अद्वैतशारदा

भामतीव्याख्या

सहकार्यन्तरविध्यधिकरणविषयाः

व्याख्याः

सह­का­र्य­न्त­र­विधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ।
तस्मा­द्ब्रा­ह्मणः पाण्डित्यं निर्विद्य निश्चयेन । लब्ध्वा बाल्येन तिष्ठा­से­द्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति । यत्र हि विधिविभक्तिः श्रूयते स विधेयः । बाल्येन तिष्ठा­से­दि­त्यत्र च सा श्रूयते न श्रूयते तु मौने । तस्माद्यथाथ ब्रह्मण इत्ये­त­द­श्रू­य­मा­ण­वि­धि­क­म­वि­धे­य­मेवं मौनमपि । न चापू­र्व­त्वा­द्वि­धेयं, तस्माद्ब्रह्मणः पाण्डित्यं निर्विद्येति पाण्डि­त्य­वि­धा­ना­देव मौनसिद्धेः पाण्डित्यमेव मौनमिति । अथवा भिक्षुवचनोऽयं मुनिशब्दस्तत्र दर्शनात् “गार्ह­स्थ्य­मा­चा­र्य­कुलं मौनं वानप्रस्थम्” इत्यत्र । तस्यान्यतो विहि­त­स्या­य­म­नु­वादः । तस्मा­द्बा­ल्य­मे­वात्र विधीयते मौनं तु प्राप्तं प्रशं­सा­र्थ­म­नू­द्यत इति युक्तम् । भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् । अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञाना­ति­श­य­स­म्प­त्तिस्तु मौनं तत्रैव तत्प्रसिद्धेः । आश्रमभेदे तु तत्प्र­वृ­त्ति­र्गा­र्ह­स्थ्या­दि­प­द­सं­नि­धा­नात् । तस्मा­द­पू­र्व­त्वा­न्मौ­नस्य बाल्य­पा­ण्डि­त्या­पे­क्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते ।

एवं च निर्वे­द­नी­य­त्व­मपि विधान आञ्जसं स्यादित्याह –
निर्वे­द­नी­य­त्व­नि­र्दे­शा­दिति ।

कस्येदं मौनं विधीयते विद्या­स­ह­का­रि­त­ये­त्यत आह –
तद्वतो विद्यावतः संन्यासिनो
भिक्षोः ।

पृच्छति –
कथमिति ।
विद्यावत्ता प्रतीयते न संन्या­सि­ते­त्यर्थः । उत्त­र­न्त­द­धि­का­रा­त्भि­क्षो­स्त­द­धि­का­रात् ।

तद्दर्शयति –
आत्मानं विदित्वेति ।

सूत्रावयवं योजयितुं शङ्कते –
नन्विति ।

परिहरति अत आह –
पक्षेणेति ।
विद्यावानिति न विद्यातिशयो विवक्षितः । अपि तु विद्यो­द­या­या­भ्यासे प्रवृत्तो न पुन­रु­त्प­न्न­वि­द्या­ति­शयः । तथाचास्य पक्षे कदा­चि­द्भे­द­द­र्श­ना­त्स­म्भव इत्यर्थः । विध्या­दि­र्वि­धि­मुख्यः प्रधानमिति यावत् । अत एव समि­दा­दि­र्वि­ध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति । तत्रा­श्रू­य­मा­ण­वि­धि­त्वेऽ­पू­र्व­त्वा­द्वि­धि­रा­स्थेय इत्यर्थः ॥ ४७ ॥

ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मा­त्पु­न­र्गा­र्ह­स्थ्ये­नो­प­सं­ह­र­तीति चोदयति –
एवं बाल्या­दि­वि­शि­ष्टेति ।

उत्तरं पठति –
कृत्स्नभावात्तु गृहिणोपसंहारः ।
छान्दोग्ये बहु­ला­या­स­सा­ध्य­क­र्म­ब­हु­ल­त्वा­द्गा­र्ह­स्थ्यस्य चाश्र­मा­न्त­र­ध­र्माणां च केषा­ञ्चि­द­हिं­सा­दीनां सम­वा­या­त्ते­नो­प­सं­हारो न पुनस्तेन समापनादित्यर्थः ॥ ४८ ॥

एवं तदा­श्र­म­द्व­यो­प­न्या­सेन क्वचि­त्क­दा­चि­दि­त­रा­भा­व­शङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम् –
मौन­व­दि­त­रे­षा­म­प्यु­प­दे­शात् ।
वृत्ति­र्वा­न­प्र­स्था­ना­म­ने­क­वि­धै­रेवं ब्रह्म­चा­रि­णोऽ­पीति वृत्ति­भे­दोऽ­नु­ष्ठा­तारो वा पुरुषा भिद्यन्ते, तस्मा­द्द्वि­त्वेऽपि बहु­व­च­न­म­वि­रु­द्धम् ॥ ४९ ॥