अद्वैतशारदा

भामतीव्याख्या

प्रतर्दनाधिकरणविषयाः

व्याख्याः

प्राण­स्त­था­नु­ग­मात् ।
'अने­क­लि­ङ्ग­स­न्दोहे बलवत्कस्य किं भवेत् । लिङ्गिनो लिङ्गमित्यत्र चिन्त्यते प्रागचिन्तितम्” ॥ मुख्य­प्रा­ण­जी­व­दे­व­ता­ब्र­ह्म­णा­म­ने­केषां लिङ्गानि बहूनि सम्प्लवन्ते, तत्कतमदत्र लिङ्गं, लिङ्गाभासं च कतमदित्यत्र विचार्यते । न चायमर्थः “अत एव प्राणः”(ब्र.सू. १.१.२३) इत्यत्र विचारितः । स्यादेतत् । हित­त­म­पु­रु­षा­र्थ­सि­द्धिश्च निखि­ल­भ्रू­ण­ह­त्या­दि­पा­पा­प­रा­म­र्शश्च प्रज्ञात्मत्वं चानन्दादिश्च न मुख्ये प्राणे सम्भवन्ति । तथा “एष साधु कर्म कारयति”(कौ.उ. ३.८) “एष लोकाधिपतिः”(कौ. उ. ३ । ९) इत्याद्यपि । जीवे तु प्रज्ञात्मत्वं कथ­ञ्चि­द्भ­वे­दि­त­रेषां त्वसम्भवः । वक्तृत्वं च वाक्क­र­ण­व्या­पा­र­वत्त्वं यद्यपि परमात्मनि स्वरूपेण न सम्भवति तथा­प्य­न­न्य­था­सि­द्ध­ब­हु­ब्र­ह्म­लि­ङ्ग­वि­रो­ध­प­रि­हा­राय जीवद्वारेण ब्रह्मण्येव कथ­ञ्चि­द्व्या­ख्येयं जीवस्य ब्रह्मणोऽभेदात् । तथाच श्रुतिः - “यद्वा­चा­न­भ्यु­दितं येन वागभ्युद्यते । तदेव ब्रह्म त्वं विद्धि”(के. उ. १ । ५) इति वाग्वदनस्य ब्रह्म कारणमित्याह । शरीराधारणमपि यद्यपि मुख्यप्राणस्यैव तथापि प्राणव्यापारस्य पर­मा­त्मा­य­त्त­त्वा­त्प­र­मा­त्मन एव । यद्यपि चात्रे­न्द्र­दे­व­ताया विग्रहवत्या लिङ्गमस्ति, तथाहि - इन्द्रधामगतं प्रतर्दनं प्रतीन्द्र उवाच, “मामेव विजानीहि”(कौ. उ. ३ । १) इत्युपक्रम्य, “प्राणोऽ­स्मि­प्र­ज्ञात्मा”(कौ. उ. ३ । २) इत्यात्मनि प्राण­श­ब्द­मु­च्च­चार । प्रज्ञात्मत्वं चास्योपपद्यते, देव­ता­ना­म­प्र­ति­ह­त­ज्ञा­न­श­क्ति­त्वात् । साम­र्थ्या­ति­श­या­च्चे­न्द्रस्य हित­त­म­पु­रु­षा­र्थ­हे­तु­त्व­मपि । मनु­ष्या­धि­का­र­त्वा­च्छा­स्त्रस्य देवा­न्प्र­त्य­प्र­वृ­त्ते­र्भ्रू­ण­ह­त्या­दि­पा­पा­प­रा­म­र्श­स्यो­प­पत्तेः । लोकाधिपत्यं चेन्द्र­स्य­लो­क­पा­ल­त्वात् । आनन्दादिरूपत्वं च स्वर्ग­स्यै­वा­न­न्द­त्वात् । “आभूतसम्प्लवं स्थानममृतत्वं हि भाष्यते”(वि. पु. २ । ८ । ९७) इति स्मृते­श्चा­मृ­त­त्व­मि­न्द्रस्य । “त्वाष्ट्र­म­ह­नम्” इत्याद्या च विग्रहवत्त्वेन स्तुति­स्त­त्रै­वो­प­प­द्यते । तथापि पर­म­पु­रु­षा­र्थ­स्या­प­व­र्गस्य पर­ब्र­ह्म­ज्ञा­ना­द­न्य­तोऽ­न­वाप्तेः, परमानन्दरूपस्य मुख्य­स्या­मृ­त­त्व­स्या­ज­र­त्वस्य च ब्रह्म­रू­पा­व्य­भि­चा­रात् , अध्या­त्म­स­म्ब­न्ध­भू­म्नश्च परा­ची­न्द्रेऽ­नु­प­पत्तेः, इन्द्रस्य देवताया आत्मनि प्रतिबुद्धस्य चरमदेहस्य वामदेवस्येव प्रर­ब्ध­वि­पा­क­क­र्मा­श­य­मात्रं भोगेन क्षपयतो ब्रह्मण