अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: नवमं ब्राह्मणम्

ब्राह्म­णा­न्त­र­म­नूद्य तस्य तात्पर्यमाह —
अयमिति ।
अन्नपानस्य पक्ता ।

तत्सद्भावे मानमाह —
तस्येति ।
क्रियायाः श्रवणस्य तदिति विशेषणं तद्यथा भवति तथेत्यर्थः ।

कौक्षे­या­ग्न्यु­पा­धि­कस्य परस्योपासने प्रस्तुते सतीत्याह —
तत्रेति ॥१॥