अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: प्रथमं ब्राह्मणम्

पूर्व­स्मि­न्न­ध्याये ब्रह्मा­त्म­ज्ञानं सफलं साङ्गोपाङ्गं वाद­न्या­ये­नो­क्त­मि­दानीं काण्डा­न्त­र­म­व­ता­र­यति —
पूर्णमिति ।

पूर्वा­ध्या­ये­ष्वेव सर्वस्य वक्तव्यस्य समाप्तत्वादलं खिल­का­ण्डा­र­म्भे­णे­त्या­शङ्क्य पूर्वत्रानुक्तं परिशिष्टं वस्तु खिल­श­ब्द­वा­च्य­म­स्ती­त्याह —
अध्या­य­च­तु­ष्ट­ये­नेति ।
सर्वान्तर इत्युक्त इति शेषः । अमृतत्वसाधनं निर्धारितमिति पूर्वेण संबन्धः । शब्दा­र्था­दी­त्या­दि­श­ब्देन मानमेयादिग्रहः । दयां शिक्षे­दि­त्यु­क्ता­नीति शेषः ।

ओङ्कारादि यत्र साधनत्वेन विधित्सितं तत्पू­र्वो­क्त­मै­क्य­ज्ञा­न­म­नु­व­दति —
पूर्णमिति ।

अव­य­वा­र्थ­मुक्त्वा समुदायार्थमाह —
तत्संपूर्णमिति ।

अदः पूर्णमित्यनेन लक्ष्यं तत्पदार्थं दर्शयित्वा त्वम्पदार्थं दर्शयति —
तदेवेति ।

कथं सोपाधिकस्य पूर्ण­त्व­मि­त्या­श­ङ्क्याऽऽह —
स्वेनेति ।

व्यावर्त्यमाह —
नोपाधीति ।
न वयमुपहितेन विशिष्टेन रूपेण पूर्णतां वर्णयामः किन्तु केवलेन स्वरू­पे­णे­त्यर्थः ।

लक्ष्यौ तत्त्व­म्प­दा­र्थ­मुक्त्वा तावेव वाच्यौ कथयति —
तदिदमिति ।

कथं कार्या­त्म­नो­द्रि­च्य­मा­नस्य पूर्ण­त्व­मि­त्या­श­ङ्क्याऽऽह —
यद्यपीति ।

लक्ष्य­प­दा­र्थै­क्य­ज्ञा­न­फ­ल­मु­प­न्य­स्यति —
पूर्णस्येति ।

उप­क्र­मो­प­सं­हा­र­यो­रै­क­रू­प्य­मैक्ये श्रुति­ता­त्प­र्य­लिङ्गं संगिरते —
यदुक्तमिति ।

कथं पूर्णकण्डिकाया ब्रह्मकण्डिकया सहै­का­र्थ­त्वे­नै­क­वा­क्य­त्व­मि­त्या­शङ्क्य तद्व्युत्पादयति —
तत्रेत्यादिना ।

उप­क्र­मो­प­सं­हा­र­सिद्धे ब्रह्मात्मैक्ये कठश्रुतिं संवादयति —
तथा चेति ।

ब्रह्मा­त्म­नो­रै­क्य­मु­क्त­मु­प­जीव्य वाक्यार्थमाह —
अत इति ।
पूर्णं यद्ब्रह्मेति यच्छब्दो द्रष्टव्यः ।

उक्तमेव व्यनक्ति —
तस्मादेवेति ।

संसारावस्थां दर्शयित्वा मोक्षावस्थां दर्शयति —
यद्यदात्मानमिति ।

उक्ते विद्याफले वाक्यो­प­क्र­म­म­नु­कू­ल­यति —
तथा चोक्तमिति ।

न केवलं ब्रह्म­क­ण्डि­क­यै­वास्य मन्त्र­स्यै­क­वा­क्यत्वं किं तु सर्वा­भि­रु­प­नि­ष­द्भि­रि­त्याह —
यः सर्वोपनिषदर्थ इति ।