एव सर्वमेतत्कल्पत इति विग्र­ह­व­दि­न्द्र­जी­व­प्रा­ण­वा­यु­प­रि­त्या­गेन ब्रह्मैवात्र प्राणशब्दं प्रतीयत इति पूर्व­प­क्षा­भा­वा­द­ना­र­भ्य­मे­त­दिति । अत्रोच्यते - “यो वै प्राणः सा प्रज्ञा या वा प्रज्ञा स प्राणः सह ह्येतवस्मिन् शरीरे वसतः सहोत्क्रामतः”(कौ. उ. ३ । ३) इति यस्यैव प्राणस्य प्रज्ञात्मन उपास्यत्वमुक्तं तस्यैव प्राणस्य प्रज्ञात्मना सहो­त्क्र­म­ण­मु­च्यते । नच ब्रह्मण्यभेदे द्विवचनं, न सहभावः न चोत्क्रमणम् । तस्माद्वायुरेव प्राणः । जीवश्च प्रज्ञात्मा । सह प्रवृ­त्ति­नि­वृत्त्या भक्त्यै­क­त्व­म­न­यो­रु­प­च­रितं “यो वै प्राणः”(कौ. उ. ३ । ३) इत्यादिना । आन­न्दा­म­रा­ज­रा­प­ह­त­पा­प्म­त्वा­द­यश्च ब्रह्मणि प्राणे भविष्यन्ति । तस्माद्यथायोगं त्रय एवात्रोपास्याः । न चैष वाक्यभेदो दोषमावहति । वाक्या­र्था­व­ग­मस्य पदा­र्था­व­ग­म­पू­र्व­क­त्वात् । पदार्थानां चोक्तेन मार्गेण स्वातन्त्र्यात् । तस्मा­दु­पा­स्य­भे­दा­दु­पा­सा­त्रै­वि­ध्य­मिति पूर्वः पक्षः । सिद्धान्तस्तु - सत्यं पदार्थावगमोपायो वाक्यार्थावगमः, नतु पदा­र्था­व­ग­म­प­रा­ण्येव पदानि, अपि त्वेक­वा­क्या­र्था­व­ग­म­प­राणि । तमेव त्वेकं वाक्यार्थं पदा­र्था­व­ग­म­म­न्त­रेण न शक्नुवन्ति कर्तुमित्यन्तरा तदर्थमेव तमप्यवगमयन्ति, तेन पदानि विशि­ष्टै­का­र्था­व­बो­ध­न­स्व­र­सा­न्येव बल­व­द्बा­ध­को­प­नि­पा­ता­न्ना­ना­र्थ­बो­ध­प­रतां नीयन्ते । यथाहुः - “सम्भ­व­त्ये­क­वा­क्यत्वे वाक्यभेदश्च नेष्यते” इति । तेन यथो­पां­शु­या­ज­वाक्ये जामि­ता­दो­षो­प­क्रमे तत्प्र­ति­स­मा­धा­नो­प­सं­हारे चैकवाक्यत्वाय “प्रजा­प­ति­रु­पांशु यष्टव्यः” इत्यादयो न पृथग्विधयः किन्त्वर्थवादा इति निर्णीतं, तथेहापि “मामेव विजानीहि” इत्युपक्रम्य, “प्राणोऽस्मि प्रज्ञात्मा”(कौ. उ. ३ । २) इत्युक्त्वान्ते “स एष प्राण एव प्रज्ञा­त्मा­न­न्दोऽ­ज­रोऽ­मृतः”(कौ. उ. ३ । ९) इत्यु­प­सं­हा­रा­द्ब्र­ह्म­ण्ये­क­वा­क्य­त्वा­व­गतौ सत्यां जीव­मु­ख्य­प्रा­ण­लिङ्गे अपि तदनुगुणतया नेतव्ये । अन्यथा वाक्य­भे­द­प्र­स­ङ्गात् । यत्पु­न­र्भे­द­द­र्शनं “सह ह्येतौ”(कौ. उ. ३ । ३) इति, तज्ज्ञा­न­क्रि­या­श­क्ति­भे­देन बुद्धिप्राणयोः प्रत्य­गा­त्मो­पा­धि­भू­त­यो­र्नि­र्देशः प्रत्य­गा­त्मा­न­मे­वो­प­ल­क्ष­यि­तुम् । अत एवोपलक्ष्यस्य प्रत्य­गा­त्म­स्व­रू­प­स्या­भे­द­मु­प­ल­क्षणं भेदेनोपलक्षयति “प्राण एव प्रज्ञात्मा”(कौ. उ. ३ । ९) इति । “तस्मा­द­न­न्य­था­सि­द्ध­ब्र­ह्म­लि­ङ्गा­नु­सा­रातः । एक­वा­क्य­ब­ला­त्प्रा­ण­जी­व­लि­ङ्गो­प­पा­द­नम्” इति सङ्ग्रहः ॥ २८ ॥ ॥ २९ ॥ ॥ ३० ॥

