या सा भवत्युक्तफलवती । उपशब्दो हि सामीप्यमाह । तच्चासति संकोचके प्रतीचि पर्यस्यति । निशब्दश्च निश्च­या­र्थ­स्त­स्मा­दै­कात्म्यं निश्चितं तद्विद्या सहेतुं संसारं साद­य­ती­त्यु­प­नि­ष­दु­च्यते उक्तं हि – ‘अवसादनार्थस्य चावसादात्’ इति ।

ब्रह्मविद्यैव चेदुपनिषदिष्यते कथं तर्हि ग्रन्थे वृद्धा­स्त­च्छब्दं प्रयुञ्जते न खल्वेकस्य शब्द­स्या­ने­का­र्थत्वं न्याय्य­मि­त्या­श­ङ्क्याऽऽह —
तादर्थ्यादिति ।
ग्रन्थस्य ब्रह्म­वि­द्या­ज­न­क­त्वा­दु­प­चा­रा­त्त­त्रो­प­नि­ष­त्प­द­मि­त्यर्थः ।

यथो­क्त­वि­द्या­ज­न­कत्वे ग्रन्थस्य किमिति तदध्येतॄणां सर्वेषां विद्या न भव­ती­त्या­श­ङ्क्य­श्र­व­णा­दि­प­रा­णा­मे­वा­र­ण्या­नु­व­च­ना­दि­नि­य­मा­धी­ता­क्ष­रे­भ्य­स्त­ज्ज­न्मेति बृह­दा­र­ण्य­क­ना­म­नि­र्व­च­न­पू­र्व­क­माह —
सेयमिति ।

अथा­र­ण्या­नु­व­च­ना­दि­नि­य­मा­धी­त­वे­दा­न्ता­ना­मपि केषा­ञ्चि­द्वि­द्या­नु­प­ल­म्भा­त्कुतो यथो­क्ता­क्ष­रे­भ्य­स्त­दु­त्प­त्ति­रि­त्यत आह —
बृहत्त्वादिति ।
उपनिषदन्तरेभ्यो ग्रन्थ­प­रि­मा­णा­ति­रे­का­दस्य बृहत्त्वं प्रसि­द्ध­म­र्थ­तोऽपि तस्य तदस्ति ब्रह्म­णोऽ­ख­ण्डै­क­र­स­स्यात्र प्रति­पा­द्य­त्वा­त्त­ज्ज्ञा­न­हे­तूनां चान्तरङ्गाणां भूयसामिह प्रतिपादनात् । अतो बृह­त्त्वा­दा­र­ण्य­क­त्वाच्च बृहदारण्यकम् । नचै­त­द­शु­द्ध­बु­द्धे­र­धी­त­मपि विद्यामादधाति । “कषाये कर्मभिः पक्वे ततो ज्ञानम्”(भा.शान्ति.२७०।३८) इति स्मृतेरित्यर्थः । ज्ञानकाण्डस्य विशि­ष्टा­धि­का­र्या­दि­वै­शि­ष्ट्येऽपि कर्मकाण्डेन निय­त­पू­र्वा­प­र­भा­वा­नु­प­प­त्ति­लभ्यः संबन्धो वक्तव्यः । स च परी­क्ष­क­वि­प्र­ति­प­त्ते­र­शक्यो विशेषतो ज्ञातु­मि­त्या­श­ङ्क्याऽऽह तस्येति ।

प्रतिज्ञातं संबन्धं प्रक­ट­यि­तु­म­सि­द्ध­प्र­मा­ण­भा­वानां वेदान्तानां संब­न्धा­भि­धा­ना­व­स­रा­भा­वा­त्त­त्प्रा­माण्यं प्रतिपाद्य पश्चात्तेषां कर्मकाण्डेन संब­न्ध­वि­शे­ष­व­च­न­मु­चि­त­मिति मन्वा­न­स्त­त्प्रा­माण्यं साधयति —
सर्वोऽपीति ।
प्रत्य­क्षा­नु­मा­ना­भ्या­मि­त्या­ग­मा­ति­रि­क्त­प्र­मा­णो­प­ल­क्ष­णा­र्थम् । एषोऽ­र्थोऽ­ध्य­य­न­वि­ध्यु­पात्तः सर्वोऽपि काण्डद्वयात्मको वेदो मानान्तरानधिगतं यदिष्टोपायादि तज्ज्ञा­प­न­प­र­स्तथा चाज्ञा­त­ज्ञा­प­क­त्वा­वि­शे­षा­त्तुल्यं प्रामाण्यं काण्डयोरिति । अथवा वेदनं वेदोऽनुभवः । स च शब्दे­त­र­मा­ना­योग्यो रूपादिहीनत्वात् । ‘एतदप्रमयम्’ इति हि श्रुतिः । स चेष्टा­नि­ष्ट­प्रा­प्ति­प­रि­हा­रो­पा­य­स्त­स्यैव तत्त­दा­त्म­नाऽ­व­स्था­नात् । ‘सच्च त्यच्चाभवत्’(तै. उ. २ । ६ । १) इत्यादिश्रुतेः । स च प्रकाशनः सर्व­प्र­का­श­क­त्वात् । ‘तमेव भान्तमनुभाति सर्वम्’(क. उ. २ । २ । १५) इति श्रुतेः । स च परोऽ­वि­द्या­त­त्का­र्या­ती­त­त्वात् । ‘विरजः पर आकाशात्’(श.ब्रा.१४.७.२.२३) इत्यादिश्रुतेः । एवंरूपो वेद­प­द­वे­द­नी­य­श्चि­दे­क­रसः प्रत्यग्धातुरैव सर्वोऽपि कार्यकारणात्मकः प्रपञ्चः । ‘आत्मैवेदं सर्वम्’(छा. उ. ७ । २५ । २) इति श्रुतेः । तथा च यथोक्तं वस्तु प्रकाशयन्तो वेदान्ता विधि­वा­क्य­व­त्प्र­मा­ण­मिति । अथवा प्रत्य­क्षा­दि­नाऽ­न­व­गतो योऽसा­वि­ष्ट­प्रा­प्त्या­द्यु­पायो ब्रह्मात्मा तस्य प्रकाशनपरः सर्वोऽप्ययं वेदः । तस्यै­वा­ज्ञा­त­त्वा­त्तत्र कर्मकाण्डं कर्मा­नु­ष्ठा­न­प्र­यु­क्त­बु­द्धि­शु­द्धि­द्वारा ब्रह्मा­धि­ग­ता­वा­रा­दु­प­का­र­कम् । ‘विविदिषन्ति यज्ञेन’(बृ. उ. ४ । ४ । २२) इति श्रुतेः । ज्ञानकाण्डं तु साक्षादेव तत्रोपयुक्तम् । पर­म­पु­रु­ष­स्यौ­प­नि­ष­द­त्व­श्र­व­णात् । ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति च श्रुतेः । तद्युक्तं कर्म­का­ण्ड­व­ज्ज्ञा­न­का­ण्ड­स्यापि प्रामाण्यमिति ।

अधि­का­रि­सौ­ल­भ्य­प्र­ति­पा­द­न­द्वारा ज्ञान­का­ण्ड­प्रा­मा­ण्य­मेव स्फुटयति —
सर्व­पु­रु­षा­णा­मिति ।
अयमर्थः – सुखं मे स्याद्दुःखं मा भूदिति स्वभावतः शास्त्रं विना सर्वेषां पुरु­षा­णा­म­न­व­च्छि­न्न­सु­खा­दि­मा­त्रेऽ­भि­ला­षो­प­ल­म्भा­त्त­न्मा­त्रस्य च मोक्ष­त्वा­त्त­का­मिनो ज्ञान­का­ण्डा­धि­का­रिणः सुल­भ­त्वा­त्त­स्मि­न्प्रमां स्वार्थ­वि­ष­या­मा­द­ध­त्कथं तदप्रमाणमिति ।

ननु वेदस्य कार्यपरतया प्रामा­ण्या­त्क­र्म­का­ण्ड­व­त्का­ण्डा­न्त­र­स्यापि कार्यपरतया प्रामा­ण्य­मे­ष्ट­व्य­मिति नेत्याह —
दृष्टविषय इति ।
क्रिया­का­र­क­फ­ले­ति­क­र्त­व्य­ता­ना­म­न्य­त­म­स्मि­न्कार्ये समी­हि­त­प्रा­प्त्या­द्यु­पा­य­भूते व्युत्पत्तिकाले प्रत्य­क्षा­दि­सिद्धे तथा­वि­ध­का­र्य­धि­योऽ­न्य­था­ल­ब्ध­त्वा­त्तत्र नाऽऽग­मोऽ­नु­स­न्धेयः । न हि लोक­वे­द­यो­स्त­द्भि­द्यते अलौकिके तस्मि­न्न­व्यु­त्प­त्ति­प्र­सं­गात् । नचा­व्यु­त्प­न्नानि पदानि बोध­का­न्य­ति­प्र­सं­गात् । न च ब्रह्मण्यपि तुल्या व्युत्प­त्त्य­नु­प­पत्तिः । तस्मि­न्ब्र­ह्म­त्वे­नाऽऽ­त्म­त्वेन च प्रसिद्धेः । तत्त­त्सा­मा­न्यो­पाधौ विज्ञा­ना­दि­प­दानां व्युत्पत्तेः सुकरत्वात् । तानि चालौकिकमखण्डं प्रत्यग्ब्रह्म निर्लु­ण्ठि­त­सा­मा­न्य­वि­शेषं लक्षणया बोधयन्ति । तस्माद्ब्रह्मैव वेदप्रमाणकं न कार्यमिति भावः ।

किं च तिष्ठतु वेदा­न्त­प्रा­माण्यं कर्मकाण्डेऽपि व्यति­रि­क्ता­त्मा­स्ति­त्वादौ सिद्धेऽर्थे प्रामा­ण्य­मा­व­श्य­कम् । तदभावे तत्प्रा­मा­ण्या­यो­गात् । न हि भवि­ष्य­द्दे­ह­सं­ब­न्ध्या­त्म­स­द्भा­वा­न­धि­गमे पार­लौ­कि­क­प्र­वृ­त्ति­वि­श्रम्भः । तस्मा­त्क­र्म­का­ण्ड­प्रा­मा­ण्य­मि­च्छता सिद्धेऽर्थे भवि­ष्य­द्दे­ह­सं­ब­न्धि­न्या­त्मनि स्वर्गादौ च तत्प्रा­मा­ण्य­स्या­भ्यु­पे­य­त्वा­त्कार्ये वेद­प्रा­मा­ण्या­नि­य­मा­द्वे­दा­न्ता­ना­मपि स्वार्थे मानत्वं सिद्ध्यतीत्याह —
न चेति ।

ननु देहा­न्त­र­सं­ब­न्ध्या­त्म­ज्ञानं विनाऽपि विधि­व­शा­द­दृ­ष्टा­र्थ­क्रि­यासु प्रवृत्तिः स्यादिति नेत्याह —
स्वभावेति ।
यदाऽऽत्मा देहान्तरसंबन्धी शास्त्रा­न्मा­ना­न्त­राच्च न प्रमितस्तदा भोक्तुरनवगमान्न प्रेक्षा­पू­र्व­कारी यागा­द्य­नु­ति­ष्ठेत् । लोकायतस्य व्यति­रि­क्ता­त्मा­स्ति­त्व­म­जा­नतो जन्मा­न्त­रे­ष्टा­नि­ष्ट­प्रा­प्ति­हा­नी­च्छया वैदि­क­क्रि­या­स्व­प्र­वृ­त्ते­र्द­र्श­नात् । अतो नाति­रि­क्ता­त्म­ज्ञानं विना साम्परायिके प्रवृ­त्ति­रि­त्यर्थः ।

ननु विधयः साधनविशेषं बोधयन्तो नाति­रि­क्ता­त्मा­स्ति­त्त्व­वादौ मानं वाक्य­भे­द­प्र­सं­गा­दि­त्यत आह —
तस्मादिति ।
अति­रि­क्ता­त्म­धियं विना पार­लौ­कि­क­प्र­वृ­त्त्य­नु­त्पत्त्या कर्म­का­ण्ड­प्रा­मा­ण्या­यो­गा­दिति यावत् । विधीनां श्रुत्य­र्था­भ्या­मु­भ­या­र्थ­त्व­म­वि­रु­द्ध­मि­त्यर्थः ।

न केवलं विधि­भि­रे­वा­र्था­दा­क्षि­प्त­म­ति­रि­क्ता­त्मा­स्तित्वं किन्तु श्रुत्याऽपि स्वमु­खे­नो­क्त­मि­त्याह —
येयमिति ।
निर्ण­य­द­र्श­ना­द्व्य­ति­रि­क्ता­त्मा­स्ति­त्व­मिति संबन्धः ।

तत्रैव प्रकृ­तो­प­यो­गि­त्वे­नो­प­क्र­मो­प­सं­हा­रा­न्तरे दर्शयति —
यथा चेति ।

पूर्ववदेव संब­न्ध­द्यो­त­नार्थं चकारः उप­क्र­मो­प­सं­हा­रै­क­रू­प्या­त्क­ठ­व­ल्ली­ना­म­ति­रि­क्ता­त्मा­स्तित्वे तात्प­र्य­मुक्त्वा बृह­दा­र­ण्य­क­वा­क्य­स्यापि तत्र तात्पर्यमाह —
स्वयमिति ।
न हि प्रसि­द्ध­ज­ड­त्वस्य देहादेः स्वय­ञ्ज्यो­ति­ष्ट्व­मिति ज्योति­र्ब्रा­ह्म­ण­ग­तो­प­क्र­म­स्त­द्वि­षयो देहा­दि­व्य­ति­रि­क्ता­त्मा­न­म­धि­क­रोति । तं प्रेतं विद्याकर्मणी पूर्वोपार्जिते फल­दा­ना­या­नु­ग­च्छतः । स च गत्वा ज्ञान­क­र्मा­नु­गुणं फलमनुभवतीति शारी­र­क­ब्रा­ह्म­ण­ग­तो­प­सं­हा­रोऽपि जन्मा­न्त­र­सं­ब­न्ध­वि­षयः । न चात्रैव भस्मीभवतो देहा­दे­र्ज­न्मा­न्त­र­सं­बन्धो युक्तः । तेनाऽऽत्मा देहा­दि­व्य­ति­रिक्तो जन्मा­न्त­र­सं­बन्धी सिद्धो ब्राह्म­णा­भ्या­मि­त्यर्थः ।

अजा­त­श­त्रु­ब्रा­ह्मणे च व्येव त्वा ज्ञप­यि­ष्या­मी­त्यु­प­क्रमो व्यति­रि­क्ता­त्मा­स्ति­त्व­वि­षयः । न हि प्रत्यक्षे देहादौ जिज्ञासाऽस्ति । तत्रैवोपसंहारे ‘य एष विज्ञानमयः पुरुषः’(बृ. उ. २ । १ । १६) इति विज्ञा­न­म­य­वि­शे­ष­णा­द­ति­रि­क्ता­त्मा­स्तित्वं दर्शितं न हि देहा­दे­र्वि­ज्ञा­न­म­य­त्व­मस्ति तस्मा­त्त­द­प्यु­प­क्र­मो­प­स­म्हा­राभ्यां व्यति­रि­क्ता­त्मा­स्तित्वं गमयतीत्याह —
ज्ञप­यि­ष्या­मी­त्यु­प­क्र­म्येति ।
नचोदाहृतानां वाक्या­ना­म­प्रा­मा­ण्यम् । तत्प्रा­मा­ण्य­स्यौ­त्प­त्ति­क­सू­त्र­हे­त्व­वि­शे­षा­द­भ्यु­पे­य­त्वा­दिति भावः ।

