आनन्दगिरिटीका (बृहदारण्यक)
तृतीयोऽध्यायः: अष्टमं ब्राह्मणम्
पूर्वस्मिन्ब्राह्मणे सूत्रान्तर्यामिणौ प्रश्नप्रत्युक्तिभ्यां निर्धारितौ संप्रत्युत्तरब्राह्मणतात्पर्यमाह —
अतः परमिति ।
सोपाधिकवस्तुनिर्धारणानन्तर्यमथशब्दार्थः ।
ननु यस्माद्भयाद्गार्गी पूर्वमुपरता तस्य तदवस्थत्वात्कथं पुनः सा प्रष्टुं प्रवर्तते तत्राऽऽह —
पूर्वमिति ।
हन्तेत्यस्यार्थमाह —
यदीति ।
न वै जात्विति प्रतीकमादाय व्याचष्टे —
कदाचिदित्यादिना ।
अन्वयं दर्शयितुं कश्चिदिति पुनरुक्तिः ॥१॥
सन्धीयते स उच्यत इति शेषः । प्रश्नयोरवश्यप्रत्युत्तरणीयत्वे ब्रह्मिष्ठत्वाङ्गीकारो हेतुरित्याह —
ब्रह्मविच्चेदिति ॥२॥
सूत्रस्याऽऽधारे प्रष्टव्ये किमिति सर्वं जगदनूद्यते तत्राऽऽह —
तत्सर्वमिति ।
पूर्वोक्तं सर्वजगदात्मकमिति यावत् ॥३॥
यथाप्रश्नमनूद्य प्रत्युक्तिमादत्ते —
स होवाचेति ।
तां व्याचष्टे —
यदेतदिति ।
यज्जगद्व्याकृतं सूत्रात्मकमेतदव्याकृताकाशे वर्तत , इति संबन्धः ।
त्रिष्वपि कालेष्विति यदुक्तं तद्व्यनक्ति —
उत्पत्ताविति ॥४॥५॥
वक्ष्यमाणं वाक्यमन्यदित्युच्यते । तदेव प्रश्नप्रतिवचनरूपमनुवदति —
सा हेति ।
पुनरुक्तेरकिञ्चित्करत्वं व्यावर्तयति —
उक्तस्यैवेति ॥६॥
प्रतिवचनानुवादतात्पर्यमाह —
गार्ग्येति ।
प्रश्नाभिप्रायं प्रकटयति —
आकाशमेवेति ॥७॥
अप्रतिपत्तिर्विप्रतिपत्तिश्चेति दोषद्वयं सामान्येनोक्तं विशेषतो ज्ञातुं पृच्छति —
किं तदिति ।
अस्थूलादिवाक्यमवतार्य व्याकरोति —
एवमित्यादिना ।
‘यदग्ने रोहितं रूपम्’ इत्यादिश्रुतिमाश्रित्याऽऽह —
आग्नेय इति ।
अवायुविशेषणेनाप्राणाविशेषणस्य पुनरुक्तिमाशङ्क्याऽऽह —
आध्यात्मिक इति ।
अमात्रमिति मानमेयान्वयो निराक्रियते । तस्येत्यात्मोक्तिः ।
संपिण्डितमर्थमाह —
सर्वेति ।
तदुपपादयति —
एकमिति ॥८॥
अथ यथोक्तया नीत्या श्रुत्यैवाक्षरास्तित्वे ज्ञापिते वक्तव्याभावात्किमुत्तरेण ग्रन्थेनेति तत्राऽऽह —
अनेकेति ।
यदस्ति तत्सविशेषणमेवेति लौकिकी बुद्धिः । आशङ्क्यते नास्त्यक्षरं निर्विशेषणमिति शेषः । अन्तर्यामिणि जगत्कारणे परस्मिन्ननुमानसिद्धे विवक्षितं निरुपाध्यक्षरं सेत्स्यति जगत्कारणत्वस्योपलक्षणतया जन्मादिसूत्रे स्थितत्वादुपलक्षणद्वारा ब्रह्मणि स्वरूपलक्षणप्रवृत्तेरन्तर्यामिण्यनुमा प्रकृतोपयुक्तेति भावः ।
अनुमानश्रुत्यक्षराणि व्याकरोति —
यदेतदिति ।
प्रशासने सूर्याचन्द्रमसौ विधृतौ स्यातामिति संबन्धः ।
