अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

षष्ठोऽध्यायः: प्रथमं ब्राह्मणम्

ओङ्कारो दमादित्रयं ब्रह्मा­ब्र­ह्मो­पा­स­नानि तत्फलं तदर्था गति­रा­दि­त्या­द्यु­प­स्था­न­मि­त्ये­षोऽर्थः सप्तमे निवृत्तः । संप्रति प्राधा­न्ये­ना­ब्र­ह्मो­पा­सनं सफलं श्रीमन्थादिकर्म च वक्त­व्य­मि­त्य­ष्ट­म­म­ध्या­य­मा­र­भ­माणो ब्राह्म­ण­सं­ग­ति­माह —
प्राण इति ।
तस्मात्प्राणो गायत्रीति युक्तमुक्तमिति शेषः ।

प्राणस्य ज्येष्ठत्वादि नाद्यापि निर्धारितमिति शङ्कित्वा परिहरति —
कथमित्यादिना ।

प्रकारान्तरेण पूर्वो­त्त­र­ग्र­न्थ­सं­ग­ति­माह —
अथवेति ।
आदि­श­ब्दा­द­न्न­वै­शि­ष्ट्या­दि­नि­र्देशः । तत्रेति प्राणस्यैव विशि­ष्ट­गु­ण­क­स्यो­पा­स्य­त्वोक्तिः । हेतु­र्ज्ये­ष्ठ­त्वा­दि­स्त­न्मा­त्र­मि­हा­न­न्त­र­ग्रन्थे कथ्यत इति शेषः ।

तदेवं पूर्वग्रन्थस्य हेतु­म­त्त्वा­दु­त्त­रस्य च हेतु­त्वा­दा­न­न्त­र्येण पौर्वापर्येण पूर्वग्रन्थेन सहो­त्त­र­ग्र­न्थ­जातं संबध्यत इति फलितमाह —
आनन्तर्येणेति ।

वक्ष्य­मा­ण­प्रा­णो­पा­स­नस्य पूर्वो­क्तो­क्था­द्यु­पा­स्ति­शे­ष­त्व­मा­शङ्क्य गुण­भे­दा­त्फ­ल­भे­दाच्च नैव­मि­त्य­भि­प्रे­त्याऽऽह —
न पुनरिति ।

किमिति प्राणोपासनमिह स्वत­न्त्र­मु­प­दि­श्यते तत्राऽऽह —
खिलत्वादिति ।
इतिशब्दो ब्राह्म­णा­र­म्भो­प­सं­हा­रार्थः ।

एवं ब्राह्मणारम्भं प्रति­पा­द्या­क्ष­राणि व्याचष्टे —
यः कश्चिदित्यादिना ।
यच्छब्दस्य पुन­रु­पा­दा­न­म­न्व­या­र्थम् ।

निपा­त­यो­र­र्थ­म­व­धा­र­ण­मेव प्रागुक्तं प्रकटयति —
भवत्येवेति ।
प्रश्नाय कोऽसौ ज्येष्ठश्च श्रेष्ठश्चेति प्रश्न­स्त­द­र्थ­मिति यावत् ।

प्राणस्य ज्येष्ठ­त्वा­दि­क­मा­क्षि­पति —
कथमिति ।

तत्र हेतुमाह —
यस्मादिति ।
तस्मा­ज्ज्ये­ष्ठ­त्वा­दिकं तुल्यमेवेति शेषः ।

संब­न्धा­वि­शे­ष­म­ङ्गी­कृत्य ज्येष्ठत्वं प्राणस्य साधयति —
तथाऽपीति ।

उक्तमेव समर्थयते —
निषेककालादिति ।

तत्रापि विप्रतिपन्नं प्रत्याह —
प्राणे हीति ।

ज्येष्ठत्वेनैव श्रेष्ठत्वे सिद्धे किमिति पुन­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
भवति त्विति ।

ज्येष्ठत्वे सत्यपि श्रेष्ठ­त्वा­भा­व­मुक्त्वा तस्मिन्सत्यपि ज्येष्ठ­त्वा­भा­व­माह —
मध्यम इति ।
इहेति प्राणोक्तिः ।

प्राण­श्रे­ष्ठत्वे प्रमा­णा­भा­व­मा­शङ्क्य प्रत्याह —
कथमित्यादिना ।

पूर्वो­क्त­मु­पा­स्ति­फ­ल­मु­प­सं­ह­रति —
सर्वथाऽपीति ।
आरोपेणानारोपेण वेत्यर्थः ।