यथो­क्ता­त्म­न्य­ह­म्प्र­त्ययो मानं तत्र देहा­का­रा­स्फु­र­णा­द­ति­रि­क्ता­त्मा­स्ति­त्वस्य तेनैव स्फूर्त्यु­प­प­त्ते­रतो न तत्र श्रुति­प्रा­मा­ण्य­मिति शङ्कते —
तत्प्रत्यक्षेति ।
प्रत्यक्षस्य विषयोऽवकाशो यस्मि­न्नि­त्य­ति­रि­क्ता­त्मा­स्ति­त्व­मु­च्यते ।

यद्यपि व्यति­रि­क्ता­त्मा­स्तित्वं त्वद­भि­प्रा­ये­णा­ह­न्धी­गो­चर तथाऽपि न सा व्यतिरेकमात्मनो गोचरयति युक्त्या­ग­म­वि­वे­क­शू­न्या­ना­म­ह­म्प्र­त्य­य­भाजां व्यति­रे­क­प्र­त्य­य­प्राप्तौ विपश्चितां विप्र­ति­प­त्त्य­भा­व­प्र­सं­गा­दिति परिहरति —
न वादीति ।

वेदप्रतिकूला वादिनो नास्तिका नैव विवादं मुञ्चन्तीत्याह —
न हीति ।
तेषु प्राति­कू­ल्य­सं­भा­व­नार्थं विशेषणं नेत्यादि । इति वदन्तः सन्तो नोऽस्माकं प्रतिकूला न हि स्युरेवं वेद­न­स्यै­वा­सं­भ­वा­द­ध्य­क्ष­वि­रो­धा­दिति योजना ।

प्रत्यक्षे विषये विप्र­ति­प­त्त्य­भावे दृष्टान्तमाह —
न हीति ।

तत्र व्यभिचारं शङ्कते —
स्थाण्वादाविति ।
प्रत्यक्षे धर्मिणि स्थाणु­र्वा­पु­रुषो वेति विप्र­ति­प­त्ते­रु­प­ल­म्भान्न प्रत्यक्षे विप्र­ति­प­त्त्य­भावो व्यभिचारादिति शङ्कार्थः । आदिपदेन पाषाणादौ गजा­दि­वि­प्र­ति­पत्तिः संगृह्यते ।

किं प्रत्यक्षमात्रे विप्रतिपत्तिः किं वा तेन विविक्ते प्रतिपन्ने । नाऽऽद्योऽ­ङ्गी­का­रात् । नचैवमात्मनि प्रत्यक्षे विप्रतिपत्तावपि नाऽऽगमान्वेषणा । तेनैव तन्निरासेन तन्निर्णयादिति । मन्वानो द्वितीयं दूषयति —
नेत्यादिना ।

प्रत्यक्षतो विविक्तेऽर्थे विप्र­ति­प­त्त्य­भावं प्रपञ्चयति —
न हीति ।

आत्मनः स्थूल­दे­ह­व्य­ति­रि­क्तत्वं न प्रत्यक्षमिति प्रतिपाद्य सूक्ष्म­दे­ह­व्य­ति­रि­क्त­त्व­मपि नाह­म्प्र­त्य­य­ग्रा­ह्य­मि­त्याह —
वैना­शि­का­स्त्विति ।
ते खल्वहमिति धियमनुभवन्ति । तथाऽपि देहान्तरं स्थूल­दे­हा­ति­रिक्तं सूक्ष्मं तत्र प्रधानभूताया बुद्धे­र­ति­रि­क्त­स्याऽ­त्मनो नास्तित्वमेव पश्यन्ति । तन्नाहन्धया सूक्ष्म­दे­हा­ति­रि­क्ता­त्म­सि­द्धि­रि­त्यर्थः ।

किं च प्रत्यक्षस्य विषयो रूपा­दि­स्त­द्रा­हित्यं तद्वैलक्षण्यं तदात्मनोऽस्ति । ‘अश­ब्द­म­स्प­र्श­म­रू­पम्’(क. उ. १ । ३ । १५) इत्यादिश्रुतेः न हि रूपादि तदाधारं विना प्रत्यक्षं क्रमते । अतो न देहा­द्य­ति­रि­क्ता­त्मा­स्ति­त्वस्य प्रत्य­क्षा­त्प्र­सि­द्धि­रि­त्याह —
तस्मादिति ।
प्रत्यक्षतो विविक्ते विप्र­ति­प­त्त्य­यो­गात् । प्रकृते च तद्दर्शनादिति यावत् ।

अथेच्छादयः क्वचिदाश्रिता गुण­त्वा­द्रू­प­व­दि­त्य­नु­मा­ना­द­ति­रि­क्ता­त्म­सि­द्धि­रिति नेत्याह —
तथेति ।
नाऽऽत्मा­स्ति­त्व­प्र­सि­द्धि­रिति संब­न्धा­र्थ­स्त­था­शब्दः । अयं भावः – इच्छादीनां स्वातन्त्र्ये स्वरूपासिद्धिः पारतन्त्र्ये पर­स्प­रा­श्र­य­त्व­मा­धा­र­स्ये­दा­नी­मेव साध्यमानत्वात् । क्वचिच्छब्देन चाऽश्र­य­मा­त्र­व­चने सिद्धसाधनत्वं मनस्तदाश्रयस्य सिद्ध­त्वा­दा­त्मोक्तौ च दृष्टान्तस्य साध्यविकलतेति ।

’यः प्राणेन प्राणिति’ इत्यादिश्रुत्या प्राण­ना­दि­व्या­पा­रा­ख्यस्य लिङ्ग­स्याऽऽ­त्मा­स्तित्वे प्रद­र्शि­त­त्वा­त्तस्य च व्याप्ति­सा­पे­क्षस्य प्रत्य­क्षा­दि­सि­द्धा­त्म­वि­ष­य­त्वान्न तस्य शब्दैकगम्यतेति शङ्कते —
श्रुत्येति ।

आत्मनः स्वातन्त्र्येण लिङ्ग­ग­म्य­त्वा­भि­प्रा­येण श्रुत्या लिङ्गं नोपन्यस्तमिति परिहरति —
नेति ।
योऽचेतनव्यापारः स चेत­ना­धि­ष्ठा­न­पू­र्वको यथा रथादिव्यापारः । प्राण­ना­दि­व्या­पा­र­स्या­प्य­चे­त­न­व्या­पा­र­त्वा­च्चे­त­ना­धि­ष्ठा­न­पू­र्व­क­त्व­मिति संभावनामात्रेण लिङ्गोपन्यासः ।

न हि निश्चायकत्वेन तदुपन्यस्यते । आत्मनो जन्मा­न्त­र­सं­ब­न्धस्य प्रमा­णा­न्त­रे­णा­ग्र­ह­णा­त्त­द्व्या­प्त­लि­ङ्गा­यो­गा­दि­त्याह —
जन्मान्तरेति ।

ननु व्यति­रि­क्ता­त्मा­स्ति­त्व­मा­ग­मै­क­गम्यं चेत्कथं तत्प्र­त्य­क्ष­म­नु­मेयं चेति वादिनो वदन्तीति तत्राऽऽह —
आगमेन त्विति ।
’येयं प्रेते विचि­कि­त्से’त्या­द्या­ग­मेन ‘को ह्येवान्यात्’(तै. उ. २ । ७ । १) इत्या­दि­वे­दो­क्तैश्च प्राण­ना­दि­भि­र्लौ­कि­कै­र्लि­ङ्ग­वि­शे­षै­रा­त्मा­स्तित्वे सिद्धे यथो­क्ता­त्म­सि­द्धि­म­नु­स­रन्तो वादिनो वैदि­क­मे­वा­ह­म्प्र­त्ययं प्रतिलभमाना वैदिकान्येव च लिङ्गानि पश्यन्तः स्वोत्प्रे­क्षा­नि­र्मि­तानि तानीति कल्पयन्तो द्विधाऽऽत्मानं वदन्ति । वस्तु­त­स्त्वात्मा यथो­क्त­श्रु­त्यै­क­स­म­धि­गम्य इत्यर्थः ।

तस्या­स्ये­त्या­दिना काण्डयोः संबन्धं प्रतिज्ञाय तादर्थ्येन सिद्धेऽर्थे वेदा­न्त­प्रा­माण्यं सर्वोऽ­पी­त्या­दिना प्रसाध्याधुना कर्मभिः शुद्ध­बु­द्धे­र्वै­रा­ग्या­दि­द्वारा ज्ञानो­त्प­त्ति­रिति तयोः संबन्धं कथयति —
सर्वथाऽपीति ।
आग­मा­त्मा­ना­न्त­राद्वा व्यति­रि­क्ता­त्मा­स्ति­त्व­प्र­ति­प­त्ता­व­पी­त्यर्थः ।

पुरु­षा­र्थो­पा­य­वि­शे­षा­र्थि­न­स्त­ज्ज्ञा­प­नार्थं कर्म­का­ण्ड­मा­रब्धं चेत्तर्हि तत्रो­क्त­क­र्म­भि­रेव विव­क्षि­त­पु­म­र्थ­सि­द्धे­र्वे­दा­न्ता­र­म्भ­वै­य­र्थ्यान्न संबन्धोक्तिः साव­का­शे­त्या­श­ङ्क्याऽऽह —
नत्विति ।
आत्माज्ञानं खल्व­न­र्थ­का­र­ण­म­न्व­य­व्य­ति­रे­क­शा­स्त्र­गम्यं मिथ्या­ज्ञा­न­का­र्य­लि­ङ्गकं च । तच्चा­क­र्तृ­भो­क्तृ­ब्र­ह्मा­त्म­ज्ञा­ना­द­प­ने­यम् । न हि तत्क­र्म­का­ण्डो­क्तै­रेव कर्मभिः शक्यमपनेतुं विरोधाभावात् । तस्मा­त्त­द्धा­नार्थं ज्ञानसिद्धये वेदा­न्ता­र­म्भ­भा­वा­दु­क्त­सं­ब­न्ध­सि­द्धि­रि­त्यर्थः ।

यदि कर्मभिरज्ञानं न निवर्तते । मा निवर्तिष्ट । सत्येव तस्मि­न्क­र्म­व­शा­न्मोक्षः स्यादि­त्या­श­ङ्क्याऽऽह —
यावद्धीति ।
सम्यग्ज्ञानमेव साक्षा­न्मो­क्ष­हे­तुर्न कर्म । तत्तु प्रणाड्या तदुपयोगि । न हि सत्येवाज्ञाने मुक्तिः । तस्मिन्सति संसारस्य दुर्वारत्वात् । तस्मा­त्क­र्म­का­ण्डस्य वैराग्यद्वारा प्रवेशो मुक्ताविति भावः । अयमित्यज्ञो निर्दिश्यते । राग­द्वे­षा­दी­त्या­दि­श­ब्दे­ना­वि­द्या­स्मि­ता­भि­नि­वे­शा­दयो गृह्यन्ते । दोषाणां स्वाभाविकत्वं शास्त्रा­न­पे­क्ष­त्वम् । अपिकारः संभावनार्थः । दृष्ट­त्व­म­न्व­य­व्य­ति­रे­क­सि­द्ध­त्वम् । अदृष्टत्वं शास्त्र­मा­त्र­ग­म्य­त्वम् ।

अध­र्मो­प­च­य­प्रा­चुर्ये हेतुमाह —
स्वाभाविकेति ।

अथ वैराग्यार्थं कर्मफलं प्रप­ञ्च­य­न्न­ध­र्म­फ­ल­माह —
तत इति ।
उक्तं हि – “शरीरजैः कर्मदोषैर्याति स्थावरतां नरः”(मनु १२.९) इति ।

तत्किं पुण्यो­प­च­या­भा­वा­द­न­व­काशं स्वर्गादिफलमिति नेत्याह —
कदाचिदिति ।

शास्त्री­य­सं­स्का­रस्य बलीयस्त्वे फलितमाह —
तत इति ।
आदिशब्दो वाग्देहविषयः ।

फलविभागं वक्तुं कर्म भिनत्ति —
तद्द्विविधमिति ।

तस्य मुक्तिफलत्वं निरसितुं फलं विभजते —
तत्रेति ।
केव­ल­मि­ष्टा­दि­क­र्मेति शेषः । ‘कर्मणा पितृलोकः” इति हि वक्ष्यति । तस्मिन्फले नाना­त्व­म­भि­प्रे­त्याऽऽ­दि­शब्दः ।

’विद्यया देवलोकः’ इति श्रुति­मा­श्रि­त्याऽऽह —
ज्ञानेति ।
देवलोको यस्याऽऽ­दि­र्ब्र­ह्म­लोको यस्या­न्त­स्त­स्या­र्थस्य प्राप्तिरेव फलमस्येति विग्रहः ।

उक्तेऽर्थे शतपथीं श्रुतिं प्रमाणयति —
तथा चेति ।
सर्वत्र पर­मा­त्म­भा­व­ना­पु­रः­सरं नित्यं कर्मा­नु­ति­ष्ठ­न्ना­त्म­याजी, कामनापुरःसरं देवान्यजमानो देवयाजी । तयोर्मध्ये कतरः श्रेयानिति विचारे सत्यात्मयाजी श्रेयानिति निर्णयः कृतः । अतो ज्ञानपूर्वकं कर्म देवलोकस्य कामनापूर्वं तु पितृलोकस्य प्रापकमित्यर्थः ।

’प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् ।
इह वाऽमुत्र वा काम्यं कर्म कीर्त्यते ॥
निष्कामं ज्ञानपूर्वं तु निवृत्तमभिधीयते ।’
इत्यादि मनुस्मृतिं चात्रैवोदाहरति —
स्मृतिश्चेति ।

धर्मा­ध­र्म­यो­रे­कै­कस्य फलमुक्त्वा मिश्रयोः फलमाह —
साम्ये चेति ।
उक्तं हि – ‘उभाभ्यां पुण्यपापाभ्यां मानुष्यं लभतेऽवशः’(नै.सि.१.४१) इति ।

त्रिविधमपि कर्मफलं वैराग्यार्थं संक्षि­प्यो­प­सं­ह­रति —
एवमिति ।

सा चावि­द्या­कृ­त­त्वा­द­न­र्थ­रू­पे­त्याह —
स्वाभाविकेति ।

विचि­त्र­क­र्म­ज­न्य­तया तस्या वैचित्र्यमाह —
धर्माधर्मेति ।

तर्हि धर्मा­ध­र्मा­भ्या­मेव तन्नि­र्मा­ण­सं­भ­वा­त्कृ­त­म­वि­द्य­ये­त्यत आह —
नामेति ।
तेषां सूक्ष्मा­व­स्थाऽ­विद्या तदालम्बनेति यावत् धर्मा­दे­र­वि­द्या­याश्च निमि­त्त­त्वो­पा­दा­न­त्वा­भ्या­मु­प­योग इति भावः ।

