आनन्दगिरिटीका (बृहदारण्यक)
षष्ठोऽध्यायः: प्रथमं ब्राह्मणम्
ओङ्कारो दमादित्रयं ब्रह्माब्रह्मोपासनानि तत्फलं तदर्था गतिरादित्याद्युपस्थानमित्येषोऽर्थः सप्तमे निवृत्तः । संप्रति प्राधान्येनाब्रह्मोपासनं सफलं श्रीमन्थादिकर्म च वक्तव्यमित्यष्टममध्यायमारभमाणो ब्राह्मणसंगतिमाह —
प्राण इति ।
तस्मात्प्राणो गायत्रीति युक्तमुक्तमिति शेषः ।
प्राणस्य ज्येष्ठत्वादि नाद्यापि निर्धारितमिति शङ्कित्वा परिहरति —
कथमित्यादिना ।
प्रकारान्तरेण पूर्वोत्तरग्रन्थसंगतिमाह —
अथवेति ।
आदिशब्दादन्नवैशिष्ट्यादिनिर्देशः । तत्रेति प्राणस्यैव विशिष्टगुणकस्योपास्यत्वोक्तिः । हेतुर्ज्येष्ठत्वादिस्तन्मात्रमिहानन्तरग्रन्थे कथ्यत इति शेषः ।
तदेवं पूर्वग्रन्थस्य हेतुमत्त्वादुत्तरस्य च हेतुत्वादानन्तर्येण पौर्वापर्येण पूर्वग्रन्थेन सहोत्तरग्रन्थजातं संबध्यत इति फलितमाह —
आनन्तर्येणेति ।
वक्ष्यमाणप्राणोपासनस्य पूर्वोक्तोक्थाद्युपास्तिशेषत्वमाशङ्क्य गुणभेदात्फलभेदाच्च नैवमित्यभिप्रेत्याऽऽह —
न पुनरिति ।
किमिति प्राणोपासनमिह स्वतन्त्रमुपदिश्यते तत्राऽऽह —
खिलत्वादिति ।
इतिशब्दो ब्राह्मणारम्भोपसंहारार्थः ।
एवं ब्राह्मणारम्भं प्रतिपाद्याक्षराणि व्याचष्टे —
यः कश्चिदित्यादिना ।
यच्छब्दस्य पुनरुपादानमन्वयार्थम् ।
निपातयोरर्थमवधारणमेव प्रागुक्तं प्रकटयति —
भवत्येवेति ।
प्रश्नाय कोऽसौ ज्येष्ठश्च श्रेष्ठश्चेति प्रश्नस्तदर्थमिति यावत् ।
प्राणस्य ज्येष्ठत्वादिकमाक्षिपति —
कथमिति ।
तत्र हेतुमाह —
यस्मादिति ।
तस्माज्ज्येष्ठत्वादिकं तुल्यमेवेति शेषः ।
संबन्धाविशेषमङ्गीकृत्य ज्येष्ठत्वं प्राणस्य साधयति —
तथाऽपीति ।
उक्तमेव समर्थयते —
निषेककालादिति ।
तत्रापि विप्रतिपन्नं प्रत्याह —
प्राणे हीति ।
ज्येष्ठत्वेनैव श्रेष्ठत्वे सिद्धे किमिति पुनरुक्तिरित्याशङ्क्याऽऽह —
भवति त्विति ।
ज्येष्ठत्वे सत्यपि श्रेष्ठत्वाभावमुक्त्वा तस्मिन्सत्यपि ज्येष्ठत्वाभावमाह —
मध्यम इति ।
इहेति प्राणोक्तिः ।
प्राणश्रेष्ठत्वे प्रमाणाभावमाशङ्क्य प्रत्याह —
कथमित्यादिना ।
पूर्वोक्तमुपास्तिफलमुपसंहरति —
सर्वथाऽपीति ।
आरोपेणानारोपेण वेत्यर्थः ।
ज्येष्ठस्य विद्याफलत्त्वमाक्षिपति —
नन्विति ।
तस्य विद्याफलत्वं साधयति —
उच्यत इति ।
इच्छातो ज्यैष्ठ्यं दुःसाध्यमिति दोषस्यासत्त्वमाह —
नेति ।
तत्र हेतुमाह —
प्राणवदिति ।
यथा प्राणकृताशनादिप्रयुक्तश्चक्षुरादीनां वृत्तिलाभस्तथा प्राणोपासकाधीनं जीवनमन्येषां स्वानां च भवतीति प्राणदर्शिनो ज्येष्ठत्वं न वयोनिबन्धनमित्यर्थः ॥१॥
