अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

प्रथमोऽध्यायः: प्रथमं ब्राह्मणम् (३)

अथेच्छायां कर्तव्यत्वेन विहितायां तावन्मात्रे सिद्धेऽपि कथं सौस्वर्यं सिध्येन्नहि स्वर्ग­का­म­ना­मा­त्रेण स्वर्गः सिध्यत्यत आह —
साम्न इति ।
तस्य सुस्वरत्वेन तच्छब्दितस्य प्राण­स्यो­पा­स­का­त्म­कस्य स्वर­व­त्त्व­प्र­त्यये कार्ये सति विहि­ते­च्छा­मा­त्रेण साम्नः न सौस्वर्यं भव­ती­त्य­स्मा­त्सा­म­र्थ्या­द्द­न्त­धा­व­नादि कर्त­व्य­मि­त्ये­त­दत्र विधित्सितमिति योजना ।

सौस्वर्यस्य सामभूषणत्वे गमकमाह —
तस्मादिति ।

दृष्टा­न्त­म­न­न्त­र­वा­क्या­व­ष्ट­म्भेन स्पष्टयति —
प्रसिद्धं हीति ।

भवति हास्य स्वमिति प्रागे­वो­क्त­त्वा­द­न­र्थिका पुन­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
सिद्धस्येति ॥२५॥

साम्नो गुणा­न्त­र­म­व­ता­र­यति —
अथेति ।

तर्हि पुनरुक्तिः स्यात्तत्राऽऽह —
एतावानिति ।
लाक्षणिकं कण्ठ्योऽयं वर्णो दन्त्योऽयमिति लक्ष­ण­ज्ञा­न­पू­र्वकं सुष्ठु वर्णोच्चारणं ममैव साम­श­ब्दि­त­प्रा­ण­भू­तस्य धनमिति यावत् ।

लाक्ष­णि­क­सौ­स्व­र्य­गु­ण­व­त्प्रा­ण­वि­ज्ञा­न­वतो यथोक्तफललाभे हेतुमाह —
सुवर्णशब्देति ।

वाक्यार्थमाह —
लौकिकमेवेति ।

फलेन प्रलो­भ्या­भि­मु­खी­कृत्य किं तत्सुवर्णमिति शुश्रूषवे ब्रूते —
तस्येति ।

गुण­वि­ज्ञा­न­फ­ल­मु­प­स­म्ह­रति —
भवतीति ।
साम्न­स्त­च्छ­ब्द­वा­च्यस्य प्राणस्य स्वरूपभूतस्येति यावत् ॥२६॥

उपास्यस्य प्रति­ष्ठा­गु­ण­त्वेऽपि कथमुपासकस्य तद्गुणत्वं तत्राऽऽह —
तं यथेति ।
आदि­प­दा­दु­रः­शि­रः­क­ण्ठ­द­न्तौ­ष्ठ­ना­सि­का­ता­लूनि गृह्यन्ते ।

किमित्यष्टौ स्थानानि वागित्युच्यन्ते तत्राऽऽह —
वाचि हीति ।

पक्षान्तरमाह —
अन्न इति ।
अन्नशब्देन तत्परिणामो देहो गृह्यते ।

एकीयपक्षे युक्तिमाह —
इहेति ।

कथं तर्हि प्रतिष्ठागुणस्य प्राणस्य विज्ञानं कर्तव्यमत आह —
अनि­न्दि­त­त्वा­दिति ॥२७॥

अथातः पव­मा­ना­ना­मि­त्या­दि­वा­क्य­म­व­ता­र­यति —
एवमिति ।

तत्राथशब्दं व्याचष्टे —
यद्विज्ञानवत इति ।

अतःशब्दार्थमाह —
यस्माच्चेति ।
इहेति प्राणविदुक्तिः ।

कदा तर्हि जपकर्म कर्तव्यं तत्राऽऽह —
तस्येति ।
उद्गीथेनात्ययाम त्वं न उद्गायेति च प्रक­र­णा­दु­द्गी­थेन संबन्धाज्जपस्य सर्व­त्रो­द्गा­न­काले प्राप्तौ पवमानानामेवेति वच­ना­त्का­ल­नि­य­म­सि­द्धि­रि­त्यर्थः ।

स वै खल्वि­त्या­दि­वा­क्य­ता­त्प­र्य­माह —
पवमानेष्विति ।

ननु कर्त­व्य­त्वे­ना­भ्या­रोहः श्रूयते जपकर्म विधित्सितमिति चोच्यते किं केन संग­त­मि­त्या­श­ङ्क्याऽऽह —
अस्य चेति ।

अभ्यारोहशब्दस्य न तत्र रूढि­र्वृ­द्ध­प्र­यो­गा­भा­वा­दि­त्या­श­ङ्क्याऽऽह —
आभिमुख्येनेति ।

यजु­र्म­न्त्रा­णा­म­नि­य­त­पा­दा­क्ष­र­त्वा­द­सतो मा सद्ग­म­ये­त्या­र­भ्यैको वा द्वौ वा मन्त्रा­वि­त्या­श­ङ्क्याऽऽह —
एतानीति ।

यद्यमी याजुषा मन्त्रास्तर्हि मान्त्रेण स्वरेण वैभा­षि­क­ग्र­न्थो­क्तेन भाव्य­मि­त्या­श­ङ्क्याऽऽह —
द्वितीयेति ।
यत्र स्वरो विवक्षितस्तत्र तृतीयानिर्देशो दृश्यते । ‘उच्चैरृचा क्रियत उच्चैः साम्नोपांशु यजुषा’(मै.सं.३.६.) इति । प्रकृते तु द्विती­या­नि­र्दे­शा­ज्ज­प­क­र्म­मात्रं प्रतीयते मान्त्रस्तु स्वरो न प्रति­भा­ती­त्यर्थः ।

केन तर्हि स्वरेण प्रयोगो मन्त्राणामिति चेत्तत्राऽऽह —
ब्राह्मणेति ।

भवतु शातपथेन स्वरेण मन्त्राणां प्रयोगस्तथाऽपि किमार्त्विज्यं किंवा याजमानं जपकर्मेति वीक्षायामाह —
याजमानमिति ।

व्याचि­ख्या­सि­त­य­जुषां स्वरूपं दर्शयति —
एतानीति ।
मन्त्रा­र्थ­श­ब्देन पदार्थो वाक्या­र्थ­स्त­त्फलं चेति त्रयमुच्यते ।

लौकिकं तमो व्यावर्तयति —
सर्वं हीति ।
पूर्वोक्तपदेन व्याख्यातं तमो गृह्यते ।

वैपरीत्ये हेतुमाह —
प्रका­शा­त्म­क­त्वा­दिति ।
ज्ञानं तेन साध्यमिति यावत् । पदा­र्थो­क्ति­स­मा­प्ता­वि­ति­शब्दः ।

उत्त­र­वा­क्याभ्यां वाक्या­र्थ­स्त­त्फलं चेति द्वयं क्रमेणोच्यत इत्याह —
पूर्ववदिति ।

फलवाक्यमादाय पूर्व­स्मा­द्वि­शेषं दर्शयति —
अमृतमिति ।

प्रथ­म­द्वि­ती­य­म­न्त्र­यो­र­र्थ­भे­दा­प्र­तीतेः पुन­रु­क्ति­मा­श­ङ्क्या­वा­न्त­र­भे­द­माह —
पूर्वो मन्त्र इति ।

तथाऽपि तृतीये मन्त्रे पुन­रु­क्ति­स्त­द­व­स्थे­त्या­श­ङ्क्याऽऽह —
पूर्वयोरिति ।

वृत्त­म­नू­द्यो­त्त­र­वा­क्य­म­व­तार्य व्याचष्टे —
याजमानमिति ।

यथा प्राणस्त्रिषु पवमानेषु साधारणमागानं कृत्वा शिष्टेषु स्तोत्रेषु स्वार्थ­मा­गा­न­म­क­रो­त्त­थे­त्याह —
प्राणविदिति ।

तद्विदोऽपि तद्वदागाने योग्यतामाह —
प्राणभूत इति ।

हेतुवाक्यमादौ योजयति —
यस्मादिति ।

प्रतिज्ञावाक्यं व्याचष्टे —
तस्मादिति ।

किमिति व्यत्यासेन वाक्य­द्व­य­व्या­ख्या­न­मि­त्या­श­ङ्क्या­र्था­च्चेति न्यायेन पाठ­क्र­म­म­ना­दृ­त्येति परिहरति —
यस्मादित्यादिना ।
स एष एवं­वि­दु­द्गा­ताऽऽ­त्मने यजमानाय वा यं कामं कामयते तमागानेन साधयति यस्मादिति हेतु­ग्र­न्थ­स्त­स्मा­दिति प्रति­ज्ञा­ग्र­न्था­त्प्रा­गेव संबध्यत इति योजना ।

वृत्तं कीर्तयति —
एवं तावदिति ।

तत्र कर्मसमुच्चिते ज्ञाने देवताप्तौ शङ्कासंभवो नास्ति मिथः सह­कृ­त­यो­र्ज्ञा­न­क­र्म­णो­स्त­दा­प्ति­हे­तु­त्वा­दि­त्याह —
तत्रेति ।

समनन्तरं वाक्यमवतारयति —
अत इति ।
समु­च्च­या­त्फ­ला­प्ते­र्दृ­ष्ट­त्वा­दिति यावत् ।

न हेत्यादिना पदानि छिन्द­न्वा­क्य­मा­दाय व्याकरोति —
अलो­का­र्ह­त्वा­येति ।

तदेव स्फुटयति —
न हीति ।

तत्र दृष्टान्तमाह —
न हीति ।

दृश्यमानमाशंसनं तर्हि कस्मिन्विषये स्यादि­त्या­श­ङ्क्याऽऽह —
असन्निकृष्टेति ।

प्राणात्मना व्यवस्थितस्य विदु­ष­स्त­दा­त्म­भावं कदाचिदहं न प्रप­द्ये­य­मि­त्या­शं­सनं नास्तीति निगमयति —
तस्मादिति ।

कर्म­स­मु­च्चि­ता­दु­पा­स­ना­त्के­व­लाच्च प्राणात्मत्वं फलमुक्तं तत्र समु­च्चि­ता­दु­द्गा­तु­र्य­ज­मा­नस्य वा फलं केव­ला­च्चो­पा­स­ना­त्त­यो­र­न्य­त­र­स्या­न्यस्य वा कस्यचिदिति जिज्ञासमानः शङ्कते —
कस्येति ।
ज्ञान­क­र्म­णो­रु­भ­यत्र समभावादुभयोरपि वचनात्फलसिद्धिः ।

आश्रमान्तरविषयं तु केवलज्ञानस्य लोक­ज­य­हे­तु­त्व­मि­त्य­भि­प्रे­त्याऽऽह —
य एवमिति ।

एवंशब्दस्य प्रकृ­त­प­रा­म­र्शि­त्वा­त्पू­र्वोक्तं सर्वं वेद्यस्वरूपं संक्षिपति —
अहमस्मीत्यादिना ।

तस्य वागादिभ्यो विशेषं दर्शयति —
इन्द्रियेति ।

किमिदानीं प्राण­स्यै­वो­पा­स्य­तया वागा­दि­प­ञ्च­क­मु­पे­क्षि­त­मिति नेत्याह —
वागादीति ।

तस्य प्राणा­श्र­य­त्वेऽपि कुतो देव­ता­त्व­मा­सं­ग­पा­प्म­वि­द्ध­त्वा­दि­त्या­श­ङ्क्याऽऽह —
स्वाभाविकेति ।

अन्नकृतोपकारं प्राणद्वारा वागादौ स्मारयति —
सर्वेति ।

रूपकर्मात्मके जगति प्राणस्य स्वरू­प­म­नु­स­न्धत्ते —
आत्मा चेति ।

नामात्मके जगति प्राण­स्याऽऽ­त्म­त्व­मुक्तं स्मारयति —
ऋगिति ।

सति सामत्वे गीति­भा­वा­व­स्थायां प्राणस्योक्तं बाह्यमान्तरं च सौस्वर्यं सौवर्ण्यमिति गुणद्वयमनुवदति —
ममेति ।

तस्यैव वैकल्पिकीं प्रति­ष्ठा­मु­क्ता­म­नु­स्मा­र­यति —
गीतीति ।

य एव­मि­त्या­दि­नोक्तं परामृशति —
एवङ्गुणोऽहमिति ।

इत्ये­व­म­भि­मा­ना­भि­व्य­क्ति­प­र्यन्तं यो ध्यायति तस्येदं फल­मि­त्यु­प­स­म्ह­रति —
इतीति ॥२८॥

ब्राह्म­णा­न्त­र­म­व­तार्य पूर्वेण संबन्धं वक्तुं वृत्तं कीर्तयति —
आत्मैवेत्यादिना ।
केव­ल­प्रा­ण­द­र्श­नेन च प्रजा­प­ति­त्व­प्रा­प्ति­र्व्या­ख्या­तेति संबन्धः ।

इदा­नी­मा­त्मे­त्या­दे­स्त­द्धे­द­मि­त्यतः प्राक्त­न­ग्र­न्थ­स्याऽऽ­पा­त­त­स्ता­त्प­र्य­माह —
प्रजापतेरिति ।
आदिपदेन सर्वात्मत्वादि गृह्यते ।

फलो­त्क­र्षो­प­व­र्णनं कुत्रोपयुज्यते तत्राऽऽह —
तेन चेति ।
कर्मकाण्डपदेन पूर्वग्रन्थोऽपि संगृहीतः ।

फलातिशयो हेत्व­ति­श­या­पे­क्षोऽ­न्य­थाऽऽ­क­स्मि­क­त्वा­पा­ता­दतो ज्ञान­क­र्म­फ­ल­भू­त­सू­त्र­वि­भू­ति­रु­च्य­माना ज्ञान­क­र्म­णो­र्म­हत्त्वं दर्शयतीत्याह —
सामर्थ्यादिति ।