अनुवादफलमाह —
उत्तरेति ।

तदेव स्फुटयति —
ब्रह्मविद्येति ।
तस्माद्युक्तो ब्रह्मणोऽनुवाद इति शेषः ।

कथं तर्हि सर्वो­पा­स­न­शे­ष­त्वेन विधि­त्सि­त­त्व­मो­ङ्का­रा­दी­ना­मु­क्त­मत आह —
खिलेति ।

अद्वितीयं ब्रह्मे­त्यु­त्स­र्ग­प्र­वृत्तं शास्त्रं प्रल­या­व­स्थ­ब्र­ह्म­वि­षयं सृष्टिशास्त्रं तु विशेषप्रवृत्तं तस्यापवादस्ततो द्वैताद्वैतरूपं ब्रह्म सर्वो­प­नि­ष­द­र्थ­स्त­देव ब्रह्मानेन मन्त्रेण संक्षिप्यत इति भर्तृ­प्र­प­ञ्च­प­क्ष­मु­त्था­प­यति —
अत्रेत्यादिना ।

कार्य­का­र­ण­यो­रु­त्प­त्ति­काले पूर्ण­त्व­मुक्त्वा स्थितिकालेऽपि तदाह —
उद्रिक्तमिति ।

प्रलयकालेऽपि तयोः पूर्णत्वं दर्शयति —
पुनरिति ।

कालभेदेन कार्य­का­र­ण­यो­रुक्तां पूर्णतां निगमयति —
एवमिति ।

कार्यकारणे द्वे पूर्णे चेत्तर्हि कथ­म­द्वै­त­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
सा चेति ।

कथं तर्हि द्वयोरुक्तं पूर्णत्वं तदाह —
कार्यकारणयोरिति ।

एका पूर्णता व्यपदिश्यते च द्वयोरिति स्थिते लब्धमर्थमाह —
एवं चेति ।

एकं ह्यनेकात्मकमिति विप्र­ति­षे­ध­मा­शङ्क्य दृष्टान्तेन निराचष्टे —
यथा किलेति ।
एवमेकं ब्रह्मा­ने­का­त्म­क­मिति शेषः ।

ब्रह्मणो द्वैता­द्वै­ता­त्म­क­त्वेऽपि सत्य­म­द्वै­त­म­स­त्य­मि­त­र­दि­त्या­श­ङ्क्याऽऽह —
यथा चेत्यादिना ।

द्वैतस्य परमार्थसत्यत्वे कर्म­का­ण्ड­श्रु­ति­म­नु­कू­ल­यति —
एवं चेति ।

विपक्षे दोषमाह —
यदा पुनरिति ।

अस्तु कर्म­का­ण्ड­प्रा­माण्यं नेत्याह —
तथा चेति ।
विरो­धोऽ­ध्य­य­न­वि­धे­रिति शेषः ।

तमेव विरोधं साधयति —
वेदेति ।

कथं तर्हि विरो­ध­स­मा­धि­स्त­त्राह —
तद्विरोधेति ।

प्राप्तं भर्तृ­प्र­प­ञ्च­प्र­स्थानं प्रत्याचष्टे —
तदसदिति ।

विशि­ष्ट­म­द्वि­तीयं ब्रह्म तद्वि­ष­यो­त्स­र्गा­प­वा­द­यो­र्वि­क­ल्प­स­मु­च्च­य­यो­श्चा­सं­भवं वक्तुं प्रतिज्ञाभागं विभजते —
न हीति ।

तत्र प्रश्नपूर्वकं हेतुं विवृणोति —
कस्मादित्यादिना ।
यथे­त्या­दि­ग्र­न्थस्य न च तथेत्यादिना संबन्धः ।

क्रिया­या­मु­त्स­र्गा­प­वा­द­सं­भा­व­ना­मु­दा­ह­रति —
यथेत्यादिना ।
तथाऽन्यत्रापि क्रिया­या­मु­त्स­र्गा­प­वादौ द्रष्टव्याविति शेषः ।

वैध­र्म्य­दृ­ष्टा­न्तस्य दार्ष्टा­न्ति­क­माह —
न चेति ।
विषयभेदे सत्यु­त्स­र्गा­प­वादौ दृष्टौ न तावदद्वितीये ब्रह्मणि संभवतः । न हि ब्रह्माद्वयमेव जायते लीयते चेति संभावनास्पदमिति भावः ।

