अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: चतुर्दशं ब्राह्मणम्

वृत्तमनूद्य गाय­त्री­ब्रा­ह्म­णस्य तात्पर्यमाह —
ब्रह्मण इत्यादिना ।

छन्दोन्तरेष्वपि विद्यमानेषु किमिति गाय­त्र्यु­पा­धि­क­मेव ब्रह्मो­पा­स्य­मि­ष्यते तत्राऽऽह —
सर्व­च्छ­न्द­सा­मिति ।

तत्प्राधान्ये हेतुमाह —
तत्प्र­यो­क्त्रिति ।

तुल्यं प्रयो­क्तृ­प्रा­ण­त्रा­ण­सा­मर्थ्यं छन्दोऽ­न्त­रा­णा­म­पीति चेन्नेत्याह —
न चेति ।
प्रमाणाभावादिति भावः ।

किञ्च प्राणात्मभावो गायत्र्या विवक्ष्यते प्राणश्च सर्वेषां छन्दसां निर्व­र्त­क­त्वा­दात्मा तथा च सर्व­च्छ­न्दो­व्या­प­क­गा­य­त्र्यु­पा­धि­क­ब्र­ह्मो­पा­स­न­मे­वात्र विवक्षितमित्याह —
प्राणात्मेति ।

तदात्मभूता गायत्रीत्युक्तं व्यक्तीकरोति —
प्राणश्चेति ।
तत्प्र­यो­क्तृ­ग­य­त्रा­णाद्धि गायत्री । प्राणश्च वागादीनां त्राता । तत­श्चै­क­ल­क्ष­ण­त्वा­त्त­यो­स्ता­दा­त्म्य­मि­त्यर्थः ।

प्राण­गा­य­त्र्यो­स्ता­दात्म्ये फलितमाह —
तस्मादिति ।

गाय­त्री­प्रा­धान्ये हेत्वन्तरमाह —
द्विजोत्तमेति ।

तदेव स्फुटयति —
गायत्र्येति ।

तत्प्राधान्ये हेत्वन्तरमाह —
ब्राह्मणा इति ।

कथमेतावता गाय­त्री­प्रा­धान्यं तत्राऽऽह —
तच्चेति ।

अतो वक्त­व्य­मि­त्य­त्रातः शब्दार्थमाह —
गायत्र्या हीति ।

अधिकारित्वकृतं कार्यमाह —
अत इति ।
तच्छब्दो गायत्रीविषयः ।

गाय­त्री­वै­शिष्ट्यं परामृश्य फलितमुपसंहरति —
तस्मादिति ।

गाय­त्री­प्र­थ­म­पा­दस्य सप्ताक्षरत्वं प्रतीयते न त्वष्टा­क्ष­र­त्व­मि­त्या­श­ङ्क्याऽऽह —
यकारेणेति ।

गाय­त्री­प्र­थ­म­पा­दस्य त्रैलो­क्य­ना­म्नश्च संख्या­सा­मा­न्य­प्र­युक्तं कार्यमाह —
एतदिति ।

गाय­त्री­प्र­थ­म­पादे त्रैलो­क्य­दृ­ष्ट्या­रो­पस्य प्रयोजनं दर्शयति —
एवमिति ।
प्रथमपादज्ञाने विराडात्मकत्वं फलतीत्यर्थः ॥१॥

प्रथमे पादे त्रैलो­क्य­दृ­ष्टि­व­द्द्वि­तीये पादे कर्तव्या त्रैवि­द्य­दृ­ष्टि­रि­त्याह —
तथेति ।

दृष्टि­वि­ध्यु­प­यो­गि­त्वेन संख्यासामान्यं कथयति —
ऋच इति ।

संख्या­सा­मा­न्य­फ­ल­माह —
एतदिति ।

विद्याफलं दर्शयति —
स यावतीति ॥२॥

प्रथ­म­द्वि­ती­य­पा­द­यो­स्त्रै­लो­क्य­वि­द्य­दृ­ष्टि­व­त्तृ­तीये पादे प्राणादिदृष्टिः कर्तव्येत्याह —
तथेति ।