उक्तमर्थं दृष्टान्तेन स्फोरयति —
यथेति ।
अत्रापि पूर्ववदन्वयः । जगद्व्यवस्था प्रशासितृपूर्विका व्यवस्थात्वाद्राज्यव्यवस्थावदित्यर्थः ।
सूर्याचन्द्रमसावित्यादौ विवक्षितमनुमानमाह —
सूर्यश्चेत्यादिना ।
तादर्थ्येन लोकप्रकाशार्थत्वेन । प्रशासित्रा निर्मिताविति संबन्धः ।
निर्मातुर्विशिष्टविज्ञानवत्त्वमाचष्टे —
ताभ्यां निर्वर्त्यमानेति ।
सूर्यचन्द्रमसौ तच्छब्दवाच्यौ । विमतौ विशिष्टविज्ञानवता निर्मितौ प्रकाशत्वात्प्रदीपवदित्यर्थः ।
विमतौ नियन्तृपूर्वकौ विशिष्टचेष्टावत्त्वाद्भृत्यादिवदित्यभिप्रेत्याऽऽह —
विधृताविति ।
प्रकाशोपकारकत्वं तज्जनकत्वं निर्मातुर्विशिष्टविज्ञानसंभावनार्थं साधारणेति विशेषणं साधारणः सर्वेषां प्राणिनां यः प्रकाशस्तस्य जनकत्वादिति यावत् । दृष्टान्ते लौकिकविशेषणं प्रासादादिविशिष्टदेशनिविष्टत्वसिद्ध्यर्थम् ।
अनुमानफलमुपसंहरति —
तस्मादिति ।
विशिष्टचेष्टावत्त्वादित्युपदिष्टं हेतुं स्पष्टयति —
नियतेति ।
नियतौ देशकालौ नियतं च निमित्तं प्राण्यदृष्टं तद्वन्तौ सूर्याचन्द्रमसावुद्यन्तावस्तं यन्तौ च येन विधृतावुदयास्तमयाभ्यां वृद्धिक्षयाभ्यां च वर्तेते । उदयश्चास्तमयश्चोदयास्तमयं वृद्धिश्च क्षयश्च वृद्धिक्षयमिति द्वन्द्वं गृहीत्वा द्विवचनम् । एवं कर्तृत्वेन विधारयितृत्वेन चेत्यर्थः ।
विमते प्रयत्नवता विधृते सावयवत्वेऽप्यस्फुटितत्वाद्गुरुत्वेऽप्यपतितत्वात्संयुक्तत्वेऽप्यवियुक्तत्वाच्चेतनावत्त्वेऽप्यस्वतन्त्रत्वाच्च हस्तन्यस्तपाषाणादिवदिति द्वितीयपर्यायस्य तात्पर्यमाह —
सावयवत्त्वादित्यादिना ।
किमित्येतस्य प्रशासने द्यावापृथिव्यौ वर्तेते तत्राऽऽह —
एतद्धीति ।
पृथिव्यादिव्यवस्था नियन्तारं विनाऽनुपपन्ना तत्कल्पिकेत्यर्थः ।
तथाऽपि किमित्येतेन विधृते द्यावापृथिव्याविति तत्राऽऽह —
सर्वमर्यादेति ।
‘एष सेतुर्विधरणः’ इति श्रुत्यन्तरमाश्रित्य फलितमाह —
अतोनास्येति ।
द्वितीयपर्यायार्थमुपसंहरति —
तस्मादिति ।
तच्छब्दोपात्तमर्थं स्फोरयति —
अव्यभिचारीति ।
अव्यभिचारित्वं प्रकटयति —
चेतनावन्तमिति ।
पृथिव्यादेर्नियतत्वमेतच्छब्दार्थः ।
नियन्तृसिद्धावपि कथमीश्वरसिद्धिरित्याशङ्क्याऽऽह —
येनेति ।
