आनन्दगिरिटीका (बृहदारण्यक)
तृतीयोऽध्यायः: चतुर्थं ब्राह्मणम्
ब्राह्मणान्तरमवतारयति —
अथेति ।
तस्यापुनरुक्तमर्थं वक्तुमार्तभागप्रश्ने वृत्तं कीर्तयति —
पुण्येति ।
भुज्युप्रश्नान्ते सिद्धमर्थमनुद्रवति —
पुण्यस्य चेति ।
नामरूपाभ्यां व्याकृतं जगद्धिरण्यगर्भात्मकं तद्विषयमुत्कर्षं विशिनष्टि ।
समष्टीति ।
कथं यथोक्तोत्कर्षस्य पुण्यकर्मफलत्वं तत्राऽऽह —
द्वैतेति ।
संप्रत्यनन्तरब्राह्मणस्य विषयं दर्शयति —
यस्त्विति ।
माध्यमिकानामन्येषां चाऽऽद्यो विवादः किंलक्षणो देहादीनामन्यतमस्तेभ्यो विलक्षणो वेति यावत् ।
इत्येवं विमृश्याऽऽत्मनो देहादिभ्यो विवेकेनाधिगमायेदं ब्राह्मणमित्याह —
इत्यात्मन इति ।
विवेकाधिगमस्य भेदज्ञानत्वेनानर्थकरत्वमाशङ्क्य कहोलप्रश्नतात्पर्यं संगृह्णाति —
तस्य चेति ।
ब्राह्मणसंबन्धमुक्त्वाऽऽख्यायिकासंबन्धमाह —
आख्यायिकेति ।
विद्यास्तुत्यर्था सुखावबोधार्था चाऽऽख्यायिकेत्यर्थः । भुज्युप्रश्ननिर्णयानन्तर्यमथशब्दार्थः । संबोधनमभिमुखीकरणार्थम् । द्रष्टुरव्यवहितमित्युक्ते घटादिवदव्यवधानं गौणमिति शङ्क्येत तन्निराकर्तुमपरोक्षादित्युक्तम् । मुख्यमेव द्रष्टुरव्यवहितं स्वरूपं ब्रह्म । तथा च द्रष्ट्रधीनसिद्धत्वाभावात्स्वतोऽपरोक्षमित्यर्थः ।
श्रोत्रं ब्रह्म मनो ब्रह्मेत्यादि यथा गौणं न तथा गौणं द्रष्टुरव्यवहितं ब्रह्माद्वितीत्वादित्याह —
न श्रोत्रेति ।
उक्तमव्यवधानमाकाङ्क्षाद्वाराऽनन्तरवाक्येन साधयति —
किं तदित्यादिना ।
तस्य परिच्छिन्नत्वशङ्कां वारयति —
सर्वस्येति ।
सर्वनामभ्यां प्रत्यग्ब्रह्म विशेष्यं समर्प्यत इतरैस्तु शब्दैर्विशेषणानीति विभागमभिप्रेत्याऽऽह —
यद्यः शब्दाभ्यामिति ।
इतिरुच्यत इत्यनेन संबध्यते । इतिशब्दो द्वितीयः प्रश्नसमाप्त्यर्थः ।
तमेव प्रश्नं विवृणोति —
विस्पष्टमिति ।
त्वमर्थे वाक्यार्थान्वययोग्ये पृष्टे तत्प्रदर्शनार्थं प्रत्युक्तिमवतारयति —
एवमुक्त इति ।
सर्वान्तर इति विशेषोक्त्या प्रश्नस्य विशेषणान्तराणामनास्थामाशङ्क्यऽऽह —
सर्वविशेषणेति ।
एष सर्वान्तर इति भागस्यार्थं विवृणोति —
यत्साक्षादिति ।
एषशब्दार्थं प्रश्नपूर्वकमाह —
कोऽसाविति ।
आत्मशब्दार्थं विवृणोति —
योऽयमिति ।
येनेत्यत्र सशब्दो द्रष्टव्यः ।
षष्ठ्यर्थं स्पष्टयति —
तवेति ।
प्रश्नान्तरमुत्थाप्य प्रतिवक्ति —
तत्रेत्यादिना ।
सर्वान्तरस्तवाऽऽत्मेत्युक्ते सतीति यावत् । तृतीयो मातृसाक्षी प्रणीयते प्राणनविशिष्टः क्रियत इति यावत् ।
कथमेतावता सन्देहोऽपाकृत इत्याशङ्क्य विवक्षितमनुमानं वक्तुं व्याप्तिमाह —
सर्वा इति ।
या खल्वचेतनप्रवृत्तिः सा चेतनाधिष्ठानपूर्विका यथा रथादिप्रवृत्तिरित्यर्थः । येन क्रियन्ते सोऽस्तीति संबन्धः ।
दृष्टान्तस्य साध्यवैकल्यं परिहरति —
न हीति ।
संप्रत्यनुमानमारचयति —
तस्मादिति ।
