भामतीव्याख्या
फलाधिकरणविषयाः
फलमत उपपत्तेः ।
सिद्धान्तोपक्रममिदमधिकरणम् ।
स्यादेतत् । नित्यशुद्धबुद्धमुक्तस्वभावस्य ब्रह्मणः कुत ईश्वरत्वं कुतश्च फलहेतुत्वमपीत्यत आह –
तस्यैव ब्रह्मणो व्यावहारिक्यामिति ।
नास्य पारमार्थिकं रूपमाश्रित्यैतच्चिन्त्यते किन्तु सांव्यवहारिकम् । एतच्च “तपसा चीयते ब्रह्म”(मु.उ. १-१-८) इति व्याचक्षाणैरस्माभिरुपपादितम् । इष्टम्फलं स्वर्गः । यथाहुः “यन्न दुःखन सम्भिन्नं नच ग्रस्तमनन्तरम् । अभिलाषोपनीतं च सुखं स्वर्गपदास्पदम्” इति । अनिष्टमवीच्यादिस्थानभोग्यं, व्यामिश्रं मनुष्यभोग्यम् । तत्र तावत्प्रतिपाद्यतेफलमत ईश्वरात्कर्मभिराराधिताद्भवितुमर्हति ।
अथ कर्मण एव फलं कस्मान्न भवतीत्यत आह –
कर्मणस्त्वनुक्षणविनाशिनःप्रत्यक्षविनाशिन इति ।
चोदयति –
स्यादेतत्कर्म विनश्यदिति ।
उपात्तमपि फलं भोक्तुमयोग्यत्वाद्वा कर्मान्तरप्रतिबन्धाद्वा न भुज्यत इत्यर्थः ।
परिहरति –
तदपि न परिशुध्यतीति ।
नहि स्वर्ग आत्मानं लभतामित्यधिकारिणः कामयन्ते किन्तु भोग्योऽस्माकम्भवत्विति । तेन यादृशमेभिः काम्यते तादृशस्य फलत्वमिति भोग्यमेव सत्फलमिति । नच तादृशं कर्मानन्तरमिति कथं फलं, सदपि स्वरूपेण । अपिच स्वर्गनरकौ तीव्रतमे सुखदुःखे इति तद्विषयेणानुभवेन भोगापरनाम्नावश्यं भवितव्यम् । तस्मादनुभवयोग्ये अननुभूयमाने शशशृङ्गवन्न स्त इति निश्चीयते ।
चोदयति –
अथोच्येत मा भूत्कर्मानन्तरं फलोत्पादः । कर्मकार्यादपूर्वात्फलमुत्पत्स्यत इति ।
परिहरति –
तदपि नेति ।
यद्यदचेतनं तत्तत्सर्वं चेतनाधिष्ठितं प्रवर्तत इति प्रत्यक्षागमाभ्यामवधारितम् । तस्मादपूर्वोणाप्यचेतनेन चेतनाधिष्ठितेनैव प्रवर्तितव्यं नान्यथेत्यर्थः ।
न चापूर्वं प्रामाणिकमपीत्याह –
तदस्तित्वे इति ॥ ३८ ॥
श्रुतत्वाच्च ।
अन्नादः अन्नप्रदः ॥ ३९ ॥
सिद्धान्तेनोपक्रम्य पूर्वपक्षं गृह्णाति –
धर्मं जैमिनिरत एव ।
श्रुतिमाह –
श्रूयते तावदिति ।
ननु “स्वर्गकामो यजेत” इत्यादयः श्रुतयः फलं प्रति न साधनतया यागं विदधति । तथाहि - यदि यागादय एव क्रिया न तदतिरिक्ता भावना तथापि त एव स्वपदेभ्यः पूर्वापरीभूताः साध्यस्वभावा अवगम्यन्त इति न साध्यान्तरमपेक्षन्त इति न स्वर्गेण साध्यान्तरेण सम्बद्धुमर्हन्ति । अथापि तदतिरेकिणी भावानास्ति तथाप्यसौ भाव्यापेक्षापि स्वपदोपात्तं पूर्वावगतं न भाव्यं धात्वर्थमपहाय न भिन्नपदोपात्तं पुरुषविशेषणं च स्वर्गादि भाव्यतया स्वीकर्तुमर्हति । न चैकस्मिन् वाक्ये साध्यद्वयसम्बन्धसम्भवः, वाक्यभेदप्रसङ्गात् । न केवलं शब्दतो वस्तुतश्च पुरुषप्रयत्नस्य भावनायाः साक्षाद्धात्वर्थ एव साध्यो न तु स्वर्गादिस्तस्य तदव्याप्यत्वात् । स्वर्गादेस्तु