उग्रत्वं पृथिव्यादेश्चेतनावदभिमानिदेवतावत्त्वेन स्वातन्त्र्यम् । ‘येन स्वस्तभितं येन नाको यो अन्तरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम’ इत्यत्र हिरण्यगर्भाधिष्ठातेश्वरः पृथिव्यादेर्नियन्तोच्यते । न हि हिरण्यगर्भमात्रस्यास्मिन्प्रकरणे पूर्वापरग्रन्थयोरुच्यमानं निरङ्कुशं सर्वनियन्तृत्वं संभवतीति भावः । एते कालावयवा विधृतास्तिष्ठन्तीति संबन्धः ।
तत्रानुमानं वक्तुं हेतुमाह —
सर्वस्येति ।
यः कलयिता स नियन्तृपूर्वक इति व्याप्तिभूमिमाह —
यथेति ।
दार्ष्टान्तिकं दर्शयन्ननुमानमाह —
तथेति ।
निमेषादयो नियन्तृपूर्वकाः कलयितृत्वात्संप्रतिपन्नवदित्यर्थः ।
कास्ता नद्य इत्यपेक्षायामाह —
गङ्गाद्या इति ।
अन्यथा प्रवर्तितुमुत्सहमानत्वं तत्तद्देवतानां चेतनत्वेन स्वातन्त्र्यम् । विमता नियन्तृपूर्विका नियतप्रवृत्तित्वाद्धृत्यादिप्रवृत्तिवदिति चतुर्थपर्यायार्थः । नियतप्रवृत्तिमत्त्वं तदेतदित्युच्यते । तच्चेत्यव्यभिचारितोक्तिः ।
विमतं विशिष्टज्ञानवद्दातृकं कर्मफलत्वात्सेवाफलवदित्यभिप्रेत्य पञ्चमं पर्यायमुत्थापयति —
किं चेति ।
दाता प्रतिग्रहीता दानं देयं वा फलं दास्यति किमीश्वरेणेत्याशङ्क्याऽऽह —
तत्रेति ।
दात्रादीनामिहैव प्रत्यक्षो नाशो दृश्यते तेन तत्प्रयुक्तो दृष्टः । पुरुषार्थो न कश्चिदस्तीत्यर्थः ।
अदृष्टं पुरुषार्थं प्रत्याह —
अदृष्टस्त्विति ।
समागमः फलप्रतिलाभः स खल्वैहिको न भवति किन्तु पारलौकिकस्तथा च नासाविहैव नष्टदात्रादिप्रयुक्तः संभवतीत्यर्थः ।
तर्हि फलदातुरभावात्स्वार्थभ्रंशो हि मूर्खतेति न्यायाद्दातृप्रशंसैव मा भूदित्याशङ्क्याऽऽह —
तथाऽपीति ।
फलसंयोगदृष्टौ हेतुमाह —
प्रमाणज्ञतयेति ।
‘हिरण्यदा अमृतत्वं भजन्ते’ इत्यादि प्रमाणम् ।
तथाऽपि कथमीश्वरसिद्धिस्तत्राऽऽह —
कर्तुरिति ।
तद्धि दातृप्रशंसनं विशिष्टे नियन्तर्यसत्यनुपपन्नं तत्कल्पकमित्यर्थः ।
दानक्रियावशादेव तत्फलसिद्धौ कृतं नियन्त्रेति चेन्नेत्याह —
दानेति ।
कर्मणः क्षणिकत्वात्फलस्य च कालान्तरभावित्वान्न साधनत्वोपपत्तिरित्यर्थः ।
अनुमानार्थापत्तिभ्यां सिद्धमर्थमुपसंहरति —
तस्मादिति ।
अपूर्वस्यैव फलदातृत्वात्कृतमीश्वरेणेति शङ्कते —
अपूर्वमिति चेदिति ।
स्वयमचेतनं चेतनानधिष्ठितं चापूर्वं फलदातृ न कल्प्यमप्रामाणिकत्वादिति परिहरति —
नेति ।
ईश्वरद्वेषी शङ्कते —
प्रशास्तुरिति ।
सद्भावे प्रमाणानुपपत्तिरिति शेषः ।
परिहरति —
नाऽऽगमेति ।
कथं कार्यपरस्याऽऽगमस्य वस्तुपरत्वमित्याशङ्क्याऽऽह —
अवोचामेति ।
कर्मविधिर्हि फलदात्रतिरेकेण नोपपद्यते न च कर्माऽऽशुतरविनाशि कालान्तरभाविफलानुकूलं तदर्थापत्तिसिद्धेऽपूर्वे कथं मानासिद्धिरित्याशङ्क्याऽऽह —