ज्येष्ठस्य विद्या­फ­ल­त्त्व­मा­क्षि­पति —
नन्विति ।

तस्य विद्याफलत्वं साधयति —
उच्यत इति ।

इच्छातो ज्यैष्ठ्यं दुःसाध्यमिति दोष­स्या­स­त्त्व­माह —
नेति ।

तत्र हेतुमाह —
प्राणवदिति ।
यथा प्राण­कृ­ता­श­ना­दि­प्र­यु­क्त­श्च­क्षु­रा­दीनां वृत्तिलाभस्तथा प्राणोपासकाधीनं जीवनमन्येषां स्वानां च भवतीति प्राणदर्शिनो ज्येष्ठत्वं न वयो­नि­ब­न्ध­न­मि­त्यर्थः ॥१॥

वसिष्ठत्वमपि प्राणस्यैवेति वक्तु­मु­त्त­र­वा­क्य­मु­त्थाप्य व्याचष्टे —
यो हेत्यादिना ।

फलेन प्रलोभितं शिष्यं प्रश्नाभिमुखं प्रत्याह —
उच्य­ता­मि­त्या­दिना ।

वाचो वसिष्ठत्वं द्विधा प्रतिजानीते —
वासयतीति ।

वास­य­त्य­ति­श­ये­ने­त्युक्तं विशदयति —
वाग्ग्मिनो हीति ।
वासयन्ति चेति द्रष्टव्यम् ।

वस्ते वेत्युक्तं स्फुटयति —
आच्छादनार्थस्य वेति ।

आच्छा­द­ना­र्थ­त्व­म­नु­भ­वेन साधयति —
अभिभवन्तीति ।

उक्तमुपास्तिफलं निगमयति —
तेनेति ॥२॥

गुणान्तरं वक्तुं वाक्यान्तरमादाय व्याचष्टे —
यो ह वा इति ।

समे प्रतिष्ठा विद्यां विनाऽपि स्यादि­त्या­श­ङ्क्याऽऽह —
तथेति ।
विषमे च प्रतितिष्ठतीति संबन्धः ।

विष­म­श­व्द­स्या­र्थ­माह —
दुर्गमने चेति ।

इदानीं प्रश्नपूर्वकं प्रतिष्ठां दर्शयति —
यद्येवमिति ।

प्रतिष्ठात्वं चक्षुषो व्युत्पादयति —
कथमित्यादिना ।

विद्याफलं निगमयति —
अत इति ।३॥

वाक्यान्तरमादाय विभजते —
यो ह वै संपदमिति ।

प्रश्नपूर्वकं संप­दु­त्प­त्ति­वा­क्य­मु­पा­दत्ते —
किं पुनरिति ।

श्रोत्रस्य संपद्गुणत्वं व्युत्पादयति —
कथमिति ।
अध्ये­य­त्व­म­ध्य­य­ना­र्ह­त्वम् ।

तथाऽपि कथं श्रोत्रं संप­द्गु­ण­क­मि­त्या­श­ङ्क्याऽऽह —
वेदेति ।

पूर्वोक्तं फलमुपसंहरति —
अत इति ॥४॥

वाक्यान्तरमादाय विभजते —
यो ह वा आयतनमिति ।

सामा­न्ये­नो­क्त­मा­य­तनं प्रश्नपूर्वकं विशदयति —
किं पुनरिति ।

मनसो विषयाश्रयत्वं विशदयति —
मन इति ।

इन्द्रि­या­श्र­यत्वं तस्य स्पष्टयति —
मनःसंकल्पेति ।

पूर्ववत्फलं निगमयति —
अत इति ॥५॥

गुणान्तरं वक्तुं वाक्यान्तरं गृहीत्वा तदक्षराणि व्याकरोति —
यो हेत्यादिना ।

वागा­दी­न्द्रि­याणि तत्त­द्गु­ण­वि­शि­ष्टानि शिष्ट्वा रेतो विशि­ष्ट­गु­ण­मा­च­क्षा­णस्य प्रकरणविरोधः स्यादि­त्या­श­ङ्क्याऽऽह —
रेतसेति ।