उत्स­र्गा­प­वा­दा­नु­प­प­त्ति­व­द्ब्र­ह्मणि विक­ल्पा­नु­प­प­त्तेश्च तदे­क­र­स­मे­षि­त­व्य­मि­त्याह —
तथेति ।

विक­ल्पा­नु­प­प­त्ति­मु­प­पा­द­यति —
यथेत्यादिना ।

संप्रति समु­च्च­या­सं­भ­व­म­भि­द­धाति —
विरोधाच्चेति ।

उत्स­र्गा­प­वा­द­वि­क­ल्प­स­मु­च्च­या­ना­म­सं­भ­वान्न युक्ता ब्रह्मणो नाना­र­स­त्व­क­ल्प­नेति फलितमाह —
तस्मादिति ।

पर­की­य­क­ल्प­ना­नु­प­पत्तौ हेत्वन्तरं प्रतिज्ञाय श्रुतिविरोधं प्रकटीकृत्य न्यायविरोधं प्रकटयति —
तथेति ।
ब्रह्म­णोऽ­ने­क­र­सत्वे स्यादिति शेषः । नित्य­त्वा­नु­प­प­त्ते­रा­त्मनो नित्य­त्वा­ङ्गी­का­र­वि­रोधः स्यादि­त्य­ध्या­हारः ।

ननु तस्य नित्यत्वं नाङ्गीक्रियते मानाभावादिति प्रासं­गि­की­मा­शङ्कां प्रत्याह —
नित्यत्वं चेति ।
स्मृत्या­दि­द­र्श­ना­दि­त्या­दि­श­ब्देन स एव तु कर्मा­नु­स्मृ­ति­श­ब्द­वि­धिभ्य इत्यधिकरणोक्ता हेतवो गृह्यन्ते । अनुमीयते कल्प्यते स्वीक्रियत इति यावत् । तद्विरोधश्च स्मृत्या­दि­द­र्श­न­कृ­ता­त्म­नि­त्य­त्वा­नु­मा­न­वि­रो­ध­श्चे­त्यर्थः ।

आत्म­नोऽ­नि­त्यत्वे दोषान्तरमाह —
भवदिति ।

कर्मकाण्डस्य सत्यार्थत्वं परेण कल्प्यते तदा­न­र्थ­क्य­मा­त्मा­नि­त्यत्वे स्पष्ट­मा­प­ते­दि­त्यु­क्त­मेव स्फुटयति —
स्फुटमेवेति ।

ब्रह्मणो नानारसत्त्वे विरो­ध­मु­क्त­म­स­ह­मानः स्वोक्तं स्मारयति —
नन्विति ।

समुद्रादीनां कार्य­त्व­सा­व­य­व­त्वा­भ्या­म­ने­का­त्म­क­त्व­वि­रुद्धं ब्रह्मणस्तु नित्य­त्वा­न्नि­र­व­य­व­त्वाच्च नानेकात्मकत्वं युक्तमिति वैष­म्य­मा­द­र्श­य­न्नु­त्त­र­माह —
नेत्यादिना ।

ब्रह्मणो नाना­र­स­त्व­क­ल्प­ना­नु­प­प­त्ति­मु­प­सं­ह­रति —
तस्मादिति ।
’अजो नित्यः शाश्वतोऽयं पुराणः’ इत्याद्याः स्मृतयः ।

ननु प्रत्य­क्षा­द्य­वि­रो­धे­नो­प­नि­षदां विष­य­सि­द्ध्य­र्थ­मेषा कल्पना क्रियते तथा च कथं साऽनु­प­प­न्ने­त्या­श­ङ्क्याऽऽह —
अस्या इति ।
विरुद्धार्थत्वे कल्पितेऽपि तत्प्रा­मा­ण्या­नु­प­प­त्ते­र­वि­शे­षा­दिति भावः ।

किञ्च ब्रह्मणो नानारसत्वं लौकिकं वैदिकं वा । नाऽऽद्यः । तस्या­लौ­कि­क­त्वा­त्त­न्ना­ना­र­सत्वे लोकस्य तटस्थत्वात् । न द्वितीयः । तन्नानारसत्वस्य ध्येयत्वेन ज्ञेयत्वेन वा शास्त्रे­णा­नु­प­दे­शा­दि­त्याह —
अध्ये­य­त्वा­च्चेति ।