किञ्चेति ।
न केवलं सद्भावे प्रमाणासत्त्वमेवापूर्वे दूषणं किन्त्वन्यच्च किञ्चिदस्तीति यावत् ।
तदेव प्रकटयति —
अपूर्वेति ।
अपूर्वस्य कल्पनायां याऽर्थापत्तिः शङ्क्यते तस्याः कल्पितमपूर्वमन्तरेणाप्युपपत्तेः क्षयः स्यादिति योजना ।
अन्यथाऽप्युपपत्तिं विवृणोति —
सेवेति ।
यागादिफलमपीश्वरात्संभवतीति शेषः ।
कथमीश्वराधीना यागादिफलप्राप्तिस्तत्राऽऽह —
सेवायाश्चेति ।
आदिपदेनेन्द्रादिदेवता गृह्यन्ते । विमता विशिष्टज्ञानवता दीयमानफलवती विशिष्टक्रियात्वात्संप्रतिपन्नवदिति भावः ।
इतश्चापूर्वकल्पना न युक्तेत्याह —
दृष्टेति ।
दृष्टं सेवाया धर्मत्वेन सामर्थ्यं सेव्यात्फलप्रापकत्वं तदनुसृत्य दानादौ फलप्राप्तिसंभवे तन्निरासेनापूर्वात्तत्कल्पना न न्याय्या दृष्टानुसारिण्यां कल्पनायां तद्विरोधिकल्पनायोगादित्यर्थः ।
अपूर्वस्य फलहेतुत्वे दोषान्तरमाह —
कल्पनेति ।
तदाधिक्यं वक्तुं परामृशति —
ईश्वर इति ।
नापूर्वं कल्प्यं क्लृप्तत्वात्तन्न कल्पनाधिक्यमित्याशङ्क्याऽऽह —
तत्रेति ।
व्यवहारभूमिः सप्तम्यर्थः ।
भूमिकां कृत्वा कल्पनाधिक्यं स्फुटयति —
तत्रेत्यादिना ।
अपूर्वस्यादृष्टत्वे सतीति यावत् । इति कल्पनाधिक्यमिति शेषः ।
त्वन्मतेऽपि तुल्या कल्पनेत्याशङ्क्याऽऽह —
इह त्विति ।
स्वपक्षे धर्मिमात्रं कल्प्यं परपक्षे धर्मी धर्मश्चेत्याधिक्यं तस्मात्फलमत उपपत्तेरिति न्यायेन परस्यैव फलदातृतेति भावः ।
धर्मिणोऽपि प्रामाणिकत्वं न कल्प्यत्वमित्यभिप्रेत्याऽऽह —
अनुमानं चेति ।
ईश्वरास्तित्वे हेत्वन्तरमाह —
तथा चेति ।
देवा यजमानमन्वायत्ता इति संबन्धः । जीवनार्थे जीवनं निमित्तीकृत्येति यावत् । देवानामीश्वराणामपि हव्यर्थित्वेन मनुष्याधीनत्वाख्यहीनवृत्तिभाक्त्वं नियन्तृकल्पकमित्यर्थः । यो न कस्यचित्प्रकृतित्वेन विकृतित्वेन वा वर्तते स दर्वीहोमः ॥९॥
ईश्वरास्तित्वे हेत्वन्तरमाह —
इतश्चेति ।
मोक्षहेतुज्ञानविषयत्वेनापि तदस्तीत्याह —
भवितव्यमिति ।
‘यदज्ञानात्प्रवृत्तिर्या तज्ज्ञानात्सा निवर्तते’ इति न्यायः ।
कर्मवशादेव मोक्षसिद्धेस्तद्धेतुज्ञानविषयत्वेनाक्षरं नाभ्युपेयमिति शङ्कते —
नन्विति ।
उत्तरवाक्येनोत्तरमाह —
नेत्यादिना ।
यस्याज्ञानादसकृदनुष्ठितानि विशिष्टफलान्यपि सर्वाणि कर्माणि संसारमेव फलयन्ति तदज्ञातमक्षरं नास्तीत्ययुक्तं संसाराभावप्रसंगादिति भावः ।
