अद्वैतशारदा

आनन्दगिरिटीका (बृहदारण्यक)

पञ्चमोऽध्यायः: चतुर्थं ब्राह्मणम्

ब्राह्म­णा­न्त­र­मु­त्था­प्या­क्ष­राणि व्याचष्टे —
तस्येत्यादिना ।

सत्यशब्दार्थं सत्य­ज्ञा­ना­दि­वा­क्यो­पात्तं व्यावर्तयति —
सच्चेति ।

सर्वात्मत्वस्य चतुर्थे प्रस्तुत्वं सूचयति —
मूर्तं चेति ।

वेदनमनूद्य फलोक्तिमवतारयति —
स य इति ।

प्रथमजत्वं प्रकटयति —
सर्वस्मादिति ।
स यः कश्चिद्वेदेति संबन्धः ।

कैमुतिकसिद्धं फलान्तरमाह —
किञ्चेति ।

वशीकृतस्य शत्रोः स्वरूपेण सत्त्वं वारयति —
असच्चेति ।

स यो हैतमित्यादिना य एव­मे­त­दि­त्या­दे­रे­कार्थं वात्पु­रु­क्ति­रि­त्या­श­ङ्क्याऽऽह —
कस्यैतदिति ।

कथमस्य विज्ञानस्येदं फल­मि­त्या­श­ङ्क्याऽऽह —
अत इति ।

पञ्चमीपरामृष्टं स्पष्टयति —
सत्यं हीति ॥१॥