अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: दशमं ब्राह्मणम्

ब्राह्म­णा­न्त­रस्य तात्पर्यमाह —
सर्वेषामिति ।
फलं चाश्रु­त­फ­ला­ना­मिति शेषः ।

किमिति विद्वा­न्वा­यु­मा­ग­च्छति तमुपेक्ष्यैव ब्रह्मलोकं कुतो न गच्छ­ती­त्या­श­ङ्क्याऽऽह —
अन्तरिक्ष इति ।

आदित्यं प्रत्यागमने हेतुमाह —
आदित्य इति ।

उक्तेऽर्थे वाक्यं पातयति —
तस्मा इति ।
बहू­न्क­ल्पा­नि­त्य­वा­न्त­र­क­ल्पोक्तिः ॥१॥