वसिष्ठत्वमपि प्राणस्यैवेति वक्तुमुत्तरवाक्यमुत्थाप्य व्याचष्टे —
यो हेत्यादिना ।
फलेन प्रलोभितं शिष्यं प्रश्नाभिमुखं प्रत्याह —
उच्यतामित्यादिना ।
वाचो वसिष्ठत्वं द्विधा प्रतिजानीते —
वासयतीति ।
वासयत्यतिशयेनेत्युक्तं विशदयति —
वाग्ग्मिनो हीति ।
वासयन्ति चेति द्रष्टव्यम् ।
वस्ते वेत्युक्तं स्फुटयति —
आच्छादनार्थस्य वेति ।
आच्छादनार्थत्वमनुभवेन साधयति —
अभिभवन्तीति ।
उक्तमुपास्तिफलं निगमयति —
तेनेति ॥२॥
गुणान्तरं वक्तुं वाक्यान्तरमादाय व्याचष्टे —
यो ह वा इति ।
समे प्रतिष्ठा विद्यां विनाऽपि स्यादित्याशङ्क्याऽऽह —
तथेति ।
विषमे च प्रतितिष्ठतीति संबन्धः ।
विषमशव्दस्यार्थमाह —
दुर्गमने चेति ।
इदानीं प्रश्नपूर्वकं प्रतिष्ठां दर्शयति —
यद्येवमिति ।
प्रतिष्ठात्वं चक्षुषो व्युत्पादयति —
कथमित्यादिना ।
विद्याफलं निगमयति —
अत इति ।३॥
वाक्यान्तरमादाय विभजते —
यो ह वै संपदमिति ।
प्रश्नपूर्वकं संपदुत्पत्तिवाक्यमुपादत्ते —
किं पुनरिति ।
श्रोत्रस्य संपद्गुणत्वं व्युत्पादयति —
कथमिति ।
अध्येयत्वमध्ययनार्हत्वम् ।
तथाऽपि कथं श्रोत्रं संपद्गुणकमित्याशङ्क्याऽऽह —
वेदेति ।
पूर्वोक्तं फलमुपसंहरति —
अत इति ॥४॥
वाक्यान्तरमादाय विभजते —
यो ह वा आयतनमिति ।
सामान्येनोक्तमायतनं प्रश्नपूर्वकं विशदयति —
किं पुनरिति ।
मनसो विषयाश्रयत्वं विशदयति —
मन इति ।
इन्द्रियाश्रयत्वं तस्य स्पष्टयति —
मनःसंकल्पेति ।
पूर्ववत्फलं निगमयति —
अत इति ॥५॥
गुणान्तरं वक्तुं वाक्यान्तरं गृहीत्वा तदक्षराणि व्याकरोति —
यो हेत्यादिना ।
वागादीन्द्रियाणि तत्तद्गुणविशिष्टानि शिष्ट्वा रेतो विशिष्टगुणमाचक्षाणस्य प्रकरणविरोधः स्यादित्याशङ्क्याऽऽह —
रेतसेति ।
विद्याफलमुपसंहरति —
तद्विज्ञानेति ॥६॥
उक्ता वसिष्ठत्वादिगुणा न वागादिगामिनः किन्तु मुख्यप्राणगता एवेति दर्शयितुमाख्यायिकां करोति —
ते हेत्यादिना ।
ईयसुन्प्रयोगस्य तात्पर्यमाह —
शरीरं हीति ।
किमिति शरीरस्य पापीयस्त्वमुच्यते तदाह —
वैराग्यार्थमिति ।
शरीरे वैराग्योत्पादनद्वारा तस्मिन्नहंममाभिमानपरिहारार्थमित्यर्थः । वसिष्ठो भवतीत्युक्तवानिति संबन्धः ।
किमिति साक्षादेव मुख्यं प्राणं वसिष्ठत्वादिगुणं नोक्तवान्प्रजापतिः स हि सर्वज्ञ इत्याशङ्क्याह —
जानन्नपीति ॥७॥
वाग्घोच्चक्रामेत्यादेस्तात्पर्यमाह —
त एवमिति ।
उक्तेऽर्थे श्रुत्यक्षराणि व्याचष्टे —
तत्रेत्यादिना ।
कार्याकार्यादिविषयमित्यादिशब्देनोपेक्षणीयसंग्रहः ।
चक्षुरादिभिर्दत्तोत्तरा पुनर्वाक्किमकरोदिति तत्राऽऽह —