आपातिकं तात्प­र्य­मुक्त्वा परमतात्पर्यमाह —
विवक्षितं त्विति ।

किञ्च विमतं संसारान्तर्भूतं कार्य­क­र­णा­त्म­त्वा­द­स्म­दा­दि­का­र्य­क­र­ण­व­दि­त्याह —
कार्येति ।

प्राजापत्यपदस्य संसा­रा­न्त­र्भू­तत्वे हेत्वन्तरमाह —
स्थूलेति ।

स्थूलत्वं साधयति —
व्यक्तेति ।

अनि­त्य­त्वा­द्दृ­श्य­त्वाच्च प्रजापतित्वं संसा­रा­न्त­र्ग­त­मि­त्याह —
अनित्येति ।
इतिशब्दो विव­क्षि­ता­र्थ­स­मा­प्त्यर्थः ।

किमि­त्ये­त­द्वि­व­क्षि­त­मु­प­व­र्ण्यते तत्राऽऽह —
ब्रह्मविद्याया इति ।
तच्चेदं विव­क्षि­ता­र्थ­व­च­न­मे­का­किन्या विद्याया वक्ष्यमाणाया मुक्ति­हे­तु­त्व­मि­त्यु­त्त­रा­र्थ­मिति द्रष्टव्यम् । यदा हि कर्मज्ञानफलं प्रजापतित्वं संसार इत्युच्यते तदा तत्प­र्य­न्ता­त्स­र्व­स्मा­त्त­स्मा­द्वि­र­क्तस्य वक्ष्य­मा­ण­वि­द्या­या­म­धि­कारः सेत्स्य­ती­त्यर्थः ।

अथ यस्य कस्य­चि­द­र्थि­ता­मा­त्रेण तत्रा­धि­का­र­सं­भ­वा­द्वै­राग्यं न मृग्य­मि­त्या­श­ङ्क्याऽऽह —
न हीति ।
उभयत्रापि विषयशब्दः पूर्वेण समानाधिकरणः ।

विव­क्षि­त­म­र्थ­मु­प­स­म्ह­रति —
तस्मादिति ।
वैराग्यमन्तरेण ज्ञाना­न­धि­का­रा­ज्ज्ञा­ना­दि­फ­लस्य प्रजा­प­ति­त्व­स्यो­त्क­र्ष­वतः संसारत्ववचनं ततो विरक्तस्य वक्ष्य­मा­ण­वि­द्या­या­म­धि­का­रा­र्थम् ।

विरक्तस्य विद्याधिकारे मोक्षादपि वैराग्यं स्यादि­त्या­श­ङ्क्याऽऽह —
तथा चेति ।

ननु मोक्षार्थं विद्यायां प्रवर्तितव्यं मोक्ष­श्चा­पु­रु­षा­र्थ­त्वान्न प्रेक्षावता प्रार्थ्यते तत्राऽऽह —
तदेतदिति ।

आपा­ति­क­म­ना­पा­ति­कञ्च तात्प­र्य­मुक्त्वा प्रती­क­मा­दा­या­क्ष­राणि व्याकरोति —
आत्मैवेति ।

तस्या­श्व­मे­धा­धि­कारे प्रकृतत्वं सूचयति —
अण्डज इति ।

पूर्वस्मिन्नपि ब्राह्मणे तस्य प्रस्तु­त­त्व­म­स्ती­त्याह —
वैदिकेति ।
स एवाऽऽसीदिति संबन्धः ।

स्थित्य­व­स्था­या­मपि प्रजापतिरेव सम­ष्टि­दे­ह­स्त­त्त­द्व्य­ष्ट्या­त्मना तिष्ठतीति विशे­षा­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
तेनेति ।

आत्मशब्देन परस्यापि ग्रहसंभवे किमिति विराडेवोपादीयत इत्याशङ्क्य वाक्य­शे­षा­दि­त्याह —
स चेति ।

वक्ष्य­मा­ण­म­न्वा­लो­च­नादि विरा­डा­त्म­क­र्तृ­क­मे­वे­त्याह —
स एवेति ।
स्वरूपधर्मविषयौ द्वौ विमर्शौ ।

नान्यदिति वाक्य­मा­दा­या­क्ष­राणि व्याचष्टे —
वस्त्वन्तरमिति ।

दर्श­न­श­क्त्य­भा­वा­देव वस्त्वन्तरं प्रजापतिर्न दृष्ट्वा­नि­त्या­श­ङ्क्याऽऽह —
केवलं त्विति ।

सोऽहमित्यादि व्याचष्टे —
तथेति ।
यथा सर्वात्मा प्रजापतिरहमिति पूर्व­स्मि­ञ्ज­न्मनि श्रौतेन विज्ञानेन संस्कृतो विराडात्मा तथेदानीमपि फलावस्थः सोऽहं प्रजापतिरस्मीति प्रथमं व्याहृतवानिति योजना ।

व्याहरणफलमाह —
तत इति ।

किमिति प्रजापतेरहमिति नामोच्यते साधारणं हीदं सर्वे­षा­मि­त्या­श­ङ्क्यो­पा­स­ना­र्थ­मि­त्याह —
तस्येति ।
आध्यात्मिकस्य चाक्षुषस्य पुरुषस्याहमिति रहस्यं नामेति यतो वक्ष्यत्यतः श्रुति­सि­द्ध­मे­वै­त­न्ना­मास्य ध्याना­र्थ­मि­हो­क्त­मि­त्यर्थः ।

प्रजा­प­ते­र­हं­ना­मत्वे लोकप्रसिद्धिं प्रमा­ण­यि­तु­मु­त्तरं वाक्यमित्याह —
तस्मादिति ।

उपासनार्थं प्रजा­प­ते­र­हं­ना­मोक्त्वा पुरु­ष­ना­म­नि­र्व­चनं करोति —
स चेत्यादिना ।
पूर्व­स्मि­ञ्ज­न्मनि साधकावस्थायां कर्मा­द्य­नु­ष्ठा­नै­र­ह­म­ह­मि­कया प्रजा­प­ति­त्व­प्रे­प्सूनां मध्ये पूर्वो यः सम्य­क्क­र्मा­द्य­नु­ष्ठानैः सर्वं प्रतिबन्धकं यस्मा­द­द­ह­त्त­स्मात्स प्रजापतिः पुरुषः इति योजना ।

उक्तमेव स्फुटयति —
प्रथमः सन्निति ।
सर्व­स्मा­द­स्मा­त्प्र­जा­प­ति­त्व­प्र­ति­पि­त्सु­स­मु­दा­या­त्प्र­थमः सन्नौषदिति संबन्धः ।

आका­ङ्क्षा­पू­र्वकं दाह्यं दर्शयति —
किमित्यादिना ।

पूर्वं प्रजा­प­ति­त्व­प्र­ति­ब­न्ध­क­प्र­ध्वं­सित्वे सिद्धमर्थमाह —
यस्मादिति ।

पुरु­ष­गु­णो­पा­स­कस्य फलमाह —
यथेति ।
अयं प्रजापतिरिति भवि­ष्य­द्वृत्त्या साधकोक्तिः , पुरुषः प्रजापतिरिति फलावस्थः स कथ्यते ।

कोऽसा­वो­ष­ती­त्य­पे­क्षा­या­माह —
तं दर्शयतीति ।
पुरुषगुणः प्रजा­प­ति­र­ह­म­स्मीति यो विद्या­त्सो­न्या­नो­ष­ती­त्यर्थः ।

विद्यासाम्ये कथमेषा व्यव­स्थे­त्या­श­ङ्क्याऽऽह —
सामर्थ्यादिति ।
हेतुसाम्ये दाह­क­त्वा­नु­प­प­त्ते­स्त­त्प्र­क­र्ष­वा­नि­त­रा­न्द­ह­ती­त्यर्थः ।

प्रसिद्धं दाहमादाय चोदयति —
नन्विति ।
तथा च तत्प्रे­प्सा­यो­गा­त्त­दु­पा­स्त्य­सि­द्धि­रि­त्यर्थः ।

विवक्षितं दाहं दर्श­य­न्नु­त्त­र­माह —
नैष दोष इति ।

तदेव स्पष्टयति —
उत्कृष्टेति ।
प्राप्नु­व­न्भ­व­तीति शेषः ।

औपचारिकं दाहं दृष्टान्तेन साधयति —
यथेति ।
आजिर्मर्यादा तां सरन्ति धाव­न्ती­त्या­जि­सृ­त­स्ते­षा­मिति यावत् ॥१॥

ज्ञानकर्मफलं सौत्रं पद­मु­त्कृ­ष्ट­त्वा­न्मु­क्ति­स्त­द­न्य­मु­क्त्य­भा­वा­त्त­द्धे­तु­स­म्य­ग्धी­सि­द्धये प्रवृ­त्ति­र­न­र्थि­के­त्या­शङ्क्य सोऽबिभेदित्यस्य तात्पर्यमाह —
यदिदमिति ।
तुष्टूषितं स्तोतु­म­भि­प्रे­त­मिति यावत् । आह विव­क्षि­ता­र्थ­सि­द्ध्यर्थं हेतुं भयभाक्त्वमिति शेषः । ज्ञानकर्मफलं त्रैलो­क्या­त्म­क­सू­त्र­त्व­मु­त्कृ­ष्ट­मपि संसा­रा­न्त­र्भू­त­मेव न कैवल्यमिति वक्तुमुत्तरं वाक्यमित्यर्थः ।

अहमेकाकी कोऽपि मां हनि­ष्य­ती­त्या­त्म­ना­श­वि­ष­य­वि­प­री­त­ज्ञा­न­व­त्त्वा­त्प्र­जा­प­ति­र्भी­त­वा­नि­त्यत्र किं प्रमा­ण­मि­त्या­शङ्क्य कार्यगतेन भयलिङ्गेन कारणे प्रजापतौ तदनुमेयमित्याह —
यस्मादिति ।
तत्सा­मा­न्या­दे­का­कि­त्वा­वि­शे­षा­दिति यावत् ।

प्रजापतेः संसा­रा­न्त­र्भू­तत्वे हेत्वन्तरमाह —
किञ्चेति ।
यथाऽस्मदादिभी रज्जुस्थाण्वादौ सर्प­पु­रु­षा­दि­भ्र­म­ज­नि­त­भ­य­नि­वृ­त्तये विचारेण तत्त्वज्ञानं संपाद्यते तथा प्रजापतिरपि भयस्य तद्धेतोश्च विपरीतधियो ध्वस्तिहेतुं तत्त्वज्ञानं विचार्य संपा­दि­त­वा­नि­त्यर्थः ।

परमार्थदर्शनमेव प्रश्नपूर्वकं विशदयति —
कथमित्यादिना ।
तस्मिन्नित्यत्र तस्मादित्यादि पठितव्यम् ।

मच्छ­ब्दो­प­ल­क्षितं प्रत्य­क्चै­त­न्य­म­द्वि­ती­य­ब्र­ह्म­रू­पेण ज्ञात्वा सहेतुं भीतिं प्रजा­प­ति­र­क्षि­प­दि­त्यु­क्त­मि­दानीं तत्त्व­ज्ञा­न­फ­ल­माह —
तत इति ।

कस्मा­द्धी­त्या­दे­रु­त्त­रस्य पूर्वेण पौन­रु­क्त्य­मि­त्या­शङ्क्य विदुषो हेत्वभावान्न भय­मि­त्यु­क्त­स­म­र्थ­ना­र्थ­त्वा­दु­त्त­रस्य नैवमित्याह —
तस्येत्यादिना ।

अनुपपत्तौ हेतुमाह —
यस्मादिति ।

पर­मा­र्थ­द­र्श­नेऽपि वस्त्व­न्त­रा­त्कि­मिति भयं न भव­ती­त्या­श­ङ्क्याऽऽह —
द्वितीयञ्चेति ।

अन्व­य­व्य­ति­रे­काभ्यां द्वैत­स्या­वि­द्या­प्र­त्यु­प­स्था­पि­त­त्वेऽपि कुत­स्त­दु­त्थ­द्वै­त­द­र्शनं भयकारणं न भव­ती­त्या­श­ङ्क्याऽऽह —
न हीति ।
तत्त्वज्ञाने सत्या­यो­गा­त्त­दुत्थं द्वैतं तद्दर्शनं चायुक्तमित्यतो हेत्व­भा­वा­द्भ­या­नु­प­प­त्ति­रि­त्यर्थः ।

अद्वैतज्ञाने भय­नि­वृ­त्ति­रि­त्यत्र मन्त्रं संवादयति —
तत्रेति ।

विरा­डै­क्य­द­र्श­ने­नैव प्रजा­प­ते­र्भ­य­म­प­नीतं नाद्वै­त­द­र्श­ने­ने­त्य­स्मि­न्न­र्थेऽपि यन्म­द­न्य­न्ना­स्ती­त्यादि शक्यं व्याख्या­तु­मि­त्या­श­ङ्क्या­ङ्गी­कु­र्व­न्नाह —
यच्चेति ।

तदेव प्रश्नद्वारा प्रकटयति —
कस्मादित्यादिना ।

प्रथ­म­व्या­ख्या­ना­नु­सा­रेण चोद्यमुत्थापयति —
अत्रेति ।

प्रजा­प­ते­र्ब्र­ह्मा­त्मै­क्य­ज्ञा­ना­द्भी­ति­ध्व­स्ति­रुक्ता न च तस्य तज्ज्ञानं युक्तं हेत्व­भा­वा­दि­त्याह —
कुत इति ।

यस्मा­द­स्मा­क­मै­क्य­धी­स्त­स्मा­देव तस्यापि स्यादि­त्या­श­ङ्क्याऽऽह —
को वेति ।
न हि तस्य शास्त्र­श्र­व­ण­मा­चा­र्या­भा­वा­न्नापि संन्यासस्तस्य त्रैव­र्णि­क­वि­ष­य­त्त्वा­न्नापि शमादि ऐश्व­र्या­स­क्त­त्वा­द­तोऽ­स्मासु प्रसि­द्ध­श्र­व­णा­दि­वि­द्या­हे­त्व­भा­वान्न प्रजा­प­ते­रै­क्य­धी­र्यु­क्ते­त्यर्थः ।

