आनन्दगिरिटीका (बृहदारण्यक)
पञ्चमोऽध्यायः: द्वादशं ब्राह्मणम्
ब्राह्मणान्तरं गृहीत्वा तात्पर्यमाह —
अन्नमिति ।
यथा पूर्वस्मिन्ब्राह्मणे फलवदब्रह्मोपासनमुक्तं तद्वदित्याह —
तथेति ।
एतदिति ब्रह्मविषयोक्तिः ।
उपास्यं ब्रह्म निर्धारयितुं विचारयति —
अन्नमित्यादिना ।
अन्नस्य विनाशित्वेऽपि ब्रह्मत्वं किं न स्यादत आह —
ब्रह्म हीति ।
कथमन्नं विना प्राणस्य शोषप्राप्तिस्तत्राऽऽह —
अत्ता हीति ।
प्रत्येकं नाशित्वमतःशब्दार्थः ।
किंस्विदित्यादिवाक्यस्यार्थं विवृणोति —
अन्नप्राणाविति ।
कस्त्विति प्रतीकमादाय व्याकरोति —
एनयोरिति ।
यद्येवमुक्तरीत्या परमत्वं यदि नास्तीत्यर्थः ।
उक्तमसंकीर्णं गुणद्वयं संक्षिप्याऽऽह —
सर्वभूतेति ।
अन्नगुणं विना प्राणगुणादेतद्व्यानं सिद्ध्यतीत्याशङ्क्याऽऽह —
न हीति ।
प्राणगुणस्याप्यन्नगुणत्वसंभवादलं प्राणेनेत्याशङ्क्याऽऽह —
नापीति ।
गुणद्वयस्य परस्परापेक्षामनुभवानुसारेण स्फोरयति —
यदा त्विति ।
आयतनवतो बलवतश्च कृतार्थतेत्यत्र तैत्तिरीयश्रुतिं संवादयति —
युवा स्यादिति ।
आशिष्ठो दृढिष्ठो बलिष्ठस्तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यादित्येतदादिशब्देन गृह्यते ॥१॥