ननु संसा­र­ग­ते­रा­वि­द्य­त्व­म­युक्तं प्रत्य­क्षा­दि­प्र­ति­प­न्न­त्वा­त्त­न्ना­म­रू­पा­भ्या­मेव व्याक्रियतेति श्रुतौ च नामरूपात्मनो जग­तोऽ­भि­व्य­क्ति­श्र­व­णान्न च प्रामा­णि­क­स्या­वि­द्या­कृ­त­त्व­मत आह —
तदेवेदमिति ।
जगतः स्वरूपमात्मा तत्रा­ध्य­स्त­त्वा­त्त­स्मा­दा­त्म­त­त्त्वेऽ­न­भि­व्यक्ते प्रत्यक्षादिना श्रुत्या चाभिव्यक्तमिव दृश्यमानमपि जग­द­न­भि­व्य­क्त­मे­वेति न तस्या­वि­द्या­कृ­त­त्व­क्ष­ति­रिति भावः ।

अविद्याकृतां संसा­र­ग­ति­म­नु­भा­षते —
स एष इति ।

नन्व­वि­द्या­कृ­तत्वे कथ­म­ना­दि­त्व­मि­त्या­शङ्क्य तस्य प्रवा­ह­रू­पे­णे­त्याह —
बीजा­ङ्कु­रा­दि­व­दिति ।

चैतन्यवदात्मनि तस्या­वि­द्या­कृ­त­त्वा­नु­प­प­त्ति­मा­शङ्क्य नानारूपत्वेन ततो विल­क्ष­ण­त्वा­दे­क­रूपे युक्तं तस्य कल्पि­त­त्व­मि­त्याह —
क्रियेति ।

तर्हि कादाचित्कतया साध­ना­पे­क्षा­म­न्त­रेण नाशो भवि­ष्य­ती­त्या­श­ङ्क्याऽऽह —
अनादिरिति ।

अनादेरपि संसारस्य प्राग­भा­व­व­न्नि­वृत्तिः स्यादिति चेत्तथाऽपि ब्रह्म­वि­द्या­म­न्त­रेण नाशो नास्तीत्याह —
अनन्त इति ।
प्रयत्नतो हेयत्वं द्योतयितुमनर्थ इति विशेषणम् । नैसर्गिक इति पाठे तु कारणरूपेण तत्त्वमुन्नेयम् ।

यस्मात्कर्म संसारफलं न मोक्षं फलयति तस्मा­त्स­नि­दा­न­सं­सा­र­नि­व­र्त­का­त्म­ज्ञा­ना­र्थ­त्वेन साध­न­च­तु­ष्ट­य­सं­प­न्न­म­धि­का­रि­ण­म­धि­कृत्य वेदान्तारम्भः संभ­व­ती­त्यु­प­सं­ह­रति —
इत्येतस्मादिति ।

यथो­क्त­ज्ञा­ना­र्थ­त्वे­नो­प­नि­ष­दा­रम्भे ‘ब्रह्म वा इदमग्र आसीत्’(बृ. उ. १ । ४ । १०) इत्यारब्धव्यं तस्मादारभ्य ज्ञानोपदेशात् ‘उषा वा अश्वस्य’(बृ. उ. १ । १ । १) इत्यारम्भस्तु न युक्तः साक्षादत्र तद­नु­क्ते­रि­त्या­श­ङ्क्या­स्मा­दा­र­भ्यो­प­नि­ष­दा­र­म्भेऽ­भीष्टं फलमभिधित्समानः प्रथ­म­म­श्व­मे­धो­पा­स­न­फ­ल­माह —
अस्य त्विति ।
राज­य­ज्ञ­त्वा­द­श्व­मे­धस्य तदनधिकारिणामपि ब्रह्मणादीनां तत्फ­ला­र्थि­ना­म­स्मा­दे­वो­पा­स­ना­त्त­दा­प्ति­रिति मत्वा श्रुतौ तदु­पा­स­नो­क्ती­त्यर्थः ।

किमत्र निया­म­क­मि­त्या­शङ्क्य विकल्पश्रवणं केवलस्यापि ज्ञानस्य साधनत्वं सूचयतीत्यर्थतो विक­ल्प­श्रु­ति­मु­दा­ह­रति —
विद्ययेति ।
तत्फ­ल­प्रा­प्ति­रिति पूर्वेण संबन्धः ।

तत्रैव श्रुत्यन्तरमाह —
तद्धेति ।
तदे­त­त्प्रा­ण­द­र्शनं लोक­प्रा­प्ति­सा­धनं प्रसिद्धमिति यावत् । आदिशब्देन केवलोपास्त्या ब्रह्म­लो­का­प्ति­वा­दिन्यः श्रुतयो गृह्यन्ते ।

अश्वमेधे यदुपासनं तस्या­प्य­श्वा­दि­व­त्त­च्छे­ष­त्वेन फलवत्त्वान्न स्वातन्त्र्येण तद्व­त्त्व­म­ङ्गेषु स्वत­न्त्र­फ­ला­भा­वा­दिति शङ्कते —
कर्मविषयत्वमिति ।

ज्ञानस्य क्रत्वर्थत्वं दूषयति —
नेति ।

पूर्वत्रार्थतो दर्शितां विक­ल्प­श्रु­ति­मत्र हेतुतया स्वरू­प­तोऽ­नु­क्रा­मति —
योऽश्वमेधेनेति ।
“सर्वं पाप्मानं तरति तरति ब्रह्म­ह­त्या”मिति संबन्धः । ज्ञान­क­र्म­णो­स्तु­ल्य­फ­ल­त्वस्य न्याय्यत्वादिति शेषः ।

उपा­स्ति­फ­ल­श्रु­ते­र­र्थ­वा­द­त्व­मा­श­ङ्क्या­श्व­मे­ध­व­दु­पा­स्ते­रपि कर्म­त्वा­द्वि­हि­त­त्वा­त्क­र्म­प्र­क­र­णा­द्व्यु­त्थि­त­त्वाच्च मैवमित्याह —
विद्येति ।

फल­श्रु­ते­र­र्थ­वा­द­त्वा­भावे हेत्वन्तरमाह —
कर्मान्तरे चेति ।
अश्व­मे­धा­ति­रिक्ते कर्मणि ‘अयं वाव लोकोऽ­ग्नि­रि’त्यादौ चित्या­ग्न्या­दा­वे­त­ल्लो­का­दि­सं­पा­द­नस्य स्वत­न्त्र­फ­लो­पा­स­नस्य दर्शनान्न फल­श्रु­ते­र­र्थ­वा­द­ते­त्यर्थः ।

अश्वमेधोपासनं न क्रत्वर्थं किन्तु पुरुषार्थं तत्र चाधि­का­रोऽ­श्व­मे­ध­क्र­त्व­न­धि­का­रि­णा­म­पी­त्ये­ता­व­दे­वेष्टं चेदुपासने कर्म­प्र­क­र­ण­स्थेऽपि तल्ला­भा­द्वि­द्या­प्र­क­रणे नास्या­ध्य­य­म­र्थ­व­दि­त्या­श­ङ्क्याऽऽह —
सर्वेषां चेति ।

परत्वे हेतुः —
समष्टीति ।
अनु­वृ­त्त­व्या­वृ­त्त­रू­प­हि­र­ण्य­ग­र्भ­प्रा­प्ति­हे­त्त्वा­त्तस्य श्रेष्ठ­ते­त्यर्थः ।

तस्य पुण्य­श्रे­ष्ठ­त्वेऽपि प्रकृते किमायातं तदाह —
तस्य चेति ।
यदा क्रतु­प्र­धा­न­स्या­श्व­मे­ध­स्यो­पा­स्ति­स­हि­त­स्यापि संसारफलत्वं तदाऽ­ल्पी­य­सा­म­ग्नि­हो­त्रा­दीनां संसारफलत्वं किंवा­च्य­मि­त्य­स्मि­न्क­र्म­राशौ बन्धहेतौ विरक्ताः साध­न­च­तु­ष्ट­य­वि­शिष्टा ज्ञान­म­पे­क्ष­मा­णा­स्त­दु­पाये श्रवणादावेव सर्व­क­र्म­सं­न्या­स­पू­र्वके कथं प्रव­र्ते­र­न्नि­त्या­श­य­वती श्रुतिरुपासनां विद्या­र­म्भेऽ­भि­द­धाति । तेनोषा वा अश्व­स्ये­त्या­द्यु­प­नि­ष­दा­रम्भो युक्तोऽस्य विशि­ष्टा­धि­का­रि­स­म­र्प­क­त्वा­दि­त्यर्थः ।

उपासनफलस्य संसारगोचरत्वमेव कुतः सिद्धमत आह —
तथा चेति ।
‘अशनाया हि मृत्युः’(बृ. उ. १ । २ । १) ‘स वै नैव रेमे’(बृ. उ. १ । ४ । ३) ‘सोऽबिभे’(बृ. उ. १ । ४ । २)दिति भया­र­त्या­दि­श्र­व­णा­दु­पा­स्ति­यु­क्त­क्र­तु­फ­लस्य सूत्रस्य बन्ध­म­ध्य­पा­ति­त्वा­द्वि­शि­ष्टोऽपि क्रतुर्न मुक्तये पर्या­प्नो­ती­त्यर्थः ।

उक्ते सर्वकर्मणां बन्धफलत्वे नित्य­नै­मि­त्ति­कानां न तत्फलत्वं तेषां विध्युद्देशे फला­श्रु­ते­र्न­ष्टा­श्व­द­ग्ध­र­थ­न्या­येन मुक्ति­फ­ल­त्व­ला­भा­दिति शङ्कते —
न नित्यानामिति ।

’एतावान्वै काम’ इति सर्व­क­र्म­णा­म­वि­शे­षेण फल­सं­ब­न्ध­श्र­व­णा­त्प­श्वा­देश्च काम्यफलत्वस्य तद्वि­ध्यु­द्दे­श­व­शा­त्सि­द्ध­त्वात् ‘कर्मणापितृलोक’(बृ. उ. १ । ५ । १६) इति वाक्यस्य नित्या­दि­क­र्म­फ­ल­वि­ष­य­त्वान्न मोक्ष­फ­ल­त्वा­श­ङ्केति परिहरति —
नेति ।

उक्तमेव स्फुटयति —
सर्वं हीति ।

पत्नीसंबन्धे मानमाह —
जायेति ।

तथाऽपि कथं कर्मणः सर्वस्य कामोपायत्वं तत्राऽऽह —
एतावान्वै काम इति ।

कथं तर्हि तेषां फलभेदो लभ्यते तत्राऽऽह —
पुत्रेति ।

अथैवं फलविभागे कथं सम­ष्टि­व्य­ष्टि­प्रा­प्ति­फ­ल­त्व­म­श्व­मे­ध­स्यो­क्त­मत आह —
त्र्यन्ना­त्म­कतां चेति ।
अस्या­ध्या­य­स्या­व­साने कर्मफलस्य हिर­ण्य­ग­र्भ­रू­पतां त्रयमित्याद्या श्रुति­रु­प­सं­ह­रि­ष्य­ती­त्यर्थः ।

उप­सं­हा­र­श्रु­ते­स्ता­त्प­र्य­माह —
सर्वकर्मणामिति ।

कर्मफलं संसा­र­श्चे­त्प्रा­क्त­द­नु­ष्ठा­ना­त्त­द­भा­वा­न्मु­क्तानां पुनर्बन्धः स्यादि­त्या­श­ङ्क्याऽऽह —
इदमेवेति ।
तर्हि तस्या­म­व­स्था­या­मिति यावत् ।

तस्य पुनर्व्याकरणे कारणमाह —
तदेवेति ।

व्याकृ­ता­व्या­कृ­ता­त्मनः संसारस्य प्रामाणिकत्वेन सत्य­त्व­मा­श­ङ्क्या­वि­द्या­कृ­त­त्वेन तन्मि­थ्या­त्व­मुक्तं स्मारयति —
सोऽयमिति ।
स एव हि भ्रान्तिविषयो न प्रामा­णि­क­स्त­त्कु­तोऽस्य सत्यतेत्यर्थः ।

कथ­म­स्याऽऽ­त्म­न्य­द्वये कूटस्थे प्राप्ति­रि­त्या­श­ङ्क्याऽऽह —
क्रियेति ।

समारोपे मूलकारणमाह —
अविद्ययेति ।

आत्म­न्य­वि­द्या­रो­पितं द्वैतमित्यत्र ‘द्वे वाव ब्रह्मणो रूपे मूर्तं चैवामूर्तं चे’(बृ. उ. २ । ३ । १) त्यादिवाक्यं प्रमाणयति —
मूर्तेति ।

नन्वा­त्म­न्या­रोपो नोपपद्यते तस्य नित्य­शु­द्ध­बु­द्ध­मु­क्त­स्व­भा­वस्य द्वैत­वि­ल­क्ष­ण­त्वा­द­सति सादृ­श्येऽ­ध्या­सा­सि­द्धे­रत आह —
अत इति ।

संसा­रा­द्वै­ल­क्ष­ण्य­मेव प्रकटयति —
अनामेति ।
आदिपदेनान्येऽपि विपर्ययभेदाः संगृह्यन्ते ।

आरोपे प्रमिणोमि करोमि भुञ्जे चेत्यनुभवं प्रमाणयति —
अवभासत इति ।

आत्मन्यध्यासः सादृ­श्या­द्य­भा­वेऽपि नभसि मलि­न­त्वा­दि­व­द्य­तोऽ­नु­भू­य­तेऽतः सवि­ला­सा­वि­द्या­नि­व­र्त­क­ब्र­ह्म­वि­द्या­र्थ­त्वे­नो­प­नि­ष­दा­रम्भः संभ­व­ती­त्यु­प­सं­ह­रति —
अत इति ।
एता­व­दि­त्य­न­र्था­त्म­त्वोक्तिः ।

तत्त्व­ज्ञा­ना­द­ज्ञा­न­नि­वृत्तौ दृष्टान्तमाह —
रज्ज्वामिवेति ।

एवमुपनिषदारम्भे स्थिते प्राथ­मि­क­ब्रा­ह्म­ण­यो­र­वा­न्त­र­ता­त्प­र्य­माह —
तत्र तावदिति ।

आद्यस्य पुन­र­वा­न्त­र­ता­त्पर्यं दर्शयति —
तत्रेति ।

नन्व­श्व­मे­ध­स्या­ङ्ग­बा­हुल्ये कस्मा­द­श्वा­ख्या­ङ्ग­वि­ष­य­मे­वो­पा­स­न­मु­च्यते तत्राऽऽह —
प्राधान्यादिति ।

तदेव कथमिति तदाह —
प्राधान्यं चेति ।

प्रजा­प­ति­दे­व­ता­क­त्वा­च्चा­श्वस्य प्राधा­न्य­मि­त्याह —
प्राजा­प­त्य­त्वा­च्चेति ।

प्रतीकमादाय व्याचष्टे —
उषा इत्यादिना ।

स्मार­णा­र्थ­त्व­मेव निपातस्य स्फुटयति —
प्रसिद्धमिति ।
शास्त्रीये लौकिके च व्यवहारे प्रसिद्धो ब्राह्मो मुहूर्तस्तं कालमिति यावत् ।

उषसि शिरःशब्दप्रयोगे दिनावयवेषु तस्य प्राधान्यं हेतुमाह —
प्राधान्यादिति ।

तथापि कथं तत्र तच्छ­ब्द­प्र­यो­ग­स्त­त्राऽऽह —
शिरश्चेति ।

आश्व­मे­धि­का­श्व­शि­र­स्यु­षसो दृष्टिः कर्तव्येत्याह —
अश्वस्येति ।

काला­दि­दृ­ष्टि­र­श्वा­ङ्गेषु किमिति क्षिप्य­तेऽ­श्वा­ङ्ग­दृ­ष्टि­रेव तेषु किं न स्यादि­त्या­श­ङ्क्याऽऽह —
कर्माङ्गस्येति ।