उपदेशानपेक्षमेव प्रजा­प­ते­रै­क्य­ज्ञानं प्रादुर्भूतमिति शङ्कते —
अथेति ।

अतिप्रसक्त्या प्रत्याह —
अस्मदादेरिति ।

प्रजा­प­ते­र्य­ज­मा­ना­व­स्था­या­मा­चा­र्यस्य सत्त्वा­च्छ्र­व­णा­द्या­वृ­त्ते­रै­क्य­ज्ञा­नो­द­या­त्त­त्सं­स्का­रोत्थं तथाविधमेव तज्ज्ञानं फलावस्थायामपि स्यादिति चोदयति —
अथेति ।

दूषयति —
एकत्वेति ।

अज्ञा­न­ध्वं­सि­त्वे­ना­र्थ­व­त्त्व­मि­त्या­श­ङ्क्याऽऽह —
यथेति ।

तत्र गमकमाह —
यत इति ।

दार्ष्टा­न्ति­क­माह —
एवमिति ।

नन्वस्मिन्नेव जन्मनि प्रजा­प­ते­रै­क्य­धी­र­न­पेक्षा जायते ‘ज्ञानमप्रतिघं यस्य’ इति स्मृतेः । न च तदु­त्प­त्त्य­न­न्त­र­मेव सहेतुं बन्धनं निरुणद्धि भयारत्यादिफलेन प्रारब्धकर्मणा प्रतिबन्धादतो मरणकालिकं तदज्ञानध्वंसीति शङ्कते —
अन्त्यमेवेति ।
प्रवृत्तफलस्य कर्मणः स्वोप­पा­द­का­ज्ञा­न­ले­शा­द्वि­ज्ञा­न­श­क्ति­प्र­ति­ब­न्ध­क­त्वेऽपि, जन्मा­न्त­र­स­र्व­सं­सा­र­हे­त्व­ज्ञा­न­ध्वं­सि­ज्ञा­न­सा­म­र्थ्य­प्र­ति­ब­न्ध­कत्वे मानाभावान्मध्ये जातं ज्ञान­म­नि­व­र्त­क­मि­त्य­शक्यं वक्तुम् । अन्त्यस्य च ज्ञानस्य निवर्तकत्वे नान्त्यत्वं हेतुः । यज­मा­ना­न्त­र­स्यान्त्ये ज्ञाने तद्ध्वं­सि­त्वा­दृ­ष्टे­र­न्त्य­त्व­स्या­ज्ञा­न­ध्वं­सि­त्वे­ना­नि­य­मात् । न च यजमानान्तरे प्रजापतौ चान्त्यं ज्ञानं ज्ञान­त्वा­द­ज्ञा­न­ध्वंसि, पूर्वज्ञानेषु बन्ध­हे­त्व­ज्ञा­न­ध्वं­सि­त्वा­दृ­ष्टे­र्ज्ञा­न­त्व­हे­तो­र­नै­का­न्त्यात् । न चान्त्य­मै­क्य­ज्ञा­न­मै­क्य­ज्ञा­न­त्वा­द­ज्ञा­न­ध्वं­सीति युक्तम् । उपा­न्त्य­ता­दृ­ग्ज्ञा­न­व­द­न्त्येऽपि तदयोगात् ।

उपान्त्ये हेतो­र­नै­का­न्त्या­दि­त्य­भि­प्रेत्य दूषयति —
नेत्यादिना ।

क्लृप्त­का­र­णा­भा­वा­त्त­द­न्त­रेण चोत्प­त्ता­व­ति­प्र­सं­गा­त्सं­स्का­रा­धी­न­त्वेऽपि विशे­षा­भा­वा­द­न्त्यस्य च ज्ञान­स्या­ज्ञा­न­ध्वं­सि­त्वा­सि­द्धे­र­युक्तं प्रजा­प­ते­रे­क­त्व­द­र्श­न­मि­त्यु­प­स­म्ह­रति —
तस्मादिति ।

प्रजापतेः सुप्त­प्र­ति­बु­द्ध­व­त्प्र­कृ­ष्टा­दृ­ष्टो­त्थ­का­र्य­क­र­ण­व­त्त्वा­त्पू­र्व­क­ल्पी­य­प­द­प­दा­र्थ­वा­क्य­स्म­र­ण­वतः स्मृति­वि­प­रि­व­र्तिनो वाक्या­द्वि­चा­र्य­मा­णा­द­दृ­ष्ट­स­ह­कृ­ता­त्त­त्त्व­ज्ञानं स्याल्लोके विशि­ष्टा­दृ­ष्टो­त्थ­का­र्य­क­र­णानां प्रज्ञा­द्य­ति­श­य­द­र्श­ना­त्तेन च ज्ञानेन जन्मा­न्त­र­हे­त्व­वि­द्या­क्ष­येऽ­प्या­रब्धं कर्म तज्जं भया­र­त्या­द्य­वि­द्या­ले­शतो भविष्यतीति परिहरति —
नैष दोष इति ।

संगृहीतमर्थं समर्थयते —
यथेत्यादिना ।
धर्मा­दि­च­तु­ष्ट­या­द्वि­प­री­त­म­ध­र्मा­दि­च­तु­ष्टयं तत्र हेतोः सर्वस्य पाप्मनो ज्ञानाद्यतिशयेन नाशादिति यावत् । उत्कृष्टत्वं प्रकृ­ष्ट­ज्ञा­ना­दि­शा­लि­त्वम् ।

उक्तजन्मफलमाह —
तदुद्भवञ्चेति ।

तस्य ज्ञाना­दि­वै­शा­रद्ये पौराणिकीं स्मृतिमुदाहरति —
तथा चेति ।
अप्र­ति­घ­म­प्र­ति­बद्धं निर­ङ्कु­श­मि­त्ये­त­त्प्र­त्येकं संबध्यते यस्यै­त­च्च­तु­ष्टयं सहसिद्धं स निरवर्ततेति संबन्धः ।

सह­सि­द्ध­त्व­स्मृतेः ‘सोऽबिभेत्’(बृ. उ. १ । ४ । २) इति­श्रु­ति­वि­रु­द्ध­त्वा­द­प्रा­मा­ण्य­मिति विरो­धा­धि­क­र­ण­न्या­येन शङ्कते —
सहसिद्धत्व इति ।

सत्येव सहजे ज्ञाने स्वहेतोर्भयमपि स्यादिति चेन्नेत्याह —
न हीति ।

अन्ये­नाऽऽ­चा­र्ये­णा­नु­प­दि­ष्ट­मेव प्रजा­प­ते­र्ज्ञा­न­मु­दे­ती­त्ये­व­म­र्थ­प­र­त्वा­त्स­ह­सि­द्ध­वा­क्यस्य । तज्ज्ञा­ना­त्प्रा­क्तस्य भय­म­वि­रु­द्ध­मूर्ध्वं चाज्ञानलेशादतो न विरोधः श्रुति­स्मृ­त्यो­रिति समाधत्ते —
नेत्यादिना ।

ज्ञानो­त्प­त्ते­रा­चा­र्या­द्य­न­पे­क्षत्वे श्रद्धा­दि­वि­धा­ना­न­र्थ­क्या­द­ने­क­श्रु­ति­स्मृ­ति­वि­रोधः स्यादिति शङ्कते —
श्रद्धेति ।
आदिपदेन शमादिग्रहः ।

अस्मदादिषु तेषां हेतुत्वमिति चेन्नेत्याह —
प्रजापतेरिवेति ।

चोदितं विरोधं निराकरोति —
नेत्यादिना ।
निमित्तानां विकल्पः समुच्चयो गुण­व­त्त्व­म­गु­ण­त्त्व­मि­त्य­नेन प्रकारेण कार्योत्पत्तौ विशेषसंभवान्न श्रद्धा­दि­वि­ध्या­न­र्थ­क्य­मि­त्यर्थः ।

संग्रहवाक्यं विवृणोति —
लोके हीति ।

तद्धि सर्वं विकल्पादि यथा ज्ञातुं शक्यं तथैकस्मिन्नेव नैमित्तिके रूप­ज्ञा­ना­ख्य­कार्ये दर्शयामीत्याह —
तद्यथेति ।

तत्र विकल्पमुदाहरति —
तमसीत्यादिना ।

समुच्चयं दर्शयति —
अस्माकं त्विति ।

विकल्पितानां समुच्चितानां च निमित्तानां गुण­व­द­गु­ण­व­त्त्व­प्र­युक्तं भेदं कथयति —
तथेति ।
आलोकविशेषस्य गुणवत्त्वं बहु­ल­त्व­म­गु­ण­वत्त्वं मन्दप्रभत्वं चक्षु­रा­दे­र्गु­ण­वत्त्वं निर्मलत्वादि तिमिरोपहतत्वादि चागुणवत्त्वमिति भेदः ।

दृष्टान्तं प्रतिपाद्य दार्ष्टा­न्ति­क­माह —
एवमिति ।
तथाऽन्यस्यापि प्रजा­प­ति­तु­ल्यस्य वाम­दे­वा­दे­र्ज­न्मा­न्त­री­य­सा­ध­न­व­शा­दी­श्व­रा­नु­ग्र­हा­द­स्मि­ञ्ज­न्मनि स्मृत­वा­क्या­दै­क्य­ज्ञा­न­मु­दे­तीति शेषः । भृगुस्तत्तुल्यो वाऽधिकारी क्वचि­दि­त्यु­च्यते । तपोऽ­न्व­य­व्य­ति­रे­का­ख्य­मा­लो­च­नम् ।

श्वेत­के­तु­प्र­भृ­तिषु ज्ञान­नि­मि­त्तानां समुच्चयं दर्शयति —
क्वचिदित्यादिना ।
एकान्तं नियतमावश्यकं ज्ञानोदयलाभे निमित्तत्वमिति यावत् ।

अथ प्रणि­पा­ता­दि­व्य­ति­रे­केण न प्रजापतेरपि ज्ञानं संभवति सामग्र्यभावादत आह —
अधर्मादीति ।
प्रणि­पा­ता­दे­र्ज्ञा­नो­द­य­प्र­ति­ब­न्ध­क­नि­व­र्त­क­त्वा­त्प्र­जा­प­तेश्च तन्नि­वृ­त्ते­र्ज­न्मा­न्त­री­य­सा­ध­ना­य­त्त­त्वा­दा­धु­नि­क­प्र­णि­पा­ता­दिना विना स्मृत­वा­क्या­दे­वै­क्यधीः संभवतीत्यर्थः ।

तर्हि श्रव­णा­दि­व्य­ति­रे­के­णापि प्रजा­प­ते­र्ज्ञानं स्यादि­त्या­श­ङ्क्याऽऽह —
वेदान्तेति ।
न तैर्विना ज्ञानं कस्यचिदपि स्यात्प्र­जा­प­तेस्तु जन्मा­न्त­री­य­श्र­व­ण­व­शा­दि­दा­नी­म­नु­स्मृ­त­वा­क्या­त्त­दु­त्प­त्ति­रिति शेषः ।

तर्हि श्रद्धादिकमपि प्रति­ब­न्ध­क­नि­व­र्त­क­त्वेन प्रजा­प­ते­रा­द­र­णीयं तन्नि­वृ­त्ति­म­न्त­रेण ज्ञानो­त्प­त्त्य­नु­प­प­त्ते­रि­त्या­श­ङ्क्याऽऽह —
पापादीति ।
आत्ममनसोर्मिथः संयुक्तयोः संबन्धि यत्पापं यत्कार्यं च रागादि तेन ज्ञानोत्पत्तौ प्रतिबन्धस्य पूर्वोक्तेन न्यायेन क्षये सति प्रजा­प­ते­री­श्व­रा­नु­ग्र­हा­त्स्मृ­त­वा­क्यस्य पर­मा­र्थ­ज्ञा­नो­त्पत्तौ केवलस्य निमि­त्त­त्वा­त्त­स्याऽऽ­धु­नि­क­श्र­द्धा­द्य­ति­रे­केण ज्ञानोदयेऽपि न तद्वि­धि­वै­य­र्थ्यम् । अस्माकं तद्वशादेव तदु­त्प­त्ते­र्वा­क्य­ता­त्प­र्या­दि­ज्ञानं सर्वेषामेव ज्ञान­सा­ध­न­मा­चा­र्या­दिषु पुन­र्वि­क­ल्प­स­मु­च्च­या­वि­त्यर्थः ।

अधिकारिभेदेन ज्ञानहेतुषु विकल्पेऽपि तेषामस्मासु समुच्चयान्न श्रुति­स्मृ­ति­वि­रो­धोऽ­स्ती­त्यु­प­सं­ह­रति —
तस्मादिति ॥२॥

प्रजा­प­ते­र्भ­या­वि­ष्टा­त्वेन संसा­रा­न्त­र्भू­त­त्व­मु­क्त­मि­दानीं तत्रैव हेत्वन्तरमाह —
इतश्चेति ।

अरत्याविष्टत्वे प्रजा­प­ते­रे­का­कित्वं हेतूकरोति —
यत इति ।

कार्यस्थारतिः कार­ण­स्था­र­ते­र्लि­ङ्ग­मि­त्य­नु­मानं सूचयति —
इदानीमपीति ।

आदिपदेन भया­वि­ष्ट­त्वा­दि­ग्रहः अरतिं प्रति­यो­गि­नि­रु­क्ति­द्वारा निर्वक्ति —
रतिर्नामेति ।

कथं तर्हि यथो­क्ता­र­ति­नि­र­स­न­मि­त्या­शङ्क्य स द्विती­य­मै­च्छ­दि­त्ये­त­द्व्या­चष्टे —
स तस्या इति ।

स हेत्यस्य वाक्यस्य पातनिकाङ्करोति —
तस्येति ।
तेन भावेनेति यावत् ।

कथमभिमानमात्रेण यथो­क्त­प­रि­मा­णत्वं तत्राऽऽह —
सत्येति ।
निपातोऽवधारणे । तस्यैव पुन­र­नु­वा­दोऽ­न्व­यार्थः ।