विद्या­फ­ल­मु­प­सं­ह­रति —
तद्विज्ञानेति ॥६॥

उक्ता वसि­ष्ठ­त्वा­दि­गुणा न वागादिगामिनः किन्तु मुख्यप्राणगता एवेति दर्श­यि­तु­मा­ख्या­यिकां करोति —
ते हेत्यादिना ।

ईयसुन्प्रयोगस्य तात्पर्यमाह —
शरीरं हीति ।

किमिति शरीरस्य पापी­य­स्त्व­मु­च्यते तदाह —
वैराग्यार्थमिति ।
शरीरे वैरा­ग्यो­त्पा­द­न­द्वारा तस्मि­न्न­हं­म­मा­भि­मा­न­प­रि­हा­रा­र्थ­मि­त्यर्थः । वसिष्ठो भव­ती­त्यु­क्त­वा­निति संबन्धः ।

किमिति साक्षादेव मुख्यं प्राणं वसि­ष्ठ­त्वा­दि­गुणं नोक्त­वा­न्प्र­जा­पतिः स हि सर्वज्ञ इत्याशङ्क्याह —
जानन्नपीति ॥७॥

वाग्घो­च्च­क्रा­मे­त्या­दे­स्ता­त्प­र्य­माह —
त एवमिति ।

उक्तेऽर्थे श्रुत्यक्षराणि व्याचष्टे —
तत्रेत्यादिना ।
कार्या­का­र्या­दि­वि­ष­य­मि­त्या­दि­श­ब्दे­नो­पे­क्ष­णी­य­सं­ग्रहः ।

चक्षु­रा­दि­भि­र्द­त्तो­त्तरा पुन­र्वा­क्कि­म­क­रो­दिति तत्राऽऽह —
आत्मन इति ॥८–१२॥
वागा­दि­प्र­क­र­ण­वि­च्छे­दा­र्थोऽ­थ­शब्दः । उत्क्रमणं करिष्यन्यदा भवतीति शेषः ।

उक्तमर्थं दृष्टान्तेन स्पष्ट­य­न्नु­त्त­र­वा­क्य­म­व­ता­र­यति —
किमिवेत्यादिना ।

प्राणस्य श्रेष्ठत्वं वागा­दि­भि­र्नि­र्धा­रि­त­मि­त्याह —
ते वागादय इति ।

तर्हि तत्फलेन भवितव्यमित्याह —
यद्येवमिति ।

यथोक्तस्य प्राणसंवादस्य काल्पनिकत्वं दर्शयति —
अयं चेति ।

कल्पनाफलं सूचयति —
विदुष इति ।
तदेव स्पष्टयति अनेन हीति ।

उपा­स्य­प­री­क्ष­ण­प्र­कारो विव­क्षि­त­श्चेत्किं संवा­दे­ने­त्या­श­ङ्क्याऽऽह —
स एष इति ।

संवादस्य मुख्या­र्थ­त्वा­द­क­ल्पि­त­त्व­मा­श­ङ्क्याऽऽह —
न हीति ।

संवादस्य कल्पितत्वे फलितमाह —
तस्मादिति ।

एवं प्राणसंवादस्य तात्प­र्य­मुक्त्वा प्रकृ­ता­म­क्ष­र­व्या­ख्या­मे­वा­नु­व­र्त­यति —
बलिमिति ॥१३॥

सा ह वागिति प्रतीकमादाय व्याचष्टे —
प्रथममिति ।
तेन वसिष्ठगुणेन त्वमेव वसिष्ठोऽसि तथा च तद्वसिष्ठत्वं तवैवेति योजना ।

बलि­दा­न­म­ङ्गी­कृ­त्या­न्न­वा­ससी पृच्छसि —
यद्ये­व­मि­त्या­दिना ।
एव­ङ्गु­ण­वि­शि­ष्टस्य ज्येष्ठ­त्व­श्रे­ष्ठ­त्व­व­सि­ष्ठ­त्वा­दि­सं­ब­द्ध­स्ये­त्यर्थः ।

यदिदमित्यादि वाक्यं व्याचष्टे —
यदिदमिति ।
प्रकृतेन शुनामन्नेन कीटादीनां चान्नेन सह­य­त्कि­ञ्चि­त्कृ­म्यन्नं दृश्यते तत्सर्वमेव तवान्नमिति योजना ।