अङ्गे­ष्व­न­ङ्ग­म­ति­क्षेपे हेत्वन्तरमाह —
प्राजापत्यत्वं चेति ।

अश्वस्य सेत्स्यतीति शेषः, तत्र हेतुः —
प्रजापतीति ।

ननु काला­दि­दृ­ष्ट्योऽ­श्वा­व­य­वे­ष्वा­रो­प्यन्ते न तस्य प्रजापतित्वं क्रियते तत्राऽऽह —
कालेति ।
कालाद्यात्मको हि प्रजापतिः । तया च यथा प्रतिमायां विष्णुत्वकरणं तद्दृष्टिस्तथा काला­दि­दृ­ष्टि­र­श्वा­व­य­वेषु तस्य प्रजा­प­ति­त्व­क­र­णम् । अश्वमेधाधिकारी हि सत्यश्वे कर्मणो वीर्य­व­त्त­र­त्वार्थं काला­दि­दृ­ष्टी­र­श्वा­व­य­वेषु कुर्यात् । तदनधिकारी त्वश्वाभावे स्वात्मानमश्वं कल्पयित्वा स्वशि­रः­प्र­भृ­तिषु काला­दि­दृ­ष्टि­क­र­णेन प्रजापतित्वं संपाद्य प्रजापतिरस्मीति ज्ञानात्तद्भावं प्रतिपद्येतेति भावः ।

चक्षुषि सूर्यदृष्टौ हेतुमाह —
शिरस इति ।
उषसोऽनन्तरत्वं सूर्ये दृष्टं चक्षुषि च शिरसोऽनन्तरत्वं दृश्यते तस्मात्तत्र तद्दृ­ष्टि­र्यु­क्ते­त्यर्थः ।

तत्रैव हेत्वन्तरमाह —
सूर्येति ।
“आदि­त्य­श्च­क्षु­र्भू­त्वाऽ­क्षिणी प्राविशत्” इति श्रुतेश्चक्षुषि सूर्योऽ­धि­ष्ठात्री देवता तेन सामीप्यात्तत्र तद्दृ­ष्टि­रि­त्यर्थः । अश्वप्राणे वायुदृष्टौ चलनस्वाभाव्यं हेतुः ।

अश्वस्य विदारिते मुखे भव­त्व­ग्नि­दृ­ष्टि­स्त­थाऽपि पर्यायोपादानं व्यर्थ­मि­त्या­शङ्क्य क्रव्या­दा­दि­व्या­वृ­त्त्यर्थं विशेषणमित्याह —
वैश्वानर इत्यग्नेरिति ।

“अग्नि­र्वा­ग्भूत्वा मुखं प्राविशत्” इति श्रुतिमाश्रित्य मुखे तद्दृष्टौ हेतुमाह —
मुखस्येति ।
अधिकमासमनुसृत्य त्रयोदशमासो वेत्युक्तम् ।

शरीरे संव­त्स­र­दृ­ष्टि­रि­त्य­त्राऽऽ­त्मत्वं हेतुमाह —
कालेति ।
आत्मा हस्ता­दी­ना­म­ङ्गा­ना­मिति शेषः ।

कालावयवानां संव­त्स­र­स्याऽऽ­त्म­त्व­व­द­ङ्गानां शरी­र­स्याऽऽ­त्मत्वे प्रमाणमाह —
मध्यं हीति ।

पुन­रु­क्ते­र­र्थ­व­त्त्व­माह —
अश्वस्येति ।

पृष्टे द्युलोकदृष्टौ हेतुमाह —
ऊर्ध्वत्वेति ।

उद­रेऽ­न्त­रि­क्ष­दृष्टौ निमित्तमाह —
सुषिरत्वेति ।

पादा अस्यन्ते यस्मिन्निति व्युत्प­त्ति­मा­श्रित्य विवक्षितमाह —
पादेति ।
अश्वस्य हि खुरे पादा­स­न­त्व­सा­मा­न्या­त्पृ­थि­वी­दृ­ष्टि­रि­त्यर्थः ।

पार्श्व­यो­र्दि­क्च­तु­ष्ट­य­दृष्टौ हेतुमाह —
पार्श्वेनेति ।

द्वे पार्श्वे चतस्रश्च दिशस्तत्र कथं तयोस्तदारोपणं द्वाभ्यामेव द्वयोः संबन्धादिति शङ्कते —
पार्श्वयोरिति ।

यद्यपि द्वे दिशौ द्वाभ्यां पार्श्वाभ्यां संबध्येते तथाऽप्यश्वस्य प्राङ्मुखत्वे प्रत्यङ्मुखत्वे च दक्षि­णो­त्त­र­यो­स्त­न्मु­खत्वे च प्राक्प्र­ती­च्यो­र्दि­शो­स्ताभ्यां संब­न्ध­सं­भ­वा­त्तत्र तद्दृ­ष्टि­र­वि­रु­द्धेति परिहरति —
नेत्यादिना ।
तदुपपत्तौ चाश्वस्य चरिष्णुत्वं हेतूकर्तव्यम् । पार्श्वा­स्थि­ष्व­वा­न्त­र­दि­शा­मा­रोपे पार्श्व­दि­क्सं­बन्धो हेतुः ।

ऋतवः संव­त्स­र­स्या­ङ्गानि हस्तादीनि च देह­स्या­व­य­वा­स्त­स्मा­दृ­तु­दृ­ष्टि­र­ङ्गेषु कर्तव्येत्याह —
ऋतव इति ।

अस्ति मासादीनां संव­त्स­र­स­न्धि­त्व­मस्ति च शरीरसन्धित्वं पर्वणामतस्तेषु मासा­दि­दृ­ष्टि­रि­त्याह —
सन्धीति ।
युगसहस्राभ्यां प्राजा­प­त्य­मे­क­म­हो­रा­त्रम् । अयनाभ्यां दैवम् । पक्षाभ्यां पित्र्यम् । षष्टि­घ­टि­का­भि­र्मा­नु­ष­मिति भेदः ।

प्रति­ष्ठा­श­ब्दस्य पादविषयत्वं व्युत्पादयति —
प्रतितिष्ठतीति ।

पादे­ष्व­हो­रा­त्र­दृ­ष्टि­सि­द्ध्यर्थं युक्तिमुपपादयति —
अहोरात्रैरिति ।

अस्थिषु नक्षत्रदृष्टौ हेतुमाह —
शुक्लत्वेति ।

नभः­श­ब्दे­ना­न्त­रिक्षं किमिति न गृह्यते मुख्ये सत्यु­प­चा­रा­यो­गा­दि­त्या­शङ्क्य पुनरुक्तिं परिहर्तुमित्याह —
अन्तरिक्षस्येति ।

उदकं सिञ्चन्ति मेधा मांसानि रुधिरमतः सेक­क­र्तृ­त्व­सा­मा­न्या­न्मां­सेषु मेध­दृ­ष्टि­रि­त्याह —
उदकेति ।

अश्व­ज­ठ­र­वि­प­रि­व­र्ति­न्य­र्ध­जीर्णे सिकतादृष्टौ हेतुमाह —
विश्लिष्टेति ।

किमिति गुदशब्देन पायुरेव न गृह्यते शिराग्रहणे हि मुख्या­र्था­ति­क्रमः स्यात्तत्राह —
बहुवचनाच्चेति ।
चका­रोऽ­व­धा­र­णार्थः । यद्यपि बहूक्त्या शिरा­भ्योऽ­र्था­न्त­र­मपि गुदशब्दमर्हति तथाऽपि स्यन्द­न­सा­दृ­श्या­त्ता­स्वेव सिन्धु­दृ­ष्टि­रिति तासामिह ग्रहणमिति भावः ।

कुतो मांस­ख­ण्ड­यो­र्द्वि­त्व­मे­कत्र बहु­व­च­ना­द्ब­हु­त्व­प्र­ती­ते­रि­त्या­शङ्क्य दारा इति­व­द्ब­हू­क्ते­र्ग­ति­माह —
क्लोमान इति ।

तयोः पर्वतदृष्टौ हेतुद्वयमाह —
काठि­न्या­दि­त्या­दिना ।

क्षुद्र­त्व­सा­ध­र्म्या­दो­ष­धि­दृ­ष्टि­र्लो­मसु मह­त्त्व­सा­मा­न्या­द्व­न­स्प­ति­दृ­ष्टि­श्चा­श्व­के­शेषु कर्तव्येत्याह —
यथासंभवमिति ।

पूर्व­त्व­सा­मा­न्या­न्म­ध्या­ह्ना­त्प्रा­ग­व­स्था­दि­त्य­दृ­ष्टि­र­श्वस्य नाभेरूर्ध्वभागे कर्तव्येत्याह —
उद्य­न्नि­त्या­दिना ।

अप­र­त्व­सा­दृ­श्या­द­श्वस्य नाभेरपरार्धे मध्या­ह्ना­द­न­न्त­र­भा­व्या­दि­त्य­दृ­ष्टिः­का­र्ये­त्याह —
निम्लो­च­न्नि­त्या­दिना ।
विजृम्भत इत्यादौ प्रत्ययार्थो न विवक्षितः ।

विजृम्भणं मुखविदारणं विद्योतनं पुनर्मेघगतमतो विद्यो­त­न­दृ­ष्टि­र्जृ­म्भणे कर्तव्येत्याह —
मुखेति ।

स्तनयतीति स्तनितमुच्यते तद्दृ­ष्टि­र्गा­त्र­कम्पे कर्तव्येत्यत्र हेतुमाह —
गर्जनेति ।

मूत्रकरण वर्षणदृष्टौ कारणमाह —
सेचनेति ।

अश्वस्य हेषितशब्दे नास्त्या­रो­प­ण­मि­त्यतो न सादृश्यं वक्तव्यमित्याह —
नात्रेति ॥१॥

अश्वावयवेषु काला­दि­दृ­ष्टी­र्वि­धा­याश्वं प्रजापतिरूपं विवक्षित्वा कण्डिकान्तरं गृहीत्वा तात्पर्यमाह —
अहरित्यादिना ।
ग्रहौ हव­नी­य­द्र­व्या­धारौ पात्र­वि­शे­षा­व­ग्रतः पृष्ठतश्चेति संज्ञ­प­ना­त्प्रा­गूर्ध्वं चेति यावत् ।

प्रसि­द्धा­ता­व­द­हनि दीप्तिः सौवर्णे च ग्रहे साऽस्त्य­त­स्त­स्मि­न्न­ह­र्दृ­ष्टि­रिति दर्शनं विभजते —
अहरिति ।

अश्व­सं­ज्ञ­प­ना­त्पूर्वं यो महिमाख्यो ग्रहः स्थाप्यते स चेद­ह­र्दृ­ष्ट्यो­पा­स्यते कथं सोऽश्व­म­न्व­जा­य­तेति पश्चादश्वस्य तज्ज­न्म­वा­चो­यु­क्ति­रिति शङ्कते —
अहरश्वमिति ।
नायं पश्चा­द­र्थोऽ­नु­शब्दः किन्तु लक्षणार्थः ।

तथा चाश्वस्य प्रजा­प­ति­रू­प­त्वात्तं लक्षयित्वा ग्रहस्य यथोक्तस्य प्रवृ­त्ते­रु­प­दे­शा­द­श्व­म­न्व­जा­य­ते­त्य­वि­रु­द्ध­मिति परिहरति —
अश्वस्येति ।

तदेव स्फुटयति —
प्रजापतिरिति ।
काललोकदेवतात्मा प्रजा­प­ति­र­श्वा­त्मना दृश्य­मा­नोऽ­त्रा­ह­र्दृष्ट्या दृष्टेन ग्रहेण लक्ष्यते । तथा चाश्व­म­न्व­जा­य­तेति श्रुति­र­वि­रु­द्धे­त्यर्थः ।

अनुशब्दो न पश्चा­द्वा­ची­त्यत्र दृष्टान्तमाह —
वृक्षमिति ।
यदा वृक्षं लक्षयित्वा तस्याग्रे विद्यु­द्वि­द्यो­तते तदा वृक्षमनु विद्योतते सेति प्रयुज्यते । तथाऽ­त्रा­प्य­नु­शब्दो न पश्चादर्थ इत्यर्थः ।

यत्र च स्थाने ग्रहः स्थाप्यते तत्पू­र्व­स­मु­द्र­दृष्ट्या ध्येयमित्याह —
तस्येति ।
पूर्वत्रमत्र सादृश्यम् ।

कथं सप्तमी प्रथमार्थे योज्यते छन्द­स्य­र्था­नु­सा­रेण व्यत्य­य­सं­भ­वा­दि­त्याह —
विभक्तीति ।

यथा सौवर्णे ग्रहेऽ­र्दृ­ष्टि­रु­प­दिष्टा तथा राजते ग्रहे रात्रिदृष्टिः कर्तव्येत्याह —
तथेति ।

अस्ति हि चन्द्रा­त­प­व­त्त्वा­द्रात्रेः शौक्ल्यमस्ति च राजतस्य ग्रहस्य तद्युक्तं तत्र रात्रि­द­र्श­न­मि­त्याह —
वर्णेति ।

रजतं सुव­र्णा­ज्ज­घ­न्य­म­ह्नश्च रात्रिरतो वा सादृश्यात्तत्र रात्रि­दृ­ष्टि­रि­त्याह —
जघन्येति ।

प्रजापतिरूपं प्रकृतमश्वं लक्षयित्वा तत्सं­ज्ञ­प­ना­त्प­श्चा­दस्य प्रवृत्तिं दर्शयति —
एनमिति ।

तदासादनस्थाने पश्चि­म­स­मु­द्र­दृ­ष्टि­र्वि­धे­ये­त्यह —
तस्येति ।

कथमेतौ ग्रहौ महिमाख्यावुक्तौ मह­त्त्वो­पे­र्त­त्वा­दि­त्याह —
महिमेति ।

अथाश्वविषयं दर्शनमादिश्य ग्रहविषयं तदादिशतो वाक्यभेदः स्यान्नेत्याह —
अश्वस्येति ।

किमत्र निया­म­क­मि­त्या­शङ्क्य पुनरुक्तिरिति मत्वाऽऽह —
तावित्यादिना ।

वैशब्दार्थकथनम् —
एवेति ।

वाक्य­शे­षोऽ­प्य­त्रा­नु­गु­णी­भ­व­ती­त्याह —
तथा चेति ।

हय­श­ब्द­नि­ष्प­त्ति­पु­रः­सरं तदर्थमाह —
हय इति ।

वाज्या­दि­श­ब्दानां जाति­वि­शे­ष­वा­चि­त्वा­द­त्रापि तदेव ग्राह्यमिति पक्षान्तरमाह —
जातीति ।

देवायनां देव­त्व­प्रा­प­कत्वं कथ­म­स्त्ये­त्या­श­ङ्क्याह —
प्रजा­प­ति­त्वा­दिति ।

अश्वं स्तोतुमारभ्य कल्पा­न्त­रोक्त्या तन्नि­न्दा­व­च­न­म­नु­चि­त­मिति शङ्कते —
नन्विति ।

उपक्रमविरोधो नास्तीति परिहरति —
नेत्यादिना ।

समुत्पद्य भूतानि द्रव­न्त्य­स्मि­न्निति व्युत्पत्त्या पर­म­ग­म्भी­र­स्ये­श्व­रस्य समुद्रशब्दतामाह —
परमात्मेति ।
तत्र योनि­त्व­मु­त्पा­द­कत्वं बन्धुत्वं स्थापकत्वं समुद्रत्वं विलापकत्वमिति भेदः ।