परिमाणमेव प्रश्नपूर्वकं विवृणोति —
किमित्यादिना ।

संप्रति स्त्रीपुं­स­यो­रु­त्प­त्ति­माह —
स तथेति ।

ननु द्वेधाभावो विराजो वा संस­क्त­स्त्री­पु­म्पि­ण्डस्य वा ? नाऽऽद्यः । सशब्देन विरा­ड्ग्र­ह­यो­गा­त्तस्य कर्म­त्वा­द्द्वि­तीये त्वात्म­श­ब्दा­नु­प­प­त्ति­स्त­त्राऽऽह —
इममिति ।
तथा च सशब्देन कर्तृतया विरा­ड्ग्र­ह­ण­म­वि­रु­द्ध­मि­त्यर्थः ।

तदेव स्फुटयति —
नेत्यादिना ।

कस्य तर्हि द्विधा­क­र­ण­मि­त्या­श­ङ्क्याऽऽह —
किं तर्हीति ।
तच्च द्विधा­क­र­ण­क­र्मेति शेषः ।

कथं तर्हि तत्राऽऽत्मशब्दः संभ­व­ती­त्या­श­ङ्क्याऽऽह —
स एव चेति ।
तथाभूतः संस­क्त­जा­या­पु­म्प­रि­मा­णोऽ­भू­दिति यावत् ।

न केवलं मनुः शतरूपेत्यनयोरेव दम्पत्योरिदं निर्वचनं किन्तु लोकप्रसिद्धयोः सर्वयोरेव तयो­रे­त­द्द्र­ष्टव्यं सर्वत्रास्य संभवादित्याह —
लौकिकयोरिति ।

उक्ते निर्वचने लोका­नु­भ­व­म­नु­कू­ल­यति —
तस्मादिति ।
प्रागिति सह­ध­र्म­चा­रि­णी­सं­ब­न्धा­त्पू­र्व­मि­त्यर्थः ।

आकाङ्क्षाद्वारा षष्ठी­मा­दा­या­नु­भ­व­म­व­लम्ब्य व्याचष्टे —
कस्येत्यादिना ।
बृगलशब्दो विकारार्थः ।

अनु­भ­व­सि­द्धेऽर्थे प्रामा­णि­क­स­म्म­ति­माह —
एवमिति ।

द्वेधापातने सत्येको भागः पुरुषोऽपरस्तु स्त्रीत्यत्रैव हेत्वन्तरमाह —
यस्मादिति ।
उद्व­ह­ना­त्प्रा­ग­व­स्था­या­मा­काशः पुरुषार्धः स्त्र्यर्ध­शून्यो यस्मादसंपूर्णो वर्तते तस्मादुद्वहनेन प्राप्त­स्त्र्य­र्धेन पुनरितरो भागः पूर्यते यथा विद­ला­र्धोऽ­सं­पूर्णः संपुटीकरणेन पुनः संपूर्णः क्रियते तद्वदिति योजना । पूर्वमपि स्वाभा­वि­क­यो­ग्य­ता­व­शेन संस­र्गोऽ­भू­द­ना­दि­त्वा­त्सं­सा­र­स्येति सूचयितुं पुनरित्युक्तम् ।

पुरु­षा­र्ध­स्ये­त­रा­र्धस्य च मिथः संब­न्धा­न्म­नु­ष्या­दि­सृ­ष्टि­रि­त्याह —
तामित्यादिना ॥३॥
स्मार्तं प्रतिषेधमिति । ‘न सगोत्रां समानप्रवरां भार्यां विन्दे­ते’त्या­दि­क­मिति यावत् ।

’अकृत्यं हीदं यद्दुहितृगमनं मातृ­त­श्चाऽऽ­प­ञ्च­मा­त्पु­रु­षा­त्पि­तृ­त­श्चाऽऽ­स­प्त­मादि’ति स्मृतेरिति मत्वाऽऽह —
कथमिति ।

तयो­र्जा­त्य­न्त­र­ग­मनं कथ­मि­त्या­श­ङ्क्याऽऽह —
यद्यपीति ।

शतरूपायां गोभा­व­मा­प­न्ना­या­मृ­ष­भा­दि­भावो मनोर्भवतु तावता यथो­क्त­दो­ष­प­रि­हा­र­स्त­यो­र्व­ड­वा­दि­भावे तु न कार­ण­म­स्ती­त्या­श­ङ्क्याऽऽह —
उत्पाद्येति ।
ततस्तया गोभा­वा­द­न­न्त­र­मिति यावत् । गवां जन्मार्थं मिथः संभवनं ततःशब्दार्थः । तत्र तेषामुत्पत्तौ सत्यामिति यावत् ।

वाक्यद्वये वीप्सा विवक्षितेत्याह —
तामिति ।

तामेवाभिनयति —
तामजामिति ।
तां वडवां तां गर्दभीं चेत्यपि द्रष्टव्यम् । ततो मिथः संभ­व­ना­द्य­थो­क्ता­दिति यावत् ।

विशे­षा­णा­मा­न­न्त्या­त्प्र­त्ये­क­मु­प­दे­शा­सं­भवं मन्वानः संक्षि­प्यो­प­स­म्ह­रन्ति —
एवमेवेति ।

तद्विभजते —
इदं मिथुनमिति ।
पशुकर्मप्रयोगो न्यायः ॥४॥

यद्यपि मन्वा­दि­सृ­ष्टि­रे­वोक्ता तथापि सर्वा सृष्टि­रु­क्तै­वेति सिद्ध­व­त्कृ­त्याऽऽह —
स प्रजापतिरिति ।

अवगतिं प्रश्नपूर्वकं विशदयति —
कथमित्यादिना ।

कथं सृष्टि­र­स्मी­त्य­व­धा­र्यते कर्तृ­क्रि­य­यो­रे­क­त्वा­यो­गा­दि­त्या­श­ङ्क्याऽऽह —
सृज्यत इतीति ।

पदार्थमुक्त्वा वाक्यार्थमाह —
यन्मयेति ।
जगच्छब्दादुपरि तच्छ­ब्द­म­ध्या­हृ­त्या­ह­मेव तदस्मीति संबन्धः ।

तत्र हेतुमाह —
मदभेदत्वादिति ।

एवकारार्थमाह —
नेति ।

मद­भे­द­त्वा­दि­त्यु­क्त­मा­क्षिप्य समाधत्ते —
कुत इत्यादिना ।
न हि सृष्टं स्रष्टु­र­र्था­न्तरं तस्यैव तेन तेन माया­वि­व­द­व­स्था­ना­दि­त्यर्थः ।

ततः सृष्टिरित्यादि व्याचष्टे —
यस्मादिति ।

किमर्थं स्रष्टुरेषा विभू­ति­रु­प­दि­ष्टे­त्या­श­ङ्क्याऽऽह —
सृष्ट्यामिति ।
जगति भवतीति संबन्धः ।

वाक्यार्थमाह —
प्रजापतिवदिति ॥५॥

ननु सर्वा सृष्टि­रु­क्तो­क्तञ्च प्रजा­प­ते­र्वि­भू­ति­सं­की­र्त­न­फलं किमवशिष्यते यदर्थमुत्तरं वाक्य­मि­त्या­श­ङ्क्याऽऽह —
एवमिति ।
आदावभ्यमन्थदिति संबन्धः ।

अभि­न­य­प्र­द­र्श­न­मेव विशदयति —
अनेनेति ।

मुखादेरग्निं प्रति योनित्वे गमकमाह —
यस्मादिति ।

प्रत्यक्षविरोधं शङ्कित्वा दूषयति —
किमित्यादिना ।

हस्तयोर्मुखे च योनिशब्दप्रयोगे निमित्तमाह —
अस्ति हीति ।

प्रजा­प­ते­र्मु­खा­दि­त्थ­मग्निः सृष्टोऽपि कथं ब्राह्म­ण­म­नु­गृ­ह्णाति तत्राऽऽह —
तथेति ।

उक्तेऽर्थे श्रुति­स्मृ­ति­सं­वादं दर्शयति —
तस्मादिति ।
’अग्नेयो वै ब्राह्मणः’ इत्याद्या श्रुति­स्त­द­नु­सा­रिणी च स्मृति­र्द्र­ष्टव्या ।

’अग्निमसृजत’ इत्ये­त­दु­प­ल­क्ष­णा­र्थ­मि­त्य­भि­प्रेत्य सृष्ट्यन्तरमाह —
तथेति ।
बलभिदिन्द्रः । आदिशब्देन वरु­णा­दि­र्गृ­ह्यते । क्षत्त्रियं चासृ­ज­ते­त्य­नु­व­र्तते ।

उक्तमर्थं प्रमाणेन द्रढयति —
तस्मादिति ।
’ऐन्द्रो राजन्यः’ इत्याद्या श्रुति­स्त­द­नु­सा­रिणी च स्मृतिरवधेया । विशं चासृजतेति पूर्ववत् । ईहाश्रयादूरुतो जातत्वं वस्वा­दे­र्ज्ये­ष्ठत्वं च तच्छब्दार्थः । ‘पद्भ्यां शूद्रो अजायत’(ऋ.१०.९०.१३) इत्याद्या श्रुतिस्तथाविधा च स्मृति­र­नु­स­र्तव्या ।

अग्निसर्गस्य वक्ष्य­मा­णे­न्द्रा­दि­स­र्गो­प­ल­क्ष­णत्वे सति सृष्टि­सा­क­ल्या­देष उ एव सर्वे देवा इत्यु­प­सं­हा­र­सि­द्धि­रिति फलितमाह —
तत्रेति ।
उक्तेन वक्ष्य­मा­णो­प­ल­क्षणं सर्वशब्दः सूचयतीति भावः ।

किञ्च सृष्टिरत्र न विवक्षिता किन्तु येन प्रकारेण सृष्टिश्रुतिः स्थिता तेन प्रकारेण देवतादि सर्वं प्रजापतिरेवेति विवक्षितमित्याह —
यथेति ।

तत्र हेतुमाह —
स्रष्टुरिति ।

तथाऽपि कथं देवतादि सर्वं प्रजा­प­ति­मा­त्र­मि­त्या­श­ङ्क्याऽऽह —
प्रजापतिनेति ।

तद्य­दि­द­मि­त्या­दि­वा­क्यस्य तात्पर्यमाह —
अथेति ।
स्रष्टा प्रजापतिरेव सृष्टं सर्वं कार्यमिति प्रकरणार्थे पूर्वो­क्त­प्र­का­रेण व्यवस्थिते सत्यनन्तरं तस्यैव स्तुतिविवक्षया तद्य­दि­द­मि­त्या­द्य­वि­द्व­न्म­ता­न्त­रस्य निन्दार्थं वचनमित्यर्थः ।

मतान्तरे निन्दितेऽति कथं प्रकरणार्थः स्तुतो भव­ती­त्या­श­ङ्क्याऽऽह —
अन्येति ।

एकैकं देवमित्यस्य तात्पर्यमाह —
नामेति ।
काठकं काला­प­क­मि­ति­व­न्ना­म­भे­दा­त्क्र­तुषु तत्त­द्दे­व­ता­स्तु­ति­भे­दा­द्घ­ट­श­क­टा­दि­व­द­र्थ­क्रि­या­भे­दाच्च प्रत्येकं देवानां भिन्न­त्वा­त्क­र्मि­णा­मे­त­द्व­च­न­मि­त्यर्थः । आदिशब्देन रूपा­दि­भे­दा­त्त­द्भि­न्नत्वं संगृह्णाति ।

नन्वत्र कर्मिणां निन्दा न प्रतिभाति तन्म­तो­प­न्या­स­स्यैव प्रती­ते­रि­त्या­श­ङ्क्याऽऽह —
तन्नेति ।

एकस्यैव प्राण­स्या­ने­क­विधो देवताप्रभेदः शाकल्यब्राह्मणे वक्ष्यत इति विवक्षित्वा विशिनष्टि —
प्राण इति ।

अग्न्यादयो देवाः सर्वं प्रजा­प­ति­रे­वे­त्युक्तं संप्रति तत्स्व­रू­प­नि­र्दि­धा­र­यि­षया तत्र विप्रतिपत्तिं दर्शयति —
अत्रेति ।
हिरण्यगर्भस्य परत्वमाद्ये द्वितीये कल्पे संसारित्वं विधेयमिति विभागः ।

तत्र पूर्वपक्षं गृह्णाति —
पर एव त्विति ।

नन्वे­क­स्या­ने­का­त्म­कत्वं मन्त्र­व­र्णा­द­व­ग­म्यते न तु परमात्मत्वं प्रजा­प­ते­रि­त्या­शङ्क्य ब्राह्म­ण­वा­क्य­मु­दा­ह­रति —
एष इति ।
ब्रह्मप्रजापती सूत्रविराजौ । एषशब्दः परात्मविषयः । स्मृतेश्च पर एव हिरण्यगर्भ इति संबन्धः ।

तत्रैव वाक्यान्तरं पठति —
योऽसाविति ।
कर्मे­न्द्रि­या­वि­ष­य­त्व­म­ती­न्द्रि­य­त्वम् । अग्राह्यत्वं ज्ञाने­न्द्रि­या­वि­ष­य­त्वम् ।

तत्र हेतुमाह —
सुक्ष्मोऽव्यक्त इति ।

न च तस्यासत्त्वं प्रमा­त्रा­दि­भा­वा­भा­व­सा­क्षि­त्वेन सदा सत्त्वादित्याह —
सनातन इति ।

इतश्च तस्य नासत्त्वं सर्वे­षा­मा­त्म­त्वा­दि­त्याह —
सर्वेति ।

अन्तः­क­र­णा­वि­ष­य­त्व­माह —
अचिन्त्य इति ।

योऽसौ परमात्मा यथोक्तविशेषणः स एव स्वयं विराडात्मना भूतवानित्याह —
स एवेति ।

मन्त्र­ब्रा­ह्म­ण­स्मृ­तिषु परस्य सर्व­दे­व­ता­त्म­त्व­दृ­ष्टे­रत्र च सूत्रस्य तत्प्र­ती­ते­स्तस्य पर­त्व­मि­त्यु­क्त­मि­दानीं पूर्व­प­क्षा­न्त­र­माह —
संसार्येवेति ।