नामपदाभिधेयतया सिद्धरूपस्याख्यातवाच्यं साध्यं धात्वर्थं प्रति “भूतं भव्यायोपदिश्यते” इति न्यायात्साधनतया गुणत्वेनाभिसम्बन्धः । तथाच पारमर्षं सूत्रम् “द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः” इति । तथाच कर्मणो यागादेर्दुःखत्वेन पुरुषेणासमीहितत्वात् , समीहितस्य च स्वर्गादेरसाध्यत्वान्न यागादयः पुरुषस्योपकुर्वन्त्यनुपकारिणां चैषां न पुरुष ईष्टे अनीशानश्च न तेषु सम्भवत्यधिकारीत्यधिकाराभावप्रतिपादितानर्थक्यपरिहाराय कृत्स्नस्यैवाम्नायस्य निर्मृष्टनिखिलदुःखानुषङ्गनित्यसुखमयब्रह्मज्ञानपरत्वं भेदप्रपञ्चविलयनद्वारेण तथाहि - सर्वत्रैवाम्नाये क्वचित्कस्यचिद्भेदस्य प्रविलयो गम्यते यथा “स्वर्गकामो यजेत” इति शरीरात्मभावप्रविलयः । इह खल्वापाततो देहातिरिक्त आमुष्मिकफलोपभोगसमर्थोऽधिकारी गम्यते । तत्राधिकारस्योक्तेन क्रमेण निराकरणादसतोऽपि प्रतीयमानस्य विचारासहस्योपायतामात्रेणावस्थानादनेन वाक्येन देहात्मभावप्रविलयस्तत्परेण क्रियते । “गोदोहनेन पशुकामस्य प्रणयेत्” इत्यत्राप्यापाततोऽधिकृताधिकारावगमादधिकारिभेदप्रविलयः । निषेधवाक्यानि च साक्षादेव प्रवृत्तिनिषेधेन विधिवाक्यानि चान्यानि “साङ्ग्रहण्या यजेत ग्रामकामः” इत्यादीनि न साङ्ग्रहण्यादिप्रवृत्तिपराण्यपि तूपायान्तरोपदेशेन सेवादिदृष्टोपायप्रतिषेधार्थानि । यथा विषं भुङ्क्षव मास्य गृहे भुङ्क्ष्वेति । तथाच रागाद्यक्षिप्तप्रवृत्तिप्रतिषेधेन शास्त्रस्य शास्त्रत्वमप्युपपद्यते । रागनिबन्धनां तूपायोपदेशद्वारेण प्रवृत्तिमनुजानतो रागसंवर्धनादशास्त्रत्वप्रसङ्गः । तन्निषेधेन तु ब्रह्मणि प्रणिधानमादधच्छास्त्रं शास्त्रं भवेत् । तस्मात्कर्मफलसम्बन्धस्याप्रामाणिकत्वादनादिविचित्राविद्यासहकारिण ईश्वरादेव कर्मानपेक्षाद्विचित्रफलोत्पत्तिरिति । कथं तर्हि विधिः किमत्र कथं प्रवर्तनामात्रत्वाद्विधेस्तस्य चाधिकारमन्तरेणाप्युपपत्तेः ।
नहि यो यः प्रवर्तयति स सर्वोऽधिकृतमपेक्षते । पवनादेः प्रवर्तकस्य तदनपेक्षत्वादिति शङ्कामपाचिकीर्षुराह –
तत्र च विधिश्रुतेर्विषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति गम्यते ।
अन्यथा ह्यननुष्ठातृको याग आपद्येत । अयमभिसन्धिः - उपदेशो हि विधिः । यथोक्तम् “तस्य ज्ञानमुपदेशः”(जै. सू० ११११५) इति । उपदेशश्च नियोज्यप्रयोजने कर्मणि लोकशास्त्रयोः प्रसिद्धः । तद्यथारोग्यकामो जीर्णे भुञ्जीत । एष सुपन्था गच्छतु भवाननेनेति । न त्वज्ञानादिरिव नियोक्तृप्रयोजनस्तत्राभिप्रायस्य प्रवर्तकत्वात् , तस्य चापौरुषेयेऽसम्भवात् । अस्य चोपदेशस्य नियोज्यप्रयोजनव्यापारविषयत्वमनुष्ठात्रपेक्षितानुकूलव्यापारगोचरत्वमस्माभिरुपपादितं