अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

चतुर्थोऽध्यायः: षष्ठं ब्राह्मणम्

तदेव विचारद्वारा श्रुति­स्मृ­ती­ना­मा­पा­ततो विरु­द्धा­ना­म­वि­रोधं प्रतिपद्याथ वंशम् इत्यस्यार्थमाह —
अथेति ।

साङ्गोपाङ्गस्य सफ­ल­स्याऽऽ­त्म­वि­ज्ञा­नस्य प्रव­च­ना­न­न्त­र्य­म­थ­श­ब्दा­र्थ­माह —
अनन्तरमिति ।

यथा प्रथमान्तः शिष्यो गुरुस्तु पञ्चम्यन्त इति चतुर्थान्ते व्याख्यातं तथाऽत्रापीत्याह —
व्याख्यानं त्विति ।
इत्या­ग­मो­प­प­त्तिभ्यां ससंन्यासं सेति­क­र्त­व्य­ता­क­मा­त्म­ज्ञा­न­म­मृ­त­त्व­सा­धनं सिद्ध­मि­त्यु­प­सं­ह­र्तु­मि­ति­शब्दः ।

परिसमाप्तौ मङ्गलमाचरति —
ब्रह्मेति ॥ १ ॥ २ ॥ ३ ॥