आत्मन इति ॥८–१२॥
वागादिप्रकरणविच्छेदार्थोऽथशब्दः । उत्क्रमणं करिष्यन्यदा भवतीति शेषः ।
उक्तमर्थं दृष्टान्तेन स्पष्टयन्नुत्तरवाक्यमवतारयति —
किमिवेत्यादिना ।
प्राणस्य श्रेष्ठत्वं वागादिभिर्निर्धारितमित्याह —
ते वागादय इति ।
तर्हि तत्फलेन भवितव्यमित्याह —
यद्येवमिति ।
यथोक्तस्य प्राणसंवादस्य काल्पनिकत्वं दर्शयति —
अयं चेति ।
कल्पनाफलं सूचयति —
विदुष इति ।
तदेव स्पष्टयति अनेन हीति ।
उपास्यपरीक्षणप्रकारो विवक्षितश्चेत्किं संवादेनेत्याशङ्क्याऽऽह —
स एष इति ।
संवादस्य मुख्यार्थत्वादकल्पितत्वमाशङ्क्याऽऽह —
न हीति ।
संवादस्य कल्पितत्वे फलितमाह —
तस्मादिति ।
एवं प्राणसंवादस्य तात्पर्यमुक्त्वा प्रकृतामक्षरव्याख्यामेवानुवर्तयति —
बलिमिति ॥१३॥
सा ह वागिति प्रतीकमादाय व्याचष्टे —
प्रथममिति ।
तेन वसिष्ठगुणेन त्वमेव वसिष्ठोऽसि तथा च तद्वसिष्ठत्वं तवैवेति योजना ।
बलिदानमङ्गीकृत्यान्नवाससी पृच्छसि —
यद्येवमित्यादिना ।
एवङ्गुणविशिष्टस्य ज्येष्ठत्वश्रेष्ठत्ववसिष्ठत्वादिसंबद्धस्येत्यर्थः ।
यदिदमित्यादि वाक्यं व्याचष्टे —
यदिदमिति ।
प्रकृतेन शुनामन्नेन कीटादीनां चान्नेन सहयत्किञ्चित्कृम्यन्नं दृश्यते तत्सर्वमेव तवान्नमिति योजना ।
तदेव स्फुटयति —
यत्किञ्चिदिति ।
पदार्थमुक्त्वा वाक्यार्थं कथयति —
सर्वमिति ।
अस्मिन्नेव वाक्ये पक्षान्तरमुत्थापयति —
केचित्त्विति ।
न ह वा अस्येत्याद्यर्थवाददर्शनादित्यर्थः ।
तद्दूषयति —
तदसदिति ।
शास्त्रान्तरेण ‘क्रिमयो भवन्त्यभक्ष्यभक्षिण’ इत्यादिनेत्यर्थः ।
प्राणविदतिरिक्तविषयं शास्त्रान्तरं सर्वभक्षणं तु प्राणदर्शिनो विवक्षितमतो व्यवस्थितविषयत्वात्प्रतिषेधेन सर्वभक्षणस्योदितानुदितहोमवद्विकल्पः स्यादिति शङ्कते —
तेनेति ।
किं तर्हि सर्वान्नभक्षणं विहितं न वा ? न चेन्न तस्य निषिद्धस्यानुष्ठानं प्राणविदि तत्प्रापकाभावाद्विहितं चेत्तत्किं यदिदमित्यादिना न हेत्यादिना वा विहितं नाऽऽद्य इत्याह —
नाविधायकत्वादिति ।
यदिदमित्यादिना हि सर्वं प्राणस्यान्नमिति ज्ञानमेव विधीयते न तु प्राणा[न्न]विदः सर्वान्नभक्षणं तदवद्योतिपदाभावान्न विकल्पोपपत्तिरित्यर्थः ।
द्वितीयं दूषयति —
न ह वा इति ।
अस्येति विद्वत्परामर्शान्निपातयोरर्थवादत्वावद्योतिनोर्दर्शनादेकवाक्यत्वसंभवे वाक्यभेदस्यान्याय्यत्वाच्चेति हेतुमाह —
तेनेति ।
अर्थवादस्यापि स्वार्थे प्रामाण्यं देवताधिकरणन्यायेन भविष्यतीत्याशङ्क्य ‘न कलञ्जं भक्षयेदि’त्यादिविहितस्य भक्षणाभावस्य तस्य बाधेन न हेत्यादेर्न सामर्थ्यं दृष्टिपरत्वादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगादित्याह —