विमता चेष्टा चेतनाधिष्ठानपूर्विकाऽचेतनप्रवृत्तित्वाद्रथादिचेष्टावदित्यर्थः । प्रतिपद्यते प्राणादीतिशेषः ।
अनुमानफलमाह —
तस्मात्सोऽस्तीति ।
चेष्टयति कार्यकरणसंघातमिति शेषः ॥१॥
प्रश्नप्रतिवचनयोरननुरूपत्वमाशङ्कते —
स होवाचेति ।
दृष्टान्तमेव स्पष्टयति —
असावित्यादिना ।
प्रत्यक्षं गामश्वं वा दर्शयामीति पूर्वं प्रतिज्ञाय पश्चाद्यश्चलत्यसौ गौर्यो वा धावति सोऽश्व इति चलनादिलिङ्गैर्यथा गवादि व्यपदिशत्येवमेव ब्रह्म प्रत्यक्षं दर्शयामीति मत्प्रश्नानुसारेण प्रतिज्ञाय प्राणनादिलिङ्गैस्तद्व्यपदिशतस्ते प्रतिज्ञाहानिरनवधेयवचनता च स्यादित्यर्थः ।
प्रतिज्ञाप्रश्नावनुसर्तव्यौ बुद्धिपूर्वकारिणेति फलितमाह —
किं बहुनेति ।
प्रत्युक्तितात्पर्यमाह —
यथेति ।
प्रतिज्ञानुवर्तनमेवाभिनयति —
तत्तथेति ।
कतमो याज्ञवल्क्येत्यादिप्रश्नस्य तात्पर्यमाह —
यत्पुनरिति ।
न दृष्टेरित्यादिवाक्यस्य तात्पर्यं वदन्नुत्तरमाह —
तदशक्यत्वादिति ।
आत्मनो वस्तुत्वाद्घटादिवद्विषयीकरणं नाशक्यमिति शङ्कते —
कस्मादिति ।
वस्तुस्वरूपमनुसृत्य परिहरति —
आहेति ।
घटादेरपि तर्हि वस्तुस्वाभाव्यान्मा भूद्विषयीकरणमिति मन्वानः शङ्कते —
किं पुनरिति ।
दृष्ट्यादिसाक्षित्वं वस्तुस्वाभाव्यं ततश्चाविषयत्वं न चैवं वस्तुस्वाभाव्यं घटादेरस्तीत्युत्तरमाह —
दृष्ट्यादीति ।
दृट्यादिसाक्षिणोऽपि दृष्टिविषयत्वं किं न स्यादित्याशङ्क्याऽऽह —
दृष्टेरिति ।
यथा प्रदीपो लौकिकज्ञानेन प्रकाश्यो न स्वप्रकाशकं ज्ञानं प्रकाशयति तथा दृष्टिसाक्षी दृष्ट्या न प्रकाश्यत इत्यर्थः ।
दृष्टेर्द्रष्टैव नास्तीति सौगतास्तान्प्रत्याह —
दृष्टिरितीति ।
लौकिकीं व्याचष्टे —
तत्रेति ।
पारमार्थिकीं दृष्टिं व्याकरोति —
या त्विति ।
नन्वात्मा नित्यदृष्टिस्वभावश्चेत्कथं द्रष्टेत्यादिव्यपदेशः सिध्यति तत्राऽऽह —
सा क्रियमाणयेति ।
साक्ष्यबुद्धितद्वृत्तिगतं कर्तृत्वं क्रियात्वं चाऽऽध्यासिकं नित्यदृग्रूपे व्यवह्रियत इत्यर्थः ।
आत्मनो नित्यदृष्टिस्वभावत्वे कथं ‘पश्यति न पश्यति चे’ति कादाचित्को व्यवहार इत्याशङ्क्याऽऽह —
याऽसाविति ।
या बहुविशेषणा लौकिकी दृष्टिरसौ तत्प्रतिच्छायेति संबन्धः । तथा च या तत्प्रतिच्छाया तया व्याप्तैवेति यावत् ।
किमित्यौपचारिको व्यपदेशो मुख्यस्तु किं न स्यादित्याशङ्क्याऽऽह —
न त्विति ।
दृष्टेर्वस्तुतो न विक्रियावत्वमित्यत्र वाक्यशेषमनुकूलयति —
तथा चेति ।
उक्तेऽर्थे न दृष्टेरित्यादिश्रुतिमवतार्य व्याचष्टे —
तमिममित्यादिना ।
उक्तमेव प्रपञ्चयति —
याऽसाविति ।
न दृष्टेरित्यादिवाक्यार्थं निगमयति —
तस्मादिति ।
उक्तन्यायमुत्तरवाक्येष्वतिदिशति —
तथेति ।
उक्तं वस्तुस्वाभाव्यमुपसंहृत्य फलितमाह —
एष इति ।
न दृष्टेरित्यत्र स्वपक्षमुक्त्वा भर्तृप्रपञ्चपक्षमाह —
न दृष्टेरिति ।
कथमक्षराणामन्यथा व्याख्येत्याशङ्क्य तदिष्टमक्षरार्थमाह —
दृष्टेरिति ।
इति शब्दो व्याचक्षत इत्यनेन संबध्यते ।