अथ पर­मा­त्म­यो­नि­त्वा­दि­व­च­न­मु­पा­स्या­श्वस्य क्वोपयुज्यते तत्राऽऽह —
एवमिति ।

श्रुत्य­न्त­रा­नु­रो­धेन समुद्रो योनिरित्यत्र समुद्रशब्दस्य रूढिमनुजानाति —
अप्सुयोनिरिति ॥२॥

अश्वा­दि­द­र्श­नो­क्त्य­न­न्त­र­म­ग्नि­द­र्शनं वक्तुं ब्राह्म­णा­न्त­र­म­व­ता­र­यति —
अथेति ।

नैवेहेत्यादौ तद्दृ­ष्टि­र्ना­स्तीति चेत्सत्यं तत्राग्नेर्जन्म वक्तुं भूमिका क्रियत इत्याह —
अग्नेरिति ।

वायो­र­ग्नि­रि­त्यादौ प्रसिद्धं तज्जन्मेति चेत्सत्यं तद्विशेषस्यात्र जन्मो­क्ति­रि­त्याह —
अश्वमेधेति ।

दर्शने विधित्सिते किं जन्मोक्त्येति चेत्तत्राऽऽह —
तद्विषयेति ।
अग्निदर्शनस्य विधातुमिष्टस्य सिद्ध्य­र्थ­मु­पा­स्या­ग्नि­स्तु­ति­फला तदु­त्प­त्ति­रिष्टा शुद्ध­ज­न्म­त्वा­दु­त्कृ­ष्ट­त्वे­ना­य­मु­पास्यो राजा­दि­व­दि­त्यर्थः ।

तात्प­र्य­मुक्त्वा वाक्य­मा­दा­या­क्ष­राणि व्याचष्टे —
नैवेत्यादिना ।
नामरूपाभ्यां विभक्तो विशेषो यस्मिन्निति बहुव्रीहिः ।

अत्र शून्यवादी लब्धा­व­का­शोऽ­वि­मृश्य परे­ष्ट­श्रु­त्य­व­ष्ट­म्भेन स्वपक्षमाह —
किमित्यादिना ।

कार्यस्य प्रागसत्त्वे हेत्वन्तरमाह —
उत्पत्तेश्चेति ।
विमतं प्राग­स­दु­त्प­द्य­मा­न­त्वा­द्य­न्नैवं न तदेवं यथा परेष्टं ब्रह्मेत्यर्थः ।

हेत्वसिद्धिं शङ्क्ति­त्वो­त्त­र­माह —
उत्पद्यते हीति ।
घटग्रहणं कार्य­मा­त्र­स्यो­प­ल­क्ष­णा­र्थम् ।

उक्तमनुमानं निगमयति —
अत इति ।

तत्र तार्किको ब्रूते —
नन्विति ।
यदुक्तं न कार्यं कारणं वाऽऽसीदिति तत्र भागे बाधो भागे चानु­म­ति­रि­त्यर्थः ।

कार्यस्यापि कथं प्राग­स­त्त्वो­प­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
यन्नेति ।
एतेनानुमानस्य सिद्ध­सा­ध्य­तोक्ता ।

कार्य­व­त्का­र­ण­प्स्यापि प्रागसत्त्वं किं न स्यादि­त्या­श­ङ्क्यो­क्त­हे­त्व­भा­वु­न्मै­व­मि­त्याह —
नन्विति ।

शून्यवाद्याह —
न प्रागु­त्प­त्ते­रिति ।
विमतं प्राग­स­द्यो­ग्यत्वे सति तदाऽ­नु­प­ल­ब्ध­त्वा­त्सं­म­त­वत् । न चासिद्धो हेतुः श्रुते­र­न­ति­श­ङ्क्य­त्वात् । तद्विरोधे सत्यु­प­ल­ब्धे­रा­भा­स­त्वा­दि­त्यर्थः ।

तदेव प्रपञ्चयति —
अनु­प­ल­ब्धि­श्चे­दिति ।

कार्य­व­त्का­र­ण­स्यापि प्रागसत्त्वे प्राप्ते सिद्धान्तयति —
नेत्यादिना ।
नैवे­त्या­दि­श्रु­ति­र­व्य­क्त­ना­म­रू­पा­दि­वि­षया न प्रागसत्त्वं कार्यकारणयोराह । अन्यथा वाक्य­शे­ष­वि­रो­धा­दि­त्यर्थः ।

श्रुतिं विवृणोति —
यदि हीति ।

द्वयोरसत्त्वे का वाचो­यु­क्ते­रि­नु­प­प­त्ति­स्त­त्राऽऽह —
न हीति ।

मा तर्हि वाक्यमेव भूदि­त्या­श­ङ्क्याऽऽह —
ब्रवीति चेति ।

मृत्यु­ने­त्या­दि­वा­क्या­र्थ­मु­प­सं­ह­रति —
तस्मादिति ।
श्रुतेः प्रामाण्यादिति । तत्प्रामाण्यस्य प्रमाणलक्षणे स्थितत्वादिति यावत् ।

परकीयेऽनुमाने श्रुति­वि­रो­ध­म­भि­धा­या­नु­म­न­वि­रो­ध­माह —
अनु­मे­य­त्वा­च्चेति ।
कार्यकारणयोः सत्त्व­स्या­नु­मे­य­तया तद­स­त्त्व­म­नु­मा­तु­म­श­क्यम् । उपजीव्यविषयतया सत्त्वानुमानस्य बली­य­स्त्वा­दि­त्यर्थः ।

कार्यकारणवयोः सत्त्वानुमानं प्रतिज्ञाय प्रथमं कार­ण­स­त्त्व­म­नु­मि­नोति —
अनुमीयते चेत्यादिना ।

कार्यस्य सत्त्वेऽ­नु­मा­न­माह —
कार्यस्य हीति ।
विमतं पूर्वं सत् कार्य­त्वा­त्कु­म्भ­व­दि­त्यर्थः ।

नानुपमृद्य प्रादु­र्भा­वा­दिति न्यायेन दृष्टान्तस्य साध्यवैकल्यं चोदयति —
घटादीति ।

न तावदसिद्धो घटः स्वका­र­ण­मु­प­मृ­द्ना­त्य­स­तोऽ­का­र­क­त्वा­त्सि­द्धस्य तूप­म­र्द­क­त्वे­ना­स­त्पू­र्व­क­त्व­मिति कुतः साध्य­वि­क­ल­ते­त्याह —
नेति ।

किञ्चा­न्व­यि­द्र­व्य­मेव सर्वत्र कारणं न पिण्डा­का­र­वि­शे­षोऽ­न­न्व­या­द­न­व­स्था­ना­च्चेति कुतः साध्य­वै­क­ल्य­मि­त्याह —
मृदादेरिति ।

तदेव स्फुटयति —
मृत्सुवर्णादीति ।
तत्रेति दृष्टान्तोक्तिः ।

किञ्चा­न्व­य­व्य­ति­क्रे­काभ्यां कारणमवधेयम् । न च पिण्डाभावे घटो न भवतीति व्यतिरेकोऽस्ति । पिण्डाभावेऽपि शकलादिभ्योऽपि घटा­द्यु­द्भा­वो­प­ल­म्भा­दि­त्याह —
तदभाव इति ।

तदेव स्फुटयति —
असत्यपीति ।

त्वन्मतेऽपि व्यति­रे­क­रा­हित्यं तुल्य­मि­त्या­श­ङ्क्याऽऽह —
असतीति ।

मृदाद्येव घटादिकारणं चेत्किमिति पिण्डादौ सत्येव ततो घटा­द्य­नु­त्प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
सर्वमिति ।
ब्रह्मणि त्ववि­द्या­व­शा­दु­त्प­त्ति­रिति भावः ।

अन्वयिद्रव्यं पूर्वो­त्प­न्न­स्व­का­र्य­ति­रो­धा­नेन कार्यान्तरं जनयति चेत्का­र्य­ता­दा­त्म्येन स्वयमपि नश्ये­त्त­त्रो­त्त­र­का­र्यो­त्प­त्ति­हे­त्व­भा­वा­दि­त्या­श­ङ्क्याऽऽह —
न चेति ।
कार्या­न्त­रेऽ­प्य­नु­वृ­त्ति­द­र्श­ना­त्का­र्या­न्त­रा­त्मना भावाच्चेत्यर्थः ।

अन्व­यि­द्र­व्य­स्यैव कारणत्वे फलितमाह —
तस्मादिति ।

अन्वयिनो मृदा­दे­र्मा­ना­भा­वे­ना­भा­वान्न कारणतेति शङ्कते —
पिण्डादीति ।

तदेव चोद्यं विवृणोति —
पिण्डा­दी­त्या­दिना ।

मृद्घटः सुवर्णं कुण्ड­ल­मि­त्या­दि­ता­दा­त्म्य­प्र­त्य­यस्य पिण्डा­द्य­ति­रि­क्त­मृ­दा­द्या­भा­वेऽ­नु­प­प­त्ते­र­नु­गतं मृदाद्युपेयमिति परिहरति —
नेति ।

किञ्च या पिण्डात्मना पूर्वे­द्यु­र्मृ­दा­सी­त्सैव घटाद्यभूदिति प्रत्यभिज्ञया मृदोऽन्वयिन्याः सिद्धे­स्त­त्का­र­णत्वं दुरपह्नवमित्याह —
मृदादीति ।

यत्स­त्त­त्क्ष­णिकं यथा दीपः सन्तश्चेमे भावा इत्य­नु­मा­ना­त्स­र्वा­र्थानां क्षणि­क­त्व­सि­द्धे­र­न्व­य­दृष्टिः सादृ­श्या­द्भ्रा­न्ति­रिति शङ्कते —
सादृश्यादिति ।

प्रत्य­भि­ज्ञा­सि­द्ध­स्था­य्य­र्थ­वि­रुद्धं क्षणि­का­र्थ­बो­धि­लि­ङ्ग­म­नु­ष्ण­ता­नु­मा­न­वन्न मानमिति दूषयति —
नेत्यादिना ।
सादृ­श्या­दी­त्या­दि­श­ब्देन प्रत्य­भि­ज्ञा­भ्रा­न्ति­त्वादि गृह्यते ।

प्रत्य­क्षा­त्का­र­णैक्यं गम्यते । अनु­मा­ना­त्त­द्भेदः । अतो द्वयो­र्वि­रु­द्ध­त्व­स्या­व्य­भि­चा­रि­त्वा­न्ना­ध्य­क्षे­णा­नु­मा­न­बाधो वैप­री­त्य­सं­भ­वा­दि­त्या­श­ङ्क्याऽऽह —
नचेति ।
प्रत्य­भि­ज्ञा­मु­प­जी­व्य­क्ष­णि­क­त्वा­नु­मा­ना­प्र­वृ­त्ता­व­प्यु­जी­व्य­ती­य­त्वा­त्त­त्प्रा­ब­ल्या­दु­प­जी­व­क­जा­ती­य­क­मु­क्ता­नु­मानं दुर्बलं तद्बा­ध्य­मि­त्यर्थः ।

प्रत्यभिज्ञा स्वार्थे स्वतो न मानं बुद्ध्य­न्त­र­सं­वा­दा­देव बुद्धीनां मानत्वस्य बौद्धै­रि­ष्ट­त्वात् । न च बुद्ध्यन्तरं स्थाय­यि­त्व­सा­ध­क­म­स्तीति प्रत्य­भि­ज्ञा­य­मा­न­स्यापि क्षणि­क­त्व­मि­त्या­श­ङ्क्याऽऽह —
सर्वत्रेति ।

प्रसंगमेव प्रकटयति —
यदि चेति ।
क्षणि­क­त्वा­दि­बु­द्धे­रपि स्वार्थे स्वतो मान­त्वा­भा­वा­त्ता­दृ­ग्बु­द्ध्य­न्त­रा­पे­क्षायां तस्यापि तथा­त्वे­ना­न­व­स्था­ना­द्बुद्धेः स्वतः­प्रा­मा­ण्य­मु­पे­यम् । तथा च प्रत्यभिज्ञानं सर्वं तथै­वा­बा­धा­दि­त्यर्थः ।

किं च प्रत्यभिज्ञाया भ्रान्तित्वं वदता स्वरू­पा­न­प­ह्न­वा­त्त­दि­द­म्बुद्ध्योः सामानाधिकरण्येन संबन्धो वाच्यः, स च वक्तुं न शक्यते क्षण­द्व­य­सं­ब­न्धिनो द्रष्टु­र­भा­वा­दि­त्याह —
तदिदमिति ।

असति संबन्धे बुद्ध्योः सादृ­श्या­त्त­द्बु­द्धि­रिति शङ्क्यते —
सादृश्यादिति ।

तयोः स्वसं­वे­द्य­त्वा­द्ग्रा­ह­का­न्त­रस्य चाभावान्न सादृ­श्य­सि­द्धि­रिति दूषयति —
न तदि­द­म्बु­द्ध्यो­रिति ।

तथाऽपि किमिति सादृ­स्या­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
असति चेति ।

सादृ­श्या­सि­द्धि­म­भ्यु­पेत्य शङ्कते —
असत्येवेति ।
यत्र सत्येवार्थे धीस्तत्रैव साधकपेक्षा नान्यत्रेति भावः ।

तत्र बाह्यार्थवादिनं प्रत्याह —
न तदि­द­म्बु­द्ध्यो­रिति ।

विज्ञानवाद्याह —
असदिति ।

तथा सत्यनालम्बनं क्षणि­क­वि­ज्ञा­न­मि­त्य­स्यापि ज्ञान­स्या­त­द्वि­ष­य­तया विज्ञा­न­वा­दा­सि­द्धि­रि­त्याह —
नेति ।

शून्यवाद्याह —
तदपीति ।

सर्वा धीर­स­द्वि­ष­ये­त्येषा धीरसद्विषया स्यात्ततश्च सर्व­बु­द्धे­र­स­द्वि­ष­य­त्वा­सि­द्धि­रिति दूषयति —
नेत्यादिना ।

पर­प­क्षा­सं­भ­वा­त्त­त्प्र­त्य­भि­ज्ञायाः स्थायि­हे­तु­सिद्धौ दृष्टान्तस्य साध्यवैकल्यं परि­हृ­त्या­वा­न्त­र­प्र­कृ­त­मु­प­सं­ह­रति —
तस्मादिति ।

संप्रति कार­ण­स­त्त्वा­नु­मानं निगमयति —
अत इति ।

कार्य­का­र­ण­यो­र्द्व­यो­रपि प्रागुत्पत्तेः सत्त्व­म­नु­मे­य­मिति प्रतिज्ञाय कारणास्तित्वं प्रप­ञ्चि­त­मि­दानीं कार्या­स्ति­त्वा­नु­मानं दर्शयति —
कार्यस्य चेति ।
प्रागुत्पत्तेः सद्भावः प्रसिद्ध इति चकारार्थः ।

प्रतिज्ञाभागं विभजते —
कार्यस्येति ।

हेतु­भा­ग­मा­क्षि­पति —
कथमिति ।
अभि­व्य­क्ति­र्लि­ङ्ग­म­स्येति व्युत्पत्त्या कथ­म­भि­व्य­क्ति­लि­ङ्ग­त्वा­दिति कार्यसत्त्वे हेतुरुच्यते सिद्धे हि सत्त्वेऽ­भि­व्य­क्ति­र्लि­ङ्ग­म­स्येति सिद्ध्यति तद्बलाच्च सत्त्व­सि­द्धि­रि­त्य­न्यो­न्या­श्र­या­दि­त्यर्थः ।

