अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: अष्टमं ब्राह्मणम्

ब्राह्म­णा­न्त­र­म­व­ता­र­यति —
पुनरिति ।
तां धेनुमुपासीतेति संबन्धः ।

वाचो धेन्वाश्च सादृश्यं विशदयति —
यथेत्यादिना ।

स्तनचतुष्टयं भोक्तृत्रयं च प्रश्नपूर्वकं प्रकटयति —
के पुनरित्यादिना ।

कथं देवा यथोक्तौ स्तनावुपजीवन्ति तत्राऽऽह —
आभ्यां हीति ।
हन्त यद्य­पे­क्षि­त­मि­त्यर्थः स्वधामन्नम् । प्रस्राव्यते प्रस्रुता क्षरणोद्यता क्रियते ।

मनसा हीत्यादिनोक्तं विवृणोति —
मनसेति ।

फला­श्र­व­णा­दे­त­दु­पा­स­न­म­कि­ञ्चि­त्क­र­मि­त्या­श­ङ्क्याऽऽह —
एवमिति ।
ताद्भाव्यं यथो­क्त­वा­गु­पा­धि­क­ब्र­ह्म­रू­प­त्व­मि­त्यर्थः ॥१॥