तदेव स्फुटयति —
न हीति ।

इतश्च नानारसं ब्रह्म न यथा­शा­स्त्र­प्र­का­श्य­मि­त्याह —
प्रज्ञानेति ।
चका­रा­दु­प­दि­श­ती­त्या­कृ­ष्यते । अने­क­धा­द­र्श­ना­प­वा­दाच्च नानारसं ब्रह्म शास्त्रार्थो न भवतीति शेषः ।

भेददर्शनस्य निन्दितत्वे लब्धमर्थमाह —
यच्चेति ।

अकर्तव्यत्वे प्राप्तमर्थं कथयति —
यच्च नेति ।

सामान्यन्यायं प्रकृते योजयति —
ब्रह्मण इति ।

कस्तर्हि शास्त्रा­र्थ­स्त­त्राऽऽह —
यत्त्विति ।

ब्रह्मैकरस्ये प्रागुक्तं दोषमनुभाषते —
यत्तूक्तमिति ।
कर्मकाण्डस्य कर्मविषये न प्रामा­ण्य­म­स­द्द्वै­त­वि­ष­य­त्वा­द्ब्र­ह्म­का­ण्डस्य त्वद्वैते प्रामाण्यं पर­मा­र्था­द्वै­त­व­स्तु­प्र­ति­पा­द­क­त्वा­त्तथा च विरो­धोऽ­ध्य­य­न­वि­धे­रि­त्य­नु­वा­दार्थः ।

कर्म­का­ण्डा­प्रा­माण्यं प्रत्याचष्टे —
तन्नेति ।
प्रसिद्धं भेदमादाय तत्रैव विधि­नि­षे­धो­प­दे­शस्य प्रवृ­त्ति­नि­वृ­त्ति­द्वा­राऽ­र्थ­व­त्त्वान्न कर्म­का­ण्डा­न­र्थ­क्य­मि­त्यर्थः ।

ननु शास्त्रमेवाऽऽदौ भेदं बोधयित्वा पश्चा­द­भ्यु­द­य­सा­धनं कर्मोपदिशति । तथा च नास्ति भेदस्यात्यन्तः प्राप्तिरत आह —
न हीति ।
यथा हि शास्त्रं जातमात्रं पुरुषं प्रत्यद्वैतं वस्तु ज्ञापयित्वा पश्चा­द्ब्र­ह्म­वि­द्या­मु­प­दि­श­तीति नेष्यते तथा प्रथममेव पुरुषं प्रति द्वैतं बोधयित्वा कर्म पुन­र्बो­ध­य­ती­त्यपि नाभ्युपेयं प्रथमतो भेदा­वे­द­ना­व­स्था­या­मस्य शास्त्रा­न­धि­का­रि­त्वा­दि­त्यर्थः ।

द्वैत­स्यो­प­दे­शा­र्ह­त्व­म­ङ्गी­कृ­त्योक्तं तदेव नास्तीत्याह —
न चेति ।

ननु द्वैतस्य सत्यबुद्ध्यभावे श्रुत्यु­क्ता­नु­ष्ठा­नाय पुंसां प्रवृ­त्त्य­नु­प­पत्तेः स्वप्रा­मा­ण्य­सि­द्ध्य­र्थ­मेव द्वैतसत्यत्वं श्रुति­र्बो­ध­यि­ष्यति नेत्याह —
न च द्वैतस्येति ।
द्वैता­नृ­त­त्व­वा­दिषु कर्मजडानां प्रद्वे­ष­प्र­ती­तेर्न प्रथमतो द्वैता­नृ­त­त्व­बु­द्धिर्न च द्वैतसत्यत्वं श्रुत्य­र्थ­स्त­त्प­रि­च­य­ही­ना­ना­मपि द्वैत­स­त्य­त्वा­भि­नि­वे­शा­दि­त्यर्थः ।