सर्व­पा­प्म­दा­ह­श्र­व­ण­मा­त्रेण कथं प्रजापतेः संसारित्वं तत्राऽऽह —
न हीति ।

’अन्त­स्त­द्ध­र्मो­प­दे­शा­दि’त्यत्र परस्यापि सर्व­पा­प्मो­द­या­ङ्गी­का­रा­न्नेदं संसारित्वे लिङ्ग­मि­त्या­श­ङ्क्याऽऽह —
भयेति ।
असृजतेति च श्रवणादिति संबन्धः ।

न केवलं मर्त्य­त्व­श्रु­ते­रेव संसारित्वं किन्तु जन्म­श्रु­ते­श्चे­त्याह —
हिरण्यगर्भमिति ।
यथोक्तहेतूनां संसार्येव स्यादिति प्रति­ज्ञ­याऽ­न्वयः ।

कर्म­फ­ल­द­र्श­ना­धि­कारे ब्रह्मे­त्या­द्यायाः स्मृतेश्च तत्फलभूतस्य प्रजापतेः संसा­रि­त्व­मे­वे­त्याह —
स्मृतेश्चेति ।
विरा­ड्ब्र­ह्मे­त्यु­च्यते । विश्वसृजो मन्वादयः । धर्म­स्त­द­भि­मा­निनी देवता यमः । महा­न्प्र­कृ­ते­राद्यो विकारः सूत्रम् । अव्यक्तं प्रकृतिरिति भेदः ।

अस्तु तर्हि द्विवि­ध­वा­क्य­व­शा­त्प्र­जा­पतेः संसा­रि­त्व­म­सं­सा­रित्वं चेत्या­श­ङ्क्याऽऽह —
अथेति ।
तद्द्वि­वि­ध­वा­क्य­श्र­व­णा­न­न्त­र्य­म­थ­श­ब्दार्थः । एवंशब्दः संसा­रि­त्वा­सं­सा­रि­त्व­प्र­का­र­प­रा­म­र्शार्थः ।

विरो­ध­कृ­त­म­प्रा­माण्यं निराकरोति —
नेत्यादिना ।
स्वतोऽ­सं­सा­रित्वं कल्पनया च संसारित्वमिति कल्प­ना­न्त­र­सं­भ­वा­द्द्वि­वि­ध­श्रु­ती­ना­म­वि­रो­धा­त्प्रा­मा­ण्य­सि­द्धि­रि­त्यर्थः ।

कल्पनया संसा­रि­त्व­मि­त्ये­त­द्वि­श­द­यति —
उपाधीति ।

औपाधिकी परस्य विशे­ष­क­ल्प­ने­त्यत्र प्रमाणमाह —
आसीत इति ।
स्वारस्येन कूट­स्थोऽ­प्यात्मा मनसः शीघ्रं दूर­ग­म­न­द­र्श­ना­त्त­दु­पा­धिको दूरं व्रजति । यथा स्वप्ने शयानोऽपि मनसो गतिभ्रान्त्या सर्वत्र यातीव भाति तथा जागरेऽपीत्यर्थः ।

कल्पितेन हर्षादिविकारेण स्वाभाविकेन तदभावेन च युक्तमात्मानं न कश्चिदपि निश्चेतुं शक्नोतीत्याह —
कस्तमिति ।
आदिपदेन ‘ध्यायती’(बृ. उ. ४ । ३ । ७) वेत्यादिश्रुतयो गृह्यन्ते ।

उदाहृतश्रुतीनां तात्पर्यमाह —
उपाधीति ।

किं तर्हि पारमार्थिकं तदाह —
स्वत इति ।
पूर्वेण संबन्धः ।

हिरण्यगर्भस्य वास्तवमवास्तवं च रूपं निरू­पि­त­मु­प­सं­ह­रति —
एवमिति ।

तस्या­प्य­स्म­दा­दि­वन्न स्वतो ब्रह्मत्वं किन्तु संसारित्वमेव स्वाभा­वि­क­मि­त्या­शङ्क्य दृष्टान्तस्य साध्यविकलतामाह —
तथेति ।
सर्व­जी­वा­ना­मे­कत्वं नानात्वञ्चेति पूर्वेण संबन्धः ।

तेषां स्वतो ब्रह्मत्वे प्रमाणमाह —
तत्त्वमिति ।

कस्तर्हि हिरण्यगर्भे विशेषो येना­सा­व­स्म­दा­दि­भि­रु­पा­स्यते तत्राऽऽह —
हिर­ण्य­ग­र्भ­स्त्विति ।

ननु श्रुति­स्मृ­ति­वा­देषु क्वचित्तस्य संसारित्वमपि प्रदर्श्यते सत्यं तत्तु कल्पि­त­मि­त्य­भि­प्रे­त्याऽऽह —
संसारित्वं त्विति ।

अस्मदादिषु तुल्य­मे­त­दि­त्या­श­ङ्क्याऽऽह —
जीवानां त्विति ।

कथं तर्हि ‘तत्त्वमसि’(छा. उ. ६ । ८ । ७) ‘क्षेत्रज्ञं चापि मां विद्धि’(भ. गी. १३ । २) इत्या­दि­श्रु­ति­स्मृ­ति­वादाः संगच्छन्ते तत्राऽऽह —
व्यावृत्तेति ।

स्वमते तत्त्व­नि­श्च­य­मुक्त्वा, परमते तदभावमाह —
तार्कि­कै­स्त्विति ।

नन्वे­क­जी­व­वा­देऽपि सर्व­व्य­व­स्था­नु­प­प­त्ते­स्त­त्त्व­नि­श्च­य­दौ­र्लभ्यं तुल्यमिति चेन्नेत्याह —
ये त्विति ।
स्वप्न­व­त्प्र­बो­धा­त्प्रा­ग­शे­ष­व्य­व­स्था­सं­भ­वा­दूर्ध्वं च तद­भा­व­स्ये­ष्ट­त्वा­दे­क­मेव ब्रह्मा­ना­द्य­वि­द्या­व­शा­द­शे­ष­व्य­व­हा­रा­स्प­द­मिति पक्षे न काचन दोषकलेति भावः ।

सर्व­दे­व­ता­त्म­कस्य प्रजापतेः स्वतोऽ­सं­सा­रित्वं कल्पनया वैपरीत्यमिति स्थिते सत्य­थे­त्या­द्यु­त्त­र­ग्र­न्थस्य तात्पर्यमाह —
तत्रेति ।
विवक्षित इत्यु­त्त­र­ग्र­न्थ­प्र­वृ­त्ति­रिति शेषः ।

तस्य विषयं परिशिनष्टि —
तत्राग्निरिति ।
अत्रा­द्य­यो­र्नि­र्धा­र­णार्था सप्तमी ।

संप्रति प्रती­क­मा­दा­या­क्ष­राणि व्याकरोति —
अथेति ।

अत्तुः सर्गा­न्त­न्त­र्य­म­थ­श­ब्दार्थः रेतसः सकाशादपां सर्गेऽपि सोमशब्दे किमा­या­त­मि­त्या­श­ङ्क्याऽऽह —
द्रवात्मकश्चेति ।
श्रद्धा­ख्या­हुतेः सोमो­त्प­त्ति­श्र­व­णा­त्तत्र शैत्यो­प­ल­ब्धे­श्चेति भावः ।

सोमस्य द्रवात्मकत्वे फलितमाह —
तस्मादिति ।

अग्नी­षो­म­यो­र­न्ना­न्ना­दयोः सृष्टावपि जगति स्रष्ट­व्या­न्त­र­म­व­शि­ष्ट­म­स्ती­त्या­श­ङ्क्याऽऽह —
एतावदिति ।
आप्यायकः सोमो द्रवा­त्म­क­त्वा­दन्नं चाऽऽप्यायकं प्रसिद्धं तस्मादुपपन्नं यथोक्तं वाक्यं सप्तम्यर्थः ।

यथा­श्रु­त­म­व­धा­र­ण­म­व­धीर्य कुतो विधान्तरेण तद्व्या­ख्या­न­मि­त्या­श­ङ्क्याऽऽह —
अर्थ बलाद्धीति ।
अन्नादस्य संह­र्तृ­त्वा­द­ग्नि­त्व­म­न्नस्य च संहरणीयतया सोम­त्व­म­व­धा­र­यितुं युक्तमित्यर्थः ।

नन्वन्नस्य सोमत्वेन न नियमोऽग्नेरपि जलादिना सम्हारान्न चात्तु­र­ग्नि­त्वेन नियमः सोमस्यापि कदा­चि­दि­ज्य­मा­न­त्वे­ना­त्तृ­त्वा­त्त­त्कु­तोऽ­र्थ­ब­ल­मि­त्या­श­ङ्क्याऽऽह —
अग्निरपीति ।
सोऽपि संहा­र्य­श्चे­त्सोम एव स च संहर्ता चेद­ग्नि­रे­वे­त्य­व­धा­र­ण­सि­द्धि­रि­त्यर्थः ।

प्रजापतेः सर्वा­त्म­त्व­मु­प­क्रम्य जगतो द्वेधा­वि­भ­क्त­त्वा­भि­धानं कुत्रो­प­यु­क्त­मि­त्या­शङ्क्य तस्य सूत्रे पर्य­व­सा­ना­त्त­स्मि­न्ना­त्म­बु­द्ध्यो­पा­स­कस्य सर्वदोषराहित्यं फलमत्र विवक्षितमित्याह —
एवमिति ।

अनु­ग्रा­ह­क­दे­व­सृ­ष्टि­मुक्त्वा तदुपासकस्य फलोक्त्यर्थमादौ देवसृष्टिं स्तौति —
सैषेति ।

’अग्निर्मूर्धा’ इत्या­दि­श्रु­ते­र­ग्न्या­द­योऽ­स्या­व­य­वा­स्त­त्कथं तत्सृ­ष्टि­स्त­तोऽ­ति­श­य­व­ती­त्या­श­ङ्कते —
कथमिति ।

प्रजा­प­ते­र्य­ज­मा­ना­व­स्था­पे­क्षया देव­सृ­ष्टे­रु­त्कृ­ष्ट­त्व­व­च­न­म­वि­रु­द्ध­मिति परिहरति —
अत आहेति ।
देव­सृ­ष्टे­र­ति­सृ­ष्टि­त्वा­भा­व­श­ङ्का­नु­वा­दा­र्थोऽ­थ­शब्दः । ज्ञान­स्ये­त्यु­प­ल­क्षणं कर्मणोऽपीति द्रष्टव्यम् ।

अति­सृ­ष्ट्या­मि­त्यादि व्याचष्टे —
तस्मादिति ।
देवादिस्रष्टा तदात्मा प्रजा­प­ति­र­ह­मे­वे­त्यु­पा­सि­तु­स्त­द्भा­वा­पत्त्या तत्स्रष्टृत्वं फलतीत्यर्थः ॥६॥

पूर्वो­त्त­र­ग्र­न्थयोः संबन्धं वक्तुं प्रतीकमादाय वृत्तं कीर्तयति —
तद्धेत्यादिना ।
तस्याऽऽ­दे­य­त्वार्थं वैदि­क­मि­त्यु­क्तम् ।

साधनमित्युक्ते मुक्तिसाधनं पुरःस्फुरति तन्निरस्यति —
ज्ञानेति ।
एकरूपस्य मोक्ष­स्या­ने­क­रूपं न साधनं भवतीति भावः ।

मुक्तिसाधनं मानवस्तुतन्त्रं तत्त्वज्ञानमिदं तु कारकसाध्यमतोऽपि न तद्धेतुरित्याह —
कर्त्रादीति ।
किञ्चेदं प्रजा­प­ति­त्व­फ­ला­व­सा­नम् । ‘मृत्यु­र­स्याऽऽत्मा भवति’(बृ.उ.१।१।७) इति श्रुतेः ।

न च तदेव कैवल्यं भया­र­त्या­दि­श्र­व­णा­द­तोऽपि नेदं मुक्त्य­र्थ­मि­त्याह —
प्रजापतित्वेति ।

किञ्च नित्यसिद्धा मुक्तिरिदं तु साध्यफलमतोऽपि न मुक्ति­हे­तु­रि­त्याह —
साध्यमिति ।
किञ्च मुक्ति­र्व्या­कृ­ता­द­र्था­न्त­र’म­न्य­देव तद्वि­दि­ता­दि’त्या­दि­श्रुतेः ।

इदं तु नामरूपं व्याकृतमतोऽपि न तद्धेतुरित्याह —
एतावदेवेति ।

संप्र­त्य­व्या­कृ­त­क­ण्डि­का­म­व­ता­र­य­न्प्र­वे­श­वा­क्या­त्प्रा­क्त­नस्य तद्धे­द­मि­त्या­दे­र्वा­क्यस्य तात्पर्यमाह —
अथेति ।
ज्ञान­क­र्म­फ­लो­क्त्या­न्त­र्य­म­थ­श­ब्दार्थः । बीजावस्था साभा­स­प्र­त्य­ग­विद्या तस्या निर्दे­ष्टु­मि­ष्ट­त्व­मेव न साक्षा­न्नि­र्दे­श्य­त्व­म­नि­र्वा­च्य­त्वा­दिति वक्तुं निर्दि­दि­क्ष­ती­त्यु­क्तम् । वृक्षस्य बीजावस्थां लोको निर्दिशतीति संबन्धः ।

यज्ज्ञाने पुम­र्था­प्ति­स्त­देव वाच्यं किमिति प्रत्य­ग­वि­द्यो­च्यते तत्राऽऽह —
कर्मेति ।
उद्धर्तव्य इति तन्मू­ल­नि­रू­प­ण­म­र्थ­व­दिति शेषः ।