एवं व्याकुर्वतामभिप्रायमाह —
दृष्टेरितीति ।
कर्मणि षष्ठीमेव स्फुटयति —
सा दृष्टिरिति ।
षष्ठीं व्याख्याय द्वितीयां व्याचष्टे —
द्रष्टारमितीति ।
पदार्थमुक्त्वा वाक्यार्थमाह —
तेनेति ।
उक्तां परकीयव्याख्यां दूषयति ।
तत्रेति ।
दृष्टिकर्तृत्वविवक्षायां तृजन्तेनैव तत्सिद्धेः षष्ठी निरर्थिकेत्यर्थः ।
कथं पुनर्व्याख्यातारो यथोक्तं दोषं न पश्यन्ति तत्राऽऽह —
पश्यतां वेति ।
षष्ठीनैरर्थक्यं प्रागुक्तमाकाङ्क्षाद्वारा समर्थयते —
कथमित्यादिना ।
कियत्तर्हीहार्थवदित्याशङ्क्याऽऽह —
तदेति ।
तत्र हेतुमाह —
यस्मादिति ।
क्रिया धात्वर्थः । कर्ता प्रत्ययार्थः । तथा चैकेनैव पदेनोभयलाभात्पृथक्क्रियाग्रहणमनर्थकमित्यर्थः ।
दृष्टेरित्यस्यानर्थकत्वं दृष्टान्तेन साधयति —
गन्तारमित्यादिना ।
अर्थवादत्वेन तर्हीदमुपात्तमित्याशङ्क्याऽऽह —
न चेति ।
विधिशेषत्वाभावादस्मदुक्तगत्या चार्थवत्त्वसंभवादित्यर्थः ।
अथ परपक्षे निरर्थकमेवेदं पदं प्रमादात्पठितमिति चेन्नेत्याह —
न चेति ।
सर्वेषां काण्वमाध्यन्दिनानामिति यावत् ।
कथं तर्हीदं पदमनर्थकमिति परेषां प्रतीतिस्तत्राऽऽह —
तस्मादिति ।
कथं पुनर्भवतामपि दृशेर्द्विरुपादानमुपपद्यते तत्राऽऽह —
यथा त्विति ।
प्रदर्शयितव्यपदादुपरिष्टादितिशब्दो द्रष्टव्यः । कर्तृकर्मविशेषणत्वेन साक्षिसाक्ष्यसमर्पकत्वेनेति यावत् ।
तत्समर्पणमिति कुत्रोपयुज्यते तत्राऽऽह —
आत्मेति ।
दृष्ट्यादिसाक्ष्यात्मा न तद्विषय इति तत्स्वरूपनिश्चयार्थं साक्ष्यादिसमर्पणामित्यर्थः ।
आत्मा नित्यदृष्टिस्वभावो न दृश्याया दृष्टेर्विषय इत्येष चेन्न दृष्टेरित्यादिवाक्यस्यार्थस्तदा नहीत्यादिनाऽस्यैकवाक्यत्वं सिध्यति । तस्माद्यथोक्तार्थत्वमेव न दृष्टेरित्यादिवाक्यस्येत्याह —
न हीति ।
आत्मा कूटस्थदृष्टिरित्यत्र तलवकारश्रुतिं संवादयति —
तथा चेति ।
तस्य कूटस्थदृष्टित्वे हेत्वन्तरमाह —
न्यायाच्चेति ।
तमेव न्यायं विशदयति —
एवमेवेति ।
विपक्षे दोषमाह —
विक्रियावच्चेति ।
इतश्चाऽऽत्मनो नास्ति विक्रियावत्त्वमित्याह —
ध्यायतीवेति ।
अन्यथा विक्रियावत्त्वे सतीति यावत् ।
अविक्रियत्वेऽपि श्रुत्यक्षराण्यनुपपन्नानीति शङ्कते —
नन्विति ।
न तेषां विरोधो दृष्टं दृष्ट्यादिकर्तृत्वमनुसृत्य प्रवृत्ते लौकिके वाक्ये तदर्थानुवादित्वादुक्तश्रुत्यक्षराणां स्वार्थे प्रामाण्याभावादिति परिहरति —
नेत्यादिना ।
न दृष्टेरित्यादीन्यपि तर्हि श्रुत्यक्षराणि न स्वार्थे प्रमाणानीत्याशङ्क्याऽऽह ।
न दृष्टेरिति ।
अन्योऽर्थो दृष्ट्यादिकर्ता । यथोक्तोऽर्थो दृष्ट्यादिसाक्षी ।
द्रष्टृपदस्य साक्षिविषयत्वे सिद्धे दृष्टेरिति साक्ष्यसमर्पणात्तदर्थवत्त्वोपपत्तिरित्युपसंहरति —
तस्मादिति ।
पक्षान्तरं निराकृत्य स्वपक्षमुपपाद्यानन्तरं वाक्यं विभजते —
एष इति ।
अन्यदार्तमितिविशेषणसामर्थ्यसिद्धमर्थमाह —
एतदेवेति ॥२॥