तदेव स्फुटयति —
यत्किञ्चिदिति ।

पदार्थमुक्त्वा वाक्यार्थं कथयति —
सर्वमिति ।

अस्मिन्नेव वाक्ये पक्षा­न्त­र­मु­त्था­प­यति —
केचित्त्विति ।
न ह वा अस्ये­त्या­द्य­र्थ­वा­द­द­र्श­ना­दि­त्यर्थः ।

तद्दूषयति —
तदसदिति ।
शास्त्रान्तरेण ‘क्रिमयो भव­न्त्य­भ­क्ष्य­भ­क्षिण’ इत्या­दि­ने­त्यर्थः ।

प्राण­वि­द­ति­रि­क्त­वि­षयं शास्त्रान्तरं सर्वभक्षणं तु प्राणदर्शिनो विवक्षितमतो व्यव­स्थि­त­वि­ष­य­त्वा­त्प्र­ति­षे­धेन सर्व­भ­क्ष­ण­स्यो­दि­ता­नु­दि­त­हो­म­व­द्वि­कल्पः स्यादिति शङ्कते —
तेनेति ।

किं तर्हि सर्वान्नभक्षणं विहितं न वा ? न चेन्न तस्य निषि­द्ध­स्या­नु­ष्ठानं प्राणविदि तत्प्रा­प­का­भा­वा­द्वि­हितं चेत्तत्किं यदिदमित्यादिना न हेत्यादिना वा विहितं नाऽऽद्य इत्याह —
नावि­धा­य­क­त्वा­दिति ।
यदिदमित्यादिना हि सर्वं प्राण­स्या­न्न­मिति ज्ञानमेव विधीयते न तु प्राणा[न्न]विदः सर्वान्नभक्षणं तद­व­द्यो­ति­प­दा­भा­वान्न विक­ल्पो­प­प­त्ति­रि­त्यर्थः ।

द्वितीयं दूषयति —
न ह वा इति ।

अस्येति विद्व­त्प­रा­म­र्शा­न्नि­पा­त­यो­र­र्थ­वा­द­त्वा­व­द्यो­ति­नो­र्द­र्श­ना­दे­क­वा­क्य­त्व­सं­भवे वाक्य­भे­द­स्या­न्या­य्य­त्वा­च्चेति हेतुमाह —
तेनेति ।

अर्थवादस्यापि स्वार्थे प्रामाण्यं देव­ता­धि­क­र­ण­न्या­येन भवि­ष्य­ती­त्या­शङ्क्य ‘न कलञ्जं भक्ष­ये­दि’त्या­दि­वि­हि­तस्य भक्षणाभावस्य तस्य बाधेन न हेत्यादेर्न सामर्थ्यं दृष्टि­प­र­त्वा­दस्य मानान्तरविरोधे स्वार्थे मान­त्वा­यो­गा­दि­त्याह —
न त्विति ।

न हेत्या­दे­र­न्य­प­रत्वं प्रपञ्चयति —
प्राण­मा­त्र­स्येति ।

तत्र दोषा­भा­व­ज्ञा­प­ना­त्त­देव विधि­त्सि­त­मि­त्या­श­ङ्क्याऽऽह —
यत्त्विति ।
अर्थवादस्य मानान्तरविरोधे स्वार्थे मान­त्वा­यो­ग­स्यो­क्त­त्वा­दिति भावः ।

प्रमा­णा­भा­व­स्या­सि­द्धि­मा­श­ङ्कते —
विदुष इति ।
साम­र्थ्या­त्प्रा­ण­स्व­रू­प­ब­ला­दिति यावत् । अदोषः सर्वान्नभक्षणे तस्येति शेषः ।

अर्थापत्तिं दूषयति —
नेत्यादिना ।

अनुपपत्तिमेव विवृणोति —
सत्यमिति ।
येने­त्य­स्मा­त्प्रा­क्त­थाऽ­पीति वक्तव्यम् । यद्य­पी­त्यु­प­क्र­मात् ।

प्राण­स्व­रू­प­सा­म­र्थ्या­द­नु­प­प­त्ति­रपि शाम्यतीति शङ्कते —
नन्विति ।

किं फलात्मना विदुषः सर्वान्नभक्षणं साध्यते किंवा साधकत्वरूपेणेति विक­ल्प्याऽऽ­द्य­म­ङ्गी­क­रोति —
बाढमिति ।
प्राणरूपेण सर्वभक्षणं तच्छब्दार्थः ।