अथ पुरु­षा­र्थ­म­र्थ­य­मा­नस्य तदुद्धारोऽपि क्वोपयुज्यते तत्राऽऽह —
तदुद्धरणे हीति ।

ननु संसारस्य मूलमेव नास्ति स्वभा­व­वा­दा­त्प्र­धा­ना­द्येव वा तन्मूलं नाज्ञातं ब्रह्मे­त्या­शङ्क्य श्रुति­स्मृ­तिभ्यां परिहरति —
तथा चेति ।
ऊर्ध्व­मु­त्कृष्टं कारणं कार्यापेक्षया परमव्याकृतं मूल­म­स्ये­त्यू­र्ध्व­मूलो हिरण्यगर्भादयो मूला­पे­क्ष­याऽ­वाच्यः शाखा इत्यवाक्शाखः । एवम् ‘ऊर्ध्व­मू­ल­म­धः­शा­खम्’(भ. गी. १५ । १) इत्यादिगीतापि नेतव्या । अस्ति हि संसारस्य मूलम् । ‘नेदममूलं भविष्यति’(छा. उ. ६ । ८ । ३) इति श्रुते­स्त­च्चा­ज्ञातं ब्रह्मैवेति श्रुति­स्मृ­ति­प्र­सि­द्ध­मिति भावः ॥६॥

संप्रति प्रतीकमादाय पदानि व्याचष्टे —
तद्धेत्यादिना ।
अप्र­त्य­क्षा­भि­धा­नेन तदिति सर्वनाम्ना बीजावस्थं जगदभिधीयते । परोक्षत्वादिति संबन्धः ।

कथं जगतो बीजा­व­स्थ­त्व­मि­त्या­शङ्क्य तर्ही­त्य­स्या­र्थ­माह —
प्रागिति ।

कथं तस्य परोक्षत्वं तत्राऽऽह —
भूतेति ।

निपातार्थमाह —
सुखेति ।

हश­ब्दा­र्थ­म­भि­न­यति —
किलेति ।
यथा­व­र्णि­त­मि­त्य­न­र्थ­त्वेन संसा­रेऽ­सा­र­त्वोक्तिः ।

पद­द्व­य­सा­मा­ना­धि­क­र­ण्य­ल­ब्ध­म­र्थ­माह —
तदिदमिति ।

एक­त्व­भि­न­ये­नो­दा­ह­रति —
तदेवेति ।

एकत्वावगतिफलं कथयति —
अथेति ।
सामा­ना­धि­क­र­ण्य­व­शा­दे­कत्वे निश्चिते सत्यनन्तरम् – ‘नासतो विद्यतो भावो नाभावो विद्यते सतः’(भ. गी. २। १६) इति स्मृतिरनुसृता भवतीति भावः ।

अज्ञातं ब्रह्म जगतो मूलमित्युक्त्वा तद्विवर्तो जगदिति निरूपयति —
तदेवम्भूतमिति ।

तृती­या­मि­त्थ­म्भा­वा­र्थ­त्वेन व्याचष्टे —
नाम्नेति ।

क्रिया­प­द­प्र­यो­गा­भि­प्रायं तद­नु­वा­द­पू­र्व­क­माह —
व्याक्रियतेति ।

तत्र पदच्छेदपूर्वकं तद्वाच्यमर्थमाह —
व्याक्रि­य­ते­त्या­दिना ।

स्वयमेवेति कुतो विशेष्यते कारणमन्तरेण कार्यो­त्प­त्ति­र­यु­क्ते­त्या­श­ङ्क्याऽऽह —
सामर्थ्यादिति ।
निर्हे­तु­का­र्य­सि­द्ध्य­नु­प­प­त्त्याऽऽ­क्षिप्तो नियन्ता जनयिता कर्ता चोत्पत्तौ साध­न­क्रि­या­क­र­ण­व्या­पा­र­स्त­न्नि­मित्तं तदपेक्ष्य व्यक्ति­भा­व­मा­प­द्य­तेति योजना ।

नामसामान्यं देवदत्तादिना विशेषनाम्ना संयोज्य सामा­न्य­वि­शे­ष­वा­नर्थो नाम­व्या­क­र­ण­वाक्ये विवक्षित इत्याह —
असावित्यादिना ।
असौशब्दः श्रौतोऽ­व्य­य­त्वेन नेयः ।

रूपसामान्यं शुक्लकृष्णादिना [विशेषेण] संयोज्योच्यते रूप­व्या­क­र­ण­वा­क्ये­ने­त्याह —
तथेत्यादिना ।

अव्याकृतमेव व्याकृतात्मना व्यक्त­मि­त्ये­त­त्सु­प्त­प्र­बु­द्ध­दृ­ष्टा­न्तेन स्पष्टयति —
तदिदमिति ।

तद्धेत्यत्र मूलकारणमुक्त्वा तन्ना­म­रू­पा­भ्या­मि­त्या­दिना तत्का­र्य­मु­क्त­मि­दानीं प्रवे­श­वा­क्य­स्थ­स­श­ब्दा­पे­क्षि­त­म­र्थ­माह —
यदर्थ इति ।
काण्डद्वयात्मनो वेदस्याऽऽरम्भो यस्य परस्य प्रतिपत्त्यर्थो विज्ञायते ; कर्मकाण्डं हि स्वार्था­नु­ष्ठा­ना­हि­त­चि­त्त­शु­द्धि­द्वारा तत्त्व­ज्ञा­नो­प­यो­गी­ष्यते ज्ञानकाण्डं तु साक्षादेव तत्रोपयुज्यते ‘सर्वे वेदा यत्पदमामनन्ति’(क. उ. १ । २ । १५) इति च श्रूयते स परोऽत्र प्रविष्टो देहादाविति योजना ।

सर्व­स्याऽऽ­म्ना­यस्य ब्रह्मात्मनि समन्वयमुक्त्वा तत्र विरो­ध­स­मा­धा­ना­र्थ­माह —
यस्मिन्निति ।

अध्यासस्य चतु­र्वि­ध­ख्या­ती­ना­म­न्य­त­मत्वं वारयति —
अविद्ययेति ।

तस्या मिथ्या­ज्ञा­न­त्वेन सादि­त्वा­द­ना­द्य­ध्या­स­हे­तु­त्वा­सि­द्धि­रि­त्या­श­ङ्क्याऽऽह —
स्वाभाविक्येति ।

विद्या­प्रा­ग­भा­व­त्व­म­वि­द्याया व्यावर्तयति —
कर्त्रिति ।
न हि तदु­पा­दा­न­त्व­म­भा­वत्वे संभवति न चोपा­दा­ना­न्त­र­म­स्तीति भावः । अन्वयस्तु सर्वत्र यच्छब्दस्य पूर्ववद् द्रष्टव्यः ।

आत्मनि कर्तृ­त्वा­ध्या­स­स्या­वि­द्या­कृ­त­त्वोक्त्या समन्वये विरोधः समाहितः । संप्र­त्य­ध्या­स­का­र­ण­स्यो­क्त­त्वेऽपि निमि­त्तो­पा­दा­न­भेदं साङ्ख्य­वा­द­मा­श­ङ्क्यो­क्त­मेव कारणं तद्भे­द­नि­रा­क­र­णार्थं कथयति —
यः कारणमिति ।
श्रुति­स्मृ­ति­वा­देषु परस्य तत्कारणत्वं प्रसिद्धमिति भावः ।

नामरूपात्मकस्य द्वैत­स्या­वि­द्या­वि­द्य­मा­न­दे­ह­त्वा­द्वि­द्या­प­नो­द्यत्वं सिध्यतीत्याह —
यदात्मके इति ।

व्याक­र्तु­रा­त्मनः स्वभावतः शुद्धत्वे दृष्टान्तमाह —
सलिलादिति ।

व्याक्रि­य­मा­ण­यो­र्ना­म­रू­पयोः स्वतोऽशुद्धत्वे दृष्टान्तमाह —
मलमिवेति ।
यथा फेनादि जलोत्थं तन्मात्रमेव तथाऽ­ज्ञा­त­ब्र­ह्मोत्थं जग­द्ब्र­ह्म­मात्रं तज्ज्ञा­न­बा­ध्य­ञ्चेति भावः ।

नित्य­शु­द्ध­त्वा­दि­ल­क्ष­ण­मपि वस्तु न स्वतोऽ­ज्ञा­न­नि­व­र्तकं केवलस्य तत्सा­ध­क­त्वा­द्वा­क्यो­त्थ­बु­द्धि­वृ­त्त्या­रूढं तु तथेति मन्वानो ब्रूते —
यश्चेति ।

’आकाशो ह वै नाम नाम­रू­प­यो­र्नि­व­हिता ते तदन्तरा तद्ब्रह्म’ इति श्रुति­मा­श्रि­त्याऽऽह —
ताभ्यामिति ।

नाम­रू­पा­त्म­क­द्वै­ता­सं­स्प­र्शि­त्वा­देव नित्य­शु­द्ध­त्व­म­शु­द्धे­र्द्वै­त­सं­ब­न्धा­धी­न­त्वा­त्त­त्रा­विद्या प्रयो­जि­के­त्य­भि­प्रेत्य तत्संबन्धं निषेधति —
बुद्धेति ।

तस्मादेव दुःखा­द्य­न­र्था­सं­स्प­र्शि­त्व­माह —
मुक्तेति ।

विद्यादशायां शुद्ध्या­दि­स­द्भा­वेऽपि बन्धावस्थायां नैवमिति चेन्नेत्याह —
स्वभाव इति ।

अव्या­कृ­त­वा­क्यो­क्त­म­ज्ञातं परमात्मानं परामृशति —
स इति ।

तमेव कार्यस्थं प्रत्यञ्चं निर्दिशति —
एष इति ।

आत्मा हि स्वतो नित्य­शु­द्ध­त्वा­दि­रू­पोऽपि स्वावि­द्या­व­ष्ट­म्भा­न्ना­म­रूपे व्याकरोतीति तत्स­र्ज­न­स्या­वि­द्या­म­यत्वं विवक्षित्वाऽऽह —
अव्याकृते इति ।

तयोरात्मना व्याकृतत्वे तदतिरेकेणाभावः फलतीति मत्वा विशिनष्टि —
आत्मेति ।

जनि­म­न्मा­त्र­मि­ह­श­ब्दार्थं कथयति —
ब्रह्मादीति ।

तत्रैव दुःखादिसंबन्धो नाऽऽत्मनीति मन्वानो विशिनष्टि —
कर्मेति ।

ब्रह्मात्मैक्ये पद­द्व­य­सा­मा­ना­धि­क­र­ण्या­धि­गते हेतुमाह —
प्रविष्ट इति ।

परमात्मा स्रष्टा सृष्टे प्रविष्टो जग­ती­त्या­दि­ष्ट­मा­क्षि­पति —
नन्विति ।

पूर्वापरविरोधं समाधत्ते —
नेत्यादिना ।

व्याक्रियतेति कर्म­क­र्तृ­प्र­यो­गा­ज्ज­ग­त्क­र्तु­र­वि­व­क्षि­त­त्व­मु­क्त­मि­त्या­श­ङ्क्याह —
आक्षिप्तेति ।
मुच्यते वत्सः स्वय­मे­वे­ति­व­त्क­र्म­क­र्तरि लकारो व्याक­र­ण­सौ­क­र्या­पे­क्षया सत्येव कर्तरि निर्वहतीति भावः ।

अव्याकृतशब्दस्य निय­न्त्रा­दि­यु­क्त­ज­ग­द्वा­चित्वे हेत्वन्तरमाह —
इदंशब्देति ।

कथ­मु­क्त­सा­मा­ना­धि­क­र­ण्य­मा­त्रा­द­व्या­कृ­तस्य जगतो निय­न्त्रा­दि­यु­क्तत्वं तत्राऽऽह —
यथेति ।
निय­न्त्रा­दी­त्या­दि­श­ब्देन कर्तृ­क­र­णा­दि­ग्र­ह­णम् । निमि­त्ता­दी­त्या­दि­प­दे­नो­पा­दा­न­मु­च्यते । विमतं निय­न्त्रा­दि­सा­पेक्षं कार्य­त्वा­त्सं­प्र­ति­प­न्न­व­दि­त्यर्थः ।

कस्तर्हि प्रागवस्थे संप्रतितने च जगति विशेषस्तत्राऽऽह —
व्याकृतेति ।

कथं पुन­र­व्या­कृ­त­श­ब्देन जगद्वाचिना परो गृह्यत एकस्य शब्द­स्या­ने­का­र्थ­त्वा­यो­गा­दत आह —
दृष्टश्चेति ।

उक्तमेव स्फुटयति —
कदाचिदिति ।

उभयविवक्षया ग्राम­श­ब्द­प्र­यो­गस्य दार्ष्टा­न्ति­क­माह —
तद्वदिति ।
इहे­त्य­व्या­कृ­त­वा­क्योक्तिः ।

निवा­स­मा­त्र­वि­व­क्षया ग्राम­श­ब्द­प्र­यो­गस्य दार्ष्टा­न्ति­क­माह —
तथेति ।

निवा­सि­ज­न­वि­व­क्षया तत्प्रयोगस्यापि दार्ष्टान्तिकं कथयति —
तथा महानिति ।

अव्याकृतवाक्ये परस्य प्रकृ­त­त्वा­त्तस्य प्रवेशवाक्ये सशब्देन परामृष्टस्य सृष्टे कार्ये प्रवेश उक्तस्तच्च प्रका­रा­न्त­रे­णाऽऽ­क्षि­पति —
नन्विति ।

कथमिति सूचि­ता­म­नु­प­प­त्ति­मेव स्पष्टयति —
अप्रविष्टो हीति ।

दृष्टा­न्ता­व­ष्ट­म्भेन प्रवेशवादी शङ्कते —
पाषाणेति ।

तदेव विवृणोति —
अथापीत्यादिना ।
परस्य परिपूर्णस्य क्वचि­त्प्र­वे­शा­भा­वेऽ­पीति यावत् । तच्छब्दः दृष्टकार्यविषयः । धर्मान्तरं जीवाख्यम् ।

