अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: द्वितीयं ब्राह्मणम्

ब्राह्म­णा­न्त­रस्य तात्पर्यमाह —
अधुनेति ।
तद्विधानं सर्वो­पा­स्ति­शे­ष­त्वे­नेति द्रष्टव्यम् । आख्या­यि­का­प्र­वृ­त्ति­रा­रम्भः । पितरि ब्रह्म­च­र्य­मू­षु­रिति संबन्धः ।

प्रजापतिसमीपे ब्रह्म­च­र्य­वा­स­मा­त्रेण किमित्यसौ देवादिभ्यो हितं ब्रूया­दि­त्या­श­ङ्क्याऽऽह —
शिष्यत्वेति ।
शिष्यभावेन वृत्तेः संबन्धिनो ये धर्मास्तेषां मध्ये ब्रह्म­च­र्य­स्ये­त्यादि योज्यम् । तेषामिति निर्धारणे षष्ठी । ऊहा­पो­ह­श­क्ता­ना­मेव शिष्यत्वमिति द्योतनार्थो हशब्दः ।

विचारार्था प्लुति­रि­त्य­ङ्गी­कृत्य प्रश्नमेव व्याचष्टे —
मयेति ।

ओमित्यनुज्ञामेव विभजते —
सम्यगिति ॥१॥

समा­न­त्वे­नो­त्त­रस्य सर्व­स्यै­वा­र्थ­वा­द­स्या­व्या­ख्ये­यत्वे प्राप्ते दत्तेत्यत्र तात्पर्यमाह —
स्वभावत इति ।

दानमेव लोभ­त्या­ग­रू­प­मु­प­दि­ष्ट­मिति कुतो निर्दिष्टं किन्त्वन्यदेव हितं किञ्चिदादिष्टं किं न स्यादि­त्या­श­ङ्क्याऽऽह —
किमन्यदिति ॥२॥
यथा देवां मनुष्याश्च स्वाभि­प्रा­या­नु­सा­रेण दकारश्रवणे सत्यर्थं जगृहुस्तथेति यावत् ।

दयध्वमित्यत्र तात्पर्यमीरयति —
क्रूरा इति ।
हिंसा­दी­त्या­दि­श­ब्देन परस्वापहारादि गृह्यते ।

प्रजा­प­ते­र­नु­शा­सनं प्रागा­सी­दि­त्यत्र लिङ्गमाह —
तदेतदिति ।

अनु­शा­स­न­स्या­नु­वृ­त्ति­मेवं व्याकरोति —
यः पूर्वमिति ।

द इति विसन्धिकरणं सर्वत्र वर्णा­न्त­र­भ्र­मा­पो­हा­र्थम् । यथा दकारत्रयमत्र विवक्षितं तथा स्तन­यि­त्नु­श­ब्देऽपि त्रित्वं विवक्षितं चेत्प्र­सि­द्धि­वि­रोधः स्यादि­त्या­श­ङ्क्याऽऽह —
अनुकृतिरिति ।
दश­ब्दा­नु­का­र­मा­त्र­मत्र विवक्षितं न तु स्तनयित्नुशब्दे त्रित्वं प्रमा­णा­भा­वा­दि­त्यर्थः ।

प्रकृ­त­स्या­र्थ­वा­दस्य विधि­प­र्य­व­सा­यित्वं फलितमाह —
यस्मादिति ।

उपा­दा­न­प्र­का­र­मे­वा­भि­न­यति —
प्रजापतेरिति ।

श्रुति­सि­द्ध­वि­ध्य­नु­सा­रेण भग­व­द्वा­क्य­प्र­वृत्तिं दर्शयति —
तथा चेति ।

तदेतत्त्रयं शिक्षेदित्येष विधिश्चेत्कृतं त्रयाः प्राजापत्या इत्यादिना ग्रन्थे­ने­त्या­शङ्क्य यस्मादित्यादिना सूचितमाह —
अस्येति ।

सर्वैरेव त्रयमनुष्ठेयं चेत्तर्हि देवादीनुद्दिश्य दका­र­त्र­यो­च्चा­र­ण­म­नु­प­प­न्न­मिति शङ्कते —
तथेति ।
दमादित्रयस्य सर्वै­र­नु­ष्ठे­यत्वे सतीति यावत् ।

किञ्च पृथ­क्पृ­थ­ग­नु­शा­स­ना­र्थिनो देवादयस्तेभ्यो दका­र­मा­त्रो­च्चा­र­णे­ना­पे­क्षि­त­म­नु­शा­सनं सिद्ध्यतीत्याह —
पृथगिति ।
किम­र्थ­मि­त्या­दिना पूर्वेण संबन्धः ।

दका­र­मा­त्र­मु­च्चा­र­य­तोऽपि प्रजा­प­ते­र्वि­भा­गे­ना­नु­शा­स­न­म­भि­सं­हि­त­मि­त्या­श­ङ्क्याऽऽह —
ते वेति ।
त्रयं सर्वै­र­नु­ष्ठे­य­मिति परस्य सिद्धा­न्ति­नोऽ­भि­प्रा­य­स्त­द­भिज्ञाः सन्तो यथोक्तनीत्या विकल्पयन्तीति योजना । पराभिप्रायज्ञा इत्युपहासो वा परस्य प्रजा­प­ते­र्म­नु­ष्या­दीनां चाभिप्रायज्ञा इति । नञुल्लेखी वा पाठः ।