संप्र­ति­प­न्न­याऽ­भि­व्यक्त्या विप्रतिपन्नं सत्त्वं साध्यते तन्ना­न्यो­न्या­श्र­य­त्व­मिति परिहरति —
अभिव्यक्तिरिति ।

कथं तर्हीहानुमानं प्रयो­क्त­व्य­मि­त्या­शङ्क्य प्रथमं व्याप्तिमाह —
यद्धीति ।
यदभिव्यज्यमानं तत्प्रा­ग­भि­व्य­क्ते­रस्ति यथा तमोन्तःस्थं घटादीत्यर्थः ।

संप्र­त्य­नु­मि­नोति —
तथेति ।
विमतं प्रागभिव्यक्तेः सत् अभि­व्य­क्ति­वि­ष­य­त्वात् यद्ध्य­भि­व्य­ज्यते तत्प्रा­क्स­त्सं­प्र­ति­प­न्न­व­दि­त्यर्थः ।

ननु तमोन्तःस्थो घटोऽ­भि­व्य­ञ्ज­क­सा­मी­प्या­द­भि­व्य­ज्यते न तत्र प्राक्कालिकं सत्त्वं प्रयो­ज­क­मि­त्या­श­ङ्क्याऽऽह —
न हीति ।

उक्तेऽनुमाने कार्यस्य सदो­प­ल­ब्धि­प्र­संगं विपक्षे बाधकमाशङ्कते —
नेत्यादिना ।
उक्ता­नु­मा­न­नि­षेधो नञर्थः । अवि­द्य­मा­न­त्वा­भा­वा­दिति च्छेदः ।

अनुमाने बाधकोपन्यासं विवृणोति —
न हीति ।
वर्त­मा­न­व­द­ती­त­मा­गामि च घटादि सदेव चेदु­प­ल­ब्धि­सा­मग्र्यां सत्यां तद्व­त्प्रा­ग्ज­ने­र्ना­शा­च्चो­र्ध्व­मु­प­ल­भ्येत न चैवमुपलभ्यते तस्मादयुक्तं कार्यस्य सदा सत्त्वमित्यर्थः । मृत्पिण्डग्रहणं विरो­धि­का­र्या­न्त­रो­प­ल­क्ष­णा­र्थम् । असन्निहिते सतीति च्छेदः ।

न ताव­द्वि­द्य­मा­न­त्व­मात्रं कार्यस्य सदोपलम्भापादकं सतोऽपि घटा­दे­र­भि­व्य­क्त्य­न­भि­व्य­क्त्यो­रु­प­ल­ब्ध­त्वा­दिति समाधत्ते —
नेति ।

अभि­व्य­क्ति­सा­म­ग्री­सत्त्वं त्वभि­व्य­क्ति­सा­धकं न तु सत­स्त­त्सा­म­ग्री­नि­य­मोऽ­स्ती­त्य­भि­प्रे­त्याऽऽह —
द्विविधत्वादिति ।

उत्पन्नस्य कुड्या­द्या­व­र­ण­म­नु­त्प­न्नस्य विशिष्टं कारणमिति द्वैविध्यमेव प्रति­ज्ञा­पू­र्वकं साधयति —
घटादीति ।
यदो­प­ल­भ्य­मा­न­का­र­णा­व­य­वानां कार्या­न्त­रा­का­रेण स्थितिस्तदा नेदं कार्यमुपलभ्यते तत्रान्यथा चोपलभ्यत इत्य­न्व­य­व्य­ति­रे­क­सिद्धं कारणस्य कार्यान्तररूपेण स्थितस्य कार्या­व­र­क­त्व­मिति द्रष्टव्यम् ।

विशिष्टस्य कार­ण­स्याऽऽ­व­र­क­त्व­सिद्धौ सिद्धमर्थमाह —
तस्मादिति ।

प्राक्का­र्या­स्तित्वे सिद्धे सदा तदु­प­ल­ब्धि­प्र­सं­ग­बा­धकं निराकृत्य नष्टो घटो नास्ती­त्या­दि­प्र­यो­ग­प्र­त्य­य­भे­दा­नु­प­पत्तिं बाध­का­न्त­र­मा­श­ङ्क्याऽऽह —
नष्टेति ।
कपालादिना तिरोभावे नष्टव्यवहारः पिण्डा­द्या­व­र­ण­भ­ङ्गे­ना­भि­व्य­क्ता­वु­त्प­न्न­व्य­व­हारो दीपादिना तमो­नि­रा­से­ना­भि­व्यक्तौ भावव्यवहारः पिण्डादिना तिरो­भा­वेऽ­भा­व­व्य­व­हारः । तदेवं कार्यस्य सदा सत्त्वेऽपि प्रयो­ग­प्र­त्य­य­भे­द­सि­द्धि­रि­त्यर्थः ॥

पिण्डादि न घटाद्यावरणं तेन समानदेशत्वात् । यद्यस्याऽऽवरणं न तत्तेन समानदेशं यथा कुड्यादीति शङ्कते —
पिण्डेति ।

व्यति­रे­क्य­नु­मानं विवृणोति —
तम इत्यादिना ।

अनुमानफलं निगमयति —
तस्मादिति ।

किमिदं समानदेशत्वं किमेकाश्रयत्वं किंवै­क­का­र­ण­त्व­मिति विकल्प्याऽऽद्यं विरुद्धत्वेन दूषयति —
नेत्यादिना ।
क्षीरेण संकी­र्ण­स्यो­द­का­दे­रा­व्रि­य­मा­ण­स्येति यावत् ।

द्विती­य­मु­त्था­प­यति —
घटादीति ।
यस्येदं कार्यं तस्मि­न्मृ­दा­त्मनि तेषा­म­व­स्था­ना­त्त­द्व­त्ते­षा­म­ना­व­र­ण­त्व­मि­त्यर्थः घटा­व­स्थ­मृ­न्मा­त्र­वृ­त्ति­क­पा­ला­दे­र्घ­टा­ना­व­र­ण­त्व­मि­ष्ट­मे­वेति सिद्धसाध्यता ।

अव्य­क्त­घ­टा­व­स्थ­मृ­द्वृ­त्ति­क­पा­ला­दे­र­ना­व­र­ण­त्व­सा­धने हेत्व­सि­द्धि­र्घ­टस्य कपा­ला­दे­श्चाऽऽ­श्र­य­मृ­द­व­य­व­भे­दा­दिति दूषयति —
न, विभक्तानामिति ।

विद्य­मा­न­स्यै­वाऽऽ­वृ­त­त्वा­द­नु­प­ल­ब्धि­श्चे­दा­व­र­ण­ति­र­स्कारे यत्नः स्यान्न घटा­दे­रु­त्प­त्ता­व­तोऽ­नु­भ­व­वि­रोधः सत्कार्यवादिनः स्यादिति शङ्कते —
आवरणेति ।

तदेव प्रपञ्चयति —
पिण्डेति ।

यत्राऽवृतं वस्तु व्यज्यते तत्राऽऽवरणभङ्ग एव यत्न इति व्याप्त्य­भा­वा­न्ना­नु­भ­व­वि­रो­धोऽ­स्तीति दूषयति —
नानियन्मादिति ।

अनियमं साधयति —
न हीति ।

तमसाऽवृते घटादौ दीपोत्पत्तौ यत्नोऽ­स्ती­त्यत्र चोदयति —
सोऽपीति ।

अनु­भ­व­वि­रो­ध­मा­श­ङ्क्यो­क्त­मेव व्यनक्ति —
दीपादीति ।

दीपस्तमस्तिरयति चेत्कथं कुम्भोपलब्धिरत आह —
तस्मिन्निति ।

तत्र हेतुमाह —
न हीति ।

अनुभवमनुसृत्य परिहरति —
नेत्यादिना ।

किमि­दा­नी­मा­व­र­ण­भङ्गे प्रयत्नो नेत्येव नियमोऽस्तु नेत्याह —
क्वचिदिति ।

अनियमं निग­म­य­न्न­नु­भ­व­वि­रो­धा­भा­व­मु­प­सं­ह­रति —
तस्मादिति ।
किञ्चा­भि­व्य­ञ्ज­क­व्या­पारे सति नियमेन घटो व्यज्यते तदभावे नेत्य­न्व­य­व्य­ति­रे­का­व­धा­रितो घटार्थः ।

कुला­ला­दि­व्या­पा­र­स्त­स्या­र्थ­व­त्त्वा­र्थ­म­भि­व्य­क्त्यर्थ एव प्रयत्नो वक्तव्यः आव­र­ण­भ­ङ्ग­स्त्वा­र्थिक इत्याह —
नियमेति ।

उक्तं स्मारयन्नेतदेव विवृणोति —
कारण इत्यादिना ।

आवृ­त्ति­भ­ङ्गार्थे यत्ने यतो घटा­नु­प­ल­ब्धि­र­त­स्त­दु­प­ल­ब्ध्य­र्थ­त्वेन नियतः सन्यत्नः सफलः स्यादिति फलितमाह —
तस्मादिति ।

प्रकृ­त­म­भि­व्य­क्ति­लि­ङ्ग­क­म­नु­मानं निर्दो­ष­त्वा­दा­देयं मन्वा­न­स्त­त्फ­ल­मु­प­सं­ह­रति —
तस्मात्प्रागिति ।

कार्यस्य सत्त्वे युक्त्यन्तरमाह —
अतीतेति ।
विमतं सदर्थं प्रमा­ण­त्वा­त्सं­प्र­ति­प­न्न­व­दि­त्यर्थः ।

तदेवानुमानं विशदयति —
अतीत इति ।

अत्रै­वो­प­प­त्त्य­न्त­र­माह —
अनागतेति ।
आगामिनि घटे तदर्थित्वेन लोके प्रवृ­त्ति­र्दृष्टा न चात्यन्तासति सा युक्ता तेन तस्या­स­द्वि­ल­क्ष­ण­ते­त्यर्थः ।

किञ्च योगिनामीशस्य चातीतादिविषयं प्रत्य­क्ष­ज्ञा­न­मिष्टं तच्च विद्य­मा­नो­प­ल­म्भ­न­मतो घटस्य सदा सत्त्वमित्याह —
योगिनां चेति ।
ईश्व­र­स­मु­च्च­या­र्थ­श्च­कारः । भवि­ष्य­द्ग्र­ह­ण­म­ती­तो­प­ल­क्ष­णा­र्थम् । ऐश्वरं यौगिकं चेति द्रष्टव्यम् ।

प्रसं­ग­स्ये­ष्ट­त्व­मा­श­ङ्क्याऽऽह —
न चेति ।
अधिकबलं हि बाधकं न चान­ति­श­या­दै­शा­दि­ज्ञा­ना­द­धि­क­बलं ज्ञानं दृष्टमतो बाधकाभावान्न तन्मि­थ्ये­त्यर्थः ।

तस्य सम्यक्त्वेऽपि पूर्वो­त्त­र­का­ल­यो­र­स­द्घ­ट­वि­ष­यत्वं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
घटेति ।
पूर्वो­त्त­र­का­ल­यो­रिति शेषः ।

घटस्य प्राग­स­त्त्वा­भावे हेत्वन्तरमाह —
विप्रतिषेधादिति ।

स हि कार­क­व्या­पा­र­द­शा­या­म­स­न्निति कोऽर्थः किं तस्य भविष्यत्त्वादि तदा नास्ति किं वाऽर्थ­क्रि­या­सा­म­र्थ्यम् ? आद्ये व्याहतिं साधयति —
यदीति ।
घटार्थं कुलालादिषु व्याप्रियमाणेषु सत्सु घटो भविष्यतीति प्रमाणेन निश्चितं चेत्कथं तद्विरुद्धं प्राग­स­त्त्व­मु­च्यते । कार­क­व्या­पा­रा­व­च्छि­न्नेन हि कालेन घटस्य भवि­ष्य­त्त्वे­ना­ती­त­त्वेन वा भविष्यत्यभूदिति वा संबन्धो विवक्ष्यते । तथा च तस्मिन्नेव काले घटस्य तथा­वि­ध­स­त्त्व­नि­षेधे व्याह­ति­र­ति­व्य­क्ते­त्यर्थः ।

तामेवाभिनयति —
भविष्यन्निति ।
यो हि कार­क­व्या­पा­र­द­शायां भवि­ष्य­त्त्वा­दि­रू­पे­णास्ति स तदा नास्तीत्युक्ते तस्य तस्यामवस्थायां तेनाऽऽ­का­रे­णा­स­त्त्व­मर्थो भवति । तथा च घटो यदा येनाऽऽ­का­रे­णास्ति स तदा तेनाऽऽकारेण नास्तीति व्याह­ति­रि­त्यर्थः ।

द्विती­य­मु­त्था­प­यति —
अथेति ।

प्रागु­त्प­त्ते­र्घ­टार्थं कुलालादिषु प्रवृत्तेषु सोऽस­न्नि­त्य­स­च्छ­ब्दार्थं स्वयमेव विवेचयति —
तत्रेत्यादिना ।

तत्र सिद्धान्ती ब्रूते —
न विरुध्यत इति ।

कथं पुनः सत्का­र्य­वा­दि­न­स्त­द­स­त्त्व­म­वि­रु­द्ध­मि­त्याह —
कस्मादिति ।

प्रागु­त्प­त्ते­स्तु­च्छ­व्या­वृ­त्ति­रूपं सत्त्वं घटस्य सिषाधयिषितं तच्चेद्भवानपि तस्य सदा­त­न­म­न­र्थ­क्रि­या­सा­मर्थ्यं निषे­ध­न्न­नु­म­न्यते नाऽऽव­यो­र्वि­प्र­ति­प­त्ति­रि­त्य­भि­प्रे­त्याऽऽह —
स्वेन हीति ।

ननु त्वन्मते सर्वस्य मृन्मा­त्र­त्वा­वि­शे­षा­त्पि­ण्डा­दे­र्व­र्त­मा­नता घटस्य स्यात्तस्य चातीतता भविष्यत्ता च पिण्डकपालयोः स्यादिति साङ्क­र्य­मा­श­ङ्क्याऽऽह —
न हीति ।
व्यवहारदशायां यथा­प्र­ति­भा­स­म­नि­र्वा­च्य­सं­स्था­न­भे­दा­श्र­य­णा­दि­त्यर्थः ।

प्रागवस्थायां घट­स्या­र्थ­क्रि­या­सा­म­र्थ्य­ल­क्ष­ण­स­त्त्व­नि­षेधे विरो­धा­भा­व­मु­प­पा­दि­त­मु­प­सं­ह­रति —
तस्मादिति ।
उक्तमेव व्यतिरेकद्वारा विवृणोति यदीत्यादिना । यदा कारकाणि व्याप्रियन्ते तदा घटोऽसन्निति तस्य भवि­ष्य­त्त्वा­दि­रूपं तत्काले निषिध्यते चेदुक्तविधया व्याघातः स्यात् । न च तस्य तस्मिन्काले भवि­ष्य­त्त्वा­दि­रूपं तत्त्वं निषिध्यते । अर्थ­क्रि­या­सा­म­र्थ्य­स्यैव निषेधात्तन्न तद् विरो­धा­व­का­शोऽ­स्ती­त्यर्थः ।