न त्विति ।
न हेत्यादेरन्यपरत्वं प्रपञ्चयति —
प्राणमात्रस्येति ।
तत्र दोषाभावज्ञापनात्तदेव विधित्सितमित्याशङ्क्याऽऽह —
यत्त्विति ।
अर्थवादस्य मानान्तरविरोधे स्वार्थे मानत्वायोगस्योक्तत्वादिति भावः ।
प्रमाणाभावस्यासिद्धिमाशङ्कते —
विदुष इति ।
सामर्थ्यात्प्राणस्वरूपबलादिति यावत् । अदोषः सर्वान्नभक्षणे तस्येति शेषः ।
अर्थापत्तिं दूषयति —
नेत्यादिना ।
अनुपपत्तिमेव विवृणोति —
सत्यमिति ।
येनेत्यस्मात्प्राक्तथाऽपीति वक्तव्यम् । यद्यपीत्युपक्रमात् ।
प्राणस्वरूपसामर्थ्यादनुपपत्तिरपि शाम्यतीति शङ्कते —
नन्विति ।
किं फलात्मना विदुषः सर्वान्नभक्षणं साध्यते किंवा साधकत्वरूपेणेति विकल्प्याऽऽद्यमङ्गीकरोति —
बाढमिति ।
प्राणरूपेण सर्वभक्षणं तच्छब्दार्थः ।
तत्र प्रतिषेधाभावे सदृष्टान्तं फलितमाह —
तस्मादिति ।
तथा स्वारसिकं प्राणस्य सर्वभक्षणं तत्र चाप्रतिषेधाद्दोषराहित्यमिति शेषः ।
तद्राहित्ये किं स्यादिति चेत्तदाह —
अत इति ।
पञ्चम्यर्थमेव स्फोरयति —
अप्राप्तत्वादिति ।
प्राणविदः साधकत्वाकारेण साध्यते सर्वान्नभक्षणमिति पक्षं प्रत्याह —
येन त्विति ।
इहेति प्राणविदुच्यते । निमित्तान्तरादत्यन्ताप्राप्तविषयो विधिः प्रतिप्रसवो यथा ज्वरितस्याशनप्रतिषेधेऽप्यौषधं पिबेदिति तथा शास्त्राधिकारिणः सर्वाभक्ष्यभक्षणनिषेधेऽपि प्राणविदो विशेषविधिर्नोपलभ्यते । तथा च तस्य भक्षणं दुःसाध्यमित्यर्थः ।
प्रतिप्रसवाभावे लब्धं दर्शयति —
तस्मादिति ।
अर्थवादस्य तर्हि का गतिरित्याशङ्क्याऽऽह —
अन्यविषयत्वादिति ।
तस्य स्तुतिमात्रार्थत्वान्न तद्वशान्निषेधातिक्रम इत्यर्थः ।
ननु विशिष्टस्य प्राणस्य सर्वान्नत्वदर्शनमत्र विधीयते तथा च विदुषोऽपि तदात्मनः सर्वान्नभक्षणे न दोषो यथादर्शनं फलाभ्युपगमादत आह —
न चेति ।
इतोऽपि सर्वं प्राणस्यान्नमित्येतदवष्टम्भेन प्राणविदः सर्वभक्षणं न विधेयमित्याह —
यथा चेति ।
प्राणस्य यथोक्तस्य स्वीकारेऽपि कस्यचित्किञ्चिदन्नं जीवनहेतुरित्यत्र दृष्टान्तमाह —
यथेति ।
तथा सर्वप्राणिषु व्यवस्थयाऽन्नसंबन्धे दार्ष्टान्तिकमाह —
तथेति ।
प्राणविदोऽपि कार्यकरणवतो निषेधातिक्रमायोगे फलितमाह —
तस्मादिति ।
वाक्यान्तरमादाय व्याकरोति —
आप इति ।
स्मार्तादाचमनादन्यदेव श्रौतमाचमनमन्यतोऽप्राप्तं विधेयं तदर्थमिदं वाक्यमिति केचित्तान्प्रत्याह —
अत्र चेति ।
वासःकार्यं परिधानम् ।
तत्र साक्षादपां विनियोगायोगे प्राप्तमर्थमाह —
