आनन्दगिरिटीका (बृहदारण्यक)
पञ्चमोऽध्यायः: चतुर्थं ब्राह्मणम्
ब्राह्मणान्तरमुत्थाप्याक्षराणि व्याचष्टे —
तस्येत्यादिना ।
सत्यशब्दार्थं सत्यज्ञानादिवाक्योपात्तं व्यावर्तयति —
सच्चेति ।
सर्वात्मत्वस्य चतुर्थे प्रस्तुत्वं सूचयति —
मूर्तं चेति ।
वेदनमनूद्य फलोक्तिमवतारयति —
स य इति ।
प्रथमजत्वं प्रकटयति —
सर्वस्मादिति ।
स यः कश्चिद्वेदेति संबन्धः ।
कैमुतिकसिद्धं फलान्तरमाह —
किञ्चेति ।
वशीकृतस्य शत्रोः स्वरूपेण सत्त्वं वारयति —
असच्चेति ।
स यो हैतमित्यादिना य एवमेतदित्यादेरेकार्थं वात्पुरुक्तिरित्याशङ्क्याऽऽह —
कस्यैतदिति ।
कथमस्य विज्ञानस्येदं फलमित्याशङ्क्याऽऽह —
अत इति ।
पञ्चमीपरामृष्टं स्पष्टयति —
सत्यं हीति ॥१॥