न हि पिण्ड­स्ये­त्या­दिना साङ्क­र्य­स­मा­धि­रु­क्त­स्त­मि­दानीं सर्व­त­न्त्र­सि­द्धा­न्त­तया स्फुटयति —
न चेति ।
भवि­ष्य­त्त्व­म­ती­तत्वं चेति शेषः ।

कार्यस्य प्रागु­त्प­त्ते­र्ना­शा­च्चो­र्ध्व­म­स­त्त्वा­भावे हेत्वन्तरमाह —
अपि चेति ।

तदेवानुमानतया स्पष्टयितुं दृष्टान्तं साधयति —
चतुर्विधानामिति ।
षष्ठी निर्धारणे ।

घटा­न्यो­न्या­भा­वस्य घटादन्यत्वे तत्रा­प्य­न्यो­न्या­भा­वा­न्त­रा­ङ्गी­का­रा­द­न­व­स्थे­त्या­श­ङ्क्याऽऽह —
दृष्ट इति ।
न यौक्तिकमन्यत्वं किन्तु घटो न भवति पट इति प्रातीतिकं तथा च घटाभावः पटादिरेवेति पटा­दे­स्त­तोऽ­न्य­त्वा­द्घ­टा­न्यो­न्या­भा­व­स्यापि घटा­द­न्य­त्व­सि­द्धि­रि­त्यर्थः ।

ननु घटाभावः पटा­दि­रि­त्य­युक्तं विशेषणत्वेन घटस्यापि पटा­दा­व­न्त­र्भा­व­प्र­सं­गा­दिति चेन्मैवं दृष्टपदेन निराकृतत्वात् । घटाभावस्य पटा­दि­त्वा­भा­वेऽपि न स्वात­न्त्र्य­म­भा­व­त्व­वि­रो­धात् । नापि तदन्योन्याभावः पटादेर्धर्मः संस­र्गा­भा­वा­न्त­र्भा­वा­पा­तात् । न च स घटस्यैव धर्मः स्वरूपं वा घटो घटो न भवतीति प्रती­त्य­भा­वा­दि­त्य­भि­प्रे­त्याऽऽह —
न घटस्वरूपमेवेति ।

यदि प्रती­ति­मा­श्रित्य घटान्योन्याभावः पटादिरिष्यते तदा पटा­दे­र्भा­व­स्या­भा­व­त्व­वि­धा­ना­द्व्या­घात इत्याशङ्क्याऽऽह —
न चेति ।
स्वरू­प­प­र­रू­पाभ्यां सर्वं सदसदात्मकमिति हि वृद्धाः । तथा च पटादेः स्वेनाऽत्मना भावत्वं घट­ता­दा­त्म्या­भा­वा­त्त­द­भा­वत्वं चेत्य­व्या­ह­ति­रि­त्यर्थः ।

सिद्धे प्रती­त्य­नु­सा­रिणि दृष्टान्ते विव­क्षि­त­म­नु­मा­न­माह —
एवमिति ।

किं च तेषामभावानां घटा­द्भि­न्न­त्वा­त्प­ट­व­देव सत्त्व­मे­ष्ट­व्य­मि­त्य­नु­मा­ना­न्त­र­माह —
तथेति ।

अनुमानफलं कथयति —
एवं चेति ।
तेषां घटादन्यत्वे तस्या­ना­द्य­न­न्त­त्व­म­द्व­यत्वं सर्वात्मत्वं च प्राप्नोति । सत्त्वे च तेषा­म­भा­वा­भा­वान्न भावाभावयोर्मिथः संगतिरित्यर्थः ।

ननु प्रसिद्धोऽभावो भाव­व­द­श­क्योऽ­प­ह्नो­तु­मिति चेत्स तर्हि घटस्य स्वरू­प­म­र्था­न्तरं वेति विक­ल्प्याऽऽ­द्य­म­नूद्य दूषयते —
अथेत्यादिना ।

प्राग­भा­वा­दे­र्घ­ट­त्वेऽपि संबन्धं कल्पयित्वा घट­स्ये­त्यु­क्ति­रिति शङ्कते —
अथेति ।

संबन्धस्य कल्पितत्वे संब­न्धि­नोऽ­प्य­भा­वस्य तथात्वं स्यादिति दूषयति —
तथाऽपीति ।
यत्र संबन्धं कल्पयित्वा व्यपदेशस्तत्र न वास्तवो भेदो यथा राहु­शि­र­सो­स्त­थाऽ­त्रापि कल्पिते संबन्धे भेदस्य तथा­त्वा­द्वा­स्त­वत्त्वं संब­न्धि­नो­र­न्य­त­रस्य स्यात् । न चाभावस्तथा सापेक्षत्वादतो घटस्तथेत्यर्थः ।

कल्पा­न्त­र­म­नु­व­दति —
अथेति ।

अनुमानफलं वदद्भिर्घटस्य कारणात्मना ध्रुवत्ववचनेन समा­हि­त­मे­त­दि­त्याह —
उक्तोत्तरमिति ।

असत्कार्यवादे दोषान्तरमाह —
किञ्चेति ।
स्वहेतुसंबन्धः सत्तासंबन्धो वा जन्मेति तार्किकाः । न च प्रागु­त्प­त्ते­र­सतः संबन्धस्तस्य सतो­र्वृ­त्ते­रि­त्यर्थः ।

युतसिद्धयो रज्जु­घ­ट­यो­र्मि­थः­सं­योगे पृथ­क्सि­द्धि­र­पे­क्ष्य­तेऽ­यु­त­सि­द्धानां परस्परपरिहारेण प्रती­त्य­न­र्हाणां कार्यकारणादीनां मिथोयोगे पृथ­क्सि­द्ध्य­भावो न दोषमावहतीति शङ्कते —
अयुतेति ।

परिहरति —
नेति ।

उक्तमेव स्फोरयति —
भावेति ।

व्यवहारदृष्ट्या कार्यकारणयोः साधितां तुच्छ­व्या­वृ­त्ति­मु­प­स­म्ह­रति —
तस्मादिति ।
नैवेहेत्यत्र सर्वस्य प्रागु­त्प­त्ते­र­स­त्त्व­शङ्का मृत्यु­ने­त्या­दि­वा­क्य­व्या­ख्या­नेन निरस्ता ।

संप्रति मृत्युशब्दस्य अर्थान्तरे रूढत्वान्न तेनाऽवरणं जगतः संभ­व­ती­त्या­क्षि­पति —
किंलक्षणेनेति ।
अन­भि­व्य­क्त­ना­म­रू­प­म­ध्य­क्षा­द्य­यो­ग्य­म­प­ञ्ची­कृ­त­प­ञ्च­म­हा­भू­ता­व­स्था­ति­रिक्तं मायारूपं साभासं मृत्यु­रि­त्यु­च्यते ।

न हि सर्वं कार्य­म­वा­न्त­र­का­र­णा­दु­त्प­त्तु­म­र्ह­ती­त्य­भि­प्रे­त्याह —
अत आहेति ।

कथं यथोक्तो मृत्युरशनायया लक्ष्यते । न हि मूल­का­र­ण­स्या­श­ना­या­दि­म­त्त्वम् । अशनायापिपासे प्राणस्येति स्थितेरिति शङ्कते —
कथमिति ।

मूलकारणस्यैव सूत्रत्वं प्राप्तस्य सर्व­सं­ह­र्तृ­त्वा­न्मृ­त्युत्वे सति वाक्य­शे­षो­प­प­त्ति­रिति परिहरति —
उच्यत इति ।

प्रसिद्धमेव प्रकटयति —
यो हीति ।

तथापि प्रसिद्धं मृत्युं हित्वा कथं हिर­ण्य­ग­र्भो­पा­दा­न­मत आह —
बुद्ध्यात्मना इति ।

उक्तं हेतुं कृत्वा फलितमाह —
इति स इति ।

ननु न तेन जगदाव्रियते मूलकारणेनैव तदावरणात्तत्कथं वाक्यो­प­क्र­मो­प­प­त्ति­रत आह —
तेनेति ।

ननु हिरण्यगर्भे प्रकृते कथं स्रष्टरि नपुं­स­क­प्र­यो­ग­स्त­त्राऽऽह —
तदिति मनस इति ।

वाक्यार्थमधुना कथयति —
स प्रकृत इति ।

भूत­सृ­ष्ट्य­ति­रे­केण भौतिकस्य मनसः सृष्टिरयुक्तेति मत्वा पृच्छति —
केनेति ।

अपञ्चीकृतानां भूतानां हिर­ण्य­ग­र्भ­दे­ह­भू­तानां प्रागे­वा­ल­ब्धा­त्म­क­त्वा­त्तेभ्यो मनो­व्य­क्ति­र­वि­रु­द्धेति मन्वानो ब्रूते —
उच्यत इति ।

स्वात्म­व­त्त्वस्य स्वाभा­वि­क­त्वान्न तदा­शं­स­नी­य­मि­त्या­शङ्क्य वाक्यार्थमाह —
अहमिति ।

मनसो व्यक्त­स्यो­प­यो­ग­माह —
स प्रजापतिरिति ।

ननु तैत्ति­री­य­का­णा­मा­का­शा­दि­सृ­ष्टि­रु­च्यते तत्कथमिहापामादौ सृष्टिवचनं तत्राऽऽह —
अत्रेति ।
सप्तम्या हिर­ण्य­ग­र्भ­क­र्तृ­क­स­र्गोक्तिः । त्रयाणां पञ्चीकृतानामिति यावत् ।

नन्वाकाशाद्या तैत्तिरीये सृष्टिरिह त्वबा­द्ये­त्यु­दि­ता­नु­दि­त­हो­म­व­द्वि­कल्पो भविष्यति । नेत्याह —
विकल्पेति ।
पुरु­ष­त­न्त्र­त्वा­त्क्रि­याया युक्तो विकल्पः सिद्धेर्थे तु पुरुषानधीने नासौ संभवत्यतः सृष्टि­र्वि­व­क्षिता चेदाकाशाद्येव सा युक्ता विद्या­प्र­धा­न­त्वात्तु नाऽऽदरः सृष्टाविति भावः ।

अपामादौ सृष्टि­व­च­न­म­नु­प­युक्तं न स्रष्टु­स्ता­भि­रेव पूजा सिद्ध्य­ती­त्या­श­ङ्क्याऽऽ­श्व­मे­धि­का­ग्ने­र­र्क­ना­म­सि­द्ध्यर्थं तदु­प­यो­ग­मु­प­न्य­स्यति —
अर्चत इति ।

कोऽसौ हेतु­रि­त्य­पे­क्षा­या­म­र्च­ति­प­दा­व­य­व­स्या­र्क­श­ब्देन संगतिरिति मन्वानः सन्नाह —
अर्कत्वमिति ।

एवं मृत्यो­र­र्क­त्वेऽपि कथ­म­ग्ने­र­र्क­त्व­मि­त्या­शङ्क्य मृत्यु­सं­ब­न्धा­दि­त्याह —
अग्नेरिति ।

किम­र्थ­म­ग्ने­र­र्क­ना­म­नि­र्व­च­न­मि­त्या­श­ङ्क्या­पू­र्व­सं­ज्ञा­यो­गस्य फला­न्त­रा­भा­वा­दु­पा­स­ना­र्थ­मि­त्याह —
अग्नेरिति ।

निर्वचनमेव स्फोरयति —
अर्चनादिति ।

फलवत्त्वाच्च यथो­क्त­ना­म­व­तोऽ­ग्ने­रु­पा­स्ति­रत्र विवक्षितेत्याह —
य एवमिति ॥१॥

अपा­म­र्क­त्व­श्र­व­णा­न्ना­ग्ने­र­र्क­त्व­मिति शङ्कते —
कः पुनरिति ।

प्रकरणमाश्रित्य तासा­म­र्क­त्व­मौ­प­चा­रि­क­मि­त्यु­त्त­र­माह —
उच्यत इति ।

तास्व­न्त­र्हि­र­ण्म­य­मण्डं संबभूवेति श्रुति­म­नु­स­र­न्नु­प­चारे हेत्वन्तरमाह —
अप्सु चेति ।

मुख्य­म­र्क­त्व­मपां वारयति —
न पुनरिति ।

ननु ‘श्रुति­लि­ङ्ग­वा­क्य­प्र­क­र­ण­स्था­न­स­मा­ख्यानां समवाये पार­दौ­र्ब­ल्य­म­र्थ­वि­प्र­क­र्षात्’(जै. सू. ३ । ३ । १४) इति­न्या­या­त्प्र­क­र­णा­दापो वा अर्क इति वाक्यं बलवदित्याशङ्क्य वाक्यसहकृतं प्रकरणमेव केव­ल­वा­क्या­द्ब­ल­व­दि­त्या­श­य­वा­नाह —
वक्ष्यति चेति ।

भूता­न्त­र­स­हि­ता­स्वप्सु कारणभूतासु पृथिवीद्वारा पार्थिवोऽग्निः प्रतिष्ठित इत्युक्तमिदानीं पृथिवीसर्गं ताभ्यो दर्शयति —
तदित्यादिना ।
अप्सु भूता­न्त­र­स­हि­ता­सू­त्प­न्नासु सतीष्विति सप्तम्यर्थः ।

शर इव शर इत्युक्तमेव व्याचष्टे —
दध्न इवेति ।

संघाते सहकारिकारणमाह —
तेजसेति ।

यत्तदिति पदे नपुंसकत्वेन श्रुते कथं तयोः शरशब्देन कार­ण­स्यो­च्छू­न­त्व­वा­चिना पुंल्लि­ङ्गे­ना­न्व­य­स्त­त्राऽऽह —
लिङ्ग­व्य­त्य­ये­नेति ।
उक्ता­नु­प­प­त्ति­द्यो­त­नार्थो वाशब्दः ।

व्यत्य­ये­ना­न्व­य­मे­वा­भि­न­यति —
योऽपामिति ।

वाक्य­ता­त्प­र्य­माह —
ताभ्य इति ।

स्थूल­प्र­प­ञ्चा­त्म­क­वि­राजः सूक्ष्म­प्र­प­ञ्चा­त्म­क­सू­त्रा­दु­त्पत्तिं वक्तुं पातनिकामाह —
तस्यामिति ।

उक्तेऽर्थे लोक­प्र­सि­द्धि­म­नु­कू­ल­यति —
सर्वो हीति ।

इदानीं विरा­डु­त्प­त्ति­मु­प­दि­शति —
किं तस्येत्यादिना ।

अग्निशब्दार्थं स्फुटयति —
सोऽण्डस्येति ।

तस्य प्रथमशरीरित्वे मानमाह —
स वा इति ॥२॥

विराजो ध्याना­र्थ­म­व­च्छे­द­भे­द­माह —
स चेति ।

कोऽस्य त्रेधाभावस्य कर्तेति वीक्षायामाह —
स्वयमेवेति ।

कथमेकस्य त्रिधात्वमन्यथा वा कथमेकत्वमित्याह —
कथमिति ।

मृदो घट­श­रा­वा­द्य­ने­क­रू­प­त्व­व­द्वि­राजो बहुरूपत्वं साधयति —
आहेत्यादिना ।

कथमग्निं तृती­य­मि­त्य­श्रुतं कल्प्यते तत्राऽऽह —
सामर्थ्यस्येति ।
वाय्वा­दि­त्य­यो­रि­वा­ग्ने­रपि संख्या­पू­र­ण­त्व­श­क्ते­र­वि­शि­ष्ट­त्वा­दग्निं तृती­य­म­कु­रु­ते­त्यु­प­सं­ख्या­यते स त्रेधाऽऽ­त्मा­न­मिति चोप­क्र­मा­दि­त्यर्थः ।