दृष्टान्तं व्याचष्टे —
यथेति ।
पाषाणाद्बाह्यः सर्पादिस्तत्र प्रविष्ट इति शङ्कापोहार्थं सहजविशेषणम् । सर्पा­दे­र­श्मा­दि­रू­पेण स्थित­भू­त­प­ञ्च­क­प­रि­णा­म­त्वा­त्तत्र सहजत्वं पाषाणादौ यानि भूतानि स्थितानि तेषां परिणामः सर्पा­दि­स्त­द्रू­पेण तत्र भूता­ना­म­नु­प्र­वे­श­व­द­प­रि­च्छि­न्न­स्यापि परस्य जीवाकारेण बुद्ध्यादौ प्रवे­श­सि­द्धि­रि­त्यर्थः ।

आक्षेप्ता ब्रूते —
नेति ।

तदेव स्पष्टयति —
यः स्रष्टेति ।

ननु तक्ष्णा निर्मिते वेश्मनि ततोऽन्यस्यापि प्रवेशो दृश्यते तथा परेण सृष्टे जगत्यन्यस्य प्रवेशो भविष्यति नेत्याह —
यथेति ।

पाषा­ण­स­र्प­न्या­येन कार्यस्थस्यैव परस्य जीवाख्ये परिणामे तत्सृ­ष्ट्वे­त्या­दि­श्र­व­ण­म­नु­प­प­न्न­मिति व्यतिरेकं दर्शयति —
नत्विति ।

अस्तु तर्हि परस्य मार्जा­रा­दि­व­त्पू­र्वा­व­स्था­न­त्या­गे­ना­व­स्था­ना­न्त­र­सं­यो­गात्मा प्रवेशो नेत्याह —
न चेति ।
निर­व­य­वोऽ­प­रि­च्छि­न्न­श्चाऽऽत्मा तस्य स्थानान्तरेण वियोगं प्राप्य स्थानान्तरेण सह संयोगलक्षणो यः प्रवेशः स सावयवे परिच्छिन्ने च मार्जारादौ दृष्ट­प्र­वे­श­स­दृशो न भवतीति योजना । वियुज्येति पाठे तु स्फुटैव योजना ।

प्रवेशश्रुत्या निर­व­य­व­त्वा­सिद्धिं शङ्कते —
सावयव इति ।

प्रवे­श­श्रु­ते­र­न्य­थो­प­प­त्ते­र्व­क्ष्य­मा­ण­त्वा­न्नै­व­मिति परिहरति —
नेत्यादिना ।
अमूर्तत्वं निरवयत्वम् । पुरुषत्वं पूर्णत्वम् ।

प्रकारान्तरेण प्रवेशोपपत्तिं शङ्कते —
प्रतिबिम्बेति ।

आदित्यादौ जलादिना सन्नि­क­र्षा­दि­सं­भ­वा­त्प्र­ति­बि­म्बा­ख्य­प्र­वे­शो­प­पत्तिः । आत्मनि तु पर­स्मि­न्न­सं­गेऽ­न­व­च्छिन्ने केनचिदपि तदभावान्न यथो­क्त­प्र­वे­श­सि­द्धि­रि­त्याह —
न वस्त्वन्तरेणेति ।

प्रकारान्तरेण प्रवेशं चोदयति —
द्रव्य इति ।
परस्यापि कार्ये प्रवेश इति शेषः ।

गुणापेक्षया परस्य दर्शयन्परिहरति —
नेत्यादिना ।
स्वात­न्त्र्य­श्र­व­ण­मेष सर्वेश्वर इत्यादि ।

पनसादिफले बीजस्य प्रवेशवत्कार्ये परस्य प्रवेशः स्यादिति शङ्कित्वा दूषयति —
फल इत्यादिना ।
विना­शा­दी­त्या­दि­श­ब्दे­ना­ना­त्म­त्वा­नी­श्व­र­त्वादि गृह्यते ।

प्रसं­ग­स्ये­ष्ट­त्व­मा­शङ्क्य निराचष्टे —
न चेति ।
जन्मादीनां धर्माणां धर्मिणो भिन्न­त्वा­भि­न्न­त्वा­सं­भ­वा­दि­न्यायः । बीज­फ­ल­यो­र­व­य­वा­व­य­वित्वं पाषा­ण­स­र्प­यो­रा­धा­रा­धे­य­ते­त्य­पु­न­रुक्तिः ।

परस्य सर्व­प्र­का­र­प्र­वे­शा­सं­भवे प्रवे­श­श्रु­ते­रा­ल­म्बनं वाच्य­मि­त्या­शङ्क्य पूर्व­प­क्ष­मु­प­सं­ह­रति —
अन्य एवेति ।

जगतो हि परः स्रष्टेति वेदान्तमर्यादा स्रष्टैव च प्रवेष्टा प्रविश्य व्याकरवाणीति प्रवे­श­व्या­क­र­ण­यो­रे­क­क­र्तृ­त्व­श्रु­ते­स्त­स्मा­त्प­र­स्मा­द­न्यस्य प्रवेशो न युक्तिमानिति सिद्धान्तयति —
नेत्यादिना ।

तत्रैव तैत्ति­री­य­श्रुतिं संवादयति —
तथेति ।

ऐतरेयश्रुतिरपि यथो­क्त­म­र्थ­मु­पो­द्ब­ल­य­ती­त्याह —
स एतमेवेति ।

श्रीना­रा­य­णा­ख्य­म­न्त्र­म­प्य­त्रा­नु­कू­ल­यति —
सर्वाणीति ।

वाक्या­न्त­र­मु­दा­ह­रति —
त्वं कुमार इति ।

अत्रैव वाक्य­शे­ष­स्याऽ­नु­गुण्यं दर्शयति —
पुर इति ।

उदाहृतश्रुतीनां तात्पर्यमाह —
न परादिति ।

परस्य प्रवेशे प्रविष्टानां मिथो भेदा­त्त­द­भि­न्नस्य तस्यापि नाना­त्व­प्र­स­क्ति­रिति शङ्कते —
प्रविष्टानामिति ।

न पर­स्या­ने­क­त्व­मे­क­त्व­श्रु­ति­वि­रो­धा­दिति परिहरति —
नेत्यादिना ।
विचार विचचारेति यावत् ।

परस्य प्रवेशे नानात्वप्रसंगं प्रत्याख्याय दोषान्तरं चोदयति —
प्रवेश इति ।

तेषां संसारित्वेऽपि परस्य किमायातं तदाह —
तदनन्यत्वादिति ।

श्रुत्य­व­ष्ट­म्भेन दूषयति —
नेति ।

अनुभवमनुसृत्य शङ्कते —
सुखित्वेति ।
नासंसारित्वमिति शेषः ।

गूढा­भि­स­न्धि­रु­त्त­र­माह —
नेति ।

आगमो हि पर­स्या­सं­सा­रित्वे मानं त्वयोच्यते स चाध्य­क्ष­वि­रुद्धो न स्वार्थे मानं न च वैपरीत्यं ज्येष्ठत्वेन बलवत्त्वादिति शङ्कते —
प्रत्यक्षादीति ।

शङ्किते पूर्ववादिनि स्वाश­य­मा­वि­ष्कृ­त­वति सिद्धान्ती स्वाभिसन्धिमाह —
नोपाधीति ।
उपाधिरन्तःकरणं तदाश्रयत्वेन जनितो विशे­ष­श्चि­दा­भा­स­स्त­द्ग­त­दुः­खा­दि­वि­ष­य­त्वा­त्प्र­त्य­क्षा­दे­रा­भा­स­त्वा­त्ते­नाऽ­त्म­न्य­सं­सा­रि­त्वा­ग­मस्य न विरो­धोऽ­स्ती­त्यर्थः ।

किञ्च प्रत्य­क्षा­दी­ना­म­ना­त्म­वि­ष­य­त्वा­दा­त्म­वि­ष­य­त्वा­च्चाऽऽ­ग­मस्य भिन्नविषयतया नानयोर्मिथो विरो­धोऽ­स्ती­त्य­भि­प्रे­त्याऽऽ­त्म­नोऽ­ध्य­क्षा­द्य­वि­ष­यत्वे श्रुतीरुदाहरति —
न दृष्टेरिति ।

सुख्य­ह­मि­त्या­दि­प्र­ति­भा­सस्य तर्हि का गतिरित्याशङ्क्य पूर्वोक्तमेव स्मारयति —
किं तर्हीति ।
बुद्ध्या­दि­रु­पा­धि­स्त­त्राऽऽ­त्म­प्र­ति­च्छाया तत्प्र­ति­बि­म्ब­स्त­द्वि­ष­य­मेव सुख्य­ह­मि­त्या­दि­वि­ज्ञा­न­मिति योजना ।

आत्मनो दुःखित्वाभावे हेत्वन्तरमाह —
अयमिति ।
अयं देहोऽहमिति दृश्येन द्रष्टु­स्ता­दा­त्म्या­ध्या­स­द­र्श­ना­द्दृ­श्य­वि­शि­ष्ट­स्यैव प्रत्य­क्ष­वि­ष­य­त्वान्न केवलस्याऽऽत्मनो दुःखा­दि­सं­सा­रोऽ­स्ती­त्यर्थः ।

किञ्चा­स्थू­ला­दि­वि­शे­ष­ण­म­क्षरं प्रक्रम्य तस्यैव प्रत्यगात्मत्वं दर्शयन्ती श्रुतिरात्मनः संसारित्वं वारयतीत्याह —
नान्यदिति ।

किञ्च पादयोर्दुःखं शिरसि दुःखमिति देहा­व­य­वा­व­च्छि­न्न­त्वेन तत्प्र­ती­ते­स्त­द्ध­र्म­त्व­नि­श्च­या­न्नाऽऽ­त्मनि संसारित्वं प्राणा­णि­क­मि­त्याह —
देहेति ।

श्रुति­व­शा­दा­त्मनः संसारित्वं शङ्कते —
आत्मनस्त्विति ।
सुखं ताव­दा­त्मा­श्र­य’मा­त्म­नस्तु कामाये’ति सुख­सा­ध­न­स्याऽऽ­त्मा­र्थ­त्व­श्रु­ते­र­त­स्त­द­वि­ना­भूतं दुःखमपि तत्रे­त्या­त्म­न्य­सं­सा­रि­त्व­म­यु­क्त­मि­त्यर्थः ।

आवि­द्य­क­सं­सा­रि­त्वा­नु­वा­दे­नाऽऽ­त्म­नो­ति­श­या­न­न्द­त्व­प्र­ति­पा­द­क­मा­त्म­नस्तु कामा­ये­त्या­दि­वा­क्य­मिति मत्वाऽऽह —
नेति ।

तदा­वि­द्य­क­सं­सा­रा­नु­वा­दी­त्यत्र गमकमाह —
यत्रेति ।
अनेन हि वाक्ये­ना­वि­द्या­व­स्था­या­मे­वाऽऽ­त्मा­र्थत्वं सुखा­दे­र­भ्यु­प­ग­म्यते । अतो न तस्याऽऽ­त्म­ध­र्म­त्व­मि­त्यर्थः ।

आत्मनि संसा­रि­त्व­स्या­प्र­ति­पा­द्य­त्वेऽपि गमकमाह —
तत्केनेति ।
आत्म­नोऽ­सं­सा­रित्वे विद्व­द­नु­भ­व­म­नु­कू­ल­यितुं चशब्दः ।

तर्क­शा­स्त्र­प्रा­मा­ण्या­दा­त्मनः संसारित्वमिति शङ्कते —
तार्किकेति ।
बुद्ध्या­दि­च­तु­र्द­श­गु­ण­वा­ना­त्मेति तार्किकसमयस्तेन विरो­धा­त्त­स्या­सं­सा­रि­त्व­म­युक्तं तर्काविरुद्धो हि सिद्धान्तो भवतीत्यर्थः ।

सर्वतर्काविरोधी वा कति­प­य­त­र्का­वि­रोधी वा सिद्धान्तः ? नाऽऽद्यः । तार्कि­का­दि­सि­द्धा­न्त­स्यापि मिथो वैदिकतर्कैश्च विरो­धा­द­सि­द्धि­प्र­सं­गात् । द्वितीये तु श्रौत­त­र्का­वि­रो­धा­दा­त्मा­सं­सा­रि­त्व­सि­द्धा­न्तोऽपि सिद्ध्ये­दि­त्य­भि­स­न्धा­याऽऽह —
न युक्त्याऽपीति ।

किञ्च दुःखा­दि­रा­त्म­धर्मो न भवति वेद्य­त्वा­द्रू­पा­दि­व­दि­त्याह —
न हीति ।

प्रत्य­क्षा­वि­ष­य­त्वोक्त्या प्रती­च­स्त­द्वि­ष­य­दुः­खा­वि­शे­ष्य­त्व­मु­क्त­म­युक्तं प्रत्य­क्षा­प्र­त्य­क्षयोः शब्दाकाशयोरिव दुःखात्मनोरपि गुण­गु­णि­त्व­सं­भ­वा­दिति शङ्कते —
आकाशस्येति ।

यत्र धर्म­ध­र्मि­भा­व­स्त­त्रै­क­ज्ञा­न­ग­म्यत्वं दृष्टं यथा शुक्लो घट इति तद्व्यापकं व्यावर्तमानं दुःखा­त्म­नो­र्ध­र्म­ध­र्मित्वं व्यावर्तयति शब्दाकाशयोरपि गुणगुणिभावो नास्माकं सम्मतः शब्द­त­न्मा­त्र­मा­का­श­मिति स्थिते­रि­त्या­श­ये­नाऽऽह —
नैकेति ।

कथं तद­नु­प­प­त्ति­स्त­त्राऽऽह —
न हीति ।
नित्या­नु­मे­य­स्येति जर­त्ता­र्कि­क­म­ता­नु­सा­रेण साङ्ख्य­स­म­या­नु­सा­रेण चोक्तम् ।