ननु त्रिपदा गायत्री व्याख्याता चेत्कि­मु­त्त­र­ग्र­न्थे­ने­त्या­श­ङ्क्याऽऽह —
अथेति ।
शब्दा­त्म­क­गा­य­त्री­प्र­क­र­ण­वि­च्छे­दा­र्थोऽ­थ­शब्दः ।

यद्वै चतु­र्थ­मि­त्या­दि­ग्र­न्थस्य पूर्वेण पौन­रु­क्त्य­मा­श­ङ्क्याऽऽह —
तुरीयमिति ।
इहेति प्रकृ­त­वा­क्योक्तिः ।

योगिभिर्दृश्यत इवेति लक्ष्यते न तु मुख्यमीश्वरस्य दृश्य­त्व­म­ती­न्द्रि­य­त्वा­दि­त्याह —
दृश्यत इवेति ।

’लोका रजां­स्यु­च्यन्ते’ इति श्रुत्य­न्त­र­मा­श्रि­त्याऽऽह —
समस्तमिति ।

आधिपत्यभावेनेति कथं व्याख्या­न­मि­त्या­श­ङ्क्याऽऽह —
उपर्युपरीति ।

वीप्सामाक्षिपति —
नन्विति ।

सर्वं रज­स्त­प­ती­त्ये­ता­व­तैव सर्वाधिपत्यस्य सिद्ध­त्वा­द्ध्यर्था वीप्सेति चोद्यं दूषयति —
नैष दोष इति ।
येषां लोकानामिति यावत् ।

मण्डलपुरुषस्य निर­ङ्कु­श­मा­धि­प­त्य­मि­त्यत्र च्छन्दो­ग्य­श्रु­ति­म­नु­कू­ल­यति —
ये चेति ।

वीप्सा­र्थ­व­त्त्व­मु­प­सं­ह­रति —
तस्मादिति ।

चतु­र्थ­पा­द­ज्ञा­नस्य फलवत्त्वं कथयति —
यथेति ॥३॥

अभि­धा­ना­भि­धे­या­त्मिकां गायत्रीं व्याख्या­या­भि­धा­न­स्या­भि­धे­य­त­न्त्र­त्व­माह —
सैषेति ।

आदित्ये प्रतिष्ठिता मूर्ता­मू­र्ता­त्मिका गायत्रीत्यत्र हेतुमाह —
मूर्तेति ।

भवतु मूर्ता­मू­र्त­ब्रा­ह्म­णा­नु­सा­रे­णाऽऽ­दि­त्यस्य तत्सारत्वं तथाऽपि कथं गाय­त्र्या­स्त­त्प्र­ति­ष्ठि­तत्वं पृथगेव सा मूर्ता­द्या­त्मिका स्थास्य­ती­त्या­श­ङ्क्याऽऽह —
रसेति ।
तद्व­दा­दि­त्य­सं­ब­न्धा­भावे मूर्ता­द्या­त्मिका गायत्री स्याद­प्र­ति­ष्ठि­तेति शेषः ।

सारादृते स्वातन्त्र्येण मूर्तादेर्न स्थितिरिति स्थिते फलितमाह —
तथेति ।

आदित्यस्य स्वातन्त्र्यं वारयति —
तद्वा इति ।

सत्य­श­ब्द­स्या­नृ­त­वि­प­री­त­वा­ग्वि­ष­यत्वं शङ्काद्वारा वारयति —
किं पुनरित्यादिना ।

चक्षुषः सत्यत्वे प्रमाणाभावं शङ्कित्वा दूषयति —
कथमित्यादिना ।

श्रोतरि श्रद्धाभावे हेतुमाह —
श्रोतुरिति ।

द्रष्टुरपि मृषादर्शनं संभ­व­ती­त्या­श­ङ्क्याऽऽह —
न त्विति ।

क्वचि­त्क­थ­ञ्चि­त्सं­भ­वेऽपि श्रोत्रपेक्षया द्रष्टरि विश्वासो दृष्टो लोकस्येत्याह —
तस्मान्नेति ।

