अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: तृतीयं ब्राह्मणम्

सार्थवादेन विधिना सिद्ध­म­र्थ­म­नु­व­दति —
दमादीति ।

कथं तस्य सर्वो­पा­स­न­शे­षत्वं तदाह —
दान्त इति ।

अलुब्ध इति च्छेदः संप्र­त्यु­त्त­र­स­न्द­र्भस्य तात्पर्यं वक्तुं भूमिकां करोति —
तत्रेति ।
काण्डद्वयं सप्तम्यर्थः ।

अन­न्त­र­स­न्द­र्भस्य तात्पर्यमाह —
अथेति ।
पाप­क्ष­या­दि­र­भ्यु­द­य­स्त­त्फ­ला­न्यु­पा­स­ना­नीति शेषः ।

अन­न्त­र­ब्रा­ह्म­ण­मा­दाय तस्य संगतिमाह —
एष इत्यादिना ।

उक्तस्य हृदयशब्दार्थस्य पाञ्चमिकत्वं दर्श­य­न्प्र­जा­प­तित्वं साधयति —
यस्मिन्निति ।

कथं हृदयस्य सर्वत्वं तदाह —
उक्तमिति ।

सर्व­त्व­सं­की­र्त­न­फ­ल­माह —
तत्सर्वमिति ।
तत्र हृद­य­स्यो­पा­स्यत्वे सिद्धे सतीत्येतत् ।

फलो­क्ति­मु­त्थाप्य व्याकरोति —
अभिहरन्तीति ।
यो वेदास्मै विदु­षेऽ­भि­ह­न्तीति संबन्धः ।

वेदनमेव विशदयति —
यस्मादित्यादिना ।
स्वं कार्यं रूपदर्शनादि । हृदयस्य तु कार्यम् । सुखादि । असंबद्धा ज्ञाति­व्य­ति­रिक्ताः ।

औचित्यमुक्ते फले कथयति —
विज्ञानेति ।
अत्रापीति दका­रा­क्ष­रो­पा­स­नेऽपि फलमुच्यत इति शेषः ।

तामेव फलोक्तिं व्यनक्ति —
हृदयायेति ।
अस्मै विदुषे स्वाश्चान्ये च ददति । बलिमिति शेषः ।

नामा­क्ष­रो­पा­स­नानि त्रीणि हृद­य­स्व­रू­पो­पा­स­न­मे­क­मिति चत्वा­र्यु­पा­सा­ना­न्यत्र विव­क्षि­ता­नी­त्या­श­ङ्क्याऽऽह —
एवमिति ॥१॥