किञ्च न द्वैतवैतथ्यं शास्त्र­प्रा­मा­ण्य­वि­घा­तकं यतो बौद्धादिभिः श्रेयसे प्रस्थापिताः स्वशिष्या द्वैत­मि­थ्या­त्वा­व­ग­मेऽपि स्वर्ग­का­म­श्चैत्यं वन्दे­ते­त्या­दि­शा­स्त्रस्य प्रामाण्यं गृह्णन्ति । तथाऽ­ग्नि­हो­त्रा­दि­शा­स्त्र­स्यापि प्रामाण्यं भविष्यति साध­न­त्व­श­क्त्य­न­प­हा­रा­दि­त्याह —
नापीति ।

काण्डद्वयस्य प्रामा­ण्यो­प­प­त्ति­मु­प­सं­ह­रति —
तस्मादित्यादिना ।
प्रसिद्धो योऽयं क्रियादिरूपे द्वैते दोषः साति­श­य­त्वा­दि­स्त­द्द­र्शनं विवेकस्तद्वते तस्मा­द्द्वै­ता­द्वि­प­री­त­मौ­दा­सी­न्यो­प­ल­क्षितं स्वरूपं तस्मिन्नवस्थानं कैवल्यं तदर्थिने मुमुक्षवे साध­न­च­तु­ष्ट­य­सं­प­न्ना­ये­त्यर्थः ।

किञ्च तत्त्व­ज्ञा­ना­दूर्ध्वं पूर्वं वा काण्डयोर्विरोधः शङ्क्यते । नाऽऽद्य इत्याह —
अथेति ।
अव­स्था­भे­दा­दे­क­स्मि­न्नपि पुरुषे काण्डद्वयस्य प्रामा­ण्य­म­वि­रु­द्ध­मि­त्येवं स्थिते सत्यु­प­नि­ष­द्भ्य­स्त­त्त्व­ज्ञा­नो­त्प­त्त्य­न­न्तरं नान्तरीयकत्वेन प्राप्ते कैवल्ये पुरुषस्य नैराकाङ्क्ष्यं जायते न च निराकाङ्क्षं पुरुषं प्रति शास्त्रस्य शास्त्रत्वमस्ति ।
’प्रवृत्तिर्वा निवृत्तिर्वा नित्येन कृतकेन वा । पुंसां येनोपदिश्येत तच्छा­स्त्र­म­भि­धी­यते’ ॥
इति न्याया­त्कृ­त­कृत्यं प्रति प्रव­र्त­क­त्वा­दि­वि­र­हिणः शास्त्र­त्वा­यो­गा­दतो ज्ञानादूर्ध्वं धर्म्य­भा­वा­द्वि­रो­धा­सि­द्धि­रि­त्यर्थः ।

एकस्मिन्पुरुषे दर्शितन्यायं सर्वत्रातिदिशति —
तथेति ।

ज्ञानादूर्ध्वं विरो­धा­भा­व­मु­प­सं­ह­रति —
इति नेति ।

कल्पान्तरं प्रत्याह —
अद्वैतेति ।
तत्त्व­ज्ञा­ना­त्पूर्वं भेद­स्या­व­स्थि­त­त्वा­त्त­मा­वि­द्य­मा­दा­या­धि­का­रि­भे­दा­द­व­स्था­भे­दाद्वा काण्ड­यो­र­वि­रो­ध­सि­द्धि­रि­त्यर्थः ।

भेदमेवोपपादयति —
अन्यतमेति ।
शिष्या­दी­ना­म­न्य­त­म­स्यै­वा­व­स्थानं चेद­व­स्थि­त­स्ये­त­र­स्मिंश्च सापेक्षत्वान्न सोऽप्यवतिष्ठेत । न च ज्ञाना­त्प्रा­ग­न्य­त­म­स्यै­वा­व­स्थानं सर्वेषामेव तेषां यथा­प्र­ति­भा­स­म­व­स्था­ना­दतो न पूर्वं विरो­ध­श­ङ्के­त्यर्थः ।