ननु किमयं त्रेधाभावो विरा­ट्स्व­रू­पो­प­म­र्देन क्रियते ? न हि स तस्मिन्सत्येव युक्तो विरोधादित्याह —
स एष इति ।
यथा तन्त्व­व­स्था­नु­प­म­र्द­नेन मूलकारणात्पटो जायते तथा सर्वेषां भूतानां प्राणतया साधारणोऽप्ययं स्वेनैव स्वत­न्त्रे­णा­नु­ग­तेन मृत्युरूपेण त्रेधाविभागस्य कर्ता । न चैकस्य बहुरूपत्वविरोधो माया­वि­व­दु­प­प­त्ते­रि­त्यर्थः ।

तस्य प्राची­त्या­दे­स्ता­त्प­र्य­माह —
तस्येति ।
उक्तानि विशेषणानि प्रक­र­णा­वि­च्छे­दा­र्थ­म­नू­द्यन्ते ।

अग्निविषयं दर्श­न­मि­दा­नी­मु­च्यते चेन्नै­वे­हे­त्यादि पूर्वो­क्त­म­न­र्थ­क­मि­त्या­श­ङ्क्याऽऽह —
सर्वा हीति ।

स्तुति­मे­वा­भि­न­यति —
इत्थमिति ।

कर्मा­ङ्ग­स्याग्नेः संस्क­र्त­व्य­त्वा­च्चि­त्या­ग्नि­शि­रसि प्राचीदृष्टिः कर्तव्येत्याह —
तस्येति ।

आरोपे सादृश्यमाह —
विशिष्टत्वेति ।

शिर­सोऽ­न­न्त­र­भा­वि­त्वा­त्त­द्बा­ह्वो­रै­शा­न्या­दि­दृ­ष्टि­माह —
असौ चेति ।

कथमीर्मशब्दो बाहु­वा­ची­त्या­शङ्क्य तदुत्पत्तिमाह —
ईरयतेरिति ।
गत्य­र्थ­यो­गा­दी­र्म­शब्दो बाहु­म­धि­क­रो­ती­त्यर्थः ।

तत्पुच्छादिषु प्रती­च्या­दि­दृ­ष्टी­र­ध्य­स्यति —
अथेत्यादिना ।
चित्यस्याग्नेः शिरसि बाह्वोः प्राच्या­दि­दृ­ष्टि­क­र­णा­न­न्त­र­मि­त्यर्थः । सक्थिपदं पृष्ठ­नि­ष्ठो­न्न­ता­स्थि­द्व­य­वि­ष­यम् । उभयशब्देन प्राची­प्र­ती­ची­द्वयं गृह्यते ।

उरसि पृथिवीदृष्टिमाह —
इयमिति ।

उपा­स्य­म­ग्नि­मु­क्त­म­नु­व­दति —
स एष इति ।

तस्यो­पा­स­ना­र्थ­मे­वाप्सु प्रतिष्ठितत्वं गुणमुपदिशति —
अग्निरिति ।

भूता­न्त­र­स­हि­ता­ना­मपां सर्व­लो­क­का­र­ण­त्वा­द­शे­ष­लो­का­त्म­कोऽ­ग्नि­स्तत्र प्रतिष्ठितः संभवतीत्यत्र श्रुत्यन्तरं संवादयति —
एवमिति ।
यथैतेषु लोकेषु सर्वं कार्यं प्रतिष्ठितं तथेति यावत् । लोकशब्देन स्थूलानां भूतानां सन्निवेशविशेषा गृह्यन्ते । अप्सु भूतान्तरसहितासु कारणभूतास्विति यावत् ।

फलश्रुतिं व्याचष्टे —
यत्रेति ।
अथो­पा­स्ति­फ­ल­म­प­पु­न­र्मृत्युं जयतीत्यादिना वक्ष्यते ।

किमिदमस्थाने फलसंकीर्तनमत आह —
गुणेति ॥३॥

उत्त­र­ग्र­न्थ­म­व­तार्य तस्य पूर्वग्रन्थेन संबन्धं वक्तुं वृत्तं कीर्तयति —
सोऽका­म­य­ते­त्या­दिना ।

अवा­न्त­र­व्या­पा­र­म­न्त­रेण कर्तृ­त्वा­नु­प­प­त्ति­रिति मत्वा पृच्छति —
स किं व्यापार इति ।

काम­ना­दि­रू­प­म­वा­न्त­र­व्या­पा­र­मु­त्त­र­वा­क्या­व­ष्ट­म्भेन दर्शयति —
उच्यत इति ।

कामनाकार्यं मनः­सं­यो­ग­मु­प­न्य­स्यति —
स एवमिति ।

कोऽयं मनसा सह वाचो द्वन्द्व­भा­व­स्त­त्राऽऽह —
मनसेति ।

वाक्यार्थमेव स्फुटयति —
त्रयीविहितमिति ।
वेदो­क्त­सृ­ष्टि­क्र­मा­लो­चनं प्रजापतेर्नेदं प्रथमं संसा­र­स्या­ना­दि­त्वा­दिति वक्तुमनुशब्दः ।

“सोऽकामयत” इत्यादौ सर्व­ना­म्नोऽ­व्य­व­हि­त­वि­रा­ड्वि­ष­य­त्व­मा­शङ्क्य परिहरति —
कोऽसावित्यादिना ।

कथं तया मृत्यु­र्ल­क्ष्यते तत्राऽऽह —
अशनायेति ।

किमिति तर्हि पुन­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
तमेवेति ।
अन्य­त्रा­न­न्त­र­प्र­कृते विराडात्मनीति यावत् ।

अवा­न्त­र­व्या­पा­रा­न्त­र­माह —
तदित्यादिना ।

प्रसिद्धं रेतो व्यावर्तयति —
ज्ञानेति ।

ननु प्रजापतेर्न ज्ञानं कर्म वा संभवति । तत्रा­न­धि­का­रा­दि­त्या­श­ङ्क्याऽऽ­सी­दि­त्य­स्या­र्थ­माह —
जन्मान्तरेति ।

वाक्य­स्या­पे­क्षितं पूरयित्वा वाक्यान्तरमादाय व्याकरोति —
तद्भावेत्यादिना ।

ननु संवत्सरस्य प्रागेव सिद्धत्वान्न प्रजा­प­ते­स्त­न्नि­र्मा­णेन तदा­त्म­त्व­मि­त्या­श­ङ्क्यो­त्तरं वाक्यमुपादत्ते —
न ह पुरेति ।

तद्व्याचष्टे —
पूर्वमिति ।
प्रजा­प­ते­रा­दि­त्या­त्म­क­त्वा­त्त­द­धी­न­त्वाच्च संव­त्स­र­व्य­व­हा­र­स्याऽऽ­दि­त्या­त्पूर्वं तद्व्यवहारो नाऽऽसी­दे­वे­त्यर्थः ।

कियन्तं कालमण्डरूपेण गर्भो बभू­वे­त्य­पे­क्षा­या­माह —
तमित्यादिना ।

अवा­न्त­र­व्या­पा­र­म­ने­क­वि­ध­म­भि­धाय विरा­डु­त्प­त्ति­मा­का­ङ्क्षा­द्वा­रो­प­सं­ह­रति —
यावानित्यादिना ।

केयं पूर्वमेव गर्भतया विद्यमानस्य विराजः सृष्टि­स्त­त्राऽऽह —
अण्डमिति ।

विरा­डु­त्प­त्ति­मुक्त्वा शब्दमात्रस्य सृष्टिं विव­क्षु­र्भू­मिकां करोति —
तमेवमिति ।

अयोग्येऽपि पुत्रभक्षणे प्रवर्तकं दर्शयति —
अश­ना­या­व­त्त्वा­दिति ।

विराजो भयकारणमाह —
स्वाभाविक्येति ।

इन्द्रियं देवतां च व्यावर्तयति —
वाक्शब्द इति ॥४॥

इदा­नी­मृ­गा­दि­सृ­ष्टि­मु­प­देष्टुं पातनिकां करोति —
स इत्यादिना ।

ईक्ष­ण­प्र­ति­ब­न्ध­क­स­द्भावं दर्शयति —
अशनायावानपीति ।

अभिपूर्वो मन्यतिरिति ।
रुद्रोऽस्य पशूनभिमन्येत नास्य रुद्रः पशूनभिमन्यत इत्यादि शास्त्रमत्र प्रमाणयितव्यम् ।

अन्नस्य कनीयस्त्वे का हानि­रि­त्या­श­ङ्क्याऽऽह —
बहु हीति ।

तथाऽपि विराजो भक्षणे का क्षतिस्तत्राऽह —
तद्भक्षणे हीति ।
तस्या­न्ना­त्म­क­त्वा­त्त­दु­त्पा­द­क­त्वा­च्चेति शेषः ।

कारणनिवृत्तौ कार्य­नि­वृ­त्ति­रि­त्यत्र दृष्टान्तमाह —
बीजेति ।

यथो­क्ते­क्ष­णा­न­न्तरं मिथुनभावद्वारा त्रयीसृष्टिं प्रस्तौति —
स एवमिति ।

ननु विराजः सृष्ट्या स्थाव­र­ज­ङ्ग­मा­त्मनो जगतः सृष्टे­रु­क्त­त्वात्किं पुन­रु­क्त्ये­त्या­श­येन पृष्ट्वा परिहरति —
किं तदिति ।
गाय­त्र्या­दी­नी­त्या­दि­प­दे­नो­ष्णि­ग­नु­ष्टु­ब्बृ­ह­ती­प­ङ्क्ति­त्रि­ष्टु­ब्ज­ग­ती­छ­न्दां­स्यु­क्तानि ।

केवलानां छन्दसां सर्गा­सं­भ­वा­त्त­दा­रू­ढा­ना­मृ­ग्य­जुः­सा­मा­त्मनां मन्त्राणां सृष्टिरत्र विवक्षितेत्याह —
स्तोत्रेति ।
उद्गात्रादिना गीयमानमृग्जातं स्तोत्रं तदेव होत्रादिना शस्यमानं शस्त्रम् । स्तुतमनुशंसतीति हि श्रुतिः । यन्न गीयते न च शस्य­तेऽ­ध्व­र्यु­प्र­भृ­ति­भिश्च प्रयुज्यते तदप्यत्र ग्राह्य­मि­त्य­भि­प्रे­त्याऽ­दि­प­दम् (यजूंषि) । अत एव त्रिवि­धा­नि­त्यु­क्तम् । अजादयो ग्राम्याः पशवो गव­या­द­य­स्त्वा­रण्या इति भेदः । कर्म­सा­ध­न­भू­ता­न­सृ­ज­तेति संबन्धः ।

स मनसा वाचं मिथुनं सम­भ­व­दि­त्यु­क्त­त्वा­त्प्रा­गेव त्रय्याः सिद्धत्वान्न तस्याः सृष्टिः श्लिष्टेति शङ्कते —
नन्विति ।

व्यक्ता­व्य­क्त­वि­भा­गेन परिहरति —
नेत्यादिना ।
इति मिथु­नी­भा­व­स­र्ग­यो­रु­प­प­त्ति­रिति शेषः ।

अत्तृ­स­र्ग­श्चा­न्न­स­र्ग­श्चेति द्वयमुक्तम् । इदानीमुपास्यस्य प्रजा­प­ते­र्गु­णा­न्तरं निर्दिशति —
स प्रजा­प­ति­रि­त्या­दिना ।

कथं मृत्यो­र­दि­ति­ना­मत्वं सिद्धवदुच्यते तत्राह —
तथा चेति ।
अदितेः सर्वात्मत्वं वदता मन्त्रेण सर्वकारणस्य मृत्यो­र­दि­ति­ना­मत्वं सूचितमिति भावः ।

मृत्यो­र­दि­ति­त्व­वि­ज्ञा­न­व­तोऽ­वा­न्त­र­फ­ल­माह —
सर्वस्येति ।

सर्वात्मनेति कुतो विशिष्यते तत्राऽऽह —
अन्यथेति ।
सर्व­रू­पे­णा­व­स्था­ना­भावे सर्वा­न्न­भ­क्ष­ण­स्या­श­क्य­त्वा­दि­त्यर्थः ।

विरोधमेव साधयति —
न हीति ।
फल­स्यो­पा­स­ना­धी­न­त्वा­त्प्र­जा­प­ति­म­दि­ति­ना­मा­न­मा­त्म­त्वेन ध्याय­न्ध्ये­यात्मा भूत्वा तत्त­द्रू­प­त्व­मा­पन्नः सर्व­स्या­न्न­स्यात्ता स्यादित्यर्थः ।

अन्नमन्नमेवास्य सदा न कदा­चि­त्त­द­स्यात्तृ भवतीति वक्तु­म­न­न्त­र­वा­क्य­मा­दत्ते —
सर्वमिति ।

अत एवेत्युक्तं व्यक्तीकरोति —
सर्वात्मनो हीति ॥५॥

उपास्तिविधौ सफले सति समाप्तिरेव ब्राह्म­ण­स्यो­चिता किमु­त्त­र­ग्र­न्थे­ने­त्या­शङ्क्य प्रतीकमादाय तात्पर्यमाह —
सोऽका­म­य­ते­त्या­दिना ।
तदे­वा­श्व­मे­ध­स्या­श्व­मे­ध­त्व­मि­त्ये­त­दन्तं वाक्यमिदमा निर्दिश्यते । भूयो­द­क्षि­णा­क­त्वा­द­श्व­मे­धस्य भूयस्त्वम् । इति­श­ब्दोऽ­का­म­य­ते­त्य­नेन संबध्यते ।

कथं पुनस्तेन यक्ष्यमाणस्य प्रजा­प­ते­र्भू­यः­श­ब्दोक्तिः । न हि स पूर्व­म­श्व­मे­ध­म­न्व­ति­ष्ठ­त्क­र्मा­न­धि­का­रि­त्वा­त्त­त्राऽऽह —
जन्मान्तरेति ।

तदेव स्पष्टयति —
स प्रजापतिरिति ।

अथातीते जन्मनि यज­मा­नोऽ­श्व­मे­धस्य कर्ताऽभूत् । अधुना हिरण्यगर्भो भूयो यजेयेत्याह । तथा च कर्तृ­भे­दा­द्भू­यः­श­ब्द­सा­म­ञ्ज­स्य­मत आह —
स तद्भावेति ।
स प्रजा­प­ति­र­श्व­मे­ध­वा­स­ना­वि­शिष्टो ज्ञान­क­र्म­फ­ल­त्वेन कल्पादौ निर्वृत्तो भूयो यजेयेत्याह कर्तृ­भो­क्त्रो­रै­क्येन साध­क­फ­ला­व­स्थ­यो­र्य­ज­मा­न­सू­त्र­यो­र्भे­दा­भा­वा­दि­त्यर्थः ।

प्रजापतिरीश्वरो न तस्य दुःखा­त्म­क­क्र­त्व­नु­ष्ठा­नेच्छा युक्ते­त्या­शङ्क्य प्रकृ­ति­व­शा­त्त­दु­प­प­त्ति­म­भि­प्रे­त्याऽऽह —
सोऽश्वमेधेति ।

कथमेतावता विव­क्षि­ता­स्तुतिः सिद्धे­त्या­श­ङ्क्याऽऽह —
एवमिति ।

श्रमकार्यमाह —
स तप इति ।