आधुनिकं तार्किकं प्रत्याह —
तस्य चेति ।
सुखा­दि­व­दा­त्म­नोऽपि प्रत्यक्षेण विषयीकरणे सत्ये­क­स्मि­न्देहे तदै­क्य­स­म्म­ते­रा­त्मा­न्त­रस्य तत्रायोगादेकत्र भोक्तृ­द्व­या­निष्टेः पुरु­षा­न्त­र­स्यान्यं प्रत्य­प्र­त्य­क्ष­त्वा­द्द्र­ष्ट्र­भा­वा­दा­त्म­दृ­श्य­त्वा­सि­द्धि­रि­त्यर्थः ।

दीपस्य स्वव्य­व­हा­र­हे­तु­त्वेन विष­य­वि­ष­यि­त्व­व­दे­क­स्यै­वाऽऽ­त्मनो द्रष्टृ­दृ­श्य­त्व­सि­द्धे­र्द्र­ष्ट्र­भावो नास्तीति शङ्कते —
एकस्यैवेति ।

आत्मनो विषयविषयित्वं कार्त्स्न्ये­नां­शाभ्यां वा । आद्येऽपि युगपत्क्रमेण वा । नाऽऽद्य इत्याह —
न युगपदिति ।
क्रियायां गुणत्वं कर्तृत्वं तत्र प्राधान्यं कर्मत्वमतो युगपदेकक्रियां प्रत्येकस्य साकल्येन गुण­प्र­धा­न­त्वा­यो­गा­न्नै­व­मि­त्यर्थः ।

न द्वितीयः । एक­भा­वेऽ­न्या­भा­वा­दिति मत्वा कल्पान्तरं प्रत्याह —
आत्मनीति ।
एतेन प्रदी­प­दृ­ष्टा­न्तोऽपि प्रति­नी­त­स्त­स्यां­शाभ्यां तद्भावे प्रकृ­ता­न­नु­कू­ल­त्वात् ।

ननु विज्ञानवादिनो युगपदेकस्य विज्ञानस्य साकल्येन ग्राह्य­ग्रा­ह­क­त्व­मु­प­यन्ति तथा त्वदात्मनोऽपि स्यात्तत्राऽऽह —
एतेनेति ।
एक­स्यो­भ­य­त्व­नि­रा­से­ने­त्यर्थः ।

मा भूत्प्र­त्य­क्ष­मा­ग­मिकं पारिभाषिकं वाऽऽत्मनः संसारित्वम् । आनुमानिकं तु भविष्यति दुःखादि क्वचिदाश्रितं गुण­त्वा­द्रू­पा­दि­व­दि­त्या­श्रये सिद्धे परि­शे­षा­दा­त्म­न­स्त­दा­श्र­य­त्वा­दि­त्या­श­ङ्क्याऽऽह —
प्रत्यक्षेति ।
न हि मिथो विरु­द्ध­यो­र्गु­ण­गु­णि­त्व­म­नु­मेयं दुःखादेश्च साभा­स­बु­द्धि­स्थ­त्वा­त्पा­रि­शे­ष्या­सि­द्धि­रि­त्यर्थः ।

साभा­सा­न्तः­क­र­ण­नि­ष्ठ­दुः­खा­दी­त्यत्र प्रमा­णा­भा­वा­त्कथं सिद्ध­सा­ध­न­त्व­मि­त्या­शङ्क्य दुःख्य­ह­मि­त्या­दि­प्र­त्य­क्षस्य तत्र प्रमा­ण­त्वा­दु­क्ता­नु­मा­नस्य सिद्धसाध्यतया परि­शे­षा­सि­द्धि­रि­त्याह —
दुःखस्येति ।

यत्र रूपादिमति देहे दाहच्छेदादि दृष्टं तत्रैव तत्कृ­त­दुः­खा­द्यु­प­ल­म्भा­न्नाऽऽ­त्म­न­स्त­द्व­त्त्व­मिति हेत्वन्तरमाह —
रूपादिति ।

यत्त्वा­त्म­म­नः­सं­यो­गा­दा­त्मनि बुद्ध्यादयो नव वैशेषिका गुणा भवन्तीति तद्दूषयति —
मनः­सं­यो­ग­ज­त्वेऽ­पीति ।
दुःखस्याऽऽत्मनि मनः­सं­यो­ग­ज­त्वेऽ­भ्यु­प­ग­तेऽपि मनोवदात्मनः संयो­गि­त्वा­त्सा­व­य­व­त्वा­दि­प्र­सं­गा­दा­त्म­त्व­मेव न स्यादित्यर्थः ।

तत्र संयोगित्वेन सक्रियत्वं साधयति —
नहीति ।

संप्रति सक्रियत्वेन सावयवत्वं प्रतिपादयति —
न चेति ।

यद्वा दुःखाद्यात्मनो विक्रियेति कैश्चि­दि­ष्ट­त्वा­त्तस्य सक्रि­य­त्व­म­वि­रु­द्ध­मि­त्या­श­ङ्क्याऽऽह —
न चेति ।
आत्मा न परिणामी निर­व­य­व­त्वा­न्न­भो­व­दिति भावः ।

किञ्चाऽऽत्मा न गुणी नित्य­त्वा­त्सा­मा­न्य­व­दि­त्याह —
अनित्येति ।
नित्यं पश्याम इति शेषः । वाशब्दो नञनुकर्षणार्थः ।

आकाशे व्यभि­चा­र­मा­श­ङ्क्याऽऽह —
न चेति ।
आकाशस्य नित्यत्वं चेत् ‘आत्मन आकाशः संभूतः’(तै. उ. २ । १। १) इत्या­दि­श्रु­ति­वि­रोधः स्यादिति सूच­यि­तु­मा­ग­म­वा­दि­भि­रि­त्यु­क्तम् ।

परमाण्वादौ व्यभि­चा­र­मा­श­ङ्क्याऽऽह —
न चान्य इति ।
न तावदणवः सन्ति त्र्यणु­के­त­र­सत्त्वे माना­भा­वा­द्दि­श­श्चाऽऽ­का­शेऽ­न्त­र्भ­वन्ति कालस्तु ‘सर्वे निमेषा जज्ञिर’ इत्या­दि­श्रु­ते­रु­त्प­त्ति­मा­न्म­नोऽ­प्य­न्न­मयं श्रुति­प्र­सि­द्ध­मतो न क्वचिद्व्यभिचार इति भावः ।

यस्मि­न्वि­क्रि­य­माणे तदेवेदमिति बुद्धिर्न विहन्यते तदपि नित्यमिति न्यायेन परिणामवादी शङ्कते —
विक्रियमाणमिति ।
तत्प्र­त्य­य­स्त­दे­वे­द­मिति प्रत्ययः ।

विक्रियां वदता द्रव्य­स्या­व­य­वा­न्य­थात्वं वाच्यं तदेव तस्या­नि­त्य­त्व­म­त्य­न्ता­भा­वस्य प्रामाणिकत्वे दुर्वचत्वादिति परिहरति —
न द्रव्यस्येति ।

आत्मनः सक्रियत्वं सावयवत्वं वाऽऽस्तु तथाऽपि नानित्यत्वमिति स्याद्वादी शङ्कते —
सावयवत्वेऽपीति ।

यत्सावयत्वं तदवयवसंयोगकृतं यथा पटादि तथा सति संयोगस्य विभा­गा­व­सा­न­त्वा­द­व­य­व­वि­भागे द्रव्य­ना­शोऽ­व­श्य­म्भा­वीति दूषयति —
न सावयवस्येति ।
यत्सावयवं तद­व­य­व­सं­यो­ग­पू­र्व­क­मिति न व्याप्तिः ।

सावयवेष्वेव वज्रा­दि­ष्व­व­य­व­सं­यो­ग­पू­र्व­कत्वे प्रमाणाभावादिति शङ्कते —
वज्रादिष्विति ।

विम­त­म­व­य­व­सं­यो­ग­पू­र्वकं साव­व­य­त्वा­त्प­ट­व­दि­त्य­नु­मा­नेन परिहरति —
नानुमेयत्वादिति ।

आत्मनो मनः­सं­यो­ग­ज­न्य­दुः­खा­दि­गु­णत्वे साव­य­व­त्व­स­क्रि­य­त्वा­नि­त्य­त्वा­दि­प्र­संगं प्रतिपाद्य प्रकृतमुपसंहरति —
तस्मादिति ।

आत्म­नोऽ­न­र्थ­ध्वं­सा­र्थ­शा­स्त्रा­र­म्भा­न्य­था­नु­प­पत्त्या संसा­रि­ते­त्य­र्था­पत्त्या शङ्कते —
परस्येति ।

अवि­द्या­वि­द्य­मा­न­मा­त्म­स्थ­म­न­र्थ­भ्रमं निराकर्तुं तदारम्भः संभ­व­ती­त्य­न्य­थो­प­पत्त्या समाधत्ते —
नाविद्येति ।

पर­स्यै­वा­वि­द्या­कृ­त­सं­सा­रि­त्व­भ्रा­न्ति­ध्वं­सार्थं शास्त्र­मि­त्ये­त­द्दृ­ष्टा­न्तेन स्पष्टयति —
आत्मनीति ।

यत्तु पर­स्या­दुः­खि­त्व­म­न्यस्य च दुःखिनोऽसत्त्वं तत्राऽऽह —
कल्पितेति ।
न ताव­त्प­र­स्मा­दन्यो दुःखी ‘नान्योऽतोऽस्ति द्रष्टा’(बृ. उ. ३ । ७ । २३) इत्यादिश्रुतेः । स पुन­र­ना­द्य­नि­र्वा­च्या­ज्ञा­न­सं­ब­न्धा­त्त­ज्ज­न्यै­र्बु­द्ध्या­दि­भि­रै­क्या­ध्या­स­मा­पन्नः संसरति । तथा च कल्पि­ता­का­र­द्वारा दुःखिनः पर­स्याऽऽ­त्म­नो­ङ्गी­का­रा­न्ना­र्था­प­त्ते­रु­त्था­न­मि­त्यर्थः ।

परस्य प्रवेशे प्राप्तां दोषपरम्परां पराकृत्य तत्प्र­वे­श­स्व­रूपं निरूपयति —
जलेति ।
यथा जले सूर्यादेः प्रति­बि­म्ब­ल­क्षणः प्रवेशो दृश्यते तथाऽऽत्मनोऽपि सृष्टे कार्ये काल्पनिकः प्रवेश इत्यर्थः ।

अन­व­च्छि­न्ना­द्व­य­चि­द्धा­तो­र्व­स्त्व­न्त­रेण सन्नि­क­र्षा­सं­भ­वान्न प्रति­बि­म्बा­ख्य­प्र­वेशः संभ­व­ती­त्या­शङ्क्य वस्त्व­न्त­र­क­ल्प­नया कल्पि­त­स­न्नि­क­र्षा­द्या­दाय प्रतिबिम्बपक्षं साधयति —
आत्मेति ।

तदेव प्रपञ्चयति —
प्रागु­त्प­त्ते­रि­त्या­दिना ।

स्वाभिप्रेतं प्रवेशं प्रतिपाद्य परेष्टं पराचष्टे —
न त्विति ।
कुतश्चिद्दिशो देशा­त्का­ला­च्चा­प­क्र­म­णेन दिगन्तरे देशान्तरे कालान्तरे च प्राप्तिलक्षण इति यावत् ।

यत्तु परस्मादन्यस्य प्रवे­ष्टृ­त्व­मिति तत्राऽऽह —
न चेति ।

अथेदं प्रवेशादि वस्तुतो विद्यमानमस्तु किमित्याविद्यं कल्प्यते तत्राऽऽह —
उपलब्धीति ।
आत्म­ज्ञा­ना­र्थ­त्वेन प्रवेशादीनां कल्पि­त­त्वा­त्त­द्वा­क्यानां न स्वार्थे पर्य­व­सा­न­मि­त्यर्थः ।

फल­व­त्स­न्नि­धा­व­फलं तदङ्गमिति न्याय­मा­श्रि­त्यो­क्त­मेव प्रपञ्चयति —
उप­ल­ब्धे­रि­त्या­दिना ।
ततःशब्दो भक्ति­यो­ग­प­रा­मर्शी । तदि­त्या­त्म­ज्ञा­न­मु­च्यते ।

तस्याग्र्यत्वं साधयति —
प्राप्यते हीति ।

सृष्ट्या­दि­वा­क्या­ना­मै­क्य­ज्ञा­ना­र्थत्वे हेत्वन्तरमाह —
भेदेति ।

कल्पितं प्रवेशं प्रति­पा­दि­त­मु­प­सं­ह­रति —
तस्मादिति ।

का पुनरस्य प्रवेशस्य मर्या­दे­त्या­श­ङ्क्याऽऽह —
आ नखाग्रेभ्य इति ।

संभवति मर्यादान्तरे किमिति प्रवेशस्येयमेव मर्या­दे­त्या­श­ङ्क्याऽऽह —
नखाग्रेति ।

दृष्टा­न्त­द्व­य­मा­का­ङ्क्षा­पू­र्व­क­मु­त्था­प­यति —
तत्रेति ।
प्रवेशाधारो देहादिः सप्तम्यर्थः ।

प्रथ­मो­दा­ह­र­ण­प्र­ती­को­पा­दा­नम् —
यथेति ।

तद्व्याचष्टे —
लोक इति ।

तत्र प्रवेशितत्वं क्षुरस्य कथं सिद्धमत आह —
अन्तःस्थ उपलभ्यत इति ।

विश्व­म्भ­र­श­ब्द­स्या­ग्नि­वि­ष­यत्वं व्युत्पादयति —
विश्वस्येति ।
तस्य तद्भर्तृत्वं महा­भू­त­त्वा­ज्जा­ठ­र­त्वाद्वा द्रष्टव्यम् ।

काष्ठा­दा­व­ग्ने­र­व­हि­तत्वे युक्तिमाह —
तत्रेति ।

दृष्टान्तद्वये विव­क्षि­त­मं­श­म­नूद्य दार्ष्टा­न्ति­क­माह —
यथेत्यादिना ।