ऊर्ध्वं विरो­ध­श­ङ्का­भा­व­म­धि­क­वि­व­क्ष­याऽ­नु­व­दति —
सर्वेति ।

कथं कैवल्यं विरोधाभावस्य सत्त्वा­दि­त्या­श­ङ्क्याऽऽह —
नापीति ।

अद्वै­त­त्वा­दे­वा­भा­व­स्यापि तत्त्व­नि­म­ज्ज­ना­दि­त्याह —
अत एवेति ।

अद्वितीयमेव ब्रह्म न द्वैता­द्वै­ता­त्म­क­मि­त्यु­प­पा­दि­त­मि­दानीं ब्रह्मणो द्वैता­द्वै­ता­त्म­क­त्वा­भ्यु­प­ग­मेऽपि विरोधो न शक्यते परिहर्तुमित्याह —
अथापीति ।
तुल्य­त्वा­त्त­द­भ्यु­प­गमो वृथेति शेषः ।

उक्तमेवोपपादयति —
यदाऽपीति ।

द्वैता­द्वै­ता­त्मकं ब्रह्मेति पक्षे कथं विरोधो न समाधीयते द्वैतमद्वैतं चाधिकृत्य काण्ड­द्व­य­प्रा­मा­ण्य­सं­भ­वा­दि­त्या­क्षि­पति —
कथमिति ।

किं ब्रह्मविषयः शास्त्रोपदेशः किं वाऽब्रह्मविषयः । प्रथमे द्वैता­द्वै­त­रू­प­स्यै­क­स्यैव ब्रह्म­णोऽ­भ्यु­प­ग­मा­त्तस्य च नित्य­मु­क्त­त्वा­न्नो­प­देशः संभवतीत्याह —
एकं हीति ।

तस्योपदेशाभावे हेत्वन्तरमाह —
न चेति ।
उपदेष्टा हि ब्रह्म­णोऽ­न्योऽ­नन्यो वा । नाऽऽद्योऽ­भ्यु­प­ग­म­वि­रो­धात् । न द्वितीयो भेद­म­न्त­रे­णो­प­दे­श्यो­प­दे­श­क­भा­वा­सं­भ­वा­दिति भावः ।

कल्पा­न्त­र­मु­त्था­प­यति —
अथेति ।

प्रति­ज्ञा­वि­रो­धेन निराकरोति —
तदेति ।

किञ्च सर्वस्य ब्रह्मरूपत्वे यः समु­द्र­दृ­ष्टान्तः स न स्यात्प­र­स्प­रो­प­दे­श­स्या­ब्र­ह्म­वि­ष­य­त्वा­दि­त्याह —
यस्मिन्निति ।

अथ यथा फेनादिविकाराणां भिन्नत्वेऽपि समु­द्रो­द­का­त्मत्वं तथा जीवादीनां भिन्नत्वेऽपि ब्रह्म­स्व­भा­व­वि­ज्ञा­नै­क्या­द्ब्रह्म सर्वमिति न विरुध्यते तत्राऽऽह —
न चेति ।
सर्वस्य ब्रह्म­त्व­म­ङ्गी­कृतं चेद्ब्रह्मविषय एवोपदेशः स्याद्भे­द­स्या­वि­चा­रि­त­र­म­णी­य­त्वा­दि­त्यर्थः ।

ननु नाना­रू­प­व­स्तु­स­मु­दायो ब्रह्म तत्र प्रदे­श­भे­दा­दु­प­दे­श्यो­प­दे­श­क­भावो ब्रह्म तु नोप­दे­श्य­मु­प­दे­शकं चेति तत्राऽऽह —
न हीति ।

तत्र हेतुमाह —
समुद्रेति ।
यथा समु­द्र­स्यो­द­का­त्मना फेनादिष्वेकत्वं तथा देव­द­त्त­क्षे­त्र­ज्ञस्य वागा­द्य­व­य­वे­ष्वे­क­त्वेन विज्ञा­न­व­त्त्वान्न व्यव­स्था­सं­भ­व­स्तथा ब्रह्मण्यपि द्रष्ट­व्य­मि­त्यर्थः ।

मता­न्त­र­नि­रा­क­र­ण­मु­प­सं­ह­रति —
तस्मादिति ।
आत्मै­क­र­स्य­प्र­ति­पा­दिका श्रुति­र्न्या­यश्च साव­य­व­स्या­ने­का­त्म­क­स्ये­त्या­दा­वुक्तः । अभि­प्रे­ता­र्था­सि­द्धि­र्भ­व­त्क­ल्प­ना­न­र्थक्यं चेत्यादिना दर्शिता । एव­ङ्क­ल्प­ना­या­मे­का­ने­का­त्मकं ब्रह्मे­त्य­भ्यु­प­ग­ता­वि­त्यर्थः ।