तस्मादिति ।
यदिदं किञ्चेत्यादावुक्तं दृष्टिविधेरर्थवादमादाय व्याचष्टे —
नेत्यादिना ।
पुनर्नञनुकर्षणमन्वयाय ।
पदार्थमुक्त्वा वाक्यार्थमाह —
यद्यपीति ।
अभक्ष्यभक्षणं तर्हि स्वीकृतमिति चेन्नेत्याह —
इत्येतदिति ।
यथा प्राणविदो नानन्नं भुक्तं भवति तथेत्येतत् ।
अनुमतस्तर्हि प्राणविदो दुष्प्रतिग्रहोऽपीत्याशङ्क्याऽऽह —
तत्रापीति ।
असत्प्रतिग्रहे प्राप्तेऽपीत्यर्थः ।
किमित्ययं स्तुत्यर्थवादः फलवाद एव किं न स्यादित्याशङ्क्याऽऽह —
फलं त्विति ।
इतिशब्दः सर्वं प्राणस्यान्नमिति दृष्टिविधेः सार्थवादस्योपसंहारार्थः ।
उक्तमेवार्थं चोद्यसमाधिभ्यां समर्थयते —
नन्वित्यादिना ।
यथाप्राप्तं प्रकृतवाक्यवशात्प्रतिपन्नं रूपमनतिक्रम्येति यावत् ।
वाक्यस्य विद्यास्तुतित्वे फलितमाह —
अत इति ।
यदुक्तमापो वास इति तस्य शेषभूतमुत्तरग्रन्थमुत्थाप्य व्याचष्टे —
यस्मादिति ।
तत्रेत्यशनात्प्रागूर्ध्वकालोक्तिः ।
उक्तेऽभिप्राये लोकप्रसिद्धिमनुकूलयति —
अस्ति चेति ।
तत्रैव वाक्योपक्रमस्याऽऽनुकूल्यं दर्शयति —
प्राणस्येति ।
किमर्थमिदं सोपक्रमं वाक्यमित्यपेक्षायामत्र चेत्यादावुक्तं स्मारयति —
यदप इति ।
दृष्टिविधानमसहमानः शङ्कते —
नन्विति ।
अस्तु प्रायत्यार्थमाचमनं प्राणपरिधानार्थं चेत्याशङ्क्याऽऽह —
तत्रेति ।
कुल्याप्रणयनन्यायेन द्विकार्यत्वाविरोधमाशङ्क्याऽऽह —
न चेति ।
तत्र प्रत्यक्षत्वात्कार्यभेदस्याविरोधेऽपि प्रकृते प्रमाणाभावाद्द्विकार्यत्वानुपपत्तिरित्यभिप्रेत्योक्तमुपपादयति —
यदीति ।
ननु स्मार्ताचमनस्य प्रायत्यार्थत्वं तथैवानग्नतार्थत्वं प्रकृतवाक्याधिगतं तथा च कथं द्विकार्यत्वमप्रामाणिकमित्याशङ्क्य वाक्यस्य विषयान्तरं दर्शयति —
यस्मादिति ।
द्विकार्यत्वदोषमुक्तं दूषयति —
नेत्यादिना ।
तच्चाऽऽचमनं दर्शननिरपेक्षमित्याह —
क्रियामात्रमेवेति ।
नन्वाचमने फलभूतं प्रायत्यं दर्शनसापेक्षमिति चेन्नेत्याह —
नत्विति ।
क्रियाया एव तदाधानसामर्थ्यादित्यर्थः । तत्रेत्याचमने शुद्ध्यर्थे क्रियान्तरे सतीत्यर्थः ।
प्राणविज्ञानप्रकरणे वासोविज्ञानं चोद्यते चेद्वाक्यभेदः स्यादित्याशङ्क्याऽऽह —
प्राणस्येति ।
सर्वान्नविज्ञानवदिति चकारार्थः ।
आचमनीयास्वप्सु वासोविज्ञानं क्रियते चेत्कथमाचमनस्य प्रायत्यार्थत्वमित्याशङ्क्याऽऽह —
न त्विति ।
द्विकार्यत्वदोषाभावे फलितं दर्शनविधिमुपसंहरति —
तस्मादिति ।
अप्राप्तत्वाद्वासोदृष्टेर्विधिव्यतिरेकेण प्राप्त्यभावाद्दृष्टेश्चात्र प्रकृतत्वात्कार्याख्यानादपूर्वमिति च न्यायादित्यर्थः ॥१४॥