अक्षरास्तित्वे हेत्वन्तरमाह —
अपि चेति ।
पूर्ववाक्यं जीवदवस्थपुरुषविषयमिदं तु परलोकविषयमिति विशेषं मत्वोत्तरवाक्यमवतार्य व्याचष्टे —
तदेतदित्यादिना ॥१०॥
प्रधानवादिनः शङ्कामनूद्योत्तरवाक्येन निराकरोति —
अग्नेरित्यादिना ।
इतश्चाक्षरस्य नाचेतनत्वमित्याह —
किञ्चेति ।
नास्तीत्यन्वयप्रदर्शनम् ।
अतोऽन्यदिति विशेषणसिद्धमर्थमाह —
एतदिति ।
अन्यद्वा पूर्वोक्तमव्याकृतादिपृथिव्यन्तं निगमनवाक्यमुदाहृत्य तस्य तात्पर्यमाह —
एतस्मिन्निति ।
परा काष्ठा परं पर्यवसानं नास्मादुपरिष्टादधिष्ठानं किञ्चिदस्तीत्यर्थः ।
तस्यैव परमपुरुषार्थत्वमाह —
एषेति ।
‘पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः’(क. उ. १ । ३ । ११) इति हि श्रुत्यन्तरम् ।
ब्रह्मास्मादक्षरादन्यदस्तीति चेन्नेत्याह —
एतदिति ।
ननु चतुर्थे सत्यस्य सत्यं ब्रह्म व्याख्यातमक्षरं तु नैवमिति चेत्तत्राऽऽह —
एतत्पृथिव्यादेरिति ॥११॥
किं तद्वचनं तदाह —
तदेवेति ।
बहुमानविषयभूतं वस्तु पृच्छति —
किं तदिति ।
यदादौ मदीयं वचनं तदेव बहुमानयोग्यमित्याह —
यदिति ।
तद्व्याकरोति —
अस्मा इति ।
नमस्कारं कृत्वाऽस्मादनुज्ञां प्राप्येति शेषः । तदेवेति प्राथमिकवचनोक्तिः ।
किमिति त्वदीयं पूर्वं वचो बहु मन्यामहे जेतुं पुनरिममाशास्महे नेत्याह —
जयस्त्विति ।
तत्र प्रश्नपूर्वकं पूर्वोक्तमेव बहुमानविषयभूतं वाक्यमवतार्य व्याचष्टे —
कस्मादित्यादिना ।
पराजिताया गार्ग्या वचो नोपादेयमित्याशङ्क्याऽऽह —
प्रश्नौ चेदिति ।
ततश्च प्रश्ननिर्णयाद्याज्ञवल्क्यस्याप्रकम्प्यत्वं प्रतिपाद्य ब्राह्मणान्प्रति हितं चोक्त्वेत्यर्थः ।
अन्तर्यामी क्षेत्रज्ञोऽक्षरमित्येतेषामवान्तरविशेषप्रदर्शनार्थं प्रकृतत्वं दर्शयति —
अत्रान्तर्यामीति ।
तत्रान्तर्यामिणः प्रकृतत्वं प्रकटयति —
यमिति ।
क्षेत्रज्ञस्य प्रकृतत्वं स्फुटयति —
ये चेति ।
अक्षरस्य प्रस्तुतत्वं प्रत्याययति —
यच्चेति ।
सर्वेषां विषयाणां दर्शनश्रवणादिक्रियाकर्तृत्वेन चेतनाधातुरिति यत्तदक्षरमुक्तमित्यन्वयः ।
तेषु विचारमवतारयति —
कस्त्विति ।
तस्मिन्विचारे स्वयूथ्यमतमुत्थापयति —
तत्रेति ।
क्षेत्रज्ञस्याप्रस्तुतत्वशङ्कां वारयति —
यस्तमिति ।
यथा परस्याऽऽत्मनोऽन्तर्यामी जीवश्चेत्यवस्थे द्वे कल्प्येते तथा तस्यैवान्याः पञ्चावस्थाः पिण्डो जातिर्विराट् सूत्रं दैवमित्येवंलक्षणा महाभूतसंस्थानभेदेन कल्पयन्तीत्याह —
तथेति ।