पर­की­य­व्या­ख्या­ना­सं­भवे फलितमाह —
तस्मादिति ।

ध्यान­शे­ष­त्वे­नो­प­नि­ष­दर्थं ब्रह्मानूद्य तद्विधानार्थं तस्मि­न्वि­नि­युक्तं मन्त्र­मु­त्था­प­यति —
ओं खमिति ।

इषे त्वेत्या­दि­व­त्तस्य कर्मान्तरे विनि­यु­क्त­त्व­मा­श­ङ्क्याऽऽह —
अयं चेति ।
विनि­यो­ज­का­भा­वा­दिति भावः ।

तर्हि ध्यानेऽपि नायं विनियुक्तो विनि­यो­ज­का­भा­वा­वि­शे­षा­दि­त्या­श­ङ्क्याऽऽह —
इहेति ।
खं पुराणमित्यादि ब्राह्मणं तस्य च विनियोजकत्वं ध्यान­स­म­वे­ता­र्थ­प्र­का­श­न­सा­म­र्थ्यात् । यद्यपि मन्त्रनिष्ठं सामर्थ्यं विनियोजकं तथाऽपि मन्त्र­ब्रा­ह्म­ण­यो­रे­का­र्थ­त्वा­द्ब्रा­ह्म­णस्य सामर्थ्यद्वारा विनि­यो­ज­क­त्व­म­वि­रु­द्ध­मिति भावः । अत्रेति मन्त्रोक्तिः ।

विशे­ष­ण­वि­शे­ष्यत्वे यथो­क्त­सा­मा­ना­धि­क­रण्यं हेतूकरोति —
विशेषणेति ।

ब्रह्मेत्युक्ते सत्या­का­ङ्क्षा­भा­वात्किं विशे­ष­णे­ने­त्या­श­ङ्क्याऽऽह —
ब्रह्मशब्द इति ।

निरुपाधिकस्य सोपाधिकस्य वा ब्रह्मणो विशेषणत्वेऽपि कथं तस्मि­न्नों­श­ब्द­प्र­वृ­त्ति­रि­त्या­श­ङ्क्याऽऽह —
यत्तदिति ।

किमिति यथोक्ते ब्रह्म­ण्यों­शब्दो मन्त्रे प्रयुज्यते तत्राऽऽह —
इह चेति ।

ओंशब्दो ब्रह्मोपासने साधनमित्यत्र मानमाह —
तथा चेति ।

सापेक्षं श्रैष्ठ्यं वारयति —
परमिति ।
आदिशब्देन प्रणवो धनुरित्यादि गृह्यते ।

ओं ब्रह्मेति सामा­ना­धि­क­र­ण्यो­प­दे­शस्य ब्रह्मोपासने साध­न­त्व­मो­ङ्का­र­स्ये­त्य­स्मा­द­र्था­न्त­रा­सं­भ­वाच्च तस्य तत्सा­धा­न­त्व­मे­ष्ट­व्य­मि­त्याह —
अन्यार्थेति ।

एतदेव प्रपञ्चयति —
यथेत्यादिना ।
अन्यत्रेति । तैत्ति­री­य­श्रु­ति­ग्र­ह­णम् । अपवर्गः स्वाध्या­या­व­सा­नम् ।

अर्था­न्त­रा­व­ग­ते­र­भावे फलितमाह —
तस्मादिति ।

ननु शब्दान्तरेष्वपि ब्रह्मवाचकेषु सत्सु किमित्योंशब्द एव ध्यान­सा­ध­न­त्वे­नो­प­दि­श्यते तत्राऽऽह —
यद्यपीति ।
नेदिष्ठं निकटतमं संप्रि­य­त­म­मि­त्यर्थः ।