न्यायकणिकायाम् । तथाच “स्वर्गकामो यजेत” इत्यादिषु स्वर्गकामादेः समीहितोपाया गम्यन्ते यागादयः । इतरथा तु न साधयितारमनुगच्छेयुः । तदुक्तमृषिणा “असाधकं तु तादर्थ्यात्” इति । अनुष्ठात्रपेक्षितोपायतारहितप्रवर्तनामात्रार्थत्वे यजेतेत्यादीनामसाधकं कर्म यागादि स्यात् । साधयितारं नाधिगच्छेदित्यर्थः । न चैते साक्षाद्भावनाभाव्या अपि कर्त्रपेक्षितसाधनताविध्युपहितमर्यादा भावनोद्देश्या भवितुमर्हन्ति, येन पुंसामनुपकारकाः सन्तो नाधिकारभाजो भवेयुः । दुःखत्वेन कर्मणां चेतनसमीहानास्पदत्वात् । स्वर्गादीनां तु भावनापूर्वरूपकामनोपधानाच्च । प्रीत्यात्मकत्वाच्च । नामपदाभिधेयानामपि पुरुषविशेषणानामपि भावनोद्देश्यतालक्षणभाव्यत्वप्रतीतेः । फलार्थप्रवृत्तभावनाभाव्यत्वलक्षणेन च यागादिसाध्यत्वेन फलार्थप्रवृत्तभावनाभाव्यत्वरूपस्य फलसाध्यत्वस्य समप्रधानत्वाभावेनैकवाक्यसमवायसम्भवात् , भावनाभाव्यत्वमात्रस्य च यागादिसाध्यत्वस्य करणेऽप्यविरोधात् । अन्यथा सर्वत्र तदुच्छेदात् । परश्वादेरपि छिदादिषु तथाभावात् । फलस्य साक्षाद्भावनाव्याप्यत्वविरहिणोऽपि तदुद्देश्यतया सर्वत्र व्यापितया व्यवस्थानात्स्वर्गसाधने यागादौ स्वर्गकामादेरधिकार इति सिद्धम् । न चाप्राप्तार्थविषयाः साङ्ग्रहण्यादियागविधयः परिसङ्ख्यायका नियामका वा भवितुमर्हन्ति । न चाधिकाराभावे देहात्मप्रविलयो वाधिकारिभेदप्रविलयो वा शक्य उपपादयितुम् । आपाततः प्रतिभाने चास्य तत्परत्वमेव नार्थायातपरत्वम् । स्वरसतः प्रतीयमानेऽर्थे वाक्यस्य तादर्थ्ये सम्भवति न सम्पातायातपरत्वमुचितम् । न चैतावता शास्त्रत्वव्याघातः । तस्य स्वर्गाद्युपायशासनेऽपि शास्त्रत्वोपपत्तेः । पुरुषश्रेयोऽभिधायकत्वं हि शास्त्रत्वम् । सरागवीतरागपुरुषश्रेयोऽभिधायकत्वेन सर्वपारिषदतया न तत्त्वव्याघातः । तस्माद्विधिविषयभावोपगमाद्यागः स्वर्गस्योत्पादक इति सिद्धम् ।
कर्मणो वा काचिदवस्थेति ।
कर्मणोऽवान्तरव्यापारः । एतदुक्तं भवति कर्मणो हि फलं प्रति यत्साधनत्वं श्रुतं, तन्निर्वाहयितुं तस्यैवावान्तरव्यापारो भवति । नच व्यापारवति सत्येव व्यापारो नासतीति युक्तम् । असत्स्वप्याग्नेयादिषु तदुत्पत्त्यपूर्वाणां परमापूर्वे जनयितव्ये तदवान्तरव्यापारत्वात् । असत्यपि च तैलपानकर्मणि तेन पुष्टौ कर्तव्यायामन्तरा तैलपरिणामभेदानां तदवान्तरव्यापारत्वात् । तस्मात्कर्मकार्यमपूर्वं कर्मणा फले कर्तव्ये तदवान्तरव्यापार इति युक्तम् ।
यदा पुनः फलोपजननान्यथानुपपत्त्या किञ्चित्कल्प्यते तदा –
फलस्य वा पूर्वावस्था ।
अविचित्रस्य कारणस्येति ।
यदीश्वरादेव केवलादिति शेषः । कर्मभिर्वा शुभाशुभैः कार्यद्वैधोत्पादे रागादिमत्त्वप्रसङ्ग इत्याशयः ॥ ४० ॥