तत्र प्रतिषेधाभावे सदृष्टान्तं फलितमाह —
तस्मादिति ।
तथा स्वारसिकं प्राणस्य सर्वभक्षणं तत्र चाप्र­ति­षे­धा­द्दो­ष­रा­हि­त्य­मिति शेषः ।

तद्राहित्ये किं स्यादिति चेत्तदाह —
अत इति ।

पञ्चम्यर्थमेव स्फोरयति —
अप्रा­प्त­त्वा­दिति ।

प्राणविदः साधकत्वाकारेण साध्यते सर्वा­न्न­भ­क्ष­ण­मिति पक्षं प्रत्याह —
येन त्विति ।
इहेति प्राणविदुच्यते । निमि­त्ता­न्त­रा­द­त्य­न्ता­प्रा­प्त­वि­षयो विधिः प्रतिप्रसवो यथा ज्वरि­त­स्या­श­न­प्र­ति­षे­धेऽ­प्यौ­षधं पिबेदिति तथा शास्त्रा­धि­का­रिणः सर्वा­भ­क्ष्य­भ­क्ष­ण­नि­षे­धेऽपि प्राणविदो विशे­ष­वि­धि­र्नो­प­ल­भ्यते । तथा च तस्य भक्षणं दुःसा­ध्य­मि­त्यर्थः ।

प्रतिप्रसवाभावे लब्धं दर्शयति —
तस्मादिति ।

अर्थवादस्य तर्हि का गति­रि­त्या­श­ङ्क्याऽऽह —
अन्य­वि­ष­य­त्वा­दिति ।
तस्य स्तुति­मा­त्रा­र्थ­त्वान्न तद्व­शा­न्नि­षे­धा­ति­क्रम इत्यर्थः ।

ननु विशिष्टस्य प्राणस्य सर्वा­न्न­त्व­द­र्श­न­मत्र विधीयते तथा च विदुषोऽपि तदात्मनः सर्वान्नभक्षणे न दोषो यथादर्शनं फलाभ्युपगमादत आह —
न चेति ।

इतोऽपि सर्वं प्राण­स्या­न्न­मि­त्ये­त­द­व­ष्ट­म्भेन प्राणविदः सर्वभक्षणं न विधेयमित्याह —
यथा चेति ।

प्राणस्य यथोक्तस्य स्वीकारेऽपि कस्य­चि­त्कि­ञ्चि­दन्नं जीव­न­हे­तु­रि­त्यत्र दृष्टान्तमाह —
यथेति ।

तथा सर्वप्राणिषु व्यव­स्थ­याऽ­न्न­सं­बन्धे दार्ष्टा­न्ति­क­माह —
तथेति ।

प्राणविदोऽपि कार्यकरणवतो निषे­धा­ति­क्र­मा­योगे फलितमाह —
तस्मादिति ।

वाक्यान्तरमादाय व्याकरोति —
आप इति ।

स्मार्ता­दा­च­म­ना­द­न्य­देव श्रौत­मा­च­म­न­म­न्य­तोऽ­प्राप्तं विधेयं तदर्थमिदं वाक्यमिति केचि­त्ता­न्प्र­त्याह —
अत्र चेति ।
वासःकार्यं परिधानम् ।

तत्र साक्षादपां विनियोगायोगे प्राप्तमर्थमाह —
तस्मादिति ।

यदिदं किञ्चे­त्या­दा­वुक्तं दृष्टि­वि­धे­र­र्थ­वा­द­मा­दाय व्याचष्टे —
नेत्यादिना ।
पुन­र्न­ञ­नु­क­र्ष­ण­म­न्व­याय ।

पदार्थमुक्त्वा वाक्यार्थमाह —
यद्यपीति ।

अभक्ष्यभक्षणं तर्हि स्वीकृतमिति चेन्नेत्याह —
इत्येतदिति ।
यथा प्राणविदो नानन्नं भुक्तं भवति तथेत्येतत् ।

अनुमतस्तर्हि प्राणविदो दुष्प्र­ति­ग्र­होऽ­पी­त्या­श­ङ्क्याऽऽह —
तत्रापीति ।
असत्प्रतिग्रहे प्राप्तेऽ­पी­त्यर्थः ।