प्रिय­त­म­त्व­प्र­युक्तं फलमाह —
अत एवेति ।

साध­न­त्वेऽ­वा­न्त­र­वि­शेषं दर्शयति —
तच्चेति ।

प्रतीकत्वेन कथं साधनत्वमिति पृच्छति —
प्रतीकत्वेनेति ।
कथमित्यध्याहारः ।

परिहरति —
यथेति ।

ओङ्कारो ब्रह्मेति प्रतिपत्तौ किं स्यात्तदाह —
तथा हीति ।

मन्त्रमेवं व्याख्याय ब्राह्मणमवतार्य व्याचष्टे —
तत्रेत्यादिना ।
मन्त्रः सप्तम्यर्थः ।

ननु यथोक्तं तत्त्वं स्वेनैव रूपेण प्रतिपत्तुं शक्यते किं प्रती­को­प­दे­शे­ने­त्या­श­ङ्क्याऽऽह —
यत्तदिति ।
भावविशेषो बुद्धे­र्वि­ष­य­पा­र­वश्यं परिहृत्य प्रत्य­ग्ब्र­ह्म­ज्ञा­ना­भि­मु­ख्यम् ।

ओङ्कारे ब्रह्मा­वे­श­न­मु­दा­ह­र­णेन द्रढयति —
यथेति ।

कल्पान्तरमाह —
वायुरमित्यादिना ।

किमिति सूत्रा­धि­क­र­ण­म­व्या­कृ­त­मा­का­श­मत्र गृह्यते तत्राऽऽह —
वायुरे हीति ।
तदेव भूताकाशात्मना विपरिणतमिति भावः ।

तर्हि पक्षद्वये संप्लवमाने कः सिद्धान्तः स्यादि­त्या­श­ङ्क्या­धि­का­रि­भे­द­मा­श्रि­त्याऽऽह —
तत्रेति ।

श्रुत्य­न्त­र­स्या­न्य­था­सि­द्धि­सं­भ­वा­दो­ङ्का­रस्य प्रतीकत्वेऽपि विप्र­ति­प­त्ति­मा­श­ङ्क्याऽऽह —
केवलमिति ।
इतरत्र विप्र­ति­प­त्ति­द्यो­त­का­भा­वा­दिति भावः ।

प्रती­क­प­क्ष­मु­प­पा­द्या­भि­धा­न­प­क्ष­मु­प­पा­द­यति —
वेदोऽयमिति ।

तदेव प्रपञ्चयति —
तेनेति ।
वेदेत्यत्राऽऽदौ तच्छब्दो द्रष्टव्यः ।

ब्राह्मणा विदुरिति विशेषनिर्देशस्य तात्पर्यमाह —
तस्मादिति ।

प्रतीकपक्षेऽपि वेदोऽ­य­मि­त्या­दि­ग्रन्थो निर्वहतीत्याह —
अथवेति ।

विध्यभावे कथमर्थवादः संभ­व­ती­त्या­शङ्क्य परिहरति —
कथमित्यादिना ।

वेदत्वेन स्तुति­मो­ङ्का­रस्य संग्र­ह­वि­व­र­णाभ्यां दर्शयति —
सर्वो हीति ।

ओङ्कारे सर्वस्य नाम­जा­त­स्या­न्त­र्भावे प्रमाणमाह —
तद्यथेति ।

तत्रैव हेत्व­न्त­र­म­व­तार्य व्याकरोति —
इतश्चेति ।
वेदितव्यं परमपरं वा ब्रह्म । ‘द्वे ब्रह्मणो वेदितव्ये’ इति श्रुत्यन्तरात् ।

तद्वे­द­न­सा­ध­न­त्वेऽपि कथमोङ्कारस्य वेद­त्व­मि­त्या­श­ङ्क्याऽऽह —
इतरस्यापीति ।
अत एव वेदि­त­व्य­वे­द­न­हे­तु­त्वा­दे­वे­त्यर्थः ।

प्रतीकपक्षे वाक्ययोजनां निगमयति —
तस्मादिति ।

अभिधानपक्षे प्रतीकपक्षे चैकं वाक्यमेकैकत्र योजयित्वा पक्षद्वयेऽपि साधारण्येन योजयति —
अथवेति ।

तस्य पूर्वोक्तनीत्या वेदत्वे लाभं दर्शयति —
तस्मिन्निति ।
ओङ्कारस्य ब्रह्मो­पा­स्ति­सा­ध­न­त्व­मित्थं सिद्ध­मि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।