अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

द्वितीयोऽध्यायः: षष्ठं ब्राह्मणम्

ब्रह्मविद्यां संक्षे­प­वि­स्त­राभ्यां प्रतिपाद्य वंश­ब्रा­ह्म­ण­ता­त्प­र्य­माह —
अथेति ।
महाजनपरिगृहीता हि ब्रह्मविद्या तेन सा महाभागधेयेति स्तुतिः ।

ब्राह्म­ण­स्या­र्था­न्त­र­माह —
मन्त्रश्चेति ।
स्वाध्यायः स्वाधी­नो­च्चा­र­ण­क्ष­मत्वे सत्यध्यापनं जपस्तु प्रत्य­ह­मा­वृ­त्ति­रिति भेदः ।

यथोक्तनीत्या ब्राह्मणारम्भे स्थिते वंशशब्दार्थमाह —
तत्रेति ।

तदेव स्फुटयति —
यथेति ।
शिष्या­व­सा­नो­प­ल­क्षि­णी­भू­ता­त्पौ­ति­मा­ष्या­दा­रभ्य तदा­दि­र्वे­दा­ख्य­ब्र­ह्म­मू­ल­प­र्य­न्तोऽयं वंशः पर्वणः पर्वणो भिद्यत इति संबन्धः ।

वंशशब्देन निष्पन्नमर्थमाह —
अध्या­य­च­तु­ष्ट­य­स्येति ।

अथात्र शिष्या­चा­र्य­वा­च­क­श­ब्दा­भावे कुतो व्यवस्थेति तत्राऽऽह —
तत्रेति ।

पर­मे­ष्ठि­ब्र­ह्म­श­ब्द­यो­रे­का­र्थ­त्व­मा­श­ङ्क्याऽऽह —
परमेष्ठीति ।

कुतस्तर्हि ब्रह्मणो विद्या­प्रा­प्ति­स्त­त्राऽऽह —
तत इति ।
स्वय­म्प्र­ति­भा­त­वेदो हिरण्यगर्भो नाऽऽचा­र्या­न्त­र­म­पे­क्षते । ईस्व­रा­नु­गृ­ही­तस्य तस्य, बुद्धा­वा­वि­र्भू­ता­द्वे­दा­देव विद्या­ला­भ­सं­भ­वा­दि­त्यर्थः ।

कुतस्तर्हि वेदो जायते तत्राऽऽह —
यत्पुनरिति ।
परस्यैव ब्रह्मणो वेद­रू­पे­णा­व­स्था­ना­त्तस्य नित्यत्वान्न हेत्व­पे­क्षे­त्यर्थः ।

आदावन्ते च कृतमङ्गला ग्रन्थाः प्रचारिणो भवन्तीति द्योतयितुमन्ते ब्रह्मणे नम इत्युक्तम् । तद्व्याचष्टे —
तस्मा इति ॥१–२–३॥