उक्तरीत्या कल्पनायां पिण्डो जातिर्विराट् सूत्रं दैवमव्याकृतं साक्षी क्षेत्रज्ञश्चेत्यष्टावस्था ब्रह्मणो भवन्तीति वदन्तः परिकल्पयन्तीति संबन्धः ।
अवस्थापक्षमुक्त्वा शक्तिपक्षमाह —
अन्य इति ।
तुशब्देनावयवपक्षं दर्शयन्विकारपक्षं निक्षिपति —
अन्ये त्विति ।
तत्र पक्षद्वयं प्रत्याह —
अवस्थेति ।
अन्तर्यामिप्रभृतीनामिति शेषः ।
तस्य सांसारिकधर्मातीतत्वश्रुतावपि कथमवस्थावत्त्वं शक्तिमत्त्वं वा न सिध्यतीत्याशङ्क्याऽऽह —
न हीति ।
अवशिष्टपक्षद्वयनिराकरणं प्रागेव प्रवृत्तं स्मारयति —
विकारेति ।
परपक्षनिराकरणमुपसंहरति —
तस्मादिति ।
परकीयकल्पनासंभवे पृच्छति —
कस्तर्हीति ।
उत्तरमाह —
उपाधीति ।
आत्मनि स्वतो विशेषाभावे हेतुमाह —
सैन्धवेति ।
तत्रैव हेत्वन्तरमाह —
अपूर्वमिति ।
बाह्यं कार्यमाभ्यन्तरं कारणं ताभ्यां कल्पिताभ्यां सहाधिष्ठानत्वेन सत्तास्फूर्तिप्रदतया वर्तते ब्रह्म स्वभावतस्तु जन्मादिसर्वविक्रियाशून्यं कूटस्थं तदित्याथर्वणश्रुतेरर्थः ।
आत्मानि स्वतो विशेषानवगमे फलितमाह —
तस्मादिति ।
निरुपाख्यत्वं वाचां मनसां चागोचरत्वम् । तत्र निर्विशेषत्वमेकत्वं च हेतुः । निरुपाधिकस्येति निर्विशेषत्वं साधयितुमुक्तम् । तत्र च वीप्सावाक्यं प्रमाणं कृतम् ।
कथं पुनरेवंविधस्य वस्तुनः संसारित्वं तदाह —
अविद्येति ।
तैर्विशिष्टं यत्कार्यकरणं तेनोपाधिनोपहितः परमात्मा जीवस्संसारीति च व्यपदेशभाग्भवतीत्यर्थः ।
तथाऽपि कथं तस्यान्तर्यामित्वं तदाह —
नित्येति ।
नित्यं निरतिशयं सर्वत्राप्रतिबद्धं ज्ञानं तस्मिन्सत्त्वपरिणामे सत्त्वप्रधाना मायाशक्तिरुपाधिस्तेन विशिष्टः सन्नात्मेश्वरोऽन्तर्यामीति चोच्यत इत्यर्थः ।
कथं तर्हि तस्मिन्नक्षरशब्दप्रवृत्तिस्तत्राऽऽह —
स एवेति ।
निरुपाधित्वं शुद्धत्वे हेतुः । केवलत्वमद्वितीयत्वम् ।
तथाऽपि कथं तत्र हिरण्यगर्भादिशब्दप्रत्ययावित्याशङ्क्याऽऽह —
तथेति ।
यथैकस्मिन्नेव परस्मिन्नात्मनि कल्पितोपाधिप्रयुक्तं नानात्वं तथा तदेजति तन्नैजतीत्यादि वाक्यमाश्रित्य प्रागेवोक्तमित्याह —
तथेति ।
कल्पनया परस्य नानात्वं वस्तुतस्त्वैकरस्यमित्यत्र श्रुतीरुदाहरति —
तथेत्यादिना ।
अवस्थाशक्तिविकारावयवपक्षेष्वपि यथोक्तश्रुतीनामुपपत्तिमाशङ्क्याऽऽह —
कल्पनान्तरेष्विति ।
औपाधिकोऽन्तर्याम्यादिभेदो न स्वाभाविक इत्युपसंहरति —
तस्मादिति ।
स्वतो वस्तुनि नास्ति भेदः किन्त्वैकरस्यमेवेत्यत्र हेतुमाह —
एकमिति ॥१२॥