किमित्ययं स्तुत्यर्थवादः फलवाद एव किं न स्यादि­त्या­श­ङ्क्याऽऽह —
फलं त्विति ।
इतिशब्दः सर्वं प्राण­स्या­न्न­मिति दृष्टिविधेः सार्थ­वा­द­स्यो­प­सं­हा­रार्थः ।

उक्तमेवार्थं चोद्यसमाधिभ्यां समर्थयते —
नन्वित्यादिना ।
यथाप्राप्तं प्रकृ­त­वा­क्य­व­शा­त्प्र­ति­पन्नं रूप­म­न­ति­क्र­म्येति यावत् ।

वाक्यस्य विद्या­स्तु­तित्वे फलितमाह —
अत इति ।

यदुक्तमापो वास इति तस्य शेष­भू­त­मु­त्त­र­ग्र­न्थ­मु­त्थाप्य व्याचष्टे —
यस्मादिति ।
तत्रे­त्य­श­ना­त्प्रा­गू­र्ध्व­का­लोक्तिः ।

उक्तेऽभिप्राये लोक­प्र­सि­द्धि­म­नु­कू­ल­यति —
अस्ति चेति ।

तत्रैव वाक्यो­प­क्र­म­स्याऽऽ­नु­कूल्यं दर्शयति —
प्राणस्येति ।

किमर्थमिदं सोपक्रमं वाक्य­मि­त्य­पे­क्षा­या­मत्र चेत्यादावुक्तं स्मारयति —
यदप इति ।

दृष्टि­वि­धा­न­म­स­ह­मानः शङ्कते —
नन्विति ।

अस्तु प्राय­त्या­र्थ­मा­च­मनं प्राण­प­रि­धा­नार्थं चेत्या­श­ङ्क्याऽऽह —
तत्रेति ।

कुल्या­प्र­ण­य­न­न्या­येन द्विका­र्य­त्वा­वि­रो­ध­मा­श­ङ्क्याऽऽह —
न चेति ।

तत्र प्रत्य­क्ष­त्वा­त्का­र्य­भे­द­स्या­वि­रो­धेऽपि प्रकृते प्रमा­णा­भा­वा­द्द्वि­का­र्य­त्वा­नु­प­प­त्ति­रि­त्य­भि­प्रे­त्यो­क्त­मु­प­पा­द­यति —
यदीति ।

ननु स्मार्ताचमनस्य प्राय­त्या­र्थत्वं तथै­वा­न­ग्न­ता­र्थत्वं प्रकृ­त­वा­क्या­धि­गतं तथा च कथं द्विका­र्य­त्व­म­प्रा­मा­णि­क­मि­त्या­शङ्क्य वाक्यस्य विषयान्तरं दर्शयति —
यस्मादिति ।

द्विका­र्य­त्व­दो­ष­मुक्तं दूषयति —
नेत्यादिना ।

तच्चाऽऽचमनं दर्श­न­नि­र­पे­क्ष­मि­त्याह —
क्रिया­मा­त्र­मे­वेति ।

नन्वाचमने फलभूतं प्रायत्यं दर्श­न­सा­पे­क्ष­मिति चेन्नेत्याह —
नत्विति ।
क्रियाया एव तदा­धा­न­सा­म­र्थ्या­दि­त्यर्थः । तत्रेत्याचमने शुद्ध्यर्थे क्रियान्तरे सतीत्यर्थः ।

प्राण­वि­ज्ञा­न­प्र­क­रणे वासोविज्ञानं चोद्यते चेद्वाक्यभेदः स्यादि­त्या­श­ङ्क्याऽऽह —
प्राणस्येति ।
सर्वा­न्न­वि­ज्ञा­न­व­दिति चकारार्थः ।

आचमनीयास्वप्सु वासोविज्ञानं क्रियते चेत्कथमाचमनस्य प्राय­त्या­र्थ­त्व­मि­त्या­श­ङ्क्याऽऽह —
न त्विति ।

द्विका­र्य­त्व­दो­षा­भावे फलितं दर्श­न­वि­धि­मु­प­सं­ह­रति —
तस्मादिति ।
अप्रा­प्त­त्वा­द्वा­सो­दृ­ष्टे­र्वि­धि­व्य­ति­रे­केण प्राप्त्य­भा­वा­द्दृ­ष्टे­श्चात्र प्रकृ­त­त्वा­त्का­र्या­ख्या­ना­द­पू­र्व­मिति च न्यायादित्यर्थः ॥१४॥