विश्वा­सा­ति­श­य­फ­ल­माह —
तस्मादिति ।

आदित्यस्य चक्षुषि प्रतिष्ठितत्वं पञ्चमेऽपि प्रति­पा­दि­त­मि­त्याह —
उक्तं चेति ।

सत्यस्य स्वातन्त्र्यं प्रत्याह —
तद्वा इति ।

सत्यस्य प्राण­प्र­ति­ष्ठि­तत्वं च पाञ्चमिकमित्याह —
तथा चेति ।
सूत्रं प्राणो वायुः । तच्छब्देन सत्य­श­ब्दि­त­स­र्व­भू­त­ग्र­ह­णम् ।

सत्यं बले प्रति­ष्ठि­त­मि­त्यत्र लोकप्रसिद्धिं प्रमाणयति —
तस्मादिति ।

तदेवोपपादयति —
लोकेऽपीति ।

तदेव व्यति­रे­क­मु­खे­नाऽऽह —
न हीति ।

एतेन गायत्र्याः सूत्रात्मत्वं सिद्धमित्याह —
एवमिति ।

तस्मिन्नर्थे वाक्यं योजयति —
सैषेति ।

गायत्र्याः प्राणत्वे किं सिद्ध्यति तदाह —
अत इति ।

तदेव स्पष्टयति —
यस्मि­न्नि­त्या­दिना ।

गाय­त्री­ना­म­नि­र्व­च­नेन तस्या जग­ज्जी­व­न­हे­तु­त्व­माह —
सा हैषेति ।
प्रयोक्तृशरीरं सप्तम्यर्थः । गायन्तीति गया वागु­प­ल­क्षि­ता­श्च­क्षु­रा­दयः ।

ब्राह्म­ण्य­मू­ल­त्वेन स्तुत्यर्थं गायत्र्या एव सावित्रीत्वमाह —
स आचार्य इति ।
पच्छः पादशः ।

सावित्र्या गायत्रीत्वं साधयति —
स इति ।
अतः सावित्री गायत्रीति शेषः ॥४॥

मता­न्त­र­मु­द्भा­व­यति —
तामेतामिति ।
’तत्स­वि­तु­र्वृ­णी­महे वयं देवस्य भोजनम् । श्रेष्ठं सर्वधातमं तुरं भागस्य धीमहि’ इत्यनुष्टुभं सावित्रीमाहुः । सवि­तृ­दे­व­ता­क­त्वा­दि­त्यर्थः । उपनीतस्य माणवकस्य प्रथमतः सरस्वत्यां वर्णात्मिकायां सापेक्षत्वं द्योतयितुं हि शब्दः ।

दूषयति —
नेत्यादिना ।

नन्व­पे­क्षि­त­वा­गा­त्म­क­स­र­स्व­ती­स­म­र्पणं विना गाय­त्री­स­म­र्प­ण­मु­क्त­मिति शङ्कित्वा परिहरति —
कस्मादित्यादिना ।

यदि हेत्या­दे­रु­त्त­रस्य ग्रन्थ­स्या­व्य­व­हि­त­पू­र्व­ग्र­न्था­सं­ग­ति­मा­श­ङ्क्याऽऽह —
किञ्चेदमिति ।
सावित्र्या गायत्रीत्वमिति यावत् ।

इवशब्दार्थं दर्शयति —
न हीति ।
यद्यपि बहु प्रतिगृह्णाति विद्वानिति पूर्वेण संबन्धः । तथाऽपि न तेन प्रति­ग्र­ह­जा­ते­नै­क­स्यापि गायत्रीपदस्य विज्ञानफलं भुक्तं स्यात् । दूरतस्तु दोषाधायकत्वं तस्येत्यर्थः ॥५॥

गायत्रीविदः प्रतिगृह्णतो दोषाभावं सामा­न्ये­नोक्त्वा विशेषस्तदभावमाह —
स य इति ।
यथा त्रैलो­क्या­व­च्छि­न्नस्य त्रैवि­द्या­व­च्छि­न्नस्य चार्थस्य प्रतिग्रहेण पाद­द्व­य­वि­ज्ञा­न­फ­ल­मेव भुक्तं नाधिकं दूषणं तथेति यावत् ।

