भामतीव्याख्या
सहकार्यन्तरविध्यधिकरणविषयाः
सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो विध्यादिवत् ।
तस्माद्ब्राह्मणः पाण्डित्यं निर्विद्य निश्चयेन । लब्ध्वा बाल्येन तिष्ठासेद्बाल्यं च पाण्डित्यं च निर्विद्याथ मुनिरमौनं च मौनं च निर्विद्याथ ब्राह्मण इति । यत्र हि विधिविभक्तिः श्रूयते स विधेयः । बाल्येन तिष्ठासेदित्यत्र च सा श्रूयते न श्रूयते तु मौने । तस्माद्यथाथ ब्रह्मण इत्येतदश्रूयमाणविधिकमविधेयमेवं मौनमपि । न चापूर्वत्वाद्विधेयं, तस्माद्ब्रह्मणः पाण्डित्यं निर्विद्येति पाण्डित्यविधानादेव मौनसिद्धेः पाण्डित्यमेव मौनमिति । अथवा भिक्षुवचनोऽयं मुनिशब्दस्तत्र दर्शनात् “गार्हस्थ्यमाचार्यकुलं मौनं वानप्रस्थम्” इत्यत्र । तस्यान्यतो विहितस्यायमनुवादः । तस्माद्बाल्यमेवात्र विधीयते मौनं तु प्राप्तं प्रशंसार्थमनूद्यत इति युक्तम् । भवेदेवं यदि पण्डितपर्यायो मुनिशब्दो भवेत् । अपि तु ज्ञानमात्रं पाण्डित्यं ज्ञानातिशयसम्पत्तिस्तु मौनं तत्रैव तत्प्रसिद्धेः । आश्रमभेदे तु तत्प्रवृत्तिर्गार्हस्थ्यादिपदसंनिधानात् । तस्मादपूर्वत्वान्मौनस्य बाल्यपाण्डित्यापेक्षया तृतीयमिदं मौनं ज्ञानातिशयरूपं विधीयते ।
एवं च निर्वेदनीयत्वमपि विधान आञ्जसं स्यादित्याह –
निर्वेदनीयत्वनिर्देशादिति ।
कस्येदं मौनं विधीयते विद्यासहकारितयेत्यत आह –
तद्वतो विद्यावतः संन्यासिनो
भिक्षोः ।
पृच्छति –
कथमिति ।
विद्यावत्ता प्रतीयते न संन्यासितेत्यर्थः । उत्तरन्तदधिकारात्भिक्षोस्तदधिकारात् ।
तद्दर्शयति –
आत्मानं विदित्वेति ।
सूत्रावयवं योजयितुं शङ्कते –
नन्विति ।
परिहरति अत आह –
पक्षेणेति ।
विद्यावानिति न विद्यातिशयो विवक्षितः । अपि तु विद्योदयायाभ्यासे प्रवृत्तो न पुनरुत्पन्नविद्यातिशयः । तथाचास्य पक्षे कदाचिद्भेददर्शनात्सम्भव इत्यर्थः । विध्यादिर्विधिमुख्यः प्रधानमिति यावत् । अत एव समिदादिर्विध्यन्तः स हि विधिः प्रधानविधेः पश्चादिति । तत्राश्रूयमाणविधित्वेऽपूर्वत्वाद्विधिरास्थेय इत्यर्थः ॥ ४७ ॥
ननु यद्ययमाश्रमो बाल्यप्रधानः कस्मात्पुनर्गार्हस्थ्येनोपसंहरतीति चोदयति –
एवं बाल्यादिविशिष्टेति ।
उत्तरं पठति –
कृत्स्नभावात्तु गृहिणोपसंहारः ।
छान्दोग्ये बहुलायाससाध्यकर्मबहुलत्वाद्गार्हस्थ्यस्य चाश्रमान्तरधर्माणां च केषाञ्चिदहिंसादीनां समवायात्तेनोपसंहारो न पुनस्तेन समापनादित्यर्थः ॥ ४८ ॥
एवं तदाश्रमद्वयोपन्यासेन क्वचित्कदाचिदितराभावशङ्का मन्दबुद्धेः स्यादिति तदपाकरणार्थं सूत्रम् –
मौनवदितरेषामप्युपदेशात् ।
वृत्तिर्वानप्रस्थानामनेकविधैरेवं ब्रह्मचारिणोऽपीति वृत्तिभेदोऽनुष्ठातारो वा पुरुषा भिद्यन्ते, तस्माद्द्वित्वेऽपि बहुवचनमविरुद्धम् ॥ ४९ ॥