एकीयं परि­हा­र­मु­त्था­प­यति —
अत्रेति ।

अस्तु तेषामेषा शङ्का तथाऽपि दका­र­मा­त्रा­त्की­दृशी प्रति­प­त्ति­रि­त्या­श­ङ्क्याऽऽह —
तेषां चेति ।
तदर्थो दकारार्थो दमादिस्तस्य प्रति­प­त्ति­स्त­द्द्वा­रे­णा­दा­न्त­त्वा­दि­नि­वृ­त्ति­रा­सी­दि­त्यर्थः ।

किमिति प्रजा­प­ति­र्दो­ष­ज्ञा­प­न­द्वा­रेण ततो देवा­दी­न­नु­शा­स्या­न्दो­षा­न्नि­व­र्त­यि­ष्यति तत्राऽऽह —
लोकेऽपीति ।

दकारोच्चारणस्य प्रयोजने सिद्धे फलितमाह —
अत इति ।

यत्तूक्तं ते वा कथमित्यादि तत्राऽऽह —
दमादीति ।
प्रतिपत्तुं च युक्तं दमादीति शेषः । इतिशब्दः स्वयू­थ्य­म­त­स­मा­प्त्यर्थः ।

परोक्तं परि­हा­र­म­ङ्गी­कृ­त्याऽ­ख्या­यि­का­ता­त्पर्यं सिद्धान्ती ब्रूते —
फलं त्विति ।
निर्ज्ञातदोषा देवादयो यथा दकारमात्रेण ततो निवर्त्यन्त इति शेषः । इतिशब्दो दार्ष्टा­न्ति­क­प्र­द­र्श­नार्थः ।

विशि­ष्टा­न्प्र­त्य­नु­शा­स­नस्य प्रवृ­त्त­त्वा­द­स्माकं तदभावादनुपादेयं दमादीति शङ्कते —
नन्विति ।

किञ्च देवादिभिरपि प्राति­स्वि­का­नु­शा­स­न­व­शा­दे­कै­क­मेव दमाद्यनुष्ठेयं न तत्त्रयमित्याह —
देवादिभिरिति ।

यथा पूर्वस्मिन्काले देवा­दि­भि­रे­कै­क­मे­वो­पा­दे­य­मि­त्युक्तं तथा वर्तमानेऽपि काले मनुष्यैरेकैकमेव कर्तव्यं पूर्वा­चा­रा­नु­सा­रान्न तु त्रयं शिक्षितव्यं तथा च कस्यायं विधिरित्याह —
अद्यत्वेऽपीति ।

आचा­र­प्रा­मा­ण्य­मा­श्रित्य परिहरति —
अत्रेति ।
इत्येकैकमेव नोपादेयमिति शेषः ।

दया­लु­त्व­स्या­नु­ष्ठे­य­त्व­मा­क्षि­पति —
तत्रेति ।
मध्ये दमादीनामिति यावत् ।

असु­रै­र­नु­ष्ठि­त­त्वेऽपि दया­लु­त्व­म­नु­ष्ठेयं हित­सा­ध­न­त्वा­द्दा­ना­दि­व­दिति परिहरति —
नेत्यादिना ।
देवादिषु प्रजा­प­ते­र­वि­शे­षा­त्ते­भ्य­स्त­दु­प­दि­ष्ट­म­द्य­त्वेऽपि सर्व­म­नु­ष्ठे­य­मि­त्यर्थः ।

हित­स्यै­वो­प­दे­ष्ट­व्य­त्वेऽपि तद­ज्ञा­ना­त्प्र­जा­प­ति­र­न्य­थो­प­दि­श­ती­त्या­श­ङ्क्याऽऽह —
प्रजापतिश्चेति ।
हितज्ञस्य पितु­र­हि­तो­प­दे­शि­त्वा­भा­व­स्त­स्मा­दि­त्युक्तः ।

विशि­ष्टै­र­नु­ष्ठि­त­स्या­स्म­दा­दि­भि­र­नु­ष्ठे­यत्वे फलितमाह —
अत इति ।
प्राजापत्या देवादयो विग्रहवन्तः सन्ती­त्य­र्थ­वा­दस्य यथाश्रुतेऽर्थे प्रामा­ण्य­म­भ्यु­प­गम्य दकारत्रयस्य तात्पर्यं सिद्धमिति । वक्तुमितिशब्दः ।

संप्रति कर्म­मी­मां­स­क­म­त­म­नु­सृ­त्याऽऽह —
अथवेति ।

कथं मनुष्येष्वेव देवासुरत्वं तत्राऽऽह —
मनुष्याणामिति ।
अन्ये गुणा ज्ञानादयः ।

किं पुनर्मनुष्येषु देवा­दि­श­ब्द­प्र­वृत्तौ निमित्तं तदाह —
अदान्तत्वादीति ।

देवा­दि­श­ब्द­प्र­वृत्तौ निमित्तान्तरमाह —
इतरांश्चेति ।

मनुष्येष्वेव देवा­दि­श­ब्द­प्र­वृत्तौ फलितमाह —
अत इति ।
इतिशब्दो विध्यु­प­प­त्ति­प्र­द­र्श­नार्थः ।

मनुष्यैरेव त्रयं शिक्षि­त­व्य­मि­त्यत्र हेतुमाह —
तदपेक्षयेति ।

मनुष्याणामेव देवादिभावे प्रमाणमाह —
तथा हीति ।

त्रयं शिक्षि­त­व्य­मि­त्यत्र स्मृतिमुदाहरति —
तथा चेति ।
इतिशब्दो ब्राह्म­ण­स­मा­प्त्यर्थः ॥३॥