न ब्रह्मवाक्यं भवितुमर्हतीति ।
नैष सन्दर्भो ब्रह्मवाक्यमेव भवितुमर्हतीति, किन्तु तथायोगं किञ्चिदत्र जीववाक्यं, किञ्चि­न्मु­ख्य­प्रा­ण­वाक्यं, किञ्चि­द्ब्र­ह्म­वा­क्य­मि­त्यर्थः ।

प्रज्ञा­सा­ध­न­प्रा­णा­न्त­रा­श्र­य­त्वा­दिति ।
प्राणा­न्त­रा­णी­न्द्रि­याणि, तानि हि मुख्ये प्राणे प्रतिष्ठितानि । जीव­मु­ख्य­प्रा­ण­यो­र­न्य­तर इत्यु­प­क्र­म­मा­त्रम् । उभाविति तु पूर्व­प­क्ष­त­त्त्वम् । ब्रह्म तु ध्रुवम् ।

न ब्रह्मेति ।
न ब्रह्मै­वे­त्यर्थः ।

दशानां भूतमात्राणामिति ।
पञ्च शब्दादयः, पञ्च पृथिव्यादय इति दश भूतमात्राः । पञ्च बुद्धी­न्द्रि­याणि पञ्च बुद्धय इति दश प्रज्ञामात्राः ।

तदेवं स्वमतेन व्याख्याय प्राचां वृत्तिकृतां मतेन व्याचष्टे -
अथवेति ।
पूर्वं प्राण­स्यै­क­मु­पा­स­न­म­परं जीवस्यापरं ब्रह्मण इत्यु­पा­स­ना­त्रै­वि­ध्येन वाक्य­भे­द­प्र­सङ्गो दूषणमुक्तम् । इह तु ब्रह्मण एक­स्यै­वो­पा­सा­त्र­य­वि­शि­ष्टस्य विधानान्न वाक्यभेद इत्यभिमानः प्राचां वृत्तिकृताम् । तदेतदालोचनीयं कथं न वाक्यभेद इति । युक्तं “सोमेन यजेत” इत्यादौ सोमा­दि­गु­ण­वि­शि­ष्ट­या­ग­वि­धानं, तद्गु­ण­वि­शि­ष्ट­स्या­पू­र्वस्य कर्म­णोऽ­प्रा­प्तस्य विधिविषयत्वात् । इह तु सिद्धरूपं ब्रह्म न विधिविषयो भवितुमर्हति, अभावार्थत्वात् । भावार्थस्य विधि­वि­ष­य­त्व­नि­य­मात् । वाक्या­न्त­रे­भ्यश्च ब्रह्मावगतेः प्राप्त­त्वा­त्त­द­नू­द्या­प्रा­प्तो­पा­सना भावार्थो विधेयस्तस्य च भेदा­द्वि­ध्या­वृ­त्ति­ल­क्षणो वाक्य­भे­दोऽ­ति­स्फुट इति भाष्यकृता नोद्घाटितः, स्वव्या­ख्या­ने­नै­वो­क्त­प्रा­य­त्वा­दिति सर्वमवदातम् ॥ ३१ ॥
इति श्रीवा­च­स्प­ति­मि­श्र­वि­र­चिते भाष्यविभागे भामत्यां प्रथ­म­स्या­ध्या­यस्य प्रथमः पादः ॥ १ ॥
इति प्रथ­म­स्या­ध्या­यस्य स्पष्ट­ब्र­ह्म­लि­ङ्ग­श्रु­ति­स­म­न्व­याख्यः प्रथमः पादः ॥