पूर्वं तु बादरायणो हेतुव्यपदेशात् ।
दृष्टानुसारिणी हि कल्पना युक्ता नान्यथा । नहि जातु मृत्पिण्डदण्डादयः कुम्भकाराद्यनधिष्ठिताः कुम्भाद्यारम्भाय विभववन्तो दृष्टाः । नच विद्युत्पवनादिभिरप्रयत्नपूर्वैर्व्यभिचारः, तेषामपि कल्पनास्पदतया व्यभिचारनिदर्शनत्वानुपपत्तेः । तस्मादचेतनं कर्म वापूर्वं वा न चेतनानधिष्ठितं स्वतन्त्रं स्वकार्यं प्रवर्तितुमुत्सहते नच चैतन्यमात्रं कर्मस्वरूपसामान्यविनियोगादिविशेषविज्ञानशून्यमुपयुज्यते, येन तद्रहितक्षेत्रज्ञमात्राधिष्ठानेन सिद्धसाध्यत्वमुद्भाव्येत । तस्मात्तत्तत्प्रासादाट्टालगोपुरतोरणाद्युपजननिदर्शनसहस्रैः सुपरिनिश्चितं यथा चेतनाधिष्ठानादचेतनानां कार्यारम्भकत्वमिति तथा चैतन्यं देवताया असति बाधके श्रुतिस्मृतीतिहासपुराणप्रसिद्धं न शक्यं प्रतिषेद्धुमित्यपि स्पष्टं निरटङ्कि देवताधिकरणे । लौकिकश्चेश्वरो दानपरिचरणप्रणामाञ्जलिकरणस्तुतिमयीभिरतिश्रद्धागर्भाभिर्भक्तिभिराराधितः प्रसन्नः स्वानुरूपमाराधकाय फलं प्रयच्छति विरोधतश्चापक्रियाभिर्विरोधकायाहितामित्यपि सुप्रसिद्धम् । तदिह केवलं कर्म वापूर्वं वा चेतनानधिष्ठितमचेतनं फलं प्रसूत इति दृष्टविरुद्धम् । यथा विनष्टं कर्म न फलं प्रसूत इति कल्प्यते दृष्टविरोधादेवमिहापीति । तथा देवपूजात्मको यागो देवतां न प्रसादयन् फलं प्रसूत इत्यपि दृष्टविरुद्धम् । नहि राजपूजात्मकमाराधनं राजानमप्रसाद्य फलाय कल्पते । तस्माद्दृष्टानुगुण्याय यागादिभिरपि देवताप्रसत्तिरुत्पाद्यते । तथाच देवताप्रसादादेव स्थायिनः फलोत्पत्तेरुपपत्तेः कृतमपूर्वेण । एवमशुभेनापि कर्मणा देवताविरोधनं श्रुतिस्मृतिप्रसिद्धम् । ततः स्थायिनोऽनिष्टफलप्रसवः । नच शुभाशुभकारिणां तदनुरूपं फलं प्रसुवाना देवता द्वेषपक्षपातवतीति युज्यते । नहि राजा साधुकारिणमनुगृह्णन्निगृह्णन् वा पापकारिणं भवति द्विष्टो रक्तो वा तद्वदलौकिकोऽपीश्वरः । यथा च परमापूर्वे कर्तव्ये उत्पत्त्यपूर्वाणामङ्गापूर्वाणां चोपयोगः । एवं प्रधानाराधनेऽङ्गाराधनानामुत्पत्त्याराधनानां चोपयोगः । स्वाम्याराधन इव तदमात्यतत्प्रणयिजनाराधनानामिति सर्वं समानमन्यत्राभिनिवेशात् । तस्माद्दृष्टाविरोधेन देवताराधनात्फलं न त्वपूर्वात्कर्मणो वा केवलाद्विरोधतो हेतुव्यपदेशश्च श्रौतः स्मार्तश्च व्याख्यातः । ये पुनरन्तर्यामिव्यापाराया फलोत्पादनाया नित्यत्वं सर्वसाधारणत्वमिति मन्यमाना भाष्यकारीयमधिकरणं दूषयाम्बभूवुस्तेभ्यो व्यावहारिक्यामीशित्रीशितव्यविभागावस्थायामिति भाष्यं व्याचक्षीत ॥ ४१ ॥
इति श्रीवाचस्पतिमिश्रविरचिते भाष्यविभागे भामत्यां तृतीयस्याध्यायस्य द्वितीयः पादः ॥ २ ॥