अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: एकादशं ब्राह्मणम्

ब्रह्मो­पा­स­न­प्र­सं­गेन फल­व­द­ब्र­ह्मो­पा­स­न­मु­प­न्य­स्यति —
एतदिति ।

यद्व्याहित इति प्रतीकमादाय व्याचष्टे —
ज्वरादीति ।
कर्म­क्ष­य­हे­तु­रि­त्यत्र कर्मशब्देन पापमुच्यते । परमं हैव लोकमित्यत्र तपसोऽनुकूलं फलं लोकशब्दार्थः ।

अस्तु ग्रामादरण्यगमनं तथाऽपि कथं तप­स्त्व­मि­त्या­श­ङ्क्याऽऽह —
ग्रामादिति ॥१॥