प्रतिग्रहीता दाता वा नैवंविधः संभाव्यते किन्तु स्तुत्यर्थं श्रुत्यै­त­त्क­ल्पि­त­मि­त्याह —
कल्पयित्वेति ।

उक्तमेव संगृह्णाति —
पादत्रयेति ।

कल्प­यि­त्वे­द­मु­च्यत इति किमिति कल्प्यते मुख्यमेवैतत्किं न स्यादि­त्या­श­ङ्क्याऽऽह —
न चेति ।

कल्पनाऽपि तर्हि किम­र्थे­त्या­श­ङ्क्याऽऽह —
गायत्रीति ।

अङ्गी­कृ­त्यो­त्त­र­वा­क्य­मु­त्था­प­यति —
दातेति ।

तदे­वाऽऽ­का­ङ्क्षा­पू­र्व­क­माह —
कस्मादिति ।
वागा­त्म­क­प­द­त्र­य­वि­ज्ञा­न­फ­ल­भो­गो­क्त्या­न­न्त­र्य­म­थ­श­ब्दार्थः । नैव प्राप्यं प्रतिग्रहेण केनचिदपि नैव मुक्तं स्यादित्यर्थः ।

तत्रैव वैध­र्म्य­दृ­ष्टा­न्त­माह —
यथेति ।
तानि प्रतिग्रहेण यथाऽऽप्यानि न तथै­त­दा­प्य­मि­त्यर्थः ।

कुत इत्यादिवाक्यस्य तात्पर्यमाह —
एतान्यपीति ।

गायत्रीविदः स्तुतिरुक्ता तत्फलमाह —
तस्मादिति ।
एवम्प्रकारा पादचतुष्टयरूपा सर्वा­त्मि­के­त्यर्थः ॥६॥

प्रकृतमुपासनमेव मन्त्रेण संगृह्णाति —
तस्या इत्यादिना ।

ध्येयं रूपमुक्त्वा ज्ञेयं गायत्र्या रूपमुपन्यस्यति —
अतःपरमिति ।

चतुर्थस्य पादस्य पादत्रयापेक्षया प्राधा­न्य­म­भि­प्रे­त्याऽऽह —
अत इति ।

यथो­क्त­न­म­स्का­रस्य प्रयोजनमाह —
असाविति ।

द्विवि­ध­मु­प­स्था­न­मा­भि­चा­रि­क­मा­भ्यु­द­यिकं च तत्राऽऽद्यं द्वेधा व्युत्पादयति —
यं द्विष्यादिति ।
नाम­गृ­ह्णी­या­त्त­दीयं नाम गृहीत्वा च तदभिप्रेतं मा प्राप­दि­त्य­ने­नो­पा­स्था­न­मिति संबन्धः ।

आभ्यु­द­यि­क­मु­प­स्थानं दर्शयति —
अहमिति ।

कीदृ­गु­प­स्था­न­मत्र मन्त्रपदेन कर्त­व्य­मि­त्या­शङ्क्य यथारुचि विकल्पं दर्शयति —
असाविति ॥७॥

किं तद्गा­य­त्री­वि­ज्ञा­न­प्र­ति­कू­ल­मु­प­ल­भ्यते तदाह —
अथेति ।
पूर्वा­प­र­वि­रो­धा­व­द्यो­त­कोऽ­थ­शब्दः ।

तथाऽपि गाय­त्री­वि­ज्ञा­नस्य फलवत्त्वे सति प्रतिकूलमिदं हस्तीभूतस्य तव मां प्रति वह­न­मि­त्या­श­ङ्क्याऽऽह
एकाङ्गेति ।

राजा ब्रूते
श्रुण्विति ।

मुखविज्ञानस्य दृष्टा­न्ता­व­ष्ट­म्भेन फलमाचष्टे —
यदीत्यादिना ।
इव­श­ब्दोऽ­व­धा­र­णार्थः । पाप­सं­स्प­र्श­रा­हित्यं शुद्धि­स्त­त्फ­ला­सं­स्प­र्शस्तु पूततेति भेदः ।

गायत्रीज्ञानस्य क्रम­मु­क्ति­फ­लत्वं दर्शयति —
